व्याकरणमहाभाष्य खण्ड 42

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१/१०८) ङ्याप्प्रातिपदिकग्रहणम् किमर्थम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२/१०८) ङ्याप्प्रातिपदिकात् यथा स्युः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३/१०८) धातोः मा भूवन् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४/१०८) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५/१०८) धातोः तव्यादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६/१०८) ते अपवादत्वात् बाधकाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७/१०८) तिङन्तात् तर्हि मा भूवन् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८/१०८) एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९/१०८) ते च अत्र तिङा उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान् न भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०/१०८) टाबादयः तर्हि तिङन्तात् मा भूवन् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-११/१०८) स्त्रियाम् टाबादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१२/१०८) न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१३/१०८) अणादयः तर्हि तिङन्तात् मा भूवन् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१४/१०८) अपत्यादिष्व् अर्थेषु अणादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१५/१०८) न च तिङन्तस्य अपत्यादिभिः योगः अस्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१६/१०८) अथ अपि कथम् चित् योगः स्यात् एवम् अपि न दोषः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१७/१०८) आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१८/१०८) अतिशायने तमबिष्ठनौ तिङः च इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१९/१०८) अतः उत्तरम् पठति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२०/१०८) ङ्याप्प्रातिपदिकग्रहणम् अङ्गभपदसञ्ज्ञार्थम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२१/१०८) ङ्याप्प्रातिपदिकग्रहणम् क्रियते अङ्गभपदसञ्ज्ञार्थम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२२/१०८) अङ्गभपदसञ्ज्ञाः ङ्याप्प्रातिपदिकस्य यथा स्युः इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२३/१०८) क्व पुनः इह अङ्गभपदसञ्ज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेन अर्थः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२४/१०८) टाबादिषु ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२५/१०८) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२६/१०८) ग्रहणवद्भ्यः टाबादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२७/१०८) उगितः ङीप् भवति अतः टाप् भवति इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२८/१०८) यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-२९/१०८) तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३०/१०८) अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३१/१०८) स्त्रियाम् टाबादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३२/१०८) यत् तत् शब्दस्वरूपम् स्त्रियाम् वर्तते तस्मात् तदुत्पत्तिः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३३/१०८) तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३४/१०८) अणादिषु तर्हि ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३५/१०८) अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३६/१०८) गर्गादिभ्यः यञ् नडादिभ्यः फक् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३७/१०८) यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३८/१०८) तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-३९/१०८) अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४०/१०८) अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४१/१०८) यत् तत् शब्दस्वरूपम् अपत्यादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४२/१०८) तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४३/१०८) स्वार्थिकेषु तर्हि ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४४/१०८) स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४५/१०८) यावादिभ्यः कन् प्रज्ञाइद्भ्यः अण् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४६/१०८) यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४७/१०८) तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४८/१०८) यः तर्हि अग्रहणः शुक्लतरः कृष्णतरः इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-४९/१०८) अत्र अपि न यावत् शुक्लः तावत् शुक्लतरः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५०/१०८) प्रकृष्टः शुक्लः शुक्लतरः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५१/१०८) यत् तत् शब्दस्वरूपम् प्रकृष्टे वर्तते तस्मात् तदुत्पत्तिः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५२/१०८) तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५३/१०८) स्वादिषु तर्हि ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५४/१०८) एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५५/१०८) यत् तत् शब्दस्वरूपम् एकत्वादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५६/१०८) तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५७/१०८) कथम् पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु शक्या विज्ञातुम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५८/१०८) एकवाक्यत्वात् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-५९/१०८) एकम् वाक्यम् तत् च इदम् च ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६०/१०८) यदि एकम् वाक्यम् तत् च इदम् च किमर्थम् नानादेशस्थम् क्रियते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६१/१०८) कौशलमात्रम् एतत् आचार्यः दर्शयति यत् एकम् वाक्यम् सत् नानादेशस्थम् करोति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६२/१०८) अन्यत् अपि सङ्ग्रहीष्यामि इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६३/१०८) यच्छयोः च लुगर्थम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६४/१०८) यच्छयोः तर्हि लुगर्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६५/१०८) कंसीयपरशव्ययोः यञञौ लुक् च इति ङ्याप्प्रातिपदिकात् परस्य लुक् यथा स्यात् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६६/१०८) अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक् प्रसज्येत ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६७/१०८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६८/१०८) यथा परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य भविष्यति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-६९/१०८) एवम् अपि उकारसकारयोः प्रसज्येत ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७०/१०८) कमेः सः कंसः परान् श्र्णाति इति परशुः इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७१/१०८) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७२/१०८) वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७३/१०८) वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७४/१०८) वृद्धात् अवृद्धात् अवर्णान्टात् अनुदात्तादेः द्व्यचः इति एतानि प्रातिपदिकविशेषणानि यथा स्युः इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७५/१०८) अथ अक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्य एतानि विशेषणानि स्युः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७६/१०८) समर्थविशेषणानि ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७७/१०८) तत्र कः दोषः ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७८/१०८) उदीचाम् वृद्धात् अगोत्रात् इह च प्रसज्येत ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-७९/१०८) एतत् हि समर्थम् वृद्धम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८०/१०८) इह च न स्यात् ज्ञयोः ब्राह्मणयोः अपत्यम् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८१/१०८) एतत् हि समर्थम् अवृद्धम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८२/१०८) वृद्ध. अवृद्ध ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८३/१०८) प्राचाम् अवृद्धात् फिन् बहुलम् इह च प्रसज्येत ज्ञयोः ब्राह्मणयोः अपत्यम् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८४/१०८) एतत् हि समर्थम् अवृद्धम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८५/१०८) इह च न स्यात् ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८६/१०८) एतत् हि समर्थम् वृद्धम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८७/१०८) अवृद्ध ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८८/१०८) अवर्ण ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-८९/१०८) अत इञ् भवति इह एव स्यात् दक्षस्य अपत्यम् दाक्षिः इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९०/१०८) एतत् हि समर्थम् अकारान्तम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९१/१०८) इह च न स्यात् दक्षयोः अपत्यम् दक्षाणाम् अपत्यम् इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९२/१०८) एतत् ह्स् समर्थम् अनवर्णान्तम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९३/१०८) अवर्ण ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९४/१०८) स्वर ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९५/१०८) अनुदात्तादेः अञ् भवति इति इह च प्रसज्येत वाचः विकारः त्वचः विकारः इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९६/१०८) एतत् ह्स् समर्थम् अनुदात्तादि ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९७/१०८) इह च न स्यात् सर्वेषाम् विकारः इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९८/१०८) एतत् ह्स् समर्थम् उदात्तादि ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-९९/१०८) स्वर ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१००/१०८) द्व्यज्लक्षण द्व्जचः ठन् इति इह च प्रसज्येत वाचा तरति त्वचा तरति इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०१/१०८) एतत् हि समर्थम् द्व्यच् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०२/१०८) इह च न स्यात् घटेन तरति इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०३/१०८) एतत् हि समर्थम् समर्थम् अद्व्यच् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०४/१०८) अस्ति पुनः समर्थविशेषणे सति किम् चित् इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०५/१०८) अस्ति इति आह ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०६/१०८) किम् ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०७/१०८) साम्ना तरति वेम्ना तरति इति ।

(पा-४,१.१.१; अकि-२,१८९.२-१९१.७; रो-३,४१९-४२८; भा-१०८/१०८) एतत् हि समर्थम् अपि ङ्याप्प्रातिपदिकम् अपि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१/२०६) अथ ङ्याब्ग्रहणम् किमर्थम् न प्रातिपदिकात् इति एव सिद्धम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२/२०६) न सिध्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३/२०६) अप्रत्ययः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्राप्नोति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४/२०६) यदि एषः ङ्याब्ग्रहणे हेतुः त्यूग्रहणम् अपि कर्तव्यम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५/२०६) तौ अपि हि प्रत्ययौ ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६/२०६) तिग्रहणे तावत् वार्त्तम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७/२०६) तद्धितः प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८/२०६) ऊग्रहणे च अपि वार्त्तम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९/२०६) उवर्णान्तात् ऊङ् विधीयते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०/२०६) तत्र एकादेशः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११/२०६) एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२/२०६) यदि एषः ऊङः अग्रहणे हेतुः आब्ग्रहणम् अपि न कर्तव्यम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३/२०६) आप् अपि हि अकारान्तात् विधीयते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४/२०६) तत्र एकादेशः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५/२०६) एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६/२०६) यः तर्हि अनकारान्तात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७/२०६) क्रुञ्चा उष्णिहा देवविशा इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८/२०६) अत्र अपि अकारान्तात् वृत्तिः लक्ष्यते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९/२०६) क्रुञ्चान् आलभेत ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२०/२०६) उष्णिहककुभौ ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२१/२०६) देवविशम् च मनुष्यविशम् च इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२२/२०६) इह तावत् उष्णिहककुभौ इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२३/२०६) आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२४/२०६) इह खलु अपि देवविशम् च मनुष्यविशम् च इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२५/२०६) न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२६/२०६) यत् तावत् उच्यते इह तावत् उष्णिहककुभौ इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२७/२०६) आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२८/२०६) सञ्ज्ञाच्छन्दसोः इति एवम् तत् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२९/२०६) न च एषा सञ्ज्ञा न अपि इदम् छन्दः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३०/२०६) यत् अपि उच्यते इह खलु अपि देवविशम् च मनुष्यविशम् च इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३१/२०६) न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३२/२०६) स्वरे विशेषः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३३/२०६) यदि अत्र व्यञ्जनान्तात् उत्पत्तिः स्यात् देवविशम् इति एवम् स्वरः प्रसज्येत ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३४/२०६) देवविशम् इति च इष्यते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३५/२०६) तस्मात् कः एषः एवम्विषयः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३६/२०६) इदम् तर्हि पादः अन्यतरस्याम् टाप् ऋचि इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३७/२०६) ऋचि इति उच्यते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३८/२०६) तत्र छान्दसत्वात् भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-३९/२०६) ऋचि इति न इदम् छन्दः विवक्षितम् काठकम् कापालकम् अमुदकम् पैप्पलादकम् वा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४०/२०६) किम् तर्हि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४१/२०६) प्रत्ययार्थविशेषणम् एतत् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४२/२०६) ऋक् चेत् प्रत्ययार्थः भवति इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४३/२०६) एतत् अपि न अस्ति प्रयोजनम् पदशब्दः पादशब्दसमानार्थः अकारान्तः छन्दसि दृश्यते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४४/२०६) तस्याः सप्ताक्षरम् एकम् पदम् एअकः पादः इति अर्थः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४५/२०६) तस्मात् उत्पत्तिः भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४६/२०६) इदम् तर्हि डाप् उभाभ्याम् अन्यतरस्याम् इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४७/२०६) बहुराजा बहुराजे बहुराजाः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४८/२०६) ङ्याब्ग्रहणम् अनर्थकम् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-४९/२०६) ङ्याब्ग्रहणम् अनर्थकम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५०/२०६) किम् कारणम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५१/२०६) प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५२/२०६) प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा कर्तव्या ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५३/२०६) कः पुनः विशेषः एषा वा परिभाषा क्रियते आब्ग्रहणम् वा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५४/२०६) अवश्यम् एषा परिभाषा कर्तव्या ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५५/२०६) बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५६/२०६) कानि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५७/२०६) प्रयोजनम् सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५८/२०६) सर्वनामविधिः प्रयोजनम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-५९/२०६) सर्वनाम्नः सुट् इह एव स्यात् तेषाम् येषाम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६०/२०६) तासाम् यासाम् इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६१/२०६) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६२/२०६) अवर्णान्तात् टाप् विधीयते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६३/२०६) तत्र एकादेशः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६४/२०६) एकादेशे कृते अन्तादिवद्भावात् सुट् भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६५/२०६) इदम् तर्हि प्रयोजनम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६६/२०६) सर्वनाम्नः तृतीया च इह एव स्यात् भवता हेतुना भवतः हेतोः इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६७/२०६) भवत्या हेतुना भवत्याः हेतोः इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६८/२०६) सर्वनाम ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-६९/२०६) स्वर ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७०/२०६) कुशूलकूपकुम्भशालम् बिले इह एव स्यात् कुशूलबिलम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७१/२०६) कुशूलीबिलम् इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७२/२०६) स्वर ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७३/२०६) समास ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७४/२०६) द्वितीया श्रितादिभिः सह समस्यते इह एव स्यात् कष्टम् श्रितः कष्टश्रितः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७५/२०६) कष्टम् श्रिता कष्टश्रिता इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७६/२०६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७७/२०६) श्रितशब्दः अकारान्तः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७८/२०६) तत्र एकादेशः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-७९/२०६) एकादेशे कृते अन्तादिवद्भावात् भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८०/२०६) इदम् तर्हि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८१/२०६) पूर्वसदृश इति इह एव स्यात् पित्रा सदृशः पितृसदृशः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८२/२०६) पित्रा सदृशी पितृसदृशी इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८३/२०६) समासः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८४/२०६) तद्धितविधि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८५/२०६) अचित्तहिअस्तिधेनोः ठक् इह एव स्यात् हस्तिनाम् समूहः हास्तिकम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८६/२०६) हस्तिनीनाम् समूहः हास्तिकम् इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८७/२०६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८८/२०६) पुंवद्भावेन एतत् सिद्धम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-८९/२०६) इदम् तर्हि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९०/२०६) प्रमाणे द्वयसच् यथा इह भवति हस्तिद्वयसम् हस्तिमात्रम् एवम् हस्तिनीद्वयसम् हस्तिनीमात्रम् इति अपि यथा स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९१/२०६) तद्धितविधि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९२/२०६) लुक् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९३/२०६) न इन्द्सिद्धबध्नातिषु च इह एव स्यात् स्थण्डिलशायी ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९४/२०६) स्थण्डिलशायिनी इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९५/२०६) लुक् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९६/२०६) अलुक् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९७/२०६) शयवासवासिषु अकालात् इह एव स्यात् ग्रामेवासी ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९८/२०६) ग्रामेवासिनी इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-९९/२०६) मानिनि च विधिप्रतिषेधाऋथम् । मानिनि च विधिप्रतिषेधाऋथम् प्रयोजनम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१००/२०६) विध्यर्थम् तावत् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०१/२०६) क्यङ्मानिनोः च इह एव स्यात् दर्शनीयमानी ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०२/२०६) दर्शनीयमानिनी इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०३/२०६) प्रतिषेधार्थम् अपि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०४/२०६) वक्याति श्वाङ्गात् च ईतः अमानिनि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०५/२०६) तस्मिन् क्रियमाणे इह एव स्यात् दीर्घमुखमानी ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०६/२०६) दीर्घमुखमानिनी इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०७/२०६) प्रत्ययग्रहणोपचारेषु च ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०८/२०६) प्रत्ययग्रहणोपचारेषु च प्रयोजनम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१०९/२०६) तृजकाभ्याम् कर्तरि इह एव स्यात् अपाम् स्रष्टा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११०/२०६) अपाम् स्रष्ट्री इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१११/२०६) उपचार ॒ अतः कृकमिकंसकुम्भ इथ एव स्यात् अयस्कुम्भः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११२/२०६) अयस्कुम्भी इति अत्र न स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११३/२०६) एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११४/२०६) एतस्याम् च सत्याम् न अर्थः ङ्याब्ग्रहणेन ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११५/२०६) अतिप्रसङ्गः उपपदविधौ ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११६/२०६) उपपदविधौ अतिप्रसङ्गः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११७/२०६) द्विषत्परयोः तापेः यथा इह भवति द्विषन्तपः इति एवम् द्विषतीतपः इति अत्र अपि स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११८/२०६) यञिञोः फकि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-११९/२०६) यञिञोः फकि अतिप्रसङ्गः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२०/२०६) यथा इह भवति गार्ग्यायणः दाक्षायणः एवम् गार्गेयः दाक्षेयः इति अत्र अपि स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२१/२०६) न एषः दोषः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२२/२०६) ढक् अत्र बाधकः भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२३/२०६) समासान्तेषु च ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२४/२०६) समासान्तेषु च अतिप्रसङ्गः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२५/२०६) राजाहसखिभ्यः टत् यथा इह भवति मद्रराजः कश्मीरराजः एवम् मद्रराज्ञी कश्मीरराज्ञी इति अत्र अपि स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२६/२०६) न वा भवति मद्रराजी इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२७/२०६) भवति यदा समासान्तात् ईकारः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२८/२०६) लिङ्गविशिष्टग्रहणे तु ईकारान्तात् समासान्तः प्रसज्येत ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१२९/२०६) तत्र कः दोषः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३०/२०६) पुंवद्भावः टिलोपः च ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३१/२०६) तत्र मद्रजी इति एतत् रूपम् स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३२/२०६) मद्रराज्ञी इति च इष्यते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३३/२०६) महदात्त्वे प्रियादिषु ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३४/२०६) महदात्त्वे प्रियादिषु अतिप्रसङ्गः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३५/२०६) आत् महतः समानाधिकरणजातीययोः इति यथा इह भवति महान् प्रियः अस्य महाप्रियः एवम् महती प्रिया अस्य महतीप्रियः इति अत्र अपि स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३६/२०६) किम् उच्यते प्रियादिषु इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३७/२०६) यत्र पुंवद्भावः प्रतिषिध्यते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३८/२०६) यत्र तु न प्रतिषिध्यते भवितव्यम् एव तत्र आत्त्वेन ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१३९/२०६) ञ्नित्स्वरे ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४०/२०६) ञ्नित्स्वरे अतिप्रसङ्गः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४१/२०६) ञ्निति आदिः उदात्तः भवति यथा इह भवति दाक्षिः अहिचुम्बुकायनिः एवम् दाक्षी अहिचुम्बुकायनी इति अत्र अपि स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४२/२०६) राज्ञः स्वरे ब्राह्मणकुमारयोः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४३/२०६) राज्ञः स्वरे ब्राह्मणकुमारयोः अतिप्रसङ्गः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४४/२०६) राजा च ब्राह्मणकुमारयोः इति यथा इह भवति राजकुमारः राजब्राह्मणः एवम् राजकुमारी राजब्राह्मणी इति अत्र अपि स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४५/२०६) समाससङ्घातग्रहणेषु च ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४६/२०६) समाससङ्घातग्रहणेषु च अतिप्रसङ्गः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४७/२०६) बहोः नञ्वत् उत्तरपदभूम्नि यथा इह भवति बहुगोमान् बहुयवमान् एवम् बहुगोमती बहुयवमती इति अत्र अपि स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४८/२०६) किम् उच्यते समाससङ्घातग्रहणेषु इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१४९/२०६) यत् अवयवग्रहणम् प्रयोजनम् एव तस्याः परिभाषायाः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५०/२०६) कुम्भशालम् बिले कुशूलीबिलम् इति यथा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५१/२०६) विभक्तौ च उक्तम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५२/२०६) किम् उक्तम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५३/२०६) न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५४/२०६) एते अस्याः परिभाषाः दोषाः एतानि च प्रयोजनानि स्युः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५५/२०६) एते दोषाः समाः भूयांसः वा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५६/२०६) तस्मात् न अर्थः अनया परिभाषया ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५७/२०६) न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५८/२०६) न हि भिक्षुकाः सन्ति इति स्थाल्यः न आश्रीयन्ते न च मृगाः सन्ति इति यवा न उप्यन्ते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१५९/२०६) न हि दोषाणाम् लक्षणम् अस्ति इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६०/२०६) तस्मात् यानि एतस्या परिभाषयाः प्रयोजनानि तदर्थम् एषा कर्तव्या प्रतिविधेयम् च दोषेषु ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६१/२०६) तद्धितविधानाऋथम् तु ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६२/२०६) तद्धितविधानाऋथम् तु ङ्याब्ग्रहणम् कर्तव्यम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६३/२०६) ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६४/२०६) कालितरा हरिणितरा खट्वातरा मालातरा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६५/२०६) किम् पुनः कारणम् न सिध्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६६/२०६) विप्रतिषेधात् हि तद्धितबलीयस्त्वम् । विप्रतिषेधात् हि तद्धितोत्पत्तिः प्राप्नोति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६७/२०६) तत्र समासान्तेषु दोषः । तत्र समासान्तेषु दोषः भवति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६८/२०६) बहुगोमत्का बहुयवमत्का ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१६९/२०६) समासान्ताः अपि ङ्याबन्तात् स्युः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७०/२०६) त्यूङोः च ग्रहणम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७१/२०६) त्यूङोः च ग्रहणम् कर्तव्यम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७२/२०६) युवतिका ब्रह्मबन्धुका इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७३/२०६) ऊङ्ग्रहणेन तावत् न अर्थः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७४/२०६) न अस्ति अत्र विशेषः उकारान्तात् उत्पत्तौ सत्याम् ऊङन्तात् वा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७५/२०६) इदम् तर्हि युवतितरा ब्रह्मबन्धुतरा इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७६/२०६) तदन्तस्य च प्रत्ययार्थेन अयोगात् तद्धितानुत्पत्तिः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७७/२०६) तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेन अयोगात् तद्धितोत्पत्तिः न प्राप्नोति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७८/२०६) कालितरा हरिङितरा खट्वातरा मालातरा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१७९/२०६) किम् कारणम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८०/२०६) ङ्यापन्तम् एतत् स्त्रीप्रधानम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८१/२०६) न च स्त्रीत्वस्य प्रकर्षापकर्षौ स्तः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८२/२०६) न एषः दोषः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८३/२०६) न हि किम् चित् उच्यते एवञ्जातीयकात् उत्पत्तव्यम् एवञ्जातीयकात् न इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८४/२०६) एतावत् उच्यते अतिशायने तमबिष्ठनौ तिङः च इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८५/२०६) यस्य च प्रकर्षः अस्ति तस्य प्रकर्षे प्रत्ययः भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८६/२०६) अस्ति च अप्रधानस्य गुणस्य प्रकर्षः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८७/२०६) इह खलु अपि शुक्लतरः कृष्णतरः इति द्रव्यम् प्रधानम् गुणस्य च प्रकर्षे प्रत्ययः उत्पद्यते ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८८/२०६) उक्तम् वा ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१८९/२०६) किम् उक्तम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९०/२०६) सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९१/२०६) प्रातिपदिकविशेषणम् स्त्रीग्रहणम् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९२/२०६) स्वार्थिकाः टाबादयः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९३/२०६) न एवम् विज्ञयते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् प्रातिपदिकात् ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९४/२०६) कथम् तर्हि ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९५/२०६) यत् स्त्रियाम् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९६/२०६) कस्मिन् अर्थे ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९७/२०६) स्वार्थे इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९८/२०६) ननु च उक्तम् तत्र समासान्तेषु दोषः इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-१९९/२०६) समासान्ताः अपि स्वार्थिकाः ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२००/२०६) उभयोः स्वार्थिकयोः परत्वात् समासान्ताः भविष्यन्ति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२०१/२०६) कथम् कालिका इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२०२/२०६) प्रत्ययस्थात् कात् पूर्व्सस्य इति इत्त्वम् भविष्यति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२०३/२०६) कथम् हरिणिका इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२०४/२०६) हरिणशब्दः प्रकृत्यन्तरम् अस्ति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२०५/२०६) कथम् लोहिनिका इति ।

(पा-४,१.१.२; अकि-२,१९१.१२-१९५.२३; रो-३,४२८-४३८; भा-२०६/२०६) वक्ष्यति एतत् ॒ लोहिता लिङ्गबाधनम् वा इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१/९५) स्त्रियाम् इति उच्यते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२/९५) का स्त्री नाम ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३/९५) लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४/९५) यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५/९५) किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६/९५) लिङ्गम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७/९५) किम् पुनः तत् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८/९५) स्तनकेशवती स्त्री स्यात् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-९/९५) लोमशः पुरुषः स्मृतः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१०/९५) उभयोः अन्तरम् यत् च तदभावे नपुंसकम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-११/९५) लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टापा- प्रसज्यते । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्राप्नोति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१२/९५) यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१३/९५) नत्वम् खरकुटीः पश्य । इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात् शसः नः पुंसि इति नत्वम् प्राप्नोति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१४/९५) यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१५/९५) खट्वावृक्षौ न सिध्यतः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१६/९५) खट्वावृक्षयोः च लिङ्गम् न सिध्यति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१७/९५) यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१८/९५) किम् तर्हि तयोः लिङ्गम् न्याय्यम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-१९/९५) नापुंसकम् भवेत् तस्मिन् । नपुंसकम् खट्वावृक्षयोः लिङ्गम् न्याय्यम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२०/९५) किम् इदम् नापुंसकम् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२१/९५) नपुंसके भवम् नापुंसकम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२२/९५) तदभावे नपुंसकम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२३/९५) तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गम् न्याय्यम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२४/९५) असत् तु मृगतृष्णावत् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२५/९५) असत् तु खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२६/९५) कथम् पुनः असत् नाम लिङ्गम् शक्यम् द्रष्टुम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२७/९५) मृगतृष्णावत् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२८/९५) तत् यथा मृगाः तृषिताः अपाम् धाराः पश्यन्ति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-२९/९५) न च ताः सन्ति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३०/९५) गन्धर्व्नगरम् यथा ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३१/९५) यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३२/९५) आदित्यगतिवत् सत् न ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३३/९५) अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३४/९५) वस्त्रान्तर्हितवत् च तत् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३५/९५) यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३६/९५) विषमः उपन्यासः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३७/९५) वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३८/९५) खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लिङ्गम् न उपलभन्ते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-३९/९५) केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४०/९५) षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४१/९५) सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४२/९५) अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४३/९५) केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४४/९५) तयोः तु तत्कृतम् दृष्ट्वा ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४५/९५) स्त्रीकृतम् शब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४६/९५) यथा आकाशेन ज्योतिषः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४७/९५) तत् यथा आकाशम् दृष्ट्व ज्योतिः अत्र इति गम्यते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४८/९५) ज्योतिर्निमित्तम् हि आकाशम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-४९/९५) अन्योन्य्संश्रयम् तु एतत् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५०/९५) अन्योन्य्संश्रयम् तु एतत् भवति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५१/९५) स्त्रीकृतः शब्दः शब्दकृतम् च स्त्रीत्वम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५२/९५) एतत् इतरेतराश्रयम् भवति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५३/९५) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५४/९५) प्रत्यक्षेण विरुध्यते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५५/९५) प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५६/९५) तत्र स्वेन्द्रियविरोधः कृतः भवति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५७/९५) न च नाम स्वेन्द्रियविरोधिना भवितव्यम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५८/९५) तटे च सर्वलिङ्गानि दृष्ट्वा कः अध्यवसायति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-५९/९५) तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६०/९५) तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६१/९५) अवश्यम् च कः चित् स्वकृतान्तः आस्थेयः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६२/९५) कः असौ स्वकृतान्तः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६३/९५) संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ स्वकृतान्ततः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६४/९५) संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६५/९५) किम् इदम् संस्त्यानप्रसवौ इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६६/९५) संस्त्याने स्त्यायतेः ड्रट् ॒ स्त्री ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६७/९५) सूतेः सप् प्रसवे पुमान् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६८/९५) ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-६९/९५) अधिकरणसाधना लोके स्त्री ॒ स्त्यायति अस्याम् गर्भः इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७०/९५) कर्तृसाधनः च पुमान् ॒ सूते पुमान् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७१/९५) इह पुनः उभयम् भावसाधनम् ॒ स्त्यानम् स्त्री प्रवृत्तिः च पुमान् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७२/९५) कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७३/९५) गुणानाम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७४/९५) केषाम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७५/९५) शब्सस्पर्शरूपरसगन्धानाम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७६/९५) सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७७/९५) यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७८/९५) रसगन्धौ न सर्वत्र ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-७९/९५) प्रवृत्तिः खलु अपि नित्या ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८०/९५) न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८१/९५) वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८२/९५) तत् च उभयम् सर्वत्र ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८३/९५) यदि उभयम् सर्वत्र कुतः व्यवस्था ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८४/९५) विवक्षातः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८५/९५) संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अविवक्षायाम् नपूम्सकम् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८६/९५) तस्य उक्तौ लोकतः नाम । तस्य उक्तौ च वचने लोकतः नाम एतत् भवति स्त्री पुमान् नपुंसकम् इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८७/९५) गुणः वा लुपि युक्तवत् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८८/९५) वध्रिकादिषु भूयान् परिहारः ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-८९/९५) लुपि युक्तवत् व्यक्तिवचने इति एवम् अत्र गुणः भवति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-९०/९५) न च एतत् मन्तव्यम् स्वमनीषिकया उच्यते इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-९१/९५) पठिष्यति हि आचार्यः लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-९२/९५) पुनः पठिष्यति एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् अवयवान्यत्वात् च इति ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-९३/९५) संस्त्याने स्त्यायतेः ड्रट् स्त्रीसूतेः सपा- प्रसवे पुमान् ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-९४/९५) तस्य उक्तौ लोकतः नाम ।

(पा-४,१.३.१; अकि-२,१९५.२५-१९८.१९; रो-३,४३९-४५२; भा-९५/९५) गुणः वा लुपि युक्तवत् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१/९०) कथम् पुनः इदम् विज्ञायते ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२/९०) स्त्रियाम् अभिधेयायाम् टाबादयः भवन्ति इति आहोस्वित् स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३/९०) कः च अत्र विशेषः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४/९०) स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५/९०) स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६/९०) कुमार्यौ कुमार्यः किशोर्यौ किशोर्यः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७/९०) किम् कारणम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८/९०) एकः अयम् अर्थः स्त्रीत्वम् नाम ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-९/९०) तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१०/९०) अनेकप्रत्ययानुपपत्तिः च ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-११/९०) अनेकः च प्रत्ययः न उपपद्यते ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१२/९०) गार्ग्यायणी कारीषगन्ध्या कालितरा इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१३/९०) किम् कारणम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१४/९०) एकत्वात् स्त्रीत्वस्य ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१५/९०) एकः अयम् अर्थः स्त्रीत्वम् नाम ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१६/९०) तस्य एकेन उक्तत्वात् द्वितीयस्य प्रयोगेण न भवितव्यम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१७/९०) किम् कारणम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१८/९०) उक्तार्थानाम् अप्रयोगः इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-१९/९०) स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२०/९०) स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति अधिकारः न प्राप्नोति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२१/९०) अस्तु तर्हि स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२२/९०) स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२३/९०) स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः भवति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२४/९०) भूतम् इयम् ब्राह्मणी ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२५/९०) कारणम् इयम् ब्राह्मणी इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२६/९०) आवपनम् इयम् उष्ट्रिका इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२७/९०) स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत् भूतम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२८/९०) किम् तर्हि ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-२९/९०) पौतन्यम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३०/९०) कारणम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३१/९०) किम् तर्हि ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३२/९०) प्राधान्यम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३३/९०) आवपनम् इयम् उष्ट्रिका इति न अत्र स्त्रीत्वम् विवक्षितम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३४/९०) किम् तर्हि ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३५/९०) सम्भवनम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३६/९०) षट्सञ्ज्ञकेभ्यः च प्रतिषेधः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३७/९०) षट्सञ्ज्ञकेभ्यः च प्रतिषेधः वक्तव्यः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३८/९०) पञ्च ब्राह्मण्यः दश ब्राह्मण्यः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-३९/९०) स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वम् विवक्षितम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४०/९०) किम् तर्हि भेदः विवक्षितः सङ्ख्या ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४१/९०) इह च स्त्री ॒ ईकारः न प्राप्नोति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४२/९०) न हि तेन एव तस्य सामानाधिकरण्यम् अस्ति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४३/९०) सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४४/९०) सिद्धम् एतत् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४५/९०) कथम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४६/९०) स्त्रियाः प्रातिपदिकविशेषणत्वात् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४७/९०) प्रातिपदिकविशेषणम् स्त्रीग्रहणम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४८/९०) स्वार्थिकाः टाबादयः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-४९/९०) न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५०/९०) कथम् तर्हि ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५१/९०) स्त्रियाम् यत् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५२/९०) कस्मिन् अर्थे ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५३/९०) स्वार्थे इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५४/९०) अथ वा पुनः अस्तु स्त्रियाम् अभिधेयायाम् इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५५/९०) ननु च उक्तम् स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५६/९०) स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५७/९०) न एषः दोषः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५८/९०) यत् तावत् उच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-५९/९०) गुणवचनस्य च आश्रयतः लिङ्गवचनभावात् । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६०/९०) तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६१/९०) यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६२/९०) एवम् इह अपि यत् अदः द्रव्यम् श्रितम् भवति स्त्रीत्वम् तस्य यत् लिङ्गम् वचनम् च तत् स्त्रीत्वस्य अपि भविष्यति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६३/९०) यत् अपि उच्यते अनेकप्रत्ययानुपपत्तिः इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६४/९०) भावस्य च भावयुक्तत्वात् । भावः भावेन युज्यते ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६५/९०) तत् यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६६/९०) विषमः उपन्यासः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६७/९०) युक्तम् तत्र अन्यत्वम् साधनभेदात् कालभेदात् च ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६८/९०) उक्तम् तत्र एकस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरम् साधनम् वर्तमानकालः च प्रत्ययः इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-६९/९०) इह पुनः एकम् स्त्रीत्वम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७०/९०) अथ एकम् उपलभ्यते ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७१/९०) किम् च अतः यदि एकम् उपलभ्यते द्वितीयम् अपि उपलभ्यताम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७२/९०) अथ एकम् अपि अनुमानगम्यम् द्व्तीयम् अपि अनुमानात् गम्यताम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७३/९०) कस्य तावत् भवान् एवम् गुणम् न्याय्यम् मन्यते स्त्रीत्वम् नाम ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७४/९०) द्रव्यस्य ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७५/९०) द्रव्ये च भवतः कः सम्प्रत्ययः ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७६/९०) यदि तावत् गुअणसमुदायः द्रव्यम् का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७७/९०) चिकीर्षा गोता इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७८/९०) अथ मतम् एतत् कृदभिहितः भावः द्रव्यवत् भवति इति स्त्रीत्वम् अपि स्त्रीत्वेन अभिहितम् द्रव्यवत् भविष्यति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-७९/९०) क्व च तावत् दोषः स्यात् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८०/९०) दृष्टस्य हि दोषस्य सुसुखः परिहारः गार्ग्यायणी कारीषगन्ध्या कालितरा इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८१/९०) इह तावत् गार्ग्यायणी इति षित्करणसामर्थ्यात् ङीष् भविष्यति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८२/९०) कारीषगन्ध्या इति वचनात् चाप् भविष्यति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८३/९०) कालितरा इति न यावत् काली तावत् कालितरा ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८४/९०) किम् तर्हि ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८५/९०) प्रकृष्टा काली कालितरा ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८६/९०) यत् शब्दरूपम् प्रकर्षे वर्तते तस्य अनुक्तम् स्त्रीत्वम् इति कृत्वा टाप् भविष्यति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८७/९०) यत् अपि उच्यते इह च स्त्री ईकारः न प्राप्नोति इति ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८८/९०) निपातनात् एतत् सिद्धम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-८९/९०) किम् निपातनम् ।

(पा-४,१.३.२; अकि-२,१९८.२०-२००.२२; रो-३,४५२-४५८; भा-९०/९०) स्त्रियाम् अकुन्तिकुरुभ्यः च इति ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१/२२) स्त्रीविषये ङ्यापोः अप्रसिद्धिः अकारान्तादर्शनात् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-२/२२) स्त्रीविषये ङ्यापोः अप्रसिद्धिः ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-३/२२) खट्वा माला ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-४/२२) किम् कारणम् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-५/२२) अकारान्तादर्शनात् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-६/२२) न हि अकारान्तता दृश्यते ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-७/२२) ननु च इयम् दृश्यते ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-८/२२) अतिखट्वः अतिमालः इति ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-९/२२) न एषा अकारान्तता ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१०/२२) आपः एव एतत् ह्रस्वत्वम् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-११/२२) सर्वेषाम् तु स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१२/२२) सर्वेषाम् एव तु प्रातिपदिकानाम् स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१३/२२) शशः ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१४/२२) षषः इति मा भूत् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१५/२२) पलाशः ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१६/२२) पलाषः इति मा भूत् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१७/२२) मञ्चकः ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१८/२२) मञ्जकः इति मा भूत् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-१९/२२) तस्मात् सिद्धम् ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-२०/२२) तस्मात् सिद्धम् एतत् भवति ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-२१/२२) अथ वा इयम् अकारान्तता दृश्यते ।

(पा-४,१.३.३; अकि-२,२००.२३-२०१.६; रो-३,४५८; भा-२२/२२) पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१/२१) शूद्रा च अमहत्पूर्वा ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-२/२१) शूद्रा च अमहत्पूर्वा इति वक्तव्यम् ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-३/२१) शूद्रा ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-४/२१) अमहत्पूर्वा इति किमर्थम् ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-५/२१) महाशूद्री ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-६/२१) जातिः ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-७/२१) जातिः इति वक्तव्यम् ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-८/२१) या हि मथती शूद्रा महाशूद्रा सा भवति ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-९/२१) शूद्राशब्दः अजादिषु पठ्यते ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१०/२१) तत्र कः प्रसङ्गः यत् महत्पूर्वात् स्यात् ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-११/२१) न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१२/२१) तदन्तविधिना प्राप्नोति ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१३/२१) ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१४/२१) एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१५/२१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१६/२१) भवती , अतिभवती महती , अतिमहती ॒ अत्र तदन्तविधिः सिद्धः भवति ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१७/२१) जातिः इति च वक्ष्यामि ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१८/२१) यदि एतत् ज्ञाप्यते पञ्चाजी दशाजी अत्र अपि प्राप्नोति ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-१९/२१) न एषः दोषः ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-२०/२१) अजादिभिः स्त्रियम् विशेषयिष्यामः ।

(पा-४,१.४; अकि-२,२०१.८-१७; रो-३,४५९-४६१; भा-२१/२१) अद्जादीनाम् या स्त्री इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१/३३) कथम् इदम् विज्ञायते ॒ उगितः प्रातिपदिकात् इति आहोस्वित् उगितन्तात् प्रातिपदिकात् इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२/३३) किम् च अतः ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-३/३३) यदि विज्ञायते उगितः प्रातिपदिकात् इति सिद्धम् ॒ भवती महती ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-४/३३) अतिभवती , अतिमहती इति न सिध्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-५/३३) तदन्तविधिना भविष्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-६/३३) ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-७/३३) अथ विज्ञायते उगितन्तात् प्रातिपदिकात् इति सिद्धम् अतिभवती अतिमहती ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-८/३३) भवती महती इति न सिध्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-९/३३) व्यपदेशिवद्भावेन भविष्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१०/३३) व्यपदेशिवद्भावः अप्रातिपदिकेन ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-११/३३) उभयथा च निर्गोमती निर्यवमती इति न सिध्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१२/३३) किम् कारणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१३/३३) प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१४/३३) यथा इच्छसि तथा अस्तु ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१५/३३) अस्तु तावत् उगितः प्रातिपदिकात् इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१६/३३) कथम् अतिभवती अतिमहती इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१७/३३) तदन्तविधिना भविष्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१८/३३) ननु च उक्तम् ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-१९/३३) न एतत् प्रातिपदिकग्रहणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२०/३३) प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२१/३३) अथ वा पुनः अस्तु उगितन्तात् प्रातिपदिकात् इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२२/३३) कथम् भवती महती इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२३/३३) व्यपदेशिवद्भावेन भविष्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२४/३३) ननु च उक्तम् व्यपदेशिवद्भावः अप्रातिपदिकेन इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२५/३३) न एतत् प्रातिपदिकग्रहणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२६/३३) प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२७/३३) यत् अपि उच्यते उभयथा च निर्गोमती निर्यवमती इति न सिध्यति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२८/३३) किम् कारणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-२९/३३) प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-३०/३३) न एतत् प्रत्ययग्रहणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-३१/३३) प्रत्ययाप्रत्यययोः एतत् ग्रहणम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-३२/३३) कथम् ।

(पा-४,१.६.१; अकि-२,२०१.१९-२०२.११; रो-३,४६१-४६३; भा-३३/३३) वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-१/९) धातोः उगितः प्रतिषेधः ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-२/९) धातोः उगितः प्रतिषेधः वक्तव्यः ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-३/९) उखास्रात् ब्राह्मणी पर्णध्वत् ब्राह्मणी ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-४/९) अञ्चतेः च उपसङ्ख्यानम् ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-५/९) अञ्चतेः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-६/९) प्राची प्रतीची ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-७/९) उगिति अञ्चतिग्रहणात् सिद्धम् अधातोः । उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-८/९) अञ्चतिग्रहणम् नियमार्थम् भविष्यति ।

(पा-४,१.६.२; अकि-२,२०२.१२-१८; रो-३,४६३-४६४; भा-९/९) अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१/३९) इह कस्मात् न भवति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२/३९) निःशूनी अतियूनी इति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३/३९) अर्थवद्ग्रहणे न अनर्थकस्य इति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-४/३९) एवम् अपि मघोनी अत्र प्राप्नोति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-५/३९) मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-६/३९) वनः न हशः ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-७/३९) वनः र च इति अत्र हशन्तात् न भवति इति वक्तव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-८/३९) इह मा भूत् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-९/३९) सहयुध्वा ब्राह्मणी इति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१०/३९) यदि न हशः इति उच्यते शर्वरी इति न सिध्यति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-११/३९) विहितविशेषणम् हश्ग्रहणम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१२/३९) हशन्तात् यः विहितः इति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१३/३९) एवम् अपि प्रेर्त्वरी इति न सिध्यति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१४/३९) कथम् च अत्र तुगागमः ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१५/३९) छान्दसत्वात् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१६/३९) ङीब्रौ अपि तर्हि छान्दसत्वात् एव भविष्यतः ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१७/३९) बहुलम् छन्दसि ङीब्रौ वक्तव्यौ ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१८/३९) यज्वरीः इषः यज्वनीः इषः ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-१९/३९) रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२०/३९) रविधाने बहुव्रीहेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२१/३९) बहुधीवरी बहुपीवरी ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२२/३९) किम् पुनः कारणम् न सिध्यति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२३/३९) प्रतिषिद्धत्वात् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२४/३९) अनः बहुव्रीहेः इति प्रतिषेधः प्राप्नोति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२५/३९) अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वावचनम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२६/३९) अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वा इति वक्तव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२७/३९) अन्यथा कृत्वा चोदितम् अन्यथा कृत्वा परिहारः ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२८/३९) यथा उपसङ्ख्यानम् चोदितम् तथा नित्याभ्याम् ङीब्राभ्याम् भवितव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-२९/३९) यथा परिहारः तथा विभाषया भवितव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३०/३९) यथा उपसङ्ख्यानम् चोदितम् एवम् अपि विभाषया भवितव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३१/३९) न हि अत्र ङीप् दुर्लभः ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३२/३९) सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३३/३९) ङीप्सन्नियोगेन रः उच्यमानः अन्येन सति न स्यात् इति एवमर्थम् उपसङ्ख्यानम् चोद्यते ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३४/३९) किम् पुनः कारणम् ङीप्सन्नियोगेन रः उच्यते ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३५/३९) इह मा भूत् सुपर्वा चारुपर्वा इति ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३६/३९) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३७/३९) न कर्तव्यम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३८/३९) वक्ष्यति डाप् उभाभ्याम् अन्यतरस्याम् इति अत्र अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् ।

(पा-४,१.७; अकि-२,२०२.२०-२०३.१६; रो-३,४६४-४६६; भा-३९/३९) डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ अपि यथा स्याताम् इति ।