व्याकरणमहाभाष्य खण्ड 37

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१/२५) कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-२/२५) इह मा भूत् ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-३/२५) आदित्यम् पश्यति ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-४/२५) हिववन्तम् श्र्णोति ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-५/२५) ग्रामम् गच्छति इति ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-६/२५) कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-७/२५) कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-८/२५) वेदाध्यायः चर्चापारः शमनीपारः ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-९/२५) यत्र च नियुक्तः । यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१०/२५) छत्रधारः द्वारपालः ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-११/२५) हृग्रहिनीवहिभ्यः च ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१२/२५) हृग्रहिनीवहिभ्यः च इति वक्तव्यम् ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१३/२५) हृ ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१४/२५) भारहारः ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१५/२५) ग्रहि ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१६/२५) कमण्डलुग्राहः ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१७/२५) नी. उष्ट्रप्रणायः ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१८/२५) वहि ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-१९/२५) भारवाहः ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-२०/२५) अपरिगणनम् वा ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-२१/२५) न वा अर्थः परिगणनेन ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-२२/२५) कस्मात् न भवति ॒ आदित्यम् पश्यति , हिमवन्तम् श्र्णोति ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-२३/२५) ग्रामम् गच्छति इति ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-२४/२५) अनभिधानात् ।

(पा-३,२.१.१; अकि-२,९४.२-१५; रो-३,२२०-२२१; भा-२५/२५) अनभिधानात् एव न भविष्यति ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१/५१) अकारात् अनुपपदात् कर्मोपपदः विप्रतिषेधेन ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२/५१) अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३/५१) अनुपपदस्य अवकाशः पचति इति पचः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४/५१) कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-५/५१) ओदनपाचे उभयम् प्राप्नोति ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-६/५१) कर्मोपदः भवति विप्रतिषेधेन ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-७/५१) अनुपपदस्य अवकाशः विक्षिपः विलिखः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-८/५१) कर्मोपपदस्य सः एव ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-९/५१) काष्ठभेदे उभयम् प्राप्नोति ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१०/५१) कर्मोपदः भवति विप्रतिषेधेन ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-११/५१) अनुपपदस्य अवकाशः जानाति इति ज्ञः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१२/५१) कर्मोपपदस्य सः एव ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१३/५१) अर्थज्ञे उभयम् प्राप्नोति ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१४/५१) कर्मोपदः भवति विप्रतिषेधेन ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१५/५१) न एषः युक्तः विप्रतिषेधः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१६/५१) अनुपपदः तृतीयः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१७/५१) ण्वुल्तृजचः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१८/५१) तेषाम् णः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-१९/५१) णस्य कः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२०/५१) सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२१/५१) कर्मोपपदः अपि तृतीयः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२२/५१) ण्वुल्तृजचः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२३/५१) तेषाम् अण् ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२४/५१) अणः कः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२५/५१) उभयोः तृतीययोः युक्तः विप्रतिषेधः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२६/५१) अनुपपदस्य अवकाशः लिम्पति इति लिम्पः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२७/५१) कर्मोपपदस्य सः एव ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२८/५१) कुड्यलेपे उभयम् प्राप्नोति ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-२९/५१) कर्मोपदः भवति विप्रतिषेधेन ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३०/५१) न एषः युक्तः विप्रतिषेधः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३१/५१) अनुपपदः तृतीयः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३२/५१) ण्वुल्तृजचः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३३/५१) तेषाम् कः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३४/५१) कस्य कः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३५/५१) सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३६/५१) का तर्हि गतिः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३७/५१) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३८/५१) कर्मोपपदम् न बाधिष्यते ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-३९/५१) अनुपपदस्य अवकाशः सुग्लः सुम्लः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४०/५१) कर्मोपपदस्य सः एव ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४१/५१) वडवासन्दाये उभयम् प्राप्नोति ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४२/५१) कर्मोपदः भवति विप्रतिषेधेन ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४३/५१) न एषः युक्तः विप्रतिषेधः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४४/५१) अनुपपदः तृतीयः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४५/५१) ण्वुल्तृजचः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४६/५१) तेषाम् णः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४७/५१) णस्य कः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४८/५१) सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-४९/५१) का तर्हि गतिः ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-५०/५१) पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते ।

(पा-३,२.१.२; अकि-२,९४.१६-९५.१५; रो-३,२२१-२२३; भा-५१/५१) कर्मोपपदम् न बाधिष्यते ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१/३६) शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२/३६) शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३/३६) शीलि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-४/३६) मांसशीलः मांसशीला ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-५/३६) शीलि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-६/३६) कामि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-७/३६) मांसकामः मांसकामा ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-८/३६) कामि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-९/३६) भक्षि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१०/३६) मांसभक्षः मांसभक्षा ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-११/३६) भक्षि आचरि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१२/३६) कल्याणाचारः कल्याणाचारा ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१३/३६) ईक्षिक्षमिभ्याम् च । ईक्षिक्षमिभ्याम् च इति वक्तव्यम् ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१४/३६) सुखप्रतीक्षः सुखप्रतीक्षा ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१५/३६) कल्याणक्षमः कल्याणक्षमा ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१६/३६) किमर्थम् इदम् उच्यते ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१७/३६) पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१८/३६) न एतत् अस्ति प्रयोजनम् ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-१९/३६) इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२०/३६) यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२१/३६) एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२२/३६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२३/३६) काण्डलावः ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२४/३६) काण्डानि लावः अस्य इति बहुव्रीहिः न भवति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२५/३६) भवति तु बहुर्वीहिः अपि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२६/३६) मांसे कामः अस्य मांसकामः मांसकामकः इति वा ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२७/३६) न तु अम्भोभिगमा ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२८/३६) न तु इदम् भवति अम्भः अभिगमः अस्याः इति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-२९/३६) किम् तर्हि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३०/३६) अम्भोभिगामी इति एव भवति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३१/३६) काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३२/३६) न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३३/३६) आन्नादाय इति च कृताम् व्यत्ययः छन्दसि ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३४/३६) आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३५/३६) अन्नादाय अन्नपतये ।

(पा-३,२.१.३; अकि-२,९५.१६-९६.११; रो-३,२२३-२२५; भा-३६/३६) ये आहुतिम् अन्नादीम् कृत्वा ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१/९१) कविधौ सर्वत्र प्रसारणिभ्यः डः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२/९१) कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३/९१) ब्रह्मज्यः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४/९१) किम् उच्यते सर्वत्र इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५/९१) अन्यत्र अपि न अवश्यम् इह एव ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६/९१) ह्व अन्यत्र ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७/९१) आह्वः प्रह्वः इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८/९१) के हि सम्प्रसारणप्रसङ्गः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-९/९१) के हि सति सम्प्रसारणम् प्रसज्येत ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१०/९१) सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-११/९१) सः तर्हि वक्तव्यः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१२/९१) न वक्तव्यः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१३/९१) अस्तु अत्र सम्प्रसारणम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१४/९१) सम्प्रसारणे कृते आकारलोपः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१५/९१) तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१६/९१) पूर्वत्वे कृते प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१७/९१) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१८/९१) आकारलोपः क्रियताम् पूर्वत्वम् इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-१९/९१) किम् अत्र कर्तव्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२०/९१) परत्वात् आकारलोपः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२१/९१) न सिध्यति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२२/९१) अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२३/९१) एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२४/९१) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२५/९१) आकारलोपः क्रियताम् सम्प्रसारणम् इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२६/९१) किम् अत्र कर्तव्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२७/९१) परत्वात् आकारलोपः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२८/९१) नित्यम् सम्प्रसारणम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-२९/९१) कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३०/९१) आकारलोपः अपि नित्यः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३१/९१) कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३२/९१) अनित्यः आकारलोपः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३३/९१) न हि कृते सम्प्रसारणे प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३४/९१) अन्तरङ्गम् हि पूर्वत्वम् भाधते ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३५/९१) यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३६/९१) न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३७/९१) अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३८/९१) उभयोः नित्ययोः परत्वात् आकारलोपः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-३९/९१) आकारलोपे कृते सम्प्रसारणम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४०/९१) सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४१/९१) एवम् अपि न सिध्यति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४२/९१) यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४३/९१) आदिष्टात् च एषः अचः पूर्वः भवति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४४/९१) एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४५/९१) इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४६/९१) जुहुवतुः झुहुवुः इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४७/९१) अस्ति अत्र विशेषः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४८/९१) अकृते अत्र आत्त्वे पूर्वत्वम् भवति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-४९/९१) इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५०/९१) किम् अत्र कर्तव्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५१/९१) परत्वात् पूर्वत्वम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५२/९१) न सिध्यति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५३/९१) अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५४/९१) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५५/९१) आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५६/९१) किम् अत्र कर्तव्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५७/९१) परत्वात् आत्त्वम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५८/९१) नित्यम् सम्प्रसारणम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-५९/९१) कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६०/९१) आत्त्वम् अपि नित्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६१/९१) कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६२/९१) अनित्यम् आत्त्वम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६३/९१) न हि सम्प्रसारणे कृते प्राप्नोति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६४/९१) परत्वात् पूर्वत्वेन एव भवितव्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६५/९१) यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६६/९१) न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६७/९१) अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६८/९१) उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-६९/९१) एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७०/९१) सम्प्रसारणात् परः पूर्वः भवति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७१/९१) तत एङः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७२/९१) एङः च सम्प्रसारणात् पूर्वः भवति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७३/९१) किमर्थम् इदम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७४/९१) अकृते आत्त्वे पूर्वत्वम् यथा स्यात् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७५/९१) ततः पदान्तात् अति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७६/९१) एङः इति एव ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७७/९१) इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७८/९१) आह्वः प्रह्वः इति ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-७९/९१) अस्ति अत्र विशेषः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८०/९१) आकारान्तलक्षणः कविधिः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८१/९१) तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८२/९१) लिट् पुनः अविशेषेण धातुमात्रात् विधीयते ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८३/९१) नित्यम् प्रसारणम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८४/९१) ह्वः यण् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८५/९१) वार्णात् आङ्गम् न पूर्वत्वम् ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८६/९१) यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८७/९१) तेन असिद्धिः यणः ते ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८८/९१) आतः कः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-८९/९१) लिट् न ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-९०/९१) एङः पूर्वः ।

(पा-३,२.३; अकि-२,९६.१३-९७.२७; रो-३,२२५-२२८; भा-९१/९१) सिद्धः आह्वः तथा सति ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१/२५) सुपि स्थः भावे च ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-२/२५) सुपि स्थः इति अत्र भावे च इति वक्तव्यम् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-३/२५) इह अपि यथा स्यात् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-४/२५) आखूत्थः वर्तते ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-५/२५) श्येनोत्थः शलभोत्थः ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-६/२५) तत् तर्हि वक्तव्यम् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-७/२५) न वक्तव्यम् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-८/२५) योगविभागात् सिद्धम् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-९/२५) योगविभागः करिष्यते ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१०/२५) आतः अनुपसर्गे कः भवति ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-११/२५) ततः सुपि ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१२/२५) सुपि च अतः कः भवति ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१३/२५) कच्छेन पिबति कच्छपः ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१४/२५) कटाहेन पिबति कटाहः ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१५/२५) द्वाभ्याम् पिबति द्विपः ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१६/२५) ततः स्थः ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१७/२५) स्थः च कः भवति सुपि इति ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१८/२५) किमर्थम् इदम् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-१९/२५) भावे यथा स्यात् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-२०/२५) कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-२१/२५) योगविभागात् अयम् कर्तुः अपकृष्यते ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-२२/२५) न च अन्यस्मिन् अर्थे आदिश्यते ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-२३/२५) अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-२४/२५) तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् ।

(पा-३,२.४; अकि-२,९८.२-१२; रो-३,२२९; भा-२५/२५) सः असौ स्वार्थे भवन् भावे भविष्यति ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-१/१२) तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-२/१२) तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-३/१२) तुन्दपरिमृजः अलसः ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-४/१२) शोकापनुदः पुत्रः जातः ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-५/१२) यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-६/१२) यः च शोकम् अपनुदति शोकापनोदः सः भवति ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-७/१२) कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-८/१२) कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-९/१२) मूलविभुजः रथः ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-१०/१२) नखमुचानि धनूंषि ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-११/१२) काकगुहाः तिलाः ।

(पा-३,२.५; अकि-२,९८.१४-२०; रो-३,२३०; भा-१२/१२) सरसीरुहम् कुमुदम् ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-१/१२) सुरासीध्वोः पिबतेः ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-२/१२) सुरासीध्वोः पिबतेः इति वक्तव्यम् ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-३/१२) इह मा भूत् ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-४/१२) क्षीरपा ब्राह्मणी इति ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-५/१२) पिबतेः इति किमर्थम् ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-६/१२) या हि सुराम् पाति सुरापा सा भवति ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-७/१२) बहुलम् तणि ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-८/१२) बहुलम् तणि इति वक्तव्यम् ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-९/१२) किम् इदम् तणि इति ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-१०/१२) सञ्ज्ञाछन्दसोः ग्रहणम् ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-११/१२) या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति ।

(पा-३,२.८; अकि-२,९९.२-८; रो-३,२३०-२३१; भा-१२/१२) या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१/३०) अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२/३०) अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-३/३०) शक्तिग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-४/३०) शक्ति ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-५/३०) लाङ्गल ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-६/३०) लाङ्गलग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-७/३०) लाङ्गल ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-८/३०) आङ्कुश ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-९/३०) आङ्कुशग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१०/३०) आङ्कुश ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-११/३०) यष्टि ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१२/३०) यष्टिग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१३/३०) यष्टि ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१४/३०) तोमर ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१५/३०) तोमरग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१६/३०) तोमर ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१७/३०) घट ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१८/३०) घटग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-१९/३०) घट ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२०/३०) घटी ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२१/३०) घटीग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२२/३०) घटी ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२३/३०) धनुस् ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२४/३०) धनुर्ग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२५/३०) धनुस् ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२६/३०) सूत्रे च धार्यर्थे ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२७/३०) सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२८/३०) सूत्रग्रहः ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-२९/३०) धार्यर्थे इति किमर्थम् ।

(पा-३,२.९; अकि-२,९९.१०-१८; रो-३,२३१; भा-३०/३०) यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति ।

(पा-३,२.१३; अकि-२,९९.२०-२२; रो-३,२३१; भा-१/५) स्तम्बकर्णयोः हस्तिसूचकयोः ।

(पा-३,२.१३; अकि-२,९९.२०-२२; रो-३,२३१; भा-२/५) स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् ।

(पा-३,२.१३; अकि-२,९९.२०-२२; रो-३,२३१; भा-३/५) स्तम्बेरमः हस्ती ।

(पा-३,२.१३; अकि-२,९९.२०-२२; रो-३,२३१; भा-४/५) कर्णेजपः सूचकः ।

(पा-३,२.१३; अकि-२,९९.२०-२२; रो-३,२३१; भा-५/५) सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-१/१५) धातुग्रहणम् किमर्थम् ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-२/१५) शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-३/१५) शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-४/१५) शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-५/१५) टस्य अवकाशः श्राद्धकरः पिण्डकरः ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-६/१५) शङ्करा नाम परिव्राजिका ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-७/१५) शङ्करा शकुनिका तच्छिला च ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-८/१५) तस्याम् उभयम् प्राप्नोति ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-९/१५) परत्वात् टः स्यात् ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-१०/१५) धातुग्रहणसामर्थ्यात् अच् एव भवति ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-११/१५) कुणरवाडवः तु आह ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-१२/१५) न एषा शङ्करा ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-१३/१५) शङ्गरा एषा ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-१४/१५) गृणातिः शब्दकर्मा ।

(पा-३,२.१४; अकि-२,१००.२-९; रो-३,२३१-२३२; भा-१५/१५) तस्य एषः प्रयोगः ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-१/१४) अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम्. अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-२/१४) पार्श्वशयः पृष्ठशयः उदरशयः ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-३/१४) दिग्धसहपूर्वात् च ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-४/१४) दिद्घसहपूर्वात् च इति वक्तव्यम् ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-५/१४) दिग्धसहशयः ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-६/१४) उत्तानादिषु कर्तृषु ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-७/१४) उत्तानादिषु कर्तृषु इति वक्तव्यम् ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-८/१४) उत्तानशयः अवमूर्धशयः ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-९/१४) गिरौ डः छन्दसि ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-१०/१४) गिरौ उपपदे डः छन्दसि वक्तव्यः ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-११/१४) गिरौ शेते गिरिशः ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-१२/१४) तद्धितः वा ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-१३/१४) तद्धितः वा पुनः एषः भवति ।

(पा-३,२.१५; अकि-२,१००.११-२१; रो-३,२३२-२३३; भा-१४/१४) गिरौ शेते गिरिशः इति ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-१/८) इह कस्मात् न भवति ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-२/८) कुरून् चरति ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-३/८) पञ्चालान् चरति इति ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-४/८) अधिकरणे इति वर्तते ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-५/८) ननु च कर्मणि इति अपि वर्तते ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-६/८) तत्र कुतः एतत् ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-७/८) अधिकरणे भविष्यति न पुनः कर्मणि इति ।

(पा-३,२.१६; अकि-२,१०१.२-६; रो-३,२३३; भा-८/८) चरेः भिक्षाग्रहणम् ज्ञपकम् कर्मणि अप्रसङ्गः । यत् अयम् भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणम् करोति तत् ज्ञापयति आचार्यः न भवति कर्मणि इति ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-१/१२) किंयत्तद्बहुषु कृञः अज्विधानम् ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-२/१२) किंयत्तद्बहुषु कृञः अज्विधानम् कर्तव्यम् ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-३/१२) किङ्करा ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-४/१२) किम् ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-५/१२) यत् ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-६/१२) यत्करा ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-७/१२) यत् ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-८/१२) तत् ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-९/१२) तत्करा ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-१०/१२) तत् ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-११/१२) बहु ।

(पा-३,२.२१; अकि-२,१०१.९-११; रो-३,२३४; भा-१२/१२) बहुकरा ।

(पा-३,२.२४; अकि-२,१०१.१३-१४; रो-३,२३४; भा-१/४) स्तम्बशकृतोः व्रीहिवत्सयोः ।

(पा-३,२.२४; अकि-२,१०१.१३-१४; रो-३,२३४; भा-२/४) व्रीहिवत्सयोः इति वक्तव्यम् ।

(पा-३,२.२४; अकि-२,१०१.१३-१४; रो-३,२३४; भा-३/४) स्तम्बकरिः व्रीहिः ।

(पा-३,२.२४; अकि-२,१०१.१३-१४; रो-३,२३४; भा-४/४) शकृत्करिः वत्सः ।

(पा-३,२.२६; अकि-२,१०१.१६-१०२.३; रो-३,२३४-२३५; भा-१/७) आत्मम्भरिः इति किम् निपात्यते ।

(पा-३,२.२६; अकि-२,१०१.१६-१०२.३; रो-३,२३४-२३५; भा-२/७) आत्मनः मुम् भृञः च इन्प्रत्ययः ।

(पा-३,२.२६; अकि-२,१०१.१६-१०२.३; रो-३,२३४-२३५; भा-३/७) अत्यल्पम् इदम् उच्यते ।

(पा-३,२.२६; अकि-२,१०१.१६-१०२.३; रो-३,२३४-२३५; भा-४/७) भृञः कुक्ष्यात्मनोः मुम् च ।

(पा-३,२.२६; अकि-२,१०१.१६-१०२.३; रो-३,२३४-२३५; भा-५/७) भृञः कुक्ष्यात्मनोः मुम् च इति वक्तव्यम् ।

(पा-३,२.२६; अकि-२,१०१.१६-१०२.३; रो-३,२३४-२३५; भा-६/७) कुक्षिम्भरः ।

(पा-३,२.२६; अकि-२,१०१.१६-१०२.३; रो-३,२३४-२३५; भा-७/७) आत्मम्भरिः चरति यूथम् असेवमानः ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-१/११) खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः । खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यम् ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-२/११) वातमजाः मृगाः ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-३/११) वात ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-४/११) शुनी ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-५/११) शुनीन्धयः ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-६/११) शुनी ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-७/११) तिल ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-८/११) तिलन्द्तुदः ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-९/११) तिल ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-१०/११) शर्ध ।

(पा-३,२.२८; अकि-२,१०२.५-८; रो-३,२३५; भा-११/११) शर्धञ्जहाः माषाः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१/२२) स्तने धेटः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-२/२२) स्तने धेटः इति वक्तव्यम् ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-३/२२) स्तनन्धयः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-४/२२) ततः मुष्टौ ध्मः च ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-५/२२) मुष्टौ ध्मः च धेटः च इति वक्तव्यम् ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-६/२२) मुष्टिन्धमः मुष्टिधयः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-७/२२) अतयल्पम् इदम् उच्यते ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-८/२२) नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यम् ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-९/२२) नासिकन्धमः नासिकन्धयः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१०/२२) नासिक ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-११/२२) नाडी ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१२/२२) नाडिन्धमः नाडिन्धयः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१३/२२) नाडी ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१४/२२) मुष्टि ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१५/२२) मुष्टिन्धमः मुष्टिधयः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१६/२२) मुष्टि ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१७/२२) घटी ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१८/२२) घटिन्धमः घटिन्धयः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-१९/२२) घटी ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-२०/२२) खारी ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-२१/२२) खारिन्धमः खारिन्धयः ।

(पा-३,२.२९; अकि-२,१०२.१०-१७; रो-३,२३५-२३६; भा-२२/२२) खारी ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-१/१४) खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-२/१४) खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-३/१४) मितङ्गमः ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-४/१४) मितङ्गमा हस्तिनी ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-५/१४) विहायसः विह च ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-६/१४) विहायसः विह इति अयम् आदेशः वक्तव्यः ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-७/१४) खच् च ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-८/१४) विहङ्गमः ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-९/१४) खच् च डित् वा ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-१०/१४) खच् च डित् वा वक्तव्यः ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-११/१४) विहङ्गः ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-१२/१४) डे च ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-१३/१४) डे च विहायसः विह इति अयम् आदेशः वक्तव्यः ।

(पा-३,२.३८; अकि-२,१०२.१९-१०३..४; रो-३,२३६; भा-१४/१४) विहगः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१/१८) डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-२/१८) डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-३/१८) सर्वत्रगः पन्नगः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-४/१८) उरसः लोपः च ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-५/१८) उरसः लोपः च वक्तव्यः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-६/१८) उरगः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-७/१८) सुदुरोः अधिकरणे ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-८/१८) सुदुरोः अधिकरणे डः वक्तव्यः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-९/१८) सुगः दुर्गः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१०/१८) निसः देशे ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-११/१८) निसः देशे डः वक्तव्यः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१२/१८) निर्गः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१३/१८) अपर आह ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१४/१८) डप्रकरणे अन्येषु अपि दृश्यते ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१५/१८) डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यम् ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१६/१८) ततः स्त्र्यगारगः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१७/१८) अश्नुते यावत् अन्नाय ग्रामगः ।

(पा-३,२.४८; अकि-२,१०३.६-१५; रो-३,२३६-२३७; भा-१८/१८) ध्वंसते गुरुतल्पगः ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-१/९) दारौ आहनः अण् अन्त्यस्य च टः सञ्ज्ञायाम् ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-२/९) दारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वक्तव्यः ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-३/९) दार्वाघाटः ते वनस्पतीनाम् ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-४/९) चारौ वा ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-५/९) चारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-६/९) चार्वाघाटः चार्वाघातः ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-७/९) कर्मणि समि च ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-८/९) कर्मणि उपपदे सपूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।

(पा-३,२.४९; अकि-२,१०३.१७-१०४.३; रो-३,२३७; भा-९/९) वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-१/१६) कथम् इदम् विज्ञायते ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-२/१६) लक्षणे कर्तरि इति आहोस्वित् लक्षणवति कर्तरि इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-३/१६) किम् च अतः ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-४/१६) यदि विज्ञायते लक्षणे कर्तरि इति सिद्धम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-५/१६) जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-६/१६) जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-७/१६) अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धम् जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-८/१६) जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-९/१६) अस्तु लक्षणे कर्तरि इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-१०/१६) कथम् जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-११/१६) अकारः मत्वर्थीयः ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-१२/१६) जायाघ्नः अस्मिन् अस्ति इति सः अयम् जायाघ्नः ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-१३/१६) पतिघ्नीवृषली इति न सिध्यति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-१४/१६) अस्तु तर्हि लक्षणवति कर्तरि इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-१५/१६) कथम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।

(पा-३,२.५२; अकि-२,१०४.५-१२; रो-३,२३७-२३८; भा-१६/१६) अमनुष्यकर्तृके इति एवम् भविष्यति ।

(पा-३,२.५३; अकि-२,१०४.१४-१७; रो-३,२३८; भा-१/७) अप्रणिकर्तृके इति वक्तव्यम् ।

(पा-३,२.५३; अकि-२,१०४.१४-१७; रो-३,२३८; भा-२/७) इह मा भूत् ।

(पा-३,२.५३; अकि-२,१०४.१४-१७; रो-३,२३८; भा-३/७) नगरघातः हस्ती ।

(पा-३,२.५३; अकि-२,१०४.१४-१७; रो-३,२३८; भा-४/७) यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति ।

(पा-३,२.५३; अकि-२,१०४.१४-१७; रो-३,२३८; भा-५/७) अस्तु तर्हि अमनुष्यकर्तृके इति एव ।

(पा-३,२.५३; अकि-२,१०४.१४-१७; रो-३,२३८; भा-६/७) कथम् नगरघातः हस्ती ।

(पा-३,२.५३; अकि-२,१०४.१४-१७; रो-३,२३८; भा-७/७) कृत्यल्युटः बहुलम् इति एवम् अत्र अण् भविष्यति ।

(पा-३,२.५५; अकि-२,१०४.१९-२०; रो-३,२३८; भा-१/३) राजघे उपसङ्ख्यानम् ।

(पा-३,२.५५; अकि-२,१०४.१९-२०; रो-३,२३८; भा-२/३) राजघे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.५५; अकि-२,१०४.१९-२०; रो-३,२३८; भा-३/३) राजघः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१/३८) ख्युनि च्विप्रतिषेधानर्थक्यम् ल्युट्ख्य्नोः अविशेषात् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२/३८) ख्युनि च्विप्रतिषेधः अनर्थकः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३/३८) किम् कारणम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-४/३८) ल्युट्ख्य्नोः अविशेषात् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-५/३८) ख्युना मुक्ते ल्युटा भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-६/३८) न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-७/३८) तत् एव रूपम् सः एव स्वरः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-८/३८) अयम् अस्ति विशेषः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-९/३८) ल्युटि सति ईकारेण भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१०/३८) ख्युनि सति न भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-११/३८) ख्युनि अपि सति भवतव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१२/३८) एवम् हि सौनागाः पठन्ति ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१३/३८) नञ्स्नञीक्ख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१४/३८) अयम् तर्हि विशेषः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१५/३८) ख्युनि सति नित्यसमासेन भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१६/३८) उपपदसमासः हि नित्यसमासः इति ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१७/३८) ल्युटि सति न भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१८/३८) ल्युटि अपि भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-१९/३८) गतिसमासः अपि हि नित्यसमासः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२०/३८) च्य्वन्तम् च गतिसञ्ज्ञम् भवति ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२१/३८) मुमर्थम् तर्हि प्रतिषेधः वक्तव्यः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२२/३८) ख्युनि सति मुमा भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२३/३८) ल्युति सति न भवितव्यम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२४/३८) मुमर्थम् इति चेत् न अव्ययत्वात् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२५/३८) मुमर्थम् इति चेत् तत् न ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२६/३८) किम् कारणम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२७/३८) अव्ययत्वात् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२८/३८) अनव्ययस्य मुम् उच्यते ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-२९/३८) च्व्यन्तम् च अव्ययसञ्ज्ञम् ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३०/३८) उत्तरार्थम् तु ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३१/३८) उत्तरार्थम् तर्हि प्रतिषेधः वक्तव्यः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३२/३८) कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३३/३८) आढ्यीभविता ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३४/३८) अथ इदानीम् अनेन मुक्ते ताच्छीलिलः इष्णुच् विधीयते ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३५/३८) सः अत्र कस्मात् न भवति ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३६/३८) रूढिशब्दप्रकाराः तच्छीलिकाः ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३७/३८) न च रूड्ःिशब्दाः गतिभिः विशेष्यन्ते ।

(पा-३,२.५६; अकि-२,१०५.३-२०; रो-३,२३८-२४०; भा-३८/३८) न हि भवति प्रदेवदत्तः इति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१/२६) किमर्थम् खिष्णुच् इकारादिः क्रियते न क्स्नुः इति एव उच्येत ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२/२६) तत्र अयम् अपि अर्थः ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-३/२६) स्वरार्थः चकारः न कर्तव्यः भवति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-४/२६) केन इदानीम् इकारादित्वम् क्रियते ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-५/२६) इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-६/२६) भवतेः उदात्तत्वात् इकारादित्वम् भविष्यति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-७/२६) इदम् तर्हि प्रयोजनम् ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-८/२६) खित् अयम् क्रियते ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-९/२६) तत्र चर्त्वे कृते स्यात् ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१०/२६) कित् वा खित् वा इति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-११/२६) सन्देहमात्रम् एतत् भवति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१२/२६) सर्वसन्देहेषु च इदम् उपतिष्ठते ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१३/२६) व्याख्यानतः विशेषप्रतिपत्तिः ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१४/२६) न हि सन्देहात् अलक्षणम् इति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१५/२६) खित् इति व्याख्यास्यामः ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१६/२६) नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१७/२६) इदम् तर्हि प्रयोजनम् ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१८/२६) कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात् ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-१९/२६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२०/२६) अयम् अपि इटि कृते षत्वे च इष्णुच् भविष्यति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२१/२६) न सिध्यति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२२/२६) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२३/२६) अथ वा असिद्धम् खलु अपि षत्वम् ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२४/२६) षत्वस्य असिद्धत्वात् इस्नुच् एव भवति ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२५/२६) इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।

(पा-३,२.५७; अकि-२,१०५.२२-१०६.११; रो-३,२४०-२४१; भा-२६/२६) नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१/१९) किमर्थः नकारः ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-२/१९) ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-३/१९) न एतत् अस्ति प्रयोजनम् ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-४/१९) एकाचः अयम् विधीयते ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-५/१९) तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-६/१९) धातुस्वरेण एव सिद्धम् ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-७/१९) यः तर्हि अनेकाच् ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-८/१९) दधृक् इति ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-९/१९) वक्ष्यति एतत् धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते इति ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१०/१९) विशेषणार्थः तर्हि ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-११/१९) क्व विशेषनार्थेन अर्थः ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१२/१९) क्विन्प्रत्ययस्य कुः इति ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१३/१९) क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात् ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१४/१९) क्विः वा एषः प्रत्ययः क्विप् वा इति ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१५/१९) सन्देहमात्रम् एतत् भवति ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१६/१९) सर्वसन्देहेषु च इदम् उपतिष्ठते ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१७/१९) व्याख्यानतः विशेषप्रतिपत्तिः ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१८/१९) न हि सन्देहात् अलक्षणम् इति ।

(पा-३,२.५८; अकि-२,१०६.१३-१९; रो-३,२४१-२४२; भा-१९/१९) क्क्विप्रत्ययस्य इति व्याख्यास्यामः ।

(पा-३,२.५९; अकि-२,१०६.२१-२३; रो-३,२४२; भा-१/३) दधृक् इति किम् निपात्यते ।

(पा-३,२.५९; अकि-२,१०६.२१-२३; रो-३,२४२; भा-२/३) धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च ।

(पा-३,२.५९; अकि-२,१०६.२१-२३; रो-३,२४२; भा-३/३) धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-१/९) किमर्थः ञकारः ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-२/९) स्वरार्थः ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-३/९) ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-४/९) न एतत् अस्ति प्रयोजनम् ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-५/९) नकारेण अपि एषः स्वरः सिद्धः ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-६/९) विशेषणार्थः तर्हि भविष्यति ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-७/९) क्व विशेषणार्थेन अर्थः ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-८/९) कञ्क्वरप् इति ।

(पा-३,२.६०.१; अकि-२,१०७.२-५; रो-३,२४२; भा-९/९) कन्क्वरप् इति उच्यामाने याचितिका अत्र अपि प्रसज्येत ।.

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१/१८) दृशेः समानान्ययोः च उपसङ्ख्यानम् ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-२/१८) दृशेः समानान्ययोः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-३/१८) सदृक् सदृशः अन्यादृक् अन्यादृशः ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-४/१८) कृदर्थानुपपत्तिः तु ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-५/१८) कृदर्थः तु न उपपद्यते ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-६/१८) दृशेः कर्तरि प्राप्नोति ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-७/१८) इवार्थे तु तद्धितः ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-८/१८) इवार्थे अयम् तद्धितः द्रष्टव्यः ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-९/१८) सः इव अयम् तादृक् ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१०/१८) अन्य इव अयम् अन्यादृक् ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-११/१८) अथ वा युक्तः एव अत्र कृदर्थः ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१२/१८) कर्मकर्ता अयम् ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१३/१८) तम् इव इमम् पश्यन्ति जनाः ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१४/१८) सः अयम् सः इव दृश्यमानः तम् इव आत्मानम् पश्यति ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१५/१८) तादृक् ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१६/१८) अन्यम् इव इमम् पश्यन्ति जनाः ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१७/१८) सः अयम् अन्यः इव दृश्यमानः अन्यम् इव आत्मानम् पश्यति ।

(पा-३,२.६०.२; अकि-२,१०७.६-१५; रो-३,२४२-२४३; भा-१८/१८) अन्यादृक् इति ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-१/१४) सदादिषु सुब्ग्रहणम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-२/१४) सदादिषु सुब्ग्रहणम् कर्तव्यम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-३/१४) होता वेदिषत् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-४/१४) अतिथिः चुरोणसत् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-५/१४) न तर्हि इदानीम् उपसर्गे अपि इति वक्तव्यम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-६/१४) वक्तव्यम् च ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-७/१४) किम् प्रयोजनम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-८/१४) ज्ञापकार्थम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-९/१४) किम् ज्ञाप्यम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-१०/१४) एतत् ज्ञापयति आचार्यः ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-११/१४) अन्यत्र सुब्ग्रहणे उपसर्गग्रहणम् न भवति इति ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-१२/१४) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-१३/१४) वदः सुपि अनुपसर्गग्रहणम् चोदितम् ।

(पा-३,२.६१; अकि-२,१०७.१८-२१; रो-३,२४३-२४४; भा-१४/१४) तत् न वक्तव्यम् भवति ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-१/९) किमर्थम् इदम् उच्यते न अदः अनन्ने इति एव सिद्धम् ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-२/९) न सिध्यति ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-३/९) छन्दसि इति एतत् अनुवर्तते ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-४/९) भाषार्थः अयम् आरम्भः ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-५/९) पूर्वस्मिन् एव योगे छन्दोग्रहणम् निवृत्तम् ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-६/९) तत् च अवश्यम् निवर्त्यम् अमात् इति एवमर्थम् ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-७/९) अतः उत्तरम् पठति ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-८/९) अदः अनन्ने क्रव्येग्रहणम् वासरूपनिवृत्त्यर्थम् ।

(पा-३,२.६८-६९; अकि-२,१०८.२-६; रो-३,२४४; भा-९/९) अदः अनन्ने क्रव्येग्रहणम् क्रियते वासरूपः मा भूत् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१/२८) श्वेतवहादीनां डस् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२/२८) श्वेतवहादीनां डस् वक्तव्यः ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-३/२८) श्वेतवाः इन्द्रः ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-४/२८) पदस्य च ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-५/२८) पदस्य च इति वक्तव्यम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-६/२८) इह मा भूत् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-७/२८) श्वेतवाहौ श्वेतवाहः ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-८/२८) किम् प्रयोजनम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-९/२८) र्वर्थम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१०/२८) रुः यथा स्यात् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-११/२८) क्रियते र्वर्थम् निपातनम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१२/२८) अवयाः श्वेतवाः पुरोडाः च इति ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१३/२८) आतः च र्वर्थम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१४/२८) उक्थशस्शब्दस्य सामान्येन रुः सिद्धः ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१५/२८) न तस्य निपातनम् क्रियते ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१६/२८) तत् न वक्तव्यम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१७/२८) अवश्यम् तत् वक्तव्यम् दीर्घार्थम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१८/२८) न एतत् अस्ति प्रयोजनम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-१९/२८) सिद्धम् अत्र दीर्घत्वम् अत्वसन्तस्य च अधातोः इति ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२०/२८) यत्र तेन न सिध्यति तदर्थम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२१/२८) क्व च तेन न सिध्यति ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२२/२८) सम्बुद्धौ ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२३/२८) हे श्वेतवाः इति ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२४/२८) न तर्हि इदानीम् डस् वक्तव्यः ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२५/२८) वक्तव्यः च ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२६/२८) किम् प्रयोजनम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२७/२८) उत्तराऋथम् ।

(पा-३,२.७१; अकि-२,१०८.८-१८; रो-३,२४५-२४६; भा-२८/२८) श्वेतवोभ्याम् श्वेतवोभिः ।

(पा-३,२.७७; अकि-२,१०८.२०-१०९.३; रो-३,२४६; भा-१/७) किमर्थम् स्थः कक्विपौ उच्येते न क्विप् सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति ।

(पा-३,२.७७; अकि-२,१०८.२०-१०९.३; रो-३,२४६; भा-२/७) न सिध्यति ।

(पा-३,२.७७; अकि-२,१०८.२०-१०९.३; रो-३,२४६; भा-३/७) विशेष्विहितः कः सामान्यविहितम् क्विपम् बाधते. वासरूपेण क्विप् अपि भविष्यति ।

(पा-३,२.७७; अकि-२,१०८.२०-१०९.३; रो-३,२४६; भा-४/७) इदम् तर्हि शंस्थः शंस्थाः ।

(पा-३,२.७७; अकि-२,१०८.२०-१०९.३; रो-३,२४६; भा-५/७) उक्तम् एतत् ।

(पा-३,२.७७; अकि-२,१०८.२०-१०९.३; रो-३,२४६; भा-६/७) शमि सञ्ज्ञायाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् इति ।

(पा-३,२.७७; अकि-२,१०८.२०-१०९.३; रो-३,२४६; भा-७/७) सः यथा एव अच् टम् बाधते एवम् कक्विपौ अपि बाधेत ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-१/१०) सुपि इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-२/१०) अनुपसर्गे इति एवम् तत् अभूत् ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-३/१०) इदम् सुब्मात्रे यथा स्यात् ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-४/१०) प्रत्यासारिण्यः उदासारिण्यः ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-५/१०) णिन्विधौ साधुकारिणि उपसङ्ख्यानम् ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-६/१०) णिन्विधौ साधुकारिणि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-७/१०) साधुकारी साधुदायी ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-८/१०) ब्रह्मणि वदः ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-९/१०) ब्रह्मणि वदः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,२.७८; अकि-२,१०९.५-१०; रो-३,२४७; भा-१०/१०) ब्रह्मवादिनः वदन्ति ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१/१९) किम् उदाहरणम् ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-२/१९) अश्राद्धभोजी ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-३/१९) किम् यः अश्राद्धम् भुङ्क्ते सः अश्राद्धभोजी ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-४/१९) किम् च अतः ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-५/१९) यदा असौ अश्राद्धम् न भुङ्क्ते तदा अस्य व्रतलोपः स्यात् ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-६/१९) तत् यथा ॒ स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-७/१९) एवम् तर्हि णिन्यन्तेन समासः भविष्यति ॒ न श्राद्धभोजी अश्राद्धभोजी ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-८/१९) न एवम् शक्यम् ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-९/१९) स्वरे हि दोषः स्यात् ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१०/१९) अश्राद्धभोजी इति एवम् स्वरः प्रसज्येत ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-११/१९) अश्राद्धभोजी इति च इष्यते ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१२/१९) एवम् तर्हि नञः एव अयम् भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः ॒ न भोजी श्राद्धस्य इति ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१३/१९) सः तर्हि असमर्थसमासः वक्तव्यः ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१४/१९) यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१५/१९) कानि ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१६/१९) असूर्यम्पश्यानि मुखानि ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१७/१९) अपूर्वगेयाः श्लोकाः ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१८/१९) अश्राद्धभोजी ब्राह्मणः ।

(पा-३,२.८०; अकि-२,१०९.१२-२०; रो-३,२४७-२४८; भा-१९/१९) सुट् अनपुंसकस्य इति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१/३३) आत्मग्रहणम् किमर्थम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२/३३) परमाने मा भूत् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-३/३३) क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-४/३३) किम् कारणम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-५/३३) आत्मनः इति इयम् कर्तरि षष्ठी मानः इति अकारः भावे ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-६/३३) सः यदि एव आत्मानम् मन्यते अथ अपि परम् आत्मनः एव असौ मानः भवति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-७/३३) न एषः दोषः ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-८/३३) आत्मनः इति कर्मणि षष्ठी ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-९/३३) कथम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१०/३३) कर्तृकर्मणोः कृति इति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-११/३३) ननु च कर्तरि अपि वै एतेन एव विधीयते ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१२/३३) तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१३/३३) एवम् तर्हि कर्मकर्तरि च ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१४/३३) कर्मकर्तरि च इति वक्तव्यम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१५/३३) तत् तर्हि वक्तव्यम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१६/३३) न वक्तव्यम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१७/३३) आत्मनः इति कर्मणि षष्ठी ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१८/३३) कथम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-१९/३३) कर्तृकर्मणोः कृति इति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२०/३३) ननु च उक्तम् कर्तरि अपि वै एतेन एव विधीयते ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२१/३३) तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२२/३३) आत्मग्रहणसामर्थ्यात् कर्मणि विज्ञास्यते ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२३/३३) एवम् अपि कर्मकर्तृग्रहणम् कर्तव्यम् कर्मापदिष्टः यक् यथा स्यात् श्यन् मा भूत् इति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२४/३३) कः च अत्र विशेषः यकः वा श्यनः वा ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२५/३३) यकि सति अन्तोदात्तत्वेन भवितयम् श्यनि सति आद्युदात्तत्वेन ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२६/३३) श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२७/३३) कथम् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२८/३३) खशः स्वरः श्यनः स्वरम् बाधिष्यते ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-२९/३३) सति शिष्टत्वात् श्यनः स्वरः प्राप्नोति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-३०/३३) आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरम् न बाधते इति यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-३१/३३) लसार्वधातुके एतत् ज्ञापकम् स्यात् ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-३२/३३) न इति आह ।

(पा-३,२.८३; अकि-२,१०९.२२-११०.१६; रो-३,२४८-२५०; भा-३३/३३) अविशेषेण ज्ञापकम् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१/५५) भूते इति उच्यते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२/५५) कस्मिन् भूते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३/५५) काले ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४/५५) न वै कालाधिकारः अस्ति ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-५/५५) एवम् तर्हि धातोः इति वर्तते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-६/५५) धातौ भूते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-७/५५) धातुः वै शब्दः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-८/५५) न च शब्दस्य भूतभविष्यद्वर्तमानतायाम् सम्भवः अस्ति ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-९/५५) शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१०/५५) कः पुनः धात्वर्थः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-११/५५) क्रिया ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१२/५५) क्रियायाम् भूतायाम् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१३/५५) यदि एवम् निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१४/५५) निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१५/५५) का इतरेतराश्रयता ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१६/५५) भूतकालेन शब्देन निर्देशः क्रियते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१७/५५) निर्देशोत्तरकालम् च भूतकालता ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१८/५५) तत् एतत् इतरेतराश्रयम् भवति ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-१९/५५) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२०/५५) अव्ययनिर्देशात् सिद्धम् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२१/५५) अव्ययवता शब्देन निर्देशः करिष्यते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२२/५५) अवर्तमाने अभविष्यति इति ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२३/५५) सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२४/५५) न कर्तव्यः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२५/५५) अव्ययम् एषः भूतेशब्दः न भवतेः निष्ठा ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२६/५५) कथम् अव्ययत्वम् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२७/५५) विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२८/५५) निपातम् अव्ययम् इति अवययसञ्ज्ञा ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-२९/५५) अथ अपि भवतेः निष्ठा एवम् अपि अवययम् एव ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३०/५५) कथम् न व्येति इति अव्ययम् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३१/५५) क्व पुनः न व्येति ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३२/५५) एतौ कालविशेषौ वर्तमानभविष्यन्तौ ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३३/५५) स्वभावतः भूते एव वर्तते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३४/५५) यदि तत्रि न व्येति इति अव्ययम् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३५/५५) न वा तद्विधानस्य अन्यत्र अभावात् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३६/५५) न वा भूताधिकारेण अर्थः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३७/५५) किम् कारणम् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३८/५५) तद्विधानस्य अन्यत्र अभावात् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-३९/५५) ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४०/५५) स्वभावतः एव ते भूते एव वर्तन्ते ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४१/५५) अतः उत्तरम् पठति ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४२/५५) भूताधिकारस्य प्रयोजनम् कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुनवन्तः सुषुपुषः अनेहाः अग्निम् आदधानस्य ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४३/५५) कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४४/५५) आखुहा बिडालः इति भविष्यद्वर्तमानार्थः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४५/५५) इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४६/५५) सुत्वानः सुन्वन्तः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४७/५५) यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४८/५५) सुषुपुषः ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-४९/५५) नजिङ् सर्वकालपवादः मा भूत् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-५०/५५) अनेहाः इति वर्तमानकालः एव ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-५१/५५) अन्यत्र अनाहन्ता ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-५२/५५) आदधानस्य ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-५३/५५) कानचः चानश् ताच्छीलादिषु सर्वकालापवादः मा भूत् ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-५४/५५) अग्निम् आदधानस्य ।

(पा-३,२.८४; अकि-२,१११.२-११२.४; रो-३,२५०-२५४; भा-५५/५५) आदधानस्य इति एव अन्यत्र ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-१/१३) किमर्थम् ब्रह्मादिषु हन्तेः क्विप् विधीयते ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-२/१३) न क्विप् च अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-३/१३) ब्रह्मादिषु हन्तेः क्विब्वचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-४/१३) ब्रह्मादिषु एव हन्तेः क्विप् यथा स्यात् ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-५/१३) किम् अविशेषेण ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-६/१३) न इति आह ।उपपदविशेषे एतस्मिन् च विशेषे ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-७/१३) अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यम् ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-८/१३) न भवितव्यम् ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-९/१३) किम् कारणम् ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-१०/१३) उभयतः नियमात् ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-११/१३) उभयतः नियमः अयम् ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-१२/१३) ब्रह्मादिषु एव हन्तेः क्विप् भवति ।

(पा-३,२.८७; अकि-२,११२.६-१५; रो-३,२५४-२५५; भा-१३/१३) क्विप् एव च ब्रह्मादिषु इति ।

(पा-३,२.९३; अकि-२,११२.१७-१८; रो-३,२५५; भा-१/४) कर्मणि कुत्सिते ।

(पा-३,२.९३; अकि-२,११२.१७-१८; रो-३,२५५; भा-२/४) कर्मणि कुत्सिते इति वक्तव्यम् ।

(पा-३,२.९३; अकि-२,११२.१७-१८; रो-३,२५५; भा-३/४) इह मा भूत् ।

(पा-३,२.९३; अकि-२,११२.१७-१८; रो-३,२५५; भा-४/४) धान्यविक्रायः ।

(पा-३,२.१०१; अकि-२,११२.२०-२१; रो-३,२५६; भा-१/२) अन्येभ्यः अपि दृश्यते इति वक्तव्यम् , इह अपि यथा स्यात् ।

(पा-३,२.१०१; अकि-२,११२.२०-२१; रो-३,२५६; भा-२/२) आखा उत्खा परिखा ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१/३८) निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२/३८) निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३/३८) का इतरेतराश्रयता ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-४/३८) सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यम् सञ्ज्ञया च क्तक्तवतू भाव्येते ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-५/३८) तत् एतत् इतरेतराश्रयम् भवति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-६/३८) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-७/३८) द्विः वा क्तक्तव्तुग्रहणम् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-८/३८) द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-९/३८) क्तक्तव्तू भूते ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१०/३८) क्तक्तवतू निष्ठा इति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-११/३८) यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत ॒ क्तक्तव्तू भूते ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१२/३८) ततः निष्ठा ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१३/३८) निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१४/३८) किम् कृतम् भवति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१५/३८) द्विः वा क्तक्तव्तुग्रहणम् न कर्तव्यम् भवति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१६/३८) एवम् अपि तौ इति वक्तव्यम् स्यात् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१७/३८) वक्ष्यति हि एतत् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१८/३८) तौ सत् इति वचनम् असंसर्गार्थम् इति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-१९/३८) असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२०/३८) ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२१/३८) यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२२/३८) न एवम् शक्यम् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२३/३८) दृष्टश्रुतयोः न स्यात् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२४/३८) ञिमिदा मिन्नः ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२५/३८) तस्मात् न एवम् शक्यम् ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२६/३८) न चेत् एवम् द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् इतरेतराश्रयम् वा भवति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२७/३८) न एषः दोषः ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२८/३८) इतरेतराश्रयमात्रम् एतत् भवति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-२९/३८) सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३०/३८) न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३१/३८) न हि सञ्ज्ञा नित्या ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३२/३८) एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३३/३८) तत् यथा ॒ कः चित् कम् चित् तन्तुवायम् आह ॒ अस्य सूत्रस्य शाटकम् वय इति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३४/३८) सः पश्यति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३५/३८) यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३६/३८) शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३७/३८) सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

(पा-३,२.१०२.१; अकि-२,११३.२-२२; रो-३,२५६-२५७; भा-३८/३८) एवम् इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१/२८) आदिकर्मणि निष्ठा ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२/२८) आदिकर्मणि निष्ठा वक्तव्या ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-३/२८) प्रकृतः कटम् देवदत्तः ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-४/२८) किम् पुनः कारणम् न सिध्यति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-५/२८) यत् वा भवन्त्यर्थे ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-६/२८) यत् वा भवन्त्यर्थे भाष्यते ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-७/२८) प्रकृतः कटम् देवदत्तः ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-८/२८) प्रकरोति कटम् देवदत्तः इति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-९/२८) न्याय्या तु आद्यपवर्गात् ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१०/२८) न्याय्या तु एषा भूतकालता ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-११/२८) कुतः ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१२/२८) आद्यपवर्गात् ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१३/२८) आदिः अत्र अपवृक्तः ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१४/२८) एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१५/२८) वा च अद्यतन्याम् ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१६/२८) वा च अद्यतन्याम् भाष्यते ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१७/२८) प्रकृतः कटम् देवदत्तः ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१८/२८) प्राकार्षीत् कटम् देवदत्तः इति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-१९/२८) किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२०/२८) न अवश्यम् प्रयोगात् एव ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२१/२८) क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२२/२८) सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२३/२८) तत् यथा ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२४/२८) कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२५/२८) न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२६/२८) यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२७/२८) एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति ।

(पा-३,२.१०२.२; अकि-२,११३.२४-११४.१५; रो-३,२५८-२५९; भा-२८/२८) यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-१/१४) किमर्थम् कानच्क्वसोः वावचनम् क्रियते ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-२/१४) कानच्क्वसोः वावचनम् छन्दसि तिङः दर्शनात् ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-३/१४) कानच्क्वसोः वावचनम् क्रियते छन्दसि तिङः दर्शनात् ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-४/१४) छन्दसि तिङ् अपि दृश्यते ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-५/१४) अहम् सूरम् उभयतः ददर्श ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-६/१४) अहम् द्यावापृथिवी आततान ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-७/१४) न वा अनेन विहितस्य आदेशवचनात् ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-८/१४) न वा एतत् प्रयोजनम् अस्ति ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-९/१४) किम् कारणम् ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-१०/१४) अनेन विहितस्य आदेशवचनात् ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-११/१४) अस्तु अनेन विहितस्य आदेशः ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-१२/१४) केन इदानीम् छन्दसि विहितस्य लिटः श्रवणम् भविष्यति ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-१३/१४) छन्दसि लुङ्लङ्लिटः इति अनेन ।

(पा-३,२.१०६-१०७.१; अकि-२,११४.१९-११५.२; रो-३,२६०; भा-१४/१४) तत् एतत् वावचनम् तिष्ठतु तावत् सान्न्यासिकम् ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-१/१४) अथ कित्करणम् किमर्थम् न असंयोगात् लिट् कित् इति एव सिद्धम् ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-२/१४) कित्कररणम् संयोगार्थम् ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-३/१४) कित्कररणम् क्रियते संयोगार्थम् ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-४/१४) संयोगान्ताः प्रयोजयन्ति ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-५/१४) वृत्रस्य यत् बद्बधानस्य रोदसी ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-६/१४) त्वम् अर्णवान् बद्बधानां अरम्णाः ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-७/१४) अञ्जेः आजिवान् इति ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-८/१४) छान्दसौ कानच्क्वसू ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-९/१४) लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-१०/१४) तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्त्वात् लुपधालोपः भविष्यति । ऋ̄कारान्तगुणप्रतिषेधार्थम् वा ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-११/१४) ऋ̄कारान्तगुणप्रतिषेधार्थम् तर्हि कित्करणम् कर्तव्यम् ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-१२/१४) अयम् लिटि ऋ̄कारान्तानाम् प्रतिषेधविषये गुणः आरभ्यते ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-१३/१४) सः यथा एव इह प्रतिषेधम् बाधित्वा गुणः भवति तेरतुः तेरुः एवम् इह अपि स्यात् तितीर्वान् तिरिराणः ।

(पा-३,२.१०६-१०७.२; अकि-२,११५.३-८; रो-३,२६०-२६१; भा-१४/१४) पुनः कित्करणा प्रतिषिध्यते ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१/३६) भाषायाम् सदादिभ्यः वा लिट् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२/३६) भाषायाम् सदादिभ्यः वा लिट् वक्तव्यः ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३/३६) किम् प्रयोजनम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-४/३६) तद्विषये लुङः अनिवृत्त्यर्थम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-५/३६) तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-६/३६) उपसेदिवान् कौत्सः पाणिनिम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-७/३६) उपासदत् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-८/३६) अनद्यतनपरोक्षयोः च ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-९/३६) अनद्यतनपरोक्षयोः च वा लिट् वक्तव्यः ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१०/३६) उपसेदिवान् कौत्सः पाणिनिम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-११/३६) उपासीदत् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१२/३६) उपससाद ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१३/३६) अपवादविप्रतिषेधात् हि तयोः भावः ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१४/३६) अपवादविप्रतिषेधात् हि तौ स्याताम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१५/३६) कौ ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१६/३६) लङ्लिटौ ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१७/३६) तस्य क्वसुः अपरोक्षे नित्यम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१८/३६) तस्य लिटः भाषायाम् क्वसुः अपरोक्षे नित्यम् इति वक्तव्यम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-१९/३६) अपरोक्षग्रहणेन न अर्थः ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२०/३६) तस्य क्वसुः नित्यम् इति एव ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२१/३६) केन इदानीम् लिटः परोक्षे श्रवणम् भविष्यति ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२२/३६) परोक्षे लिट् इति अनेन ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२३/३६) तत् तर्हि वक्तव्यम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२४/३६) न वक्तव्यम् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२५/३६) अनुवृत्तिः करिष्यते ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२६/३६) भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२७/३६) ततः लुङ् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२८/३६) लुङ् भवति भूते काले ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-२९/३६) भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३०/३६) ततः अनद्यतने लङ् ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३१/३६) अनद्यतने भूते काले लङ् भवति ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३२/३६) भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३३/३६) परोक्षे लिट् भवति ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३४/३६) भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३५/३६) तत्र अयम् अपि अर्थः ।

(पा-३,२.१०८; अकि-२,११५.१४-११६.१०; रो-३,२६१-२६३; भा-३६/३६) तस्य क्वसुः अपरोक्षे नित्यम् इति एतत् न वक्तव्यम् भवति ।