व्याकरणमहाभाष्य खण्ड 39

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१/४०) भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२/४०) भविष्यति इति अनद्यतने उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३/४०) श्वः ग्रामम् गमी ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-४/४०) किम् पुनः कारणम् न सिध्यति ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-५/४०) लृटा अयम् निर्देशः कृइयते ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-६/४०) लृट् च अनद्यतने लुटा बाध्यते ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-७/४०) तेन लृटः एव विषये एते प्रत्ययाः स्युः ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-८/४०) लुटः विषये न स्युः ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-९/४०) इतरेतराश्रयम् च ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१०/४०) इतरेतराश्रयम् च भवति ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-११/४०) का इतरेतराश्रयता ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१२/४०) भविष्यत्कालेन शब्देन निर्देशः क्रियते ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१३/४०) निर्देशोत्तरकालम् च भ्भविष्यत्कालता ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१४/४०) तत् एतत् इतरेतराश्रयम् भवति ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१५/४०) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१६/४०) उक्तम् वा ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१७/४०) किम् उक्तम् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१८/४०) एकम् तावत् उक्तम् न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-१९/४०) अपरम् अपि उक्तम् अव्ययनिर्देशात् सिद्धम् इति. अव्ययवता शब्देन निर्देशः करिष्यते ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२०/४०) अवर्तमाने अभूते इति ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२१/४०) सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२२/४०) न कर्तव्यः ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२३/४०) अव्ययम् एषः भविष्यतिशब्दः न एषा भवतेः लृट् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२४/४०) कथम् अव्ययत्वम् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२५/४०) विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२६/४०) निपातम् अव्ययम् इति अवययसञ्ज्ञा ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२७/४०) अथ अपि भवतेः लृट् एवम् अपि अवययम् एव ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२८/४०) कथम् न व्येति इति अव्ययम् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-२९/४०) क्व पुनः न व्येति ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३०/४०) एतौ कालविशेषौ भूतवर्तमानौ ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३१/४०) स्वभावतः भविष्यति एव वर्तते ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३२/४०) यदि तत्रि न व्येति इति अव्ययम् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३३/४०) न वा तद्विधानस्य अन्यत्र अभावात् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३४/४०) न वा भविष्यदाधिकारेण अर्थः ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३५/४०) किम् कारणम् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३६/४०) तद्विधानस्य अन्यत्र अभावात् ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३७/४०) ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३८/४०) स्वभावतः एव ते भविष्यति एव वर्तन्ते ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-३९/४०) अतः उत्तरम् पठति ।

(पा-३,३.३; अकि-२,१३९.२-२१; रो-३,३१२-३१३; भा-४०/४०) भविष्यदधिकारस्य प्रयोजनम् यावत् पचति पुरा पचति इति अनपशब्दत्वाय ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-१/१४) यावत्पुरादिषु लड्विधिः लुटः पूर्वविप्रतिषिद्धम् । यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-२/१४) यावत्पुरानिपातयोः लट् भवति इति अस्य अवकाशः ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-३/१४) यावत् भुङ्क्ते ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-४/१४) पुरा भुङ्क्ते ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-५/१४) लुटः अवकाशः ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-६/१४) श्वः कर्ता ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-७/१४) श्वः अध्येता ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-८/१४) इह उभयम् प्राप्नोति ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-९/१४) यावत् श्वः भुङ्क्ते ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-१०/१४) पुरा श्वः भुङ्क्ते ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-११/१४) लट् भवति विप्रतिषेधेन ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-१२/१४) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-१३/१४) न वक्तव्यः ।

(पा-३,३.४; अकि-२,१३९.२३-१४०.४; रो-३,३१४; भा-१४/१४) अनद्यतने लुट् इति अत्र यावत्पुरानिपातयोः लट् इति अनुवर्तिष्यते ।

(पा-३,३.७; अकि-२,१४०.६-८; रो-३,३१४; भा-१/४) किमर्थम् इदम् उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायाम् इति एव सिद्धम् ।

(पा-३,३.७; अकि-२,१४०.६-८; रो-३,३१४; भा-२/४) अकिंवृत्तार्थः अयम् आरम्भः ।

(पा-३,३.७; अकि-२,१४०.६-८; रो-३,३१४; भा-३/४) यः भवताम् ओदनम् ददाति सः स्वर्गम् लोकम् गच्छति ।

(पा-३,३.७; अकि-२,१४०.६-८; रो-३,३१४; भा-४/४) यः भवताम् ओदनम् दास्यति सः स्वर्गम् लोकम् गमिष्यति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१/४५) किमर्थम् क्रियायाम् उपपदे क्रियार्थायाम् ण्वुल् विधीयते न अविशेषेण विहितः ण्वुल् सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२/४५) ण्वुलि सकर्मकग्रहणम् चोदितम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३/४५) अकरमकार्थः अयम् आरम्भः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-४/४५) आसकः व्रजति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-५/४५) शायकः व्रजति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-६/४५) प्रत्याख्यातम् तत् न वा धातुमात्रात् दर्शनात् ण्वुलः इति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-७/४५) एवम् तर्हि तृजादिषु वर्तमानकालोपादानम् चोदितम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-८/४५) अवर्तमानकालार्थः अयम् आरम्भः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-९/४५) तत् अपि प्रत्याख्यातम् न वा कालमात्रे दर्शनात् अन्येषाम् इति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१०/४५) इदम् तर्हि प्रयोजनम्. अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-११/४५) सः यथा स्यात् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१२/४५) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१३/४५) यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१४/४५) एवम् तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१५/४५) इह मा भूत् ॒ अङ्ग यजताम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१६/४५) लप्स्यन्ते अस्य याजकाः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१७/४५) ये एनम् याजययिष्यन्ति इति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१८/४५) न एषः भविष्यत्कालः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-१९/४५) कः तर्हि ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२०/४५) भूतकालः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२१/४५) कथम् तर्हि भविष्यत्कालता गम्यते ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२२/४५) धातुसम्बन्धे प्रत्ययाः इति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२३/४५) यः तर्हि न धातुसम्बन्धः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२४/४५) इमे अस्य याजकाः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२५/४५) इमे अस्य लावकाः इति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२६/४५) एषः अपि भूतकालः ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२७/४५) कथम् तर्हि भविष्यत्कालता गम्यते ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२८/४५) सम्बन्धात् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-२९/४५) सः च तावत् तैः अयाजितः भवति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३०/४५) तस्य च तावत् तैः यवाः अलूनाः भवन्ति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३१/४५) उच्यते च ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३२/४५) इदम् तर्हि प्रयोजनम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३३/४५) अयम् क्रियायाम् उपप्दे क्रियार्थायाम् तुमुन् विधीयते ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३४/४५) सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३५/४५) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३६/४५) भावे तुमुन् विधीयते कर्तरि ण्वुल् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३७/४५) तत्र कः प्रसङ्गः यत् भावे विहितः तुमुन् कर्तरि विहितम् ण्वुलम् बाधेत ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३८/४५) लृट् तर्हि बाधेत ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-३९/४५) वासरूपेण भविष्यति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-४०/४५) अतः उत्तरम् पठति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-४१/४५) ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् तृजादिप्रतिषेधार्थम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-४२/४५) ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् क्रियते ज्ञापकार्थम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-४३/४५) किम् ज्ञाप्यम् ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-४४/४५) एतत् ज्ञापयति आचार्यः क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

(पा-३,३.१०; अकि-२,१४०.१०-१४१.६; रो-३,३१४-३१६; भा-४५/४५) ण्वुल् अपि तृजादिः ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१/१७) किमर्थम् इदम् उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-२/१७) भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थम् ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-३/१७) भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थः अयम् आरम्भः ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-४/१७) इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-५/१७) भाववचनाः च अपि तृजादयः ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-६/१७) अस्ति प्रयोजनम् एतत् ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-७/१७) किम् तर्हि इति ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-८/१७) यथाविहिताः इति तु वक्तव्यम् ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-९/१७) किम् प्रयोजनम् ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१०/१७) इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् यथा स्युः ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-११/१७) व्यतिकरः मा भूत् इति ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१२/१७) तत् तर्हि वक्तव्यम् ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१३/१७) न वक्तव्यम् ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१४/१७) इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धम् ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१५/१७) सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् वाचकाः यथा स्युः इति ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१६/१७) यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् भवन्ति ततः अमी वाचकाः कृताः स्युः ।

(पा-३,३.११; अकि-२,१४१.८-२०; रो-३,३१६-३१७; भा-१७/१७) अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवाचकाः कृताः स्युः ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१/२९) किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२/२९) अणः पुनर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-३/२९) अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-४/२९) गोदायः व्रजति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-५/२९) कम्बलदायः व्रजति इति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-६/२९) किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-७/२९) इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-८/२९) अण् च अपि तृजादिः ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-९/२९) एवम् तर्हि उभयम् अनेन क्रियते ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१०/२९) अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-११/२९) कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१२/२९) लभ्यम् इति आह ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१३/२९) कथम् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१४/२९) कर्मग्रहणसामर्थ्यात् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१५/२९) कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१६/२९) वचनग्रहणम् प्रकृतम् अनुवर्तते ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१७/२९) अस्ति प्रयोजनम् एतत् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१८/२९) किम् तर्हि इति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-१९/२९) अपर्यायेण इति तु वक्तव्यम् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२०/२९) कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२१/२९) तत् तर्हि वक्तव्यम् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२२/२९) न वक्तव्यम् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२३/२९) चेन सन्नियोगः करिष्यते ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२४/२९) अण् कर्मणि च ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२५/२९) किम् च अन्यत् ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२६/२९) क्रियायाम् उपपदे क्रियार्थायाम् इति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२७/२९) एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२८/२९) चेन एव सन्नियोगः करिष्यते ।

(पा-३,३.१२; अकि-२,१४१.२२-१४२.१३; रो-३,३१७-३१८; भा-२९/२९) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१/३३) शेषवचनम् किमर्थम् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२/३३) लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् । लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविध्यर्थम् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-३/३३) प्रतिपदविधिः यथा स्यात् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-४/३३) अविशेषेण विधाने लृटः अभावः प्रतिषिद्धत्वात् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-५/३३) अविशेषेण विधाने लृटः अभावः स्यात् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-६/३३) करिष्यामि इति व्रजति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-७/३३) हरिष्यामि इति व्रजति इति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-८/३३) किम् कारणम् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-९/३३) प्रतिषिद्धत्वात् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१०/३३) इदानीम् एव हि उक्तम् क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-११/३३) लृट् च अपि तृजादिः ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१२/३३) अस्ति प्रयोजनम् एतत् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१३/३३) किम् तर्हि इति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१४/३३) साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात् लृट् निर्भज्यते ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१५/३३) किम् कारणम् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१६/३३) अक्रियार्थोपपदत्वात् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१७/३३) शेषे इति उच्यते ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१८/३३) शेषः च कः ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-१९/३३) यत् अन्यत् क्रियायाः क्रियार्थायाः ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२०/३३) एवम् तर्हि लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२१/३३) लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविधिः यथा स्यात् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२२/३३) लृट् शेषे च ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२३/३३) करिष्यति हरिष्यति इति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२४/३३) क्व च ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२५/३३) क्रियायाम् उपपदे क्रियार्थायाम् इति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२६/३३) सः तर्हि चकारः कर्तव्यः ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२७/३३) न कर्तव्यः ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२८/३३) इह लृट् भवति इति इयता सिद्धम् ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-२९/३३) सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-३०/३३) सति च योगाङ्गे योगविभागः करिष्यते ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-३१/३३) लृट् भवति क्रियायाम् उपपदे क्रियार्थायाम् इति ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-३२/३३) ततः शेषे ।

(पा-३,३.१३; अकि-२,१४२.१५-१४३.५; रो-३,३१८-३१९; भा-३३/३३) शेषे च लृट् भवति इति ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-१/८) सद्विधिः नित्यम् अप्रथमासमानाधिकरणे ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-२/८) सद्विधिः अप्रथमासमानाधिकरणे नित्यम् इति वक्तव्यम् ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-३/८) पक्ष्यन्तम् पश्य ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-४/८) पक्ष्यमाणम् पश्य ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-५/८) क्व तर्हि इदानीम् विभाषा ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-६/८) प्रथमासमानाधिकरणे ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-७/८) पाक्ष्यन् पक्ष्यति ।

(पा-३,३.१४; अकि-२,१४३.७-१०; रो-३,३२०; भा-८/८) पक्ष्यमाणः पक्ष्यते ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-१/११) योगविभागः कर्तव्यः ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-२/११) अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-३/११) श्वः अग्नीन् आध्यास्यमानेन ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-४/११) श्वः सोमेन यक्ष्यमाणेन ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-५/११) ततः लुट् ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-६/११) लुट् भवति अनद्यतने ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-७/११) श्वः कर्ता ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-८/११) श्वः अध्येता ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-९/११) केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-१०/११) एतत् एव ज्ञापयति भवति अनद्यतने लृट् इति यत् अयम् अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति ।

(पा-३,३.१५.१; अकि-२,१४३.१२-१६; रो-३,३२०; भा-११/११) एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-१/११) परिदेवने श्वस्तनीभविष्यन्त्यर्थे ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-२/११) परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यम् ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-३/११) इयम् नु कदा गन्ता या एवम् पादौ निदधाति ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-४/११) अयम् नु कदा अध्येता यः एवम् अनभियुक्तः इति ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-५/११) कालप्रकर्षात् तु उपमानम् ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-६/११) कालप्रकर्षात् तु उपमानम् ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-७/११) गन्ता इव इयम् गन्ता ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-८/११) न इयम् गमिष्यति ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-९/११) अध्येता इव अयम् अध्येता ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-१०/११) न वै तिङन्तेन उपमानम् अस्ति ।

(पा-३,३.१५.२; अकि-२,१४३.१७-२३; रो-३,३२०-३२१; भा-११/११) एवम् तर्हि अनद्यतने इव अनद्यतने इति ।

(पा-३,३.१६; अकि-२,१४४.२-३; रो-३,३२१; भा-१/४) स्पृशः उपतापे ।

(पा-३,३.१६; अकि-२,१४४.२-३; रो-३,३२१; भा-२/४) स्पृशः उपतापे इति वक्तव्यम् ।

(पा-३,३.१६; अकि-२,१४४.२-३; रो-३,३२१; भा-३/४) इह मा भूत् ।

(पा-३,३.१६; अकि-२,१४४.२-३; रो-३,३२१; भा-४/४) कम्बलस्पर्शः इति

(पा-३,३.१७; अकि-२,१४४.५-६; रो-३,३२१; भा-१/५) वाधिमत्स्यबलेषु इति वक्तव्यम् ।

(पा-३,३.१७; अकि-२,१४४.५-६; रो-३,३२१; भा-२/५) अतीसारः व्याधिः ।

(पा-३,३.१७; अकि-२,१४४.५-६; रो-३,३२१; भा-३/५) विसारः मत्स्यः ।

(पा-३,३.१७; अकि-२,१४४.५-६; रो-३,३२१; भा-४/५) बले ।

(पा-३,३.१७; अकि-२,१४४.५-६; रो-३,३२१; भा-५/५) शालसारः खदिरसारः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१/३५) भावे सर्वलिङ्गनिर्देशः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२/३५) भावे सर्वलिङ्गनिर्देशः कर्तव्यः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-३/३५) भूतौ भवने भावे इति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-४/३५) किम् प्रयोजनम् ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-५/३५) सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-६/३५) किम् पुनः कारणम् न सिध्यति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-७/३५) पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनेन च ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-८/३५) तेन् पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-९/३५) स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१०/३५) न अत्र निर्देशः तन्त्रम् ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-११/३५) कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१२/३५) तत्कारी च भवान् तद्द्वेषी च ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१३/३५) नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१४/३५) अवश्यम् कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१५/३५) तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१६/३५) सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१७/३५) तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१८/३५) सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-१९/३५) एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२०/३५) न हि अत्र निर्देशः तन्त्रम् ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२१/३५) कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२२/३५) अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२३/३५) यत् च अत्र पचतेः भवतिः भवति न तत् भवतेः पचतिः भवति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२४/३५) यत् च भवतेः पचतिः भवति न तत् पचतेः भवतिः भवति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२५/३५) किम् च पचतेः भवतिः भवति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२६/३५) सामान्यम् ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२७/३५) किम् च भवतेः पचतिः भवति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२८/३५) विशेषः ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-२९/३५) तत् यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयम् गत्वा आह ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-३०/३५) उपाध्यायम् भवान् अभिवादयताम् इति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-३१/३५) सः गत्वा मातुलम् अभिवादयते ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-३२/३५) तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यम् गत्वा आह ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-३३/३५) मातुलम् भवान् अभिवादयताम् इति ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-३४/३५) सः गत्वा उपाध्यायम् अभिवादयते ।

(पा-३,३.१८; अकि-२,१४४.८-१४५.३; रो-३,३२३-३२४; भा-३५/३५) एवम् इह अपि पचतेः भवतौ यत् तत् निर्दिश्यते ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१/६०) कारकग्रहणम् किमर्थम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२/६०) कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३/६०) कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४/६०) अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५/६०) तत् यथा ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-६/६०) गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-७/६०) एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-८/६०) स्वार्थे मा भूवन् कारके यथा स्युः इति एवमर्थम् इदम् उच्यते ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-९/६०) न एतत् अस्ति प्रयोजनम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१०/६०) विहितः प्रत्ययः स्वार्थे भावे घञ् इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-११/६०) तेन अत्रिप्रसक्तम् इति कृत्वा नियमार्थः अयम् विज्ञायेत ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१२/६०) अकर्तरि सञ्ज्ञायाम् एव इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१३/६०) अस्ति च इदानीम् कः चित् सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१४/६०) अस्ति इति आह ॒ आवाहः , विवाहः इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१५/६०) कैमर्थक्यात् नियमः भवति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१६/६०) विधेयम् न अस्ति इति कृत्वा ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१७/६०) इह च अस्ति विधेयम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१८/६०) अकर्तरि च कारके सञ्ज्ञायाम् घञ् विधेयः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-१९/६०) तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२०/६०) तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२१/६०) ननु च उक्तम् विहितः प्रत्ययः स्वार्थे भावे घञ् इति इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२२/६०) अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२३/६०) अनेन इदानीम् आभ्यन्तरे भावे स्यात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२४/६०) कः पुनः एतयोः भावयोः विशेषः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२५/६०) उक्तः भावभेदः भाष्ये ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२६/६०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२७/६०) नञिवयुक्तम् अन्यसदृशाधिकरणे ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२८/६०) तथा हि अर्थगतिः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-२९/६०) नञ्युक्तम् इवयुक्तम् च अस्न्यस्मिन् तत्सदृशे कार्यम् विज्ञयते ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३०/६०) तथा हि अर्थः गम्यते ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३१/६०) तत् यथा ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३२/६०) अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् पुरुषम् आनयति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३३/६०) न असौ लोष्टम् आनीय कृती भवति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३४/६०) एवम् इह अपि अकर्तरि इति कर्तृप्रतिषेधात् अन्यस्मिन् अकर्तरि कर्तृसदृशे कार्यम् विज्ञस्यते ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३५/६०) किम् च अन्यत् अकर्तृ कर्तृसदृशम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३६/६०) कारकम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३७/६०) उत्तरार्थम् तर्हि कारकग्रहणम् कर्तव्यम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३८/६०) परिमाणाख्यायाम् सर्वेभ्यः कारके यथा स्यात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-३९/६०) इह मा भूत् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४०/६०) एका तिलोच्छ्रितिः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४१/६०) देवे सृती इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४२/६०) घञनुक्रमणम् अजब्विषये अवचने हि स्त्रीप्रत्ययानाम् अपि अवादविज्ञानम् इति वक्ष्यति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४३/६०) तत् न वक्तव्यम् भवति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४४/६०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४५/६०) अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४६/६०) सञ्ज्ञाग्रहणानर्थक्यम् च सर्वत्र घञः दर्शनात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४७/६०) सञ्ज्ञाग्रहणम् च अनर्थकम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४८/६०) किम् कारणम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-४९/६०) सर्वत्र घञः दर्शनात् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५०/६०) असञ्ज्ञायाम् अपि हि घञ् दृश्यते ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५१/६०) कः भवता दायः दत्तः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५२/६०) कः भवता लाभः लब्धः इति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५३/६०) यदि सञ्ज्ञाग्रहणम् न क्रियते अतिप्रसङ्गः भवति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५४/६०) कृतः कटः इति अत्र कारः कट इति प्राप्नोति ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५५/६०) अतिप्रसङ्गः इति चेत् अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५६/६०) अतिप्रसङ्गः इति चेत् तत् न ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५७/६०) किम् कारणम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५८/६०) अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-५९/६०) अभिधानलक्षणाः कृत्तद्धितसमादाः ।

(पा-३,३.१९; अकि-२,१४५.५-१४६.७; रो-३,३२५-३२७; भा-६०/६०) अनभिधानात् न भविष्यन्ति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१/५३) सर्वग्रहणम् किमर्थम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२/५३) सर्वेभ्यः धातुभ्यः घञ् यथा स्यात् अजपोः अपि विषये ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३/५३) एकः तण्डुलनिश्चायः ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४/५३) द्वौ शूर्पनिष्पावौ ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-५/५३) सर्वग्रहणम् अनर्थकम् परिमाणाख्यायम् इति सिद्धत्वात् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-६/५३) सर्वग्रहणम् अनर्थकम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-७/५३) किम् कारणम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-८/५३) परिमाणाख्यायम् इति सिद्धत्वात् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-९/५३) परिमाणाख्यायम् इति एव घञ् सिद्धः अजपोः अपि विषये ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१०/५३) न अर्थः सर्वग्रहणेन ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-११/५३) अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१२/५३) किम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१३/५३) एकः पाकः द्वौ पाकौ त्रयः पाकाः इति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१४/५३) पूर्वेण अपि एतत् सिद्धम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१५/५३) न सिध्यति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१६/५३) सञ्ज्ञायाम् इति पूर्वः योगः ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१७/५३) न च एषा सञ्ज्ञा ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१८/५३) प्रत्याख्यायते सञ्ज्ञाग्रहणम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-१९/५३) अथ अपि क्रियते एवम् अपि न दोषः ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२०/५३) अजौ अपि सञ्ज्ञायाम् एव ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२१/५३) यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२२/५३) उत्तरार्थम् तर्हि ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२३/५३) इङः च सर्वेभ्यः अपि यथा स्यात् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२४/५३) ननु च अयम् इङ् एकः एव वण्टरण्डाकल्पः ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२५/५३) सर्वेषु साधनेषु यथा स्यात् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२६/५३) उपेत्य अधीयते तस्मात् अध्यायः ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२७/५३) अधीयते तस्मिन् अध्यायः ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२८/५३) अध्यायन्यायायोद्यावसंहारावायाः च इति एतत् निपातनम् न कर्तव्यम् भवति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-२९/५३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३०/५३) क्रियते न्यासे एव ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३१/५३) उत्तराऋथम् एव तर्हि वक्तव्यम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३२/५३) कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यः यथा स्यात् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३३/५३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३४/५३) वक्ष्यति एतत् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३५/५३) कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३६/५३) पृथक् ग्रहणम् बाधकबाधनार्थम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३७/५३) व्यावचोरीव्यावचर्च्यर्थम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३८/५३) तत्र व्यतीक्षादिषु दोषः ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-३९/५३) सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च इति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४०/५३) उत्तरार्थम् तर्हि अभिविधौ भावे इनुण् सर्वेभ्यः यथा स्यात् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४१/५३) सांराविणम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४२/५३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४३/५३) वक्ष्यति एतत् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४४/५३) अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४५/५३) पृथक् ग्रहणम् बाधकबाधार्थम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४६/५३) न तु ल्युट् इति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४७/५३) इदम् तर्हि प्रयोजनम् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४८/५३) प्रकृत्याश्रयः यः अपवादः तस्य बाधनम् यथा स्यात् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-४९/५३) अर्थाश्रयः यः अपवादः तस्य बाधनम् मा भूत् ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-५०/५३) एका तिलोच्छ्रितिः द्वे सृती इति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-५१/५३) घञनुक्रमणम् अजब्विषये ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-५२/५३) अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् इति चोदयिष्यति ।

(पा-३,३.२०.१; अकि-२,१४६.१४७.६; रो-३,३२७-३२९; भा-५३/५३) तत् न वक्तव्यम् भवति ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-१/१२) घञनुक्रमणम् अजब्विषये ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-२/१२) घञनुक्रमणम् अजब्विषये इति वक्तव्यम् ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-३/१२) अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-४/१२) अनुच्यमाने हि एतस्मिन् स्त्रीप्रत्ययानाम् अपि अपवादः अयम् विज्ञयेत ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-५/१२) एका तिलोच्छ्रितिः द्वे सृती इति । दारजारौ कर्तरि णिलुक् च ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-६/१२) दारजारौ कर्तरि वक्तव्यौ णिलुक् च वक्तव्यः ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-७/१२) दारयन्ति इति दाराः ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-८/१२) जरयन्ति इति जाराः ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-९/१२) करणे वा ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-१०/१२) करणे वा वक्तव्यौ ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-११/१२) दीर्यते तैः दाराः ।

(पा-३,३.२०.२; अकि-२,१४७.७-१६; रो-३,३२९-३३०; भा-१२/१२) जीर्यन्ति तैः जाराः ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-१/८) इङः च इति अपादाने स्त्रियाम् उपसङ्ख्यानम् तदन्तात् च वा ङीष् ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-२/८) इङः च इति अत्र अपादाने स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् तदन्तात् च वा ङीष् वक्तव्यः ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-३/८) उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-४/८) शृ̄ वायुवर्णनिवृतेषु ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-५/८) शृ̄ इति एतस्मात् वायुवर्णनिवृतेषु घञ् वक्तव्यः ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-६/८) शारः वायुः ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-७/८) शारः वर्णः ।

(पा-३,३.२१; अकि-२,१४७.१८-२३; रो-३,३३०; भा-८/८) गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-१/११) समि मुष्टौ इति अनर्थकम् वचनम् परिमाणाख्यायाम् इति सिद्धत्वात् ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-२/११) समि मुष्टौ इति एतत् वचनम् अनर्थकम् ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-३/११) किम् कारणम् ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-४/११) परिमाणाख्यायाम् इति सिद्धत्वात् ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-५/११) परिमाणाख्यायाम् इति एव सिद्धम् ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-६/११) अपरिमाणार्थम् तु ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-७/११) अपरिमाणार्थम् तु अयम् आरम्भः ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-८/११) मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-९/११) उद्ग्राभिनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-१०/११) उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः ।

(पा-३,३.३६; अकि-२,१४८.२-९; रो-३,३३१; भा-११/११) उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१/२२) स्त्रीग्रहणम् किमर्थम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-२/२२) कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-३/२२) इह मा भूत् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-४/२२) व्यतिपाकः वर्तते इति ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-५/२२) अथ किमर्थम् पृथक् ग्रहणम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-६/२२) पृथक् ग्रहणम् बाधकबाधनार्थम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-७/२२) पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-८/२२) ये तस्य बाधकाः तद्बाधनार्थम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-९/२२) किम् प्रयोजनम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१०/२२) व्यावचोरीव्यावचर्च्यर्थम् । व्यावचोरी वर्तते ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-११/२२) व्यावचर्ची वर्तते ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१२/२२) तत्र व्यतीक्षादिषु दोषः ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१३/२२) तत्र व्यतीक्षादिषु दोषः भवति ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१४/२२) व्यतीक्षा वर्तते ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१५/२२) व्यतीहा वर्तते ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१६/२२) सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१७/२२) सिद्धम् एतत् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१८/२२) कथम् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-१९/२२) प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-२०/२२) स्त्रियाम् क्तिन् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-२१/२२) ततः कर्मव्यतिहारे णच् ।

(पा-३,३.४३; अकि-२,१४८.११-१४९.३; रो-३,३३१-३३२; भा-२२/२२) ततः णिचः ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-१/९) भावग्रहणम् किमर्थम् ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-२/९) अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-३/९) अभिविधौ भावग्रहणम् क्रियते नपुंसके क्तादिनिवृत्त्यर्थम् ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-४/९) नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-५/९) अथ किमर्थम् पृथक् ग्रहणम् ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-६/९) पृथक् ग्रहणम् बाधकबाधार्थम् ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-७/९) पृथक् ग्रहणम् क्रियते बाधकबाधार्थम् ॒ ये तस्य बाधकाः तद्बाधनार्थम् ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-८/९) न तु ल्युटः । ल्युटः तु बाधनम् न इष्यते ।

(पा-३,३.४४; अकि-२,१४९.५-१२; रो-३,३३२-३३३; भा-९/९) सङ्कूटनम् इति एव भवति ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-१/१५) अज्विधौ भयस्य उपसङ्ख्यानम् ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-२/१५) अज्विधौ भयस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-३/१५) भयम् ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-४/१५) अत्यल्पम् इदम् उच्यते ॒ भयस्य इति ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-५/१५) भयादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् ॒ भयम् वर्षम् ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-६/१५) किम् प्रयोजनम् ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-७/१५) नपुंसके क्तादिनिवृत्त्यर्थम् ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-८/१५) नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-९/१५) कल्पादिभ्यः च प्रतिषेधः ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-१०/१५) कल्पादिभ्यः च प्रतिषेधः वक्तव्यः ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-११/१५) कल्पः अर्थः मन्त्रः ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-१२/१५) जवसवौ छन्दसि ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-१३/१५) जवसवौ छन्दसि वक्तव्यौ ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-१४/१५) ऊर्वोः अस्तु मे जवः ।

(पा-३,३.५६; अकि-२,१४९.१४-१५०.२; रो-३,३३३-३३४; भा-१५/१५) अयम् मे पञ्चौदनः सवः ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१/२५) किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-२/२५) न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-३/२५) तत् एव रूपम् सः एव स्वरः ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-४/२५) न सिध्यति ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-५/२५) हस्तादाने चेः घञ् प्राप्तः ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-६/२५) तद्बाधनार्थम् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-७/२५) अतः उत्तरम् पठति ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-८/२५) अब्विधौ निश्चिग्रहणम् अनर्थकम् स्तेयस्य घञ्विधौ प्रतिषेधात् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-९/२५) अब्विधौ निश्चिग्रहणम् अनर्थकम् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१०/२५) किम् कारणम् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-११/२५) स्तेयस्य घञ्विधौ प्रतिषेधात् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१२/२५) स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१३/२५) निष्पूर्वः चिनोतिः स्तेये वर्तते ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१४/२५) अस्तेयार्थम् तर्हि इदम् वक्तव्यम् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१५/२५) निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१६/२५) अस्तेयार्थम् इति चेत् न अनिष्टत्वात् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१७/२५) अस्तेयार्थम् इति चेत् तत् न ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१८/२५) किम् कारणम् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-१९/२५) अनिष्टत्वात् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-२०/२५) न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-२१/२५) किम् तर्हि घञ् एव इष्यते ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-२२/२५) एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-२३/२५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-२४/२५) निश्चयः ।

(पा-३,३.५८.१; अकि-२,१५०.४-१६; रो-३,३३४-३३५; भा-२५/२५) एषः स्वरः सिद्धः भवति ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१/२६) वशिरण्योः च उपसङ्ख्यानम् ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२/२६) वशिरण्योः च उपसङ्ख्यानम् ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-३/२६) सः वशम् सैन्धवम् ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-४/२६) धनञ्जयः रणे रणे ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-५/२६) घञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम् ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-६/२६) घञर्थे कः विधेयः ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-७/२६) किम् प्रयोजनम् ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-८/२६) स्थास्नापाव्यधिहनियुध्यर्थम् ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-९/२६) स्था ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१०/२६) प्रतिष्ठन्ते अस्मिन् धान्यानि इति प्रस्थः ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-११/२६) प्रस्थे हिमवतः श्र्ङ्गे ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१२/२६) स्था ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१३/२६) स्ना ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१४/२६) प्रस्नान्ति तस्मिन् इति प्रस्नः ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१५/२६) स्ना ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१६/२६) पा ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१७/२६) प्रपिबन्ति अस्याम् इति प्रपा ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१८/२६) पा ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-१९/२६) व्यधि ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२०/२६) आविध्यन्ति तेन आविधम् ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२१/२६) व्यधि ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२२/२६) हनि ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२३/२६) विघ्नन्ति तस्मिन् मनांसि विघ्नः ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२४/२६) हनि ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२५/२६) युधि ।

(पा-३,३.५८.२; अकि-२,१५०.१७-२४; रो-३,३३५; भा-२६/२६) आयुध्यन्ते तेन आयुधम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१/२९) कस्मात् अयम् कः विधीयते ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२/२९) हन्तेः इति आह ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-३/२९) तत् हन्तिग्रहणम् कर्तव्यम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-४/२९) न कर्तव्यम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-५/२९) प्रकृतम् अनुवर्तते ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-६/२९) क्व प्रकृतम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-७/२९) हनः च वधः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-८/२९) तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-९/२९) न एतानि निपातनानि ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१०/२९) हन्तेः एते आदेशाः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-११/२९) यदि आदेशाः घनस्वरः न सिध्यति ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१२/२९) घनः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१३/२९) सन्तु तर्हि निपातनानि ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१४/२९) ननु च उक्तम् तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१५/२९) सम्बन्धम् अनुवर्तिष्यते ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१६/२९) अथ वा पुनः सन्तु आदेशाः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१७/२९) ननु च उक्तम् स्वरः न सिध्यति इति ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१८/२९) न एषः दोषः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-१९/२९) अकारान्तः आदेशः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२०/२९) अथ यदा इषीकया स्तम्बः हन्यते कथम् तत्र भवितव्यम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२१/२९) के चिद् तावत् आहुः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२२/२९) स्तम्बघ्ना इति भवितव्यम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२३/२९) अपरे आहुः ॒ स्तम्बहेतिः इति भवितव्यम् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२४/२९) ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनम् इति ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२५/२९) अपरे आहुः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२६/२९) स्तम्बहननीइति भवितव्यम् इति ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२७/२९) वक्ष्यति एतत् ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२८/२९) अजब्भ्याम् स्त्रीईखलनाः ।

(पा-३,३.८३; अकि-२,१५१.२-११; रो-३,३३६; भा-२९/२९) स्त्रियाः खलनौ विप्रतिषेधेन इति ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-१/१४) यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-२/१४) यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-३/१४) प्रश्नः इति ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-४/१४) एवन् तर्हि आङित् करिष्यते ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-५/१४) अङिति गुणप्रतिषेधः ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-६/१४) यदि अङित् गुणप्रतिषेधः वक्तव्यः ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-७/१४) विश्नः इति ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-८/१४) सूत्रम् च भिद्यते ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-९/१४) यथान्यासम् एव अस्तु ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-१०/१४) ननु च उक्तम् यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-११/१४) न एषः दोषः ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-१२/१४) निपातनात् एतत् सिद्धम् ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-१३/१४) किम् निपातनम् ।

(पा-३,३.९०; अकि-२,१५५१.१३-१९; रो-३,३३६-३३७; भा-१४/१४) प्रश्ने च आसन्नकाले इति ।