सामग्री पर जाएँ

व्याकरणमहाभाष्य खण्ड 36

विकिपुस्तकानि तः



(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-१/११) स्थग्रहणम् किमर्थम् ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-२/११) तत्र उपपदम् सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यात् ॒ स्तम्बेरमः कर्णेजपः ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-३/११) यत्र वा एतेन शब्देन निर्देशः क्रियते ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-४/११) सप्तम्याम् जनेः डः इति ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-५/११) इह न स्यात् ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-६/११) कुम्भकारः नगरकारः ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-७/११) स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धम् भवति ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-८/११) अथ तत्रग्रहणम् किमर्थम् ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-९/११) तत्रग्रहणम् विषयार्थम् ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-१०/११) विषयः प्रतिनिर्दिश्यते ।

(पा-३,१.९२.१; अकि-२,७५.११-१८; रो-३,१८५-१८६; भा-११/११) तत्र एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तत् उपपदसञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१/५५) उपपदसञ्ज्ञायाम् समर्थवचनम् । उपपदसञ्ज्ञायाम् समर्थग्रहणम् कर्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२/५५) समर्थम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३/५५) इह मा भूत् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४/५५) आहर कुम्भम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-५/५५) करोति कटम् इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-६/५५) क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-७/५५) न वा भवितव्यम् महाकुम्भकारः इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-८/५५) भवैतव्यम् यदा एतत् वाक्यम् भवति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-९/५५) महान् कुम्भः महाकुम्भः महाकुम्भम् करोति इति महाकुम्भकारः ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१०/५५) यदा तु एतत् वाक्यम् भवति महान्तम् कुम्भम् करोति इति तदा न भवितव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-११/५५) तदा च प्राप्नोति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१२/५५) तदा मा भूत् इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१३/५५) यत् तावत् उच्यते समर्थग्रहणम् कर्तव्यम् इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१४/५५) न कर्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१५/५५) धातोः इति वर्तते ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१६/५५) धातोः कर्मणि अण् भवति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१७/५५) तत्र सम्बन्धात् एतत् गन्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१८/५५) यस्य धातोः यत् कर्म इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-१९/५५) यत् अपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२०/५५) उपपदम् इति महतीइहम् सञ्ज्ञा क्रियते ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२१/५५) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२२/५५) कुतः एतत् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२३/५५) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२४/५५) तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ॒ उपोच्चारि पदम् उपपदम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२५/५५) यत् च अत्र उपोच्चारि न तत् पदम् यत् च पदम् न तत् उपोच्चारि ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२६/५५) यावता च इदानीम् पदगन्धः अस्ति पदविधिः अयम् भवति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२७/५५) पदविधिः च समर्थानाम् भवति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२८/५५) तत्र असामार्थ्यान् न भविष्यति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-२९/५५) अथ च्व्यन्ते उपपदे किम् अणा भवितव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३०/५५) अकुम्भम् कुम्भम् करोति कुम्भीकरोति मृदम् इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३१/५५) न भवितव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३२/५५) किम् कारणम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३३/५५) प्रकृतिविवक्षायाम् च्विः विधीयते ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३४/५५) तत् सापेक्षम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३५/५५) सापेक्षम् च असमर्थम् भवति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३६/५५) न तर्हि इदानीम् इदम् भवति ॒ इच्छामि अहम् काशकटीकारम् इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३७/५५) इष्टम् एव एतत् गोनर्दीयस्य ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३८/५५) निमित्तोपादनम् च ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-३९/५५) निमित्तोपादनम् च कर्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४०/५५) निमित्तम् उपपदम् प्रत्ययस्य इति वक्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४१/५५) अनुपादाने हि अनुपपदे प्रत्ययप्रसङ्गः ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४२/५५) अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४३/५५) निर्देशः इदानीम् किमर्थः स्यात् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४४/५५) निर्देशः सञ्ज्ञाकरणार्थः ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४५/५५) यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञाम् वक्ष्यामि इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४६/५५) तत् तर्हि निमित्तोपादनम् कर्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४७/५५) न कर्तव्यम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४८/५५) तत्रवचनम् उपपदसन्नियोगार्थम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-४९/५५) तत्रवचनम् क्रियते ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-५०/५५) तत् उपपदसन्नियोगार्थम् भविष्यति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-५१/५५) कर्मणि अण् विधीयते तत्र चेत् प्रत्ययः भवति इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-५२/५५) ननु च अन्यत् तत्रग्रहणस्य प्रयोजनम् उक्तम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-५३/५५) किम् ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-५४/५५) तत्रग्रहणम् विषयार्थम् इति ।

(पा-३,१.९२.२; अकि-२,७५.१९-७६.२६; रो-३,१८७-१९०; भा-५५/५५) अधिकारात् अपि एतत् सिद्धम् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१/३३) अतिङ् इति किमर्थम् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२/३३) पचति करोति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-३/३३) अतिङ् इति शक्यम् अकर्तुम् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-४/३३) कस्मात् न भवति पचति करोति इति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-५/३३) धातोः परस्य कृत्सञ्ज्ञा ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-६/३३) प्राक् च लादेशात् धात्वधिकारः ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-७/३३) एवम् अपि स्थानिवद्भावात् कृत्सञ्ज्ञ प्राप्नोति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-८/३३) यथा अतिङ् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-९/३३) प्रतिषेधवचनसामर्थ्यात् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१०/३३) अथ वा तिङ्भाविनः लकारस्य कृत्सञ्ज्ञाप्रतिषेधः ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-११/३३) किम् च स्यात् यति अत्र कृत्सञ्ज्ञा स्यात् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१२/३३) कृत्प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा स्यात् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१३/३३) प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१४/३३) न एषः दोषः ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१५/३३) एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१६/३३) ते च अत्र तिङोक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वात् न भविष्यन्ति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१७/३३) टाबादयः तर्हि तिङन्तात् मा भूवन् इति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१८/३३) स्त्रियाम् टाबादयः विधीयन्ते ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-१९/३३) न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२०/३३) अणादयः तर्हि तिङन्तात् मा भूवन् इति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२१/३३) अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२२/३३) न च तिङन्तस्य अपत्यादिभिः योगः अस्ति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२३/३३) अथ अपि कथम् चित् योगः स्यात् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२४/३३) एवम् अपि न दोषः ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२५/३३) आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२६/३३) अतिशायने तमबिष्ठनौ तिङः च इति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२७/३३) इह तर्हि पचति पठति इति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२८/३३) ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-२९/३३) धातोः इति वर्तते ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-३०/३३) एवम् अपि चिकीर्षति इति अत्र प्राप्नोति ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-३१/३३) अत्र अपि शपा व्यवधानम् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-३२/३३) एकादेशे कृते न अस्ति व्यवधानम् ।

(पा-३,१.९३; अकि-२,७७.२-१७; रो-३,१९०-१९२; भा-३३/३३) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव इति ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-१/८) कथम् इदम् विज्ञायते ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-२/८) स्त्रियाम् अभिधेयायाम् वा अस्रूपः न भवति इति आहोस्वित् स्त्रीप्रत्ययेषु इति ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-३/८) किम् च अतः ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-४/८) यदि स्त्रियाम् अभिधेयायाम् इति लव्या लवितव्या अत्र वा असरूपः न प्राप्नोति ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-५/८) अथ विज्ञायते स्त्रीप्रत्ययेषु इति व्यावक्रोशी वयतिक्रुष्टिः इति न सिध्यति ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-६/८) एवम् तर्हि न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् न अपि स्त्रीप्रत्ययेषु इति ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-७/८) कथम् तर्हि स्त्रीग्रहणम् स्वरयिष्यते ।

(पा-३,१.९४.१; अकि-२,७८.२-७; रो-३,१९२-१९३; भा-८/८) तत्र स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति अधिकृत्य ये प्रतयाः विहिताः तेषाम् प्रतिषेधः विज्ञास्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१/११७) किमर्थम् पुनः इदम् उच्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२/११७) असरूपस्य वावचनम् उत्सर्गस्य बाधकविषये अनिवृत्त्यर्थम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३/११७) असरूपस्य वावचनम् क्रियते उत्सर्गस्य बाधकविषये अनिवृत्तिः यथा स्यात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४/११७) तव्यत्तव्यानीयरः उत्सर्गाः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५/११७) तेषाम् अजन्तात् यत् अपवादः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६/११७) चेयम् , चेतव्यम् इति अपि यथा स्यात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७/११७) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८/११७) अजन्तात् यत् विधीयते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९/११७) हलन्तात् ण्यत् विधीयते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०/११७) एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११/११७) उच्यन्ते च तव्यादयः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१२/११७) ते वचनात् भविष्यन्ति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१३/११७) एवम् तर्हि ण्वुल्तृचौ उत्सर्गौ ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१४/११७) तयोः पचादिभ्यः अच् अपवादः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१५/११७) पचति इति पचः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१६/११७) पक्ता पाचकः इति अपि यथा स्यात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१७/११७) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१८/११७) वक्ष्यति एतत् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१९/११७) अच् अपि सर्वधातुभ्यः वक्तव्यः इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२०/११७) एवम् तर्हि ण्वुल्तृजचः उत्सर्गाः तेषाम् इगुपधात् कः अपवादः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२१/११७) विक्षिपः विलिखः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२२/११७) विक्षेप्ता विक्षेपकः इति अपि यथा स्यात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२३/११७) अस्ति प्रयोजनम् एतत् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२४/११७) किम् तर्हि इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२५/११७) तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२६/११७) तत्र उत्पत्तिः विभाषा प्राप्नोति यथा तद्धिते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२७/११७) अस्तु ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२८/११७) यदा विक्षिपः विलिखः इति एतत् न तदा विक्षेप्ता विक्षेपकः इति एतत् भविष्यति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-२९/११७) यदि एतत् लभ्येत कृतम् स्यात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३०/११७) तत् तु न लभ्यम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३१/११७) किम् कारणम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३२/११७) यथा तद्धिते इति उच्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३३/११७) तद्दितेषु च सर्वम् एव उत्सर्गापवादम् विभाषा ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३४/११७) उत्पद्यते वा न वा ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३५/११७) सिद्धम् तु असरूपस्य बाधकस्य वावचनात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३६/११७) सिद्धम् एतत् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३७/११७) कथम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३८/११७) असरूपस्य बाधकस्य वावचनात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-३९/११७) असरूपः बाधकः वा बाधकः भवति इति वक्तव्यम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४०/११७) सिध्यति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४१/११७) सूत्रम् तर्हि भिद्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४२/११७) यथान्यासम् एव अस्तु ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४३/११७) ननु च उक्तम् तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४४/११७) न एषः दोषः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४५/११७) अस्ति कारणम् येन तद्धिते विभाषा उत्पत्तिः भवति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४६/११७) किम् कारणम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४७/११७) प्रकृतिः तत्र प्रकृत्यर्थे वर्तते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४८/११७) अन्येन शब्देन प्रत्ययार्थः अभिधीयते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-४९/११७) इह पुनः न केवला प्रकृतिः प्रकृत्यर्थे वर्तते न च अन्यः शब्दः अस्ति यः तम् अर्थम् अभिदधीत इति कृत्वा अनुत्पत्तिः न भविष्यति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५०/११७) अथ वा समयः कृतः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५१/११७) न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५२/११७) एतस्मात् समयात् अनुत्पत्तिः न भविष्यति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५३/११७) ननु च यः एव तस्य समयस्य कर्ता सः एव इदम् अपि आह ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५४/११७) यदि असौ तत्र प्रमाणम् इह अपि प्रमाणम् भवितुम् अर्हति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५५/११७) प्रमाणम् असौ तत्र च इह च ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५६/११७) सामर्थ्यम् तु इह द्रष्टव्यम् प्रयोगे ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५७/११७) न च अनुत्पत्तौ सामर्थ्यम् अस्ति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५८/११७) तेन अनुत्पत्तिः न भविष्यति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-५९/११७) कथम् तर्हि तद्धितेषु अनुत्पत्तौ सामर्थ्यम् भवति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६०/११७) अन्येन प्रत्ययेन सामर्थ्यम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६१/११७) केन ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६२/११७) षष्ठ्या ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६३/११७) अथ वा रूपवत्ताम् आश्रित्य वाविधिः उच्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६४/११७) न च अनुत्पत्तिः रूपवती ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६५/११७) तेन अनुत्पत्तिः न भविष्यति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६६/११७) एवम् अपि कुतः एतत् अपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६७/११७) न च एव अस्ति विशेषः यत् अपवादः विभाषा स्यात् उत्सर्गः वा ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६८/११७) अपि च सापेक्षः अयम् निर्देशः क्रियते वा असरूपः इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-६९/११७) न च उत्सर्गवेलायाम् किम् चित् अपेक्ष्यम् अस्ति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७०/११७) अपवादवेलायाम् पुनः उत्सर्गः अपेक्ष्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७१/११७) तेन यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७२/११७) कः पुनः असौ ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७३/११७) अपवादः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७४/११७) यदि यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७५/११७) ग्रामणीः ग्रामणायः इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७६/११७) न हि एते रूपवन्तः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७७/११७) एते अपि रूपवन्तः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७८/११७) कस्याम् अवस्थायाम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-७९/११७) उपदेशावस्थायाम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८०/११७) यदि एवम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८१/११७) अनुबन्धभिन्नेषु विभाषा प्राप्नोति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८२/११७) कर्मणि अण् आतः अनुपसर्गे कः इति कविषये अण् अपि प्राप्नोति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८३/११७) सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८४/११७) सिद्धम् एतत् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८५/११७) कथम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८६/११७) अनुबन्धस्य अनेकान्तत्वात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८७/११७) अनेकान्ताः अनुबन्धाः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८८/११७) अथ वा प्रयोगे असरूपाणाम् वाविधिः न्याय्यः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-८९/११७) प्रयोगे चेत् लादेशेषु प्रतिषेधः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९०/११७) प्रयोगे चेत् लादेशेषु प्रतिषेधः वक्तव्यः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९१/११७) ह्यः अपचत् इति अत्र लुङ् अपि प्राप्नोति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९२/११७) श्वः पक्ता इति अत्र लृट् अपि प्राप्नोति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९३/११७) न एषः दोषः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९४/११७) आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यत् अयम् हशश्वतोः लङ् च इति आह ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९५/११७) अथ वा प्रयोगे असरूपाणाम् वाविधौ न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९६/११७) कः असौ ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९७/११७) उपदेशः नाम ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९८/११७) उपदेशे च एते सरूपाः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-९९/११७) ननु च उक्तम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१००/११७) परिहृतम् एतत् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०१/११७) कथम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०२/११७) सिद्धम् अनुबन्धस्य अनेकान्तत्वात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०३/११७) अथ एकान्ते दोषः एव ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०४/११७) एकान्ते च न दोषः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०५/११७) आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददादिदधात्योः विभाषा शम् शास्ति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०६/११७) अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०७/११७) अपवादः नाम अनुबन्धभिन्नः वा भवति रूपान्यत्वेन वा ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०८/११७) तेन अनेन अवश्यम् किम् चित् त्याज्यम् किम् चित् तु सङ्ग्रहीतव्यम् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१०९/११७) तत् यत् अनुबन्धकृतम् असारूप्यम् तत् न आश्रयिष्यामः यत् तु रूपान्यत्वेन असारूप्यम् तत् आश्रयिष्यामः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११०/११७) अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते सर्वः च असरूपः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-१११/११७) तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः असरूपः इति ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११२/११७) कः च साधीयः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११३/११७) यः प्रयोगे च प्राक् च प्रयोगात् ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११४/११७) अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११५/११७) न च एवम् कः चित् अपि सरूपः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११६/११७) ते एवम् विज्ञास्यामः ॒ क्वत् चित् ये असरूपाः ।

(पा-३,१.९४.२; अकि-२,७८.८-८०.१४; रो-३,१९३-१९८; भा-११७/११७) अनुबन्धभिन्नाः च प्रयोगे सरूपाः ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१/२५) अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-२/२५) किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-३/२५) कः च अत्र विशेषः ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-४/२५) स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-५/२५) स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-६/२५) क्त ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-७/२५) हसितम् छात्रस्य्स् शोभनम् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-८/२५) घञ् अपि प्राप्नोति ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-९/२५) ल्युट् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१०/२५) हसनम् छात्रस्य्स् शोभनम् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-११/२५) घञ् अपि प्राप्नोति ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१२/२५) तुमुन् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१३/२५) इच्छति भोक्तुम् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१४/२५) लिङ्लोटौ अपि प्राप्नुतः ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१५/२५) खलर्थः ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१६/२५) ईषत्पानः सोमः भवता ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१७/२५) खल् अपि प्राप्नोति ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१८/२५) एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-१९/२५) स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् । स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-२०/२५) आसित्वा भुङ्क्ते ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-२१/२५) आस्यते भोक्तुम् इति अपि यथा स्यात् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-२२/२५) कालादिषु तुमुनि ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-२३/२५) कालादिषु तुमुनि वावचनम् कर्तव्यम् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-२४/२५) कालः भोक्तुम् ।

(पा-३,१.९४.३; अकि-२,८०.१५-२६; रो-३,१९९-२००; भा-२५/२५) कालः भोजनस्य इति अपि यथा स्यात्

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-१/११) अर्हे तृज्विधानम् ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-२/११) अर्हे तृच् विधेयः ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-३/११) इमे अर्हे कृत्याः विधीयन्ते ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-४/११) ते विशेषविहिताः सामान्यविहितम् तृचम् बाधेरन् ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-५/११) न एषः दोषः ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-६/११) भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच् ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-७/११) कः प्रसङ्गः यत् भावकर्मणोः कृत्याः कर्तरि तृचम् बाधेरन् ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-८/११) एवम् तर्हि अर्हे कृत्यतृज्विधानम् ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-९/११) अर्हे कृत्यतृचः विधेयाः ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-१०/११) अयम् अर्हे लिङ् विधीयते ।

(पा-३,१.९४.४; अकि-२,८१.१-६; रो-३,२००; भा-११/११) सः विशेषविहितः सामान्यविहितान् कृत्यतृचः बाधेत ।

(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-१/८) कृत्यसञ्ज्ञायाम् प्राङ्ण्वुल्वचनम् ।

(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-२/८) कृत्यसञ्ज्ञायाम् प्राक् ण्वुलः इति वक्तव्यम् ।

(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-३/८) किम् प्रयोजनम् ।

(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-४/८) ण्वुलः कृत्यसञ्ज्ञा मा भूत् ।

(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-५/८) अर्हे कृत्यत्र्ज्वचनम् तु ज्ञापकम् प्राङ्ण्वुलवनानर्थ्यस्य ।

(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-६/८) यत् अयम् अर्हे कृत्यतृचः च इति तृज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् ण्वुलः कृत्यसञ्ज्ञा भवति इति ।



(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-७/८) एवम् अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति ।

(पा-३,१.९५; अकि-२,८१.८-१४; रो-३,२००; भा-८/८) योगापेक्षम् ज्ञापकम् ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-१/१२) केलिमरः उपसङ्ख्यानम् ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-२/१२) केलिमरः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-३/१२) पचेलिमाः माषाः ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-४/१२) पक्तव्याः ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-५/१२) भिदेलिमाः सरलाः ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-६/१२) भेत्तव्याः ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-७/१२) वसेः तव्यत् कर्तरि णित् च ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-८/१२) वसेः तव्यत् कर्तरि वक्तव्यः ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-९/१२) णित् च असौ भवति इति वक्तव्यम् ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-१०/१२) वसति इति वास्तव्यः ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-११/१२) तद्धितः वा । तद्धितः वा पुनः एषः भविष्यति ।

(पा-३,१.९६; अकि-२,८१.१६-२२; रो-३,२०१; भा-१२/१२) वास्तुनि भवः वास्तव्यः ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१/२०) अज्ग्रहणम् किमर्थम् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-२/२०) अजन्तात् यथा स्यात् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-३/२०) हलन्तात् मा भूत् इति ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-४/२०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-५/२०) हलन्तात् ण्यत् विधीयते ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-६/२०) सः बाधकः भविष्यति ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-७/२०) यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-८/२०) अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-९/२०) एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१०/२०) उच्यन्ते च तव्यादयः ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-११/२०) ते वचनात् भविष्यन्ति ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१२/२०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१३/२०) वासरूपेण तव्यादयः भविष्यन्ति ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१४/२०) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१५/२०) अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१६/२०) लव्यम् पव्यम् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१७/२०) आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१८/२०) तथा दित्स्यम् धित्स्यम् ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-१९/२०) आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।

(पा-३,१.९७.१; अकि-२,८२.२-१०; रो-३,२०२-२०३; भा-२०/२०) अज्ग्रहणसामर्थ्यात् यत् एव भवति ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१/२१) यति जातेः उपसङ्ख्यानम् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-२/२१) यति जातेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-३/२१) जन्यम् वत्सेन ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-४/२१) अत्यल्पम् इदम् उच्यते ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-५/२१) तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् इति वक्तव्यम् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-६/२१) तकि तक्यम् ॒ शसि शस्यम् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-७/२१) यति यत्यम् ॒ जनि ॒ जन्यम् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-८/२१) हनः वा वध च ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-९/२१) हनः वा यत् वक्तव्यः वध इति अयम् च आदेशः वक्तव्यः ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१०/२१) वध्यः घात्यः ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-११/२१) तद्धितः वा ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१२/२१) तद्धितः वा पुनः एषः भविष्यति ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१३/२१) वधम् अर्हति वध्यः ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१४/२१) यदि तद्धितः समासः न प्राप्नोति ॒ असिवध्यः , मुसलवध्यः इति ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१५/२१) यदि पुनः सति साधनम् कृता इति वा पादहारकाद्यर्थम् इति समासः सिद्धः भवति ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१६/२१) यदि पुनः असिवधशब्दात् उत्पत्तिः स्यात् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१७/२१) असिवधम् अर्हति इति ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१८/२१) न एवम् शक्यम् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-१९/२१) स्वरे हि दोषः स्यात् ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-२०/२१) असिवध्यः एवम् स्वरः प्रसज्येत ।

(पा-३,१.९७.२; अकि-२,८२.११-२२; रो-३,२०२-२०३; भा-२१/२१) असिवध्यः इति च इष्यते ।

(पा-३,१.१००; अकि-२,८३.२-४; रो-३,२०३; भा-१/५) अनुपसर्गात् चरेः आङि च अगुरौ ।

(पा-३,१.१००; अकि-२,८३.२-४; रो-३,२०३; भा-२/५) अनुपसर्गात् चरेः इति अत्र आङि च अगुरौ इति वक्तव्यम् ।

(पा-३,१.१००; अकि-२,८३.२-४; रो-३,२०३; भा-३/५) आचर्यः देशः ।

(पा-३,१.१००; अकि-२,८३.२-४; रो-३,२०३; भा-४/५) अगुरौ इति किमर्थम् ।

(पा-३,१.१००; अकि-२,८३.२-४; रो-३,२०३; भा-५/५) आचार्यः उपनयमानः ।

(पा-३,१.१०३; अकि-२,८३.६-७; रो-३,२०३; भा-१/३) स्वामिनि अन्तोदात्तत्वम् च ।

(पा-३,१.१०३; अकि-२,८३.६-७; रो-३,२०३; भा-२/३) स्वामिनि अन्तोदात्तत्वम् च वक्तव्यम् ।

(पा-३,१.१०३; अकि-२,८३.६-७; रो-३,२०३; भा-३/३) आर्यः स्वामी ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१/१९) सङ्गतम् इति किम् प्रत्युदाह्रियते ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-२/१९) अजरः कम्बलः ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-३/१९) अजरिता कम्बलः इति ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-४/१९) किम् पुनः कारणम् कर्तृसाधनः प्रत्युदाह्रियते ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-५/१९) न भावसाधनः प्रत्युदाहार्यः ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-६/१९) एवम् तर्हि अजर्यम् कर्तरि ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-७/१९) अजर्यम् कर्तरि इति वक्तव्यम् ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-८/१९) तत् तर्हि वक्तव्यम् ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-९/१९) न वक्तव्यम् ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१०/१९) गत्यर्थानाम् क्तः कर्तरि विधीयते ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-११/१९) तेन योगात् अजर्यम् कर्तरि भविष्यति ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१२/१९) गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१३/१९) तेन योगात् अजर्यम् कर्मणि अपि प्राप्नोति ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१४/१९) जीर्यतिः अकर्मकः ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१५/१९) भावे तर्हि प्राप्नोति ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१६/१९) सङ्गतग्रहणम् इदानीम् किमर्थम् स्यात् ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१७/१९) कर्तृविशेषणम् सङ्गतग्रहणम् ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१८/१९) सङ्गतम् चेत् कर्तृ भवति इति ।

(पा-३,१.१०५; अकि-२,८३.९-१६; रो-३,२०४-२०५; भा-१९/१९) तत् यथा हृषेः लोमसु इति लोमानि चेत् कर्तृ̄णि भवन्ति ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-१/१०) वदः सुपि अनुपसर्गग्रहणम् ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-२/१०) वदः सुपि अनुपसर्गग्रहणम् कर्तव्यम् ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-३/१०) इह मा भूत् ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-४/१०) प्रवाद्यम् अपवाद्यम् इति ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-५/१०) तत् तर्हि वक्तव्यम् ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-६/१०) न वक्तव्यम् ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-७/१०) अनुपसर्गे इति वर्तते ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-८/१०) एवम् तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-९/१०) न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।

(पा-३,१.१०६; अकि-२,८३.१८-८४.२; भा-१०/१०) एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-१/१३) भावग्रहणम् किमर्थम् ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-२/१३) कर्मणि मा भूत् इति ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-३/१३) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-४/१३) भवतिः अयम् अकर्मः ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-५/१३) अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-६/१३) तेन अनुभव्यम् आमन्त्रणम् इति अत्र अपि प्राप्नोति ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-७/१३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-८/१३) अनुपसर्गे इति वर्तते ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-९/१३) उत्तरार्थम् तर्हि भावग्रहणम् कर्तव्यम् ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-१०/१३) हनः त च भावे यथा स्यात् ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-११/१३) श्वहत्या वर्तते ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-१२/१३) क्व मा भूत् ।

(पा-३,१.१०७; अकि-२,८४.४-८; रो-३,२०५-२०६; भा-१३/१३) श्वघात्यः वृषालः इति

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-१/८) हनः तः चित् स्त्रियाम् छन्दसि ।

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-२/८) हनः तः च इति अत्र चित् स्त्रियाम् छन्दसि वक्तव्यः ।

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-३/८) ताम् भ्रूणहत्याम् निगृह्य अनुचरणम् ।

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-४/८) अस्यै त्वाम् भ्रूणहत्यायै चतुर्थम् प्रतिगृहाण ।

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-५/८) स्त्रियाम् इति किमर्थम् ।

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-६/८) आघ्नते दस्युहत्याय ।

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-७/८) छन्दसि इति किमर्थम् ।

(पा-३,१.१०८; अकि-२,८४.१०-१३; रो-३,२०६; भा-८/८) दस्युहत्या श्वहत्या वर्तते ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१/२५) क्यप् इति वर्तमाने पुनः क्यब्ग्रहणम् किमर्थम् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-२/२५) क्यप् एव यथा स्यात् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-३/२५) अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-४/२५) किम् च अन्यत् प्राप्नोति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-५/२५) ण्यत् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-६/२५) ओः आवश्यके ण्यतः स्तोतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-७/२५) सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-८/२५) अथ वा हनः तः चित् स्त्रियाम् छन्दसि चोदितः ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-९/२५) सः न वक्तव्यः भवति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१०/२५) क्यब्विधौ वृञ्ग्रहणम् । क्यब्विधौ वृञ्ग्रहणम् कर्तव्यम् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-११/२५) इह मा भूत् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१२/२५) वार्याः ऋत्विजः इति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१३/२५) अञ्जेः च उपसङ्ख्यानम् सञ्ज्ञायाम् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१४/२५) सञ्ज्ञायाम् अञ्जेः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१५/२५) आज्यम् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१६/२५) यदि क्यप् वृद्धिः न प्राप्नोति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१७/२५) तस्मात् ण्यत् एषः ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१८/२५) यदि ण्यत् उपधालोपः न प्राप्नोति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-१९/२५) तस्मात् क्यप् एषः ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-२०/२५) ननु च उक्तम् वृद्धिः न प्राप्नोति इति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-२१/२५) आङ्पूर्वस्य एषः प्रयोगः भविष्यति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-२२/२५) यदि एवम् अवग्रहः प्राप्नोति ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-२३/२५) न लक्षणेन पदकाराः अनुवर्त्याः ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-२४/२५) पद्कारैः नाम लक्षणम् अनुवर्त्यम् ।

(पा-३,१.१०९; अकि-२,८४.१५-८५.५; रो-३,२०६-२०७; भा-२५/२५) यथालक्षणम् पदम् कर्तव्यम् ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-१/९) दीर्घोच्चारणम् किमर्थम् न इ च खनः इति एव उच्येत ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-२/९) का रूपसिद्धिः ॒ खेयम् ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-३/९) आद्गुणेन सिद्धम् ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-४/९) न सिध्यति ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-५/९) षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात् तुक् प्रसज्येत ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-६/९) न एतत् अस्ति ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-७/९) पदान्तपदाद्योः एकादेशः असिद्धः ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-८/९) न च एषः पदान्तपदाद्योः एकादेशः ।

(पा-३,१.१११; अकि-२,८५.७-१०; रो-३,२०७-२०८; भा-९/९) तस्मात् इ च खनः इति एव वक्तव्यम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१/४०) असञ्ज्ञायाम् इति किमर्थम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२/४०) भार्या ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३/४०) भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-४/४०) भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-५/४०) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-६/४०) किम् कारणम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-७/४०) अन्येन विहितत्वात् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-८/४०) अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-९/४०) सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१०/४०) प्रतिषेधः इदानीम् किमर्थः स्यात् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-११/४०) प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञाप्रतिषेधार्थः ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१२/४०) प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१३/४०) भार्याः नाम क्षत्रियाः ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१४/४०) सिद्धम् तु स्त्रियाम् सञ्ज्ञाप्रतिषेधात् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१५/४०) सिद्धम् एतत् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१६/४०) कथम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१७/४०) स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१८/४०) सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-१९/४०) सिध्यति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२०/४०) सूत्रम् तर्हि भिद्यते ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२१/४०) यथान्यासम् एव अस्तु ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२२/४०) ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२३/४०) न एषः दोषः ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२४/४०) भावे इति तत्र अनुवर्तते ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२५/४०) कर्मसाधनः च अयम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२६/४०) अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२७/४०) किम् तर्हि ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२८/४०) प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-२९/४०) अपरः आह ॒ सञ्ज्ञायाम् पुंसि दृष्टत्वात् न ते भार्या प्रसिध्यति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३०/४०) सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३१/४०) स्त्रियाम् भावाधिकारः अस्ति तेन भार्या प्रसिध्यति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३२/४०) भावे इति तत्र वर्तते ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३३/४०) कर्मसाधनः च अयम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३४/४०) अथ वा बहुलम् कृत्याः सञ्ज्ञायाम् इति तत् स्मृतम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३५/४०) अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३६/४०) यथा यत्यम् जन्यम् यथा भित्तिः तथा एव सा ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३७/४०) समः च बहुलम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३८/४०) समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-३९/४०) सम्भृत्याः एव सम्भाराः ।

(पा-३,१.११२; अकि-२,८५.१२-८६.१४; रो-३,२०८-२१०; भा-४०/४०) सम्भार्याः एव सम्भाराः ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-१/१६) सूर्यरुच्याव्यथ्याः कर्तरि ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-२/१६) सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-३/१६) किम् निपात्यते ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-४/१६) सूर्यः ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-५/१६) सूसर्तिभ्याम् सर्तेः उत्वम् सुवतेः वा रुडागमः । सरणात् वा सुवति वा कर्मणि इति सूर्यः ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-६/१६) रुच्य ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-७/१६) रोचते असौ रुच्यः ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-८/१६) न व्यथथे अव्यथ्यः ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-९/१६) कुप्यम् सञ्ज्ञायाम् ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-१०/१६) कुप्यम् सञ्ज्ञायाम् इति वक्तव्यम् ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-११/१६) गोप्यम् अन्यत् ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-१२/१६) कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-१३/१६) कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च इति वक्तव्यम् ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-१४/१६) कृष्टे पच्यन्ते स्वयम् एव ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-१५/१६) कृष्टपच्याः च मे अकृष्टपच्याः च मे ।

(पा-३,१.११४; अकि-२,८६.१६-२५; रो-३,२१०; भा-१६/१६) यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति ।

(पा-३,१.११८; अकि-२,८७.२-४; रो-३,२११; भा-१/६) प्रत्यपिभ्याम् ग्रहेः छन्दसि ।

(पा-३,१.११८; अकि-२,८७.२-४; रो-३,२११; भा-२/६) प्रत्यपिभ्याम् ग्रहेः छन्दसि इति वक्तव्यम् ।

(पा-३,१.११८; अकि-२,८७.२-४; रो-३,२११; भा-३/६) मत्तस्य न प्रतिगृह्यम् ।

(पा-३,१.११८; अकि-२,८७.२-४; रो-३,२११; भा-४/६) अनृतम् हि मत्तः भवति ।

(पा-३,१.११८; अकि-२,८७.२-४; रो-३,२११; भा-५/६) तस्मात् न अपिगृह्यम् ।

(पा-३,१.११८; अकि-२,८७.२-४; रो-३,२११; भा-६/६) प्रतिग्राह्यम् अपिग्राह्यम् इति एव अन्यत्र ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-१/९) कस्य अयम् अनुबन्धः ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-२/९) प्रधानस्य ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-३/९) यदि प्रधानस्य अमावस्या एवम् स्वरः प्रसज्येत ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-४/९) अमावस्या इति च इष्यते ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-५/९) तथा अमावास्याग्रहणेन अमावस्याग्रहणम् न प्राप्नोति ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-६/९) एवम् तर्हि निपातनस्य ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-७/९) यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन् छन्दः अधीते इति व्यपवर्गाभावात् ञ्निति इति आद्युदात्तत्वम् न प्राप्नोति ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-८/९) एवम् तर्हि अमावसोः अहम् ण्यतोः निपातयामि अवृद्धिताम् ।

(पा-३,१.१२२; अकि-२,८७.६-११; रो-३,२११-२१२; भा-९/९) तथा एकवृत्तिता तयोः स्वरः च मे प्रसिध्यति ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१/२४) निष्टर्क्य इति किम् निपात्यते ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-२/२४) निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-३/२४) यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-४/२४) अपरः आह ॒ निष्टर्क्ये व्यत्ययम् विद्यात् निसः षत्वम् निपातनात् ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-५/२४) ण्यत् आयादेशः इति एतौ उपचाय्ये निपातितौ । निष्टर्क्यम् चिन्वीत पशुकामः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-६/२४) ण्यत् एकस्मात् चतुर्भ्यः क्यपा- चतुर्भ्यः यतः विधिः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-७/२४) ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः । ण्यत् एकस्मात् ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-८/२४) निष्टर्क्यः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-९/२४) चतुर्भ्यः क्यप् ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१०/२४) देवहूयः प्रणीयः उन्नीयः उच्छिष्यः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-११/२४) चतुर्भ्यः च यतः विधिः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१२/२४) मर्यः स्तर्या ध्वर्यः खन्यः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१३/२४) ण्यत् एकस्मात् ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१४/२४) खान्यः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१५/२४) यशब्दः च ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१६/२४) देवयज्या ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१७/२४) द्वौ क्यपौ ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१८/२४) आपृच्छ्यः प्रतिषीव्यः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-१९/२४) ण्यद्विधिः चतुः ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-२०/२४) ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-२१/२४) उपपूर्वात् चिनोतेः आयादेशः निपात्यते ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-२२/२४) न हि ण्यता एव सिध्यति ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-२३/२४) हिरण्ये इति वक्तव्यम् ।

(पा-३,१.१२३; अकि-२,८७.१५-८८.४; रो-३,२१२-२१३; भा-२४/२४) उपचेयपृडम् एव अन्यत्र ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-१/८) पाणौ सृजेः ण्यद्विधिः ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-२/८) पाणौ सृजेः ण्यत् विधेयः ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-३/८) पाणिसर्ग्या रज्जुः ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-४/८) समवपूर्वात् च ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-५/८) समवपूर्वात् च इति वक्तव्यम् ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-६/८) समवसर्ग्यः ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-७/८) लपिदमिभ्याम् च. लपिदमिभ्याम् च इति वक्तव्यम् ।

(पा-३,१.१२४; अकि-२,८८.६-११; रो-३,२१३; भा-८/८) अपलप्यम् अवदाम्यम् ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-१/१२) कथम् इदम् विज्ञायते ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-२/१२) आवश्यके उपपदे आहोस्वित् ध्योत्ये इति ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-३/१२) कः च अत्र विशेषः ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-४/१२) आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-५/१२) आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-६/१२) लाव्यम् पाव्यम् ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-७/१२) अस्तु तर्हि द्योत्ये ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-८/१२) द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-९/१२) द्योत्ये इति चेत् स्वरसमासानुपपत्तिः ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-१०/१२) आवश्यलाव्यम् आवश्यपाव्यम् ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-११/१२) न एषः दोषः ।

(पा-३,१.१२५.१; अकि-२,८८.१६-२०; रो-३,२१४; भा-१२/१२) मयूरव्यंसकादित्वात् समासः विश्पष्टादिवत् स्वरः भविष्यति ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-१/१२) ओः आवश्यके ण्यतः स्तौतेः क्यपा- पूर्वविप्रतिषिद्धम् । ओः आवश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिष्धेन ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-२/१२) ओः आवश्यके ण्यत् भवति इति अस्य अवकाशः ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-३/१२) अवश्यलाव्यम् अवश्यपाव्यम् ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-४/१२) क्यपः अवकाशः ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-५/१२) स्तुत्यः ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-६/१२) इह उभयम् प्राप्नोति ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-७/१२) अवश्यस्तुत्यः ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-८/१२) क्यप् भवति पूर्वविप्रतिष्धेन ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-९/१२) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-१०/१२) न वक्तव्यः ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-११/१२) उक्तम् तत्र क्यप् इति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् क्यप् एव यथा स्यात् ।

(पा-३,१.१२५.२; अकि-२,८८.२१-८९.४; रो-३,२१४; भा-१२/१२) अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

(पा-३,१.१२७; अकि-२,८९.६-८; रो-३,२१५; भा-१/५) दक्षिणाग्नौ इति वक्तव्यम् ।

(पा-३,१.१२७; अकि-२,८९.६-८; रो-३,२१५; भा-२/५) आनेयः अन्यः ।

(पा-३,१.१२७; अकि-२,८९.६-८; रो-३,२१५; भा-३/५) आनाय्यः अनित्यः इति चेत् दक्षिणाग्नौ कृतम् भवेत् ।

(पा-३,१.१२७; अकि-२,८९.६-८; रो-३,२१५; भा-४/५) एकयोनौ तु तम् विद्यात् ।

(पा-३,१.१२७; अकि-२,८९.६-८; रो-३,२१५; भा-५/५) आनेयः हि अन्यथा भवेत् ।

(पा-३,१.१२९; अकि-२,८९.११-१३; रो-३,२१५; भा-१/३) पाय्यनिकाय्ययोः किम् निपात्यते ।

(पा-३,१.१२९; अकि-२,८९.११-१३; रो-३,२१५; भा-२/३) पाय्यनिकाय्ययोः आदिपत्वकत्वनिपातनम् । पाय्यनिकाय्ययोः आदिपत्वम् आदिकत्वम् च निपात्यते ।

(पा-३,१.१२९; अकि-२,८९.११-१३; रो-३,२१५; भा-३/३) मेयम् निचेयम् इति एव अन्यत्र ।

(पा-३,१.१३०; अकि-२,८९.१५-१६; रो-३,२१५; भा-१/३) कुण्डपाय्ये यद्विधिः ।

(पा-३,१.१३०; अकि-२,८९.१५-१६; रो-३,२१५; भा-२/३) कुण्डपाय्ये यत् विधेयः ।

(पा-३,१.१३०; अकि-२,८९.१५-१६; रो-३,२१५; भा-३/३) कुण्डपाय्यः क्रतुः ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१/१८) समूह्यः इति अनर्थकम् वचनम् सामान्येन कृतत्वात् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-२/१८) समूह्यः इति वचनम् अनर्थकम् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-३/१८) किम् कारणम् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-४/१८) सामान्येन कृतत्वात् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-५/१८) सामान्येन एव ण्यत् भविष्यति ॒ ऋहलोः ण्यत् इति ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-६/१८) वह्यर्थम् तर्हि निपातनम् कर्तव्यम् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-७/१८) वहेः ण्यत् यथा स्यात् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-८/१८) वह्यर्थम् इति चेत् ऊहेः तदर्थत्वात् सिद्धम् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-९/१८) ऊहिः अपि वह्यर्थे वर्तते ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१०/१८) कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-११/१८) कथम् ऊहिः वह्यर्थे वर्तते ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१२/१८) बह्वर्थाः अपि धातवः भवन्ति इति ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१३/१८) अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१४/१८) अस्ति इति आह ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१५/१८) ऊहिविग्रहात् च ब्राह्मणे सिद्धम् । ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१६/१८) समूह्यम् चिन्वीत पशुकामः ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१७/१८) पशवः वै पुरीषम् ।

(पा-३,१.१३१; अकि-२,८९.१८-९०.९; रो-३,२१५-२१६; भा-१८/१८) पशून् एव अस्मै तत् समूहति ।

(पा-३,१.१३२; अकि-२,९०.११-१२; रो-३,२१६; भा-१/३) अग्निचित्या भावे अन्तोदात्तः ।

(पा-३,१.१३२; अकि-२,९०.११-१२; रो-३,२१६; भा-२/३) अग्निचित्या इति भावे अन्तोदात्तः ।

(पा-३,१.१३२; अकि-२,९०.११-१२; रो-३,२१६; भा-३/३) अग्निचयनम् एव अग्निचित्या ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१/१८) किमर्थः चकारः ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-२/१८) स्वरार्थः ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-३/१८) चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-४/१८) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-५/१८) एकाच् अयम् ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-६/१८) तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-७/१८) प्रत्ययस्वरेण एव सिद्धम् ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-८/१८) विशेषणार्थः तर्हि ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-९/१८) क्व विशेषणार्थेन अर्थः ॒ अप्तृन्तृच् इति ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१०/१८) तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-११/१८) स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१२/१८) एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१३/१८) सामान्यग्रहणाविघातार्थः तर्हि ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१४/१८) क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१५/१८) अत्र एव ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१६/१८) यत् एतत् तृन्तृचोः ग्रहणम् एतत् तृ इति वक्ष्यामि ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१७/१८) यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत ।

(पा-३,१.१३३.१; अकि-२,९०.१४-२२; रो-३,२१६-२१७; भा-१८/१८) स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति ॒ एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१/२२) ण्वुलि सकर्मकग्रहणम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-२/२२) ण्वुलि सकर्मकग्रहणम् कर्तव्यम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-३/२२) इह मा भूत् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-४/२२) आसिता शयिता इति ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-५/२२) न वा धातुमात्रात् दर्शनात् ण्वुलः । न वा वक्तव्यम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-६/२२) किम् कारणम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-७/२२) धातुमात्रात् ण्वुल् दृश्यते ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-८/२२) इमे अस्य आसकाः इमे ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-९/२२) अस्य शायकाः ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१०/२२) उत्थिताः आसका वैश्रवणस्य इति ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-११/२२) तृजादिषु वर्तमानकालोपादानम् अध्यायकवेदाध्यायकार्थम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१२/२२) तृजादिषु वर्तमानकालोपादानम् कर्तव्यम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१३/२२) किम् कारणम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१४/२२) अध्यायकवेदाध्यायकार्थम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१५/२२) अध्यायकः वेदाध्यायः ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१६/२२) अधीतवति अध्येष्यमाणे वा मा भूत् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१७/२२) न वा कालमात्रे दर्शनात् अन्येषाम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१८/२२) न वा वक्तव्यम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-१९/२२) किम् कारणम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-२०/२२) कालमात्रे दर्शनात् अन्येषाम् ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-२१/२२) कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते ।

(पा-३,१.१३३.२; अकि-२,९१.१-११; रो-३,२१७; भा-२२/२२) चर्चापारः शमनीपारः ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-१/१२) अच् अपि सर्वधातुभ्यः ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-२/१२) अच् अपि सर्वधातुभ्यः वक्तव्यः ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-३/१२) इह अपि यथा स्यात् ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-४/१२) भवः शर्वः ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-५/१२) न तर्हि इदानीम् इदम् पचाद्यनुक्रमणम् कर्तव्यम् ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-६/१२) कर्तव्यम् च ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-७/१२) किम् प्रयोजनम् ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-८/१२) पचाद्यनुक्रमणम् अनुबन्धासञ्जार्थम् अपवादबाधनार्थम् च ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-९/१२) अनुबन्धासञ्जनार्थम् तावत् ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-१०/१२) नदट् नदी चोरट् चोरी ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-११/१२) अपवादबाधनार्थम् ।

(पा-३,१.१३४; अकि-२,९१.१३-१८; रो-३,२१७-२१८; भा-१२/१२) जारभरा श्वपचा इति ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-१/११) इगुपधेभ्यः उपसर्गे कविधिः मेषाद्यर्थः ।इगुपधेभ्यः उपसर्गे कः विधेयः ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-२/११) किम् प्रयोजनम् ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-३/११) मेषाद्यर्थः ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-४/११) मेषः देवः सेवः ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-५/११) न वा बुधादीनाम् दर्शनात् अनुपसर्गे अपि ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-६/११) न वा वक्तव्यः ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-७/११) किम् कारणम् ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-८/११) बुधादीनाम् अनुपसर्गे अपि कः दृश्यते ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-९/११) बुधः भिदः युधः सिवः इति ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-१०/११) कथम् मेषः देवः सेवः इति ।

(पा-३,१.१३५; अकि-२,९१.२०-९२.३; रो-३,२१८; भा-११/११) पचाचिषु पाठः करिष्यते ।

(पा-३,१.१३७; अकि-२,९२.५-८; रो-३,२१८; भा-१/७) जिघ्रः सञ्ज्ञायाम् प्रतिषेधः ।

(पा-३,१.१३७; अकि-२,९२.५-८; रो-३,२१८; भा-२/७) जिघ्रः सञ्ज्ञायाम् प्रतिषेधः वक्तव्यः ।

(पा-३,१.१३७; अकि-२,९२.५-८; रो-३,२१८; भा-३/७) व्याजिघ्रति इति व्याघ्रः ।

(पा-३,१.१३७; अकि-२,९२.५-८; रो-३,२१८; भा-४/७) इह के चित् शस्य एव प्रतिषेधम् आहुः के चित् जिघ्रभावस्य ।

(पा-३,१.१३७; अकि-२,९२.५-८; रो-३,२१८; भा-५/७) किम् पुनः अत्र न्याय्यम् ।

(पा-३,१.१३७; अकि-२,९२.५-८; रो-३,२१८; भा-६/७) शस्य एव प्रतिषेधः न्याय्यः ।

(पा-३,१.१३७; अकि-२,९२.५-८; रो-३,२१८; भा-७/७) जिघ्रभावे हि प्रतिषिद्धे केन शे आकारलोपः स्यात् ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-१/९) अनुपसर्गात् नौ लिम्पेः ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-२/९) अनुपसर्गात् नौ लिम्पेः इति वक्तव्यम् ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-३/९) निलिम्पाः नाम देवाः ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-४/९) गवि च विन्देः सञ्ज्ञायाम् ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-५/९) गवि च उपपदे विन्देः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-६/९) गोविन्दः इति ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-७/९) अत्यल्पम् इदम् उच्यते ॒ गवि इति ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-८/९) गवादिषु इति वक्तव्यम् ।

(पा-३,१.१३८; अकि-२,९२.११-१५; रो-३,२१८-२१९; भा-९/९) गोविन्दः अरविन्दः ।

(पा-३,१.१४०; अकि-२,९२.१७-१८; रो-३,२१९; भा-१/२) तनोतेः णः उपसङ्ख्यानम् । तनोतेः णः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.१४०; अकि-२,९२.१७-१८; रो-३,२१९; भा-२/२) अवतनोति इति अवतानः ।

(पा-३,१.१४५; अकि-२,९२.२०; रो-३,२१९; भा-१/३) नृतिखनिरञ्जिभ्यः इति वक्तव्यम् ।

(पा-३,१.१४५; अकि-२,९२.२०; रो-३,२१९; भा-२/३) इह मा भूत् ।

(पा-३,१.१४५; अकि-२,९२.२०; रो-३,२१९; भा-३/३) ह्वायकः इति ।

(पा-३,१.१४९; अकि-२,९३.२-४; रो-३,२१९; भा-१/४) प्रुसृल्वः साधुकारिणि वुन्विधानम् ।

(पा-३,१.१४९; अकि-२,९३.२-४; रो-३,२१९; भा-२/४) प्रुसृल्वः साधुकारिणि वुन् विधेयः ।

(पा-३,१.१४९; अकि-२,९३.२-४; रो-३,२१९; भा-३/४) सकृत् अपि यः सुष्ठु करोति तत्र यथा स्यात् ।

(पा-३,१.१४९; अकि-२,९३.२-४; रो-३,२१९; भा-४/४) बहुशः यः दुष्ठु करोति तत्र मा भूत् ।