व्याकरणमहाभाष्य खण्ड 43

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१/२२) कस्य अयम् प्रतिषेधः ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-२/२२) ङीप् अनन्तरः तस्य प्रतिषेधः ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-३/२२) अथ इदानीम् ङीपि प्रतिषिद्धे षट्सञ्ज्ञानाम् अन्ते लुप्ते टाबुत्पत्तिः कस्मात् न स्यात् । अतः इति प्राप्नोति ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-४/२२) असिद्धः नलोपः ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-५/२२) तस्य असिद्धत्वात् न भविष्यति ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-६/२२) परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-७/२२) इदम् अपि तत्र परिगण्यते ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-८/२२) प्रत्याहारात् चापा सिद्धम् । सुप् इति न इदम् प्रत्ययग्रहणम् ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-९/२२) किम् तर्हि ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१०/२२) प्रत्याहारग्रहणम् ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-११/२२) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१२/२२) प्रथमैकवचनात् प्रभृति आ चापः पकारात् ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१३/२२) यदि प्रत्याहारग्रहणम् दोषः तु इत्त्वे ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१४/२२) इत्त्वे दोषः भवति ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१५/२२) बहुचर्मिका ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१६/२२) प्रत्ययस्थात् कात् पूर्वस्य आतः इति इत्त्वम् न प्राप्नोति ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१७/२२) तस्मात् न उभौ ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१८/२२) तस्मात् षट्सञ्ज्ञकेभ्यः उभौ न भवतः इति वक्तव्यम् ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-१९/२२) तत् तर्हि वक्तव्यम् ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-२०/२२) न वक्तव्यम् ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-२१/२२) स्त्रियाम् इति वर्तते ।

(पा-४,१.१०; अकि-२,२०३.१८-२०४.८; रो-३,४६६-४६८; भा-२२/२२) स्त्रियाम् यत् प्राप्नोति तस्य प्रतिषेधः ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१/३२) किमर्थम् उभाभ्याम् इति उच्यते ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२/३२) उभाभ्याम् योगाभ्याम् डाप् यथा स्यात् मनन्तात् अनन्तात् च बहुव्रीहेः ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-३/३२) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-४/३२) प्रकृतम् उभयम् अनुवर्तते ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-५/३२) अथ अन्यतरस्याङ्ग्रहणम् किमर्थम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-६/३२) अन्यतरस्याम् डाप् यथा स्यात् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-७/३२) डापा मुक्ते प्रतिषेधः अपि यथा स्यात् इति ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-८/३२) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-९/३२) इह डाप् अपि उच्यते प्रतिषेधः अपि ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१०/३२) तौ उभौ वचनात् भविष्यतः ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-११/३२) इदम् तर्हि प्रयोजनम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१२/३२) डाप्प्रतिषेधाभ्याम् मुक्ते ङीप् अपि यथा स्यात् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१३/३२) सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१४/३२) अथ तत् अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१५/३२) बाढम् शक्यम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१६/३२) कथम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१७/३२) इह डाप् अपि उच्यते प्रतिषेधः अपि ङीप् अपि ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१८/३२) तत् सर्वम् वचनात् भविष्यति ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-१९/३२) न एवम् शक्यम् विज्ञातुम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२०/३२) अक्रियमाणे हि तत्र अन्यतरस्याङ्ग्रहणे अनवकाशः ङीप् डाप्प्रतिषेधौ बाधेत ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२१/३२) डाप्प्रतिषेधौ अपि अनवकाशौ ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२२/३२) तौ वचनात् भविष्यतः ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२३/३२) सावकाशौ डाप्प्रतिषेधौ ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२४/३२) कः अवकाशः ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२५/३२) सुपर्वा चारुपर्वा इति ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२६/३२) तस्मात् तत् अन्यतरस्याङ्ग्रहणम् कर्तव्यम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२७/३२) इदम् तु खलु अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२८/३२) इदम् अपि अवश्यम् कर्तव्यम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-२९/३२) किम् प्रयोजनम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-३०/३२) डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ यथा स्याताम् इति ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-३१/३२) रविधाने बहुव्रीहेः उपसङ्ख्यानम् चोदितम् ।

(पा-४,१.१३.१; अकि-२,२०४.१०-२२; रो-३,४६८-४६९; भा-३२/३२) तत् न वक्तव्यम् भवति ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-१/१५) अथ इह कथम् भवितव्यम् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-२/१५) बहवः श्वानः अस्याम् रथ्यायाम् बहवः श्वानः अस्याम् शालायाम् इति ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-३/१५) बह्शूका बहुयूका इति भवितव्यम् ।का रूपसिद्धिः ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-४/१५) डाप् टिलोपः प्रसारणम् प्रसारणपरपूर्वत्वम् नदृतः च इति कप् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-५/१५) कपा तावत् न भवितव्यम् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-६/१५) किम् कारणम् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-७/१५) नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् विज्ञायते ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-८/१५) न च एषः नद्यन्तानाम् बहुव्रीहिः ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-९/१५) प्रसारणेन अपि न भवितव्यम् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-१०/१५) वक्ष्यति एतत् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-११/१५) श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-१२/१५) परपूर्वत्वेन अपि न भवितव्यम् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-१३/१५) वक्ष्यति एतत् ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-१४/१५) सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधात्थम् इति ।

(पा-४,१.१३.२; अकि-२,२०४.२३-२०५.५; रो-३,४६९-४७०; भा-१५/१५) तस्मात् बहुश्वा बहुयुवा इति भवितव्यम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१/८१) अनुपसर्जनात् इति किमर्थम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२/८१) बहुकुरुचरा मथुरा प्रियकुरुचरा मथुरा ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३/८१) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४/८१) कुरुचरशब्दात् प्रययः विधीयते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५/८१) तत्र कः प्रसङ्गः यत् बहुकुरुचरशब्दात् स्यात् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६/८१) न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७/८१) तदन्तविधिना प्राप्नोति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-८/८१) अतः उत्तरम् पठति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-९/८१) अनुपसर्जनग्रहणम् अनर्थकम् प्रातिपदिकेन तदन्तविधिप्रतिषेधात् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१०/८१) अनुपसर्जनग्रहणम् अनर्थकम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-११/८१) किम् कारणम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१२/८१) प्रातिपदिकेन तदन्तविधिप्रतिषेधात् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१३/८१) ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१४/८१) ज्ञापकम् तु पूर्वत्र तदन्ताप्रतिषेधस्य ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१५/८१) एवम् तर्हि ज्ञापयति आचार्यः पूर्वत्र तदन्ताप्रतिषेधः न भवति इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१६/८१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१७/८१) भवती अतिभवती महती अतिमहती इति अत्र तदन्तविधिः सिद्धः भवति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१८/८१) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-१९/८१) उक्तम् एतत् वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२०/८१) इदम् तर्हि ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२१/८१) बहुधीवरी बहुपीवरी इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२२/८१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२३/८१) अत्र अपि उक्तम् रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२४/८१) इदम् तर्हि अतिधीवरी अतिपीवरी ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२५/८१) पूर्वसूत्रनिर्देशः वा आपिशलम् अधीते इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२६/८१) पूर्वसूत्रनिर्देशः वा पुनः अयम् द्रष्टव्यः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२७/८१) पूर्वसूत्रे अप्रधानस्य उपसर्जनम् इति सञ्ज्ञा क्रियते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२८/८१) यावत् ब्रूयात् प्रधानात् उत्पत्तव्यम् अप्रधानात् न इति तावत् अनुपसर्जनात् इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-२९/८१) किम् प्रयोजनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३०/८१) आपिशलम् अधीते इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३१/८१) आपिशलम् अधीते ब्राह्मणी आपिशला ब्राह्मणी ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३२/८१) अणन्तात् इति ईकारः मा भूत् इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३३/८१) अथ अनुपसर्जनात् इति उच्यमाने कस्मात् एव अत्र न भवति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३४/८१) अणन्तम् हि एतत् अनुपसर्जनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३५/८१) न अनुपसर्जनग्रहणेन अणन्तम् विशेष्यते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३६/८१) अणन्तात् अनुपसर्जनात् इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३७/८१) किम् तर्हि ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३८/८१) अण् एव विशेष्यते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-३९/८१) अण् यः अनुपसर्जनम् इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४०/८१) जातिशब्देभ्यः तु अतिप्रसङ्गः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४१/८१) जातिशब्देभ्यः तु अतिप्रसङ्गः भवति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४२/८१) कुन्ती गान्धारी ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४३/८१) सिद्धम् तु जातेः अनुपसर्जनत्वात् । सिद्धम् एतत् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४४/८१) कथम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४५/८१) अनुपसर्जनात् इति उच्यते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४६/८१) न च जातिः उपसर्जनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४७/८१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४८/८१) स्त्रियाम् इति वर्तते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-४९/८१) तेन अणम् विशेषयिष्यामः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५०/८१) स्त्रियाम् यः अण् विहितः इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५१/८१) एवम् अपि काशकृत्स्निना प्रोक्तम् मामांसा काशकृत्स्नीम् काशकृत्स्नीम् अधीते काशकृत्स्ना ब्राह्मणी अत्र प्राप्नोति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५२/८१) न एषः दोषः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५३/८१) अधेत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५४/८१) यः च अत्र अधेत्र्याम् अभिधेयायाम् अण् उक्तः लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५५/८१) इदम् तर्हि प्रयोजनम् तदन्तविधिः यथा स्यात् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५६/८१) कुम्भकारी नगरकारी ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५७/८१) अत्र हि प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः ग्रहणम् भवति इति अवयवात् उत्पत्तिः प्राप्नोति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५८/८१) कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-५९/८१) कृद्ग्रहणे इति उच्यते ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६०/८१) न च एतत् कृद्ग्रहणम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६१/८१) कृदकृद्ग्रहणम् एतत् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६२/८१) कृत् अपि अयम् अण् तद्धितः अपि ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६३/८१) एवम् तर्हि ईकारान्तेन समासः भविष्यति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६४/८१) यदि एवम् लभ्येत कृतम् स्यात् तत् तु न लभ्यम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६५/८१) किम् कारणम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६६/८१) अत्र हि गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति समासः एव तावत् भवति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६७/८१) समासे कृते अवयवात् उत्पत्तिः प्राप्नोति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६८/८१) अवयवात् उत्पत्तौ कः सत्याम् दोषः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-६९/८१) कौम्भकारेयः न सिध्यति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७०/८१) अव्ययवस्य वृद्धिस्वरौ स्याताम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७१/८१) तस्मात् अनुपसर्जनाधिकारः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७२/८१) अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् । अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७३/८१) सुपर्णी ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७४/८१) न वा समासस्य अनुपसर्जनत्वात् जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष्विधानम् । न वा एषः दोषः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७५/८१) किम् कारणम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७६/८१) समासस्य अनुपसर्जनत्वात् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७७/८१) समासः अत्र अनुपसर्जनम् ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७८/८१) सः च जातिवाचकः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-७९/८१) समासस्य अनुपसर्जनत्वात् तस्य च जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष् भविष्यति जातेः अस्त्रीविषयात् अयोपधात् इति ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-८०/८१) कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः ।

(पा-४,१.१४; अकि-२,२०५.७-२०७.४; रो-३,४७१-४७७; भा-८१/८१) बहुव्रीहिः इति कृत्वा चोदितम् तत्पुरुषः इति कृत्वा परिहारः ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१/२७) ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२/२७) ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-३/२७) कारिकेयी हारिकेयी ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-४/२७) किम् पुनः कारणम् न सिध्यति ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-५/२७) अननुबन्धकग्रहणे हि न सानुबन्धकस्य ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-६/२७) अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न भवति इति एषा परिभाषा कर्तव्या ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-७/२७) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-८/२७) तव्यग्रहणे तव्यद्ग्रहणम् मा भूत् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-९/२७) दिव्ग्रहणे दिवुग्रहणम् मा भूत् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१०/२७) ननु च इयम् अपि कर्तव्या तदनुबन्धकग्रहणे अतदनुबन्धकस्य ने इति ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-११/२७) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१२/२७) यद्ग्रहणे ण्यद्ग्रहणम् मा भूत् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१३/२७) अङ्ग्रहणे चङ्ग्रहणम् मा भूत् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१४/२७) अज्ग्रहणे ण्यज्ग्रहणम् मा भूत् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१५/२७) तत् द्वे एते परिभाषे कर्तव्ये ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१६/२७) न कर्तव्ये ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१७/२७) आचार्यप्रवृत्तिः ज्ञापयति भवतः एते परिभाषे यत् अयम् वामदेवात् ड्यड्ड्यौ इति ययतौ डितौ करोति ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१८/२७) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-१९/२७) न कर्तव्यम् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२०/२७) अननुबन्धकः ढशब्दः स्त्रियाम् न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२१/२७) ननु च अयम् अस्ति शिलायाः ढः इति ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२२/२७) न एषः स्त्रियाम् वर्तते ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२३/२७) अयम् तर्हि सभायाः ढः छन्दसि इति ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२४/२७) एषः अपि न स्त्रियाम् वर्तते ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२५/२७) किम् कारणम् ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२६/२७) तत्र साधुः इति वर्तते ।

(पा-४,१.१५.१; अकि-२,२०८.२-१७; रो-३,४७८-४७९; भा-२७/२७) कथम् स्त्री नाम सभायाम् साध्वी स्यात् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१/२२) अञ्ग्रहणम् अनर्थकम् तदन्तात् हि ङीन्विधानम् । अञ्ग्रहणम् अनर्थकम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-२/२२) किम् कारणम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-३/२२) तदन्तात् हि ङीन्विधानम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-४/२२) तदन्तात् हि अञन्तात् ङीन् विधीयते ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-५/२२) शार्ङ्गरवाद्यञः ङीन् इति ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-६/२२) न च अस्ति विशेषः अञन्तात् ङीनः वा ङीपः वा ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-७/२२) तत् एव रूपम् सः एव स्वरः ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-८/२२) न वा जात्यधिकारात् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-९/२२) न वा अनर्थकम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१०/२२) किम् कारणम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-११/२२) जात्यधिकारात् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१२/२२) जातेः इति तत्र अनुवर्तते ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१३/२२) अजात्यर्थः अयम् आरम्भः ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१४/२२) औत्सी औदपानी ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१५/२२) तत् च अवश्यम् जातिग्रहणम् अनुवर्त्यम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१६/२२) अनधिकारे हि पुंयोगात् आख्यायाम् ङीन्प्रसङ्गः ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१७/२२) अननुवर्तमाने हि जातिग्रहणे पुंयोगात् आख्यायाम् ङीन् प्रसज्येत ॒ बैदस्य स्त्री बैदी ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१८/२२) यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव कर्तव्यम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-१९/२२) तत् न कर्तव्यम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-२०/२२) तत् अपि अवश्यम् कर्तव्यम् ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-२१/२२) अक्रियमाणे हि तस्मिन् बैदस्य भगिनी बैदी परत्वात् जातिलक्षणः ङीष् ङीपम् बाधेत ।

(पा-४,१.१५.२; अकि-२,२०८.१८-२०९.५; रो-३,४७९-४८०; भा-२२/२२) ङीनि पुनः सति परत्वात् ङीन् ङीषम् बाधेत ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-१/१०) ख्युनः उपसङ्ख्यानम् ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-२/१०) ख्युनः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-३/१०) आढ्यङ्करणी सुभगङ्करणी ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-४/१०) अत्यल्पम् इदम् उच्यते ॒ ख्युनः इति ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-५/१०) नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-६/१०) नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-७/१०) नञ् स्नञ् ॒ स्त्रैणी पौंस्नी ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-८/१०) ईकक् ॒ शाक्तीकी याष्टीकी ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-९/१०) ख्युन् ॒ आढ्यङ्करणी सुभगङ्करणी ।

(पा-४,१.१५.३; अकि-२,२०९.६-११; रो-३,४८०-४८१; भा-१०/१०) तरुण तलुन ॒ तरुणी तलुनी ।

(पा-४,१.१६; अकि-२,२०९.१३-१५; रो-३,४८१; भा-१/६) आपत्यग्रहणम् कर्तव्यम् द्वीपात् यञः प्रतिषेधार्थम् ।

(पा-४,१.१६; अकि-२,२०९.१३-१५; रो-३,४८१; भा-२/६) इह मा भूत् द्वैप्या इति ।

(पा-४,१.१६; अकि-२,२०९.१३-१५; रो-३,४८१; भा-३/६) तत् तर्हि वक्तव्यम् ।

(पा-४,१.१६; अकि-२,२०९.१३-१५; रो-३,४८१; भा-४/६) न वक्तव्यम् ।

(पा-४,१.१६; अकि-२,२०९.१३-१५; रो-३,४८१; भा-५/६) न एवम् विज्ञायते कञ्क्वरपः यञः च इति ।

(पा-४,१.१६; अकि-२,२०९.१३-१५; रो-३,४८१; भा-६/६) कथम् तर्है कञ्क्वरपः अयञः च इति ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-१/१०) तद्धितवचनम् किमर्थम् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-२/१०) तद्धितवचनम् षितः प्रातिपदिकात् ईकारार्थम् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-३/१०) तद्धितवचनम् क्रियते षितः प्रातिपदिकात् ईकारः यथा स्यात् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-४/१०) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-५/१०) षित्करणसामर्थ्यात् एव अत्र ईकारः भविष्यति ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-६/१०) यथा एव तर्हि षित्करणसामर्थ्यात् अप्रातिपदिकात् ईकारः भवति एवम् प्रातिपदिकात् इति अस्य अनुवर्तनसामार्थ्यात् अषितः अपि प्रातिपदिकात् ईकारः स्यात् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-७/१०) अस्ति अन्यत् प्रातिपदिकानुवृत्तौ प्रयोजनम् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-८/१०) किम् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-९/१०) उत्तरार्थम् ।

(पा-४,१.१७; अकि-२,२०९.१७-२३; रो-३,४८२; भा-१०/१०) अतः इञ् दाक्षिः ।

(पा-४,१.१८.१; अकि-२,२१०.२-४; रो-३,४८२-४८३; भा-१/७) सर्वत्रग्रहणम् किमर्थम् ।

(पा-४,१.१८.१; अकि-२,२१०.२-४; रो-३,४८२-४८३; भा-२/७) प्राचाम् एव स्यात् ।

(पा-४,१.१८.१; अकि-२,२१०.२-४; रो-३,४८२-४८३; भा-३/७) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.१८.१; अकि-२,२१०.२-४; रो-३,४८२-४८३; भा-४/७) सिद्धम् प्राचाम् पूर्वेण ।

(पा-४,१.१८.१; अकि-२,२१०.२-४; रो-३,४८२-४८३; भा-५/७) इदम् तर्हि प्रयोजनम् सर्वेषाम् यथा स्यात् ।

(पा-४,१.१८.१; अकि-२,२१०.२-४; रो-३,४८२-४८३; भा-६/७) आवट्यायनी ।

(पा-४,१.१८.१; अकि-२,२१०.२-४; रो-३,४८२-४८३; भा-७/७) चापम् बाधित्वा ष्फः यथा स्यात् ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१/२०) लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-२/२०) लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-३/२०) शाकल्यायनी ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-४/२०) यदि पुनः अयम् शकलशब्दः लोहितादिषु पठ्येत ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-५/२०) न एवम् शक्यम् ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-६/२०) इह हि शाकल्यस्य छात्राः शाकलाः कण्वादिभ्यः गोत्रे इति अण् न स्यात् ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-७/२०) एवम् तर्हि ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-८/२०) कण्वात् तु शकलः पूर्वः । कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-९/२०) कतात् उत्तरः इष्यते. कतशब्दात् शकलशब्दः उत्तरः पठितव्यः ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१०/२०) पूर्वोत्तरौ तदन्तादी ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-११/२०) पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१२/२०) ये कण्वादयः ते शकलादयः ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१३/२०) ये कतपर्यन्ताः ते शकलपर्यन्ताः ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१४/२०) किम् प्रयोजनम् ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१५/२०) ष्फाणौ तत्र प्रओय्जनम् ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१६/२०) तत्र एवम् सति ष्फाणौ सिद्धौ भवतः ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१७/२०) कण्वात् तु शकलः पूर्वः ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१८/२०) कतात् उत्तरः इष्यते ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-१९/२०) पूर्वोत्तरौ तदन्तादी ।

(पा-४,१.१८.२; अकि-२,२१०.५-२४; रो-३,४८२-४८३-४८४; भा-२०/२०) ष्फाणौ तत्र प्रओय्जनम् ।

(पा-४,१.१९; अकि-२,२१०.२६-२११.३; रो-३,४८४; भा-१/६) कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् ।

(पा-४,१.१९; अकि-२,२१०.२६-२११.३; रो-३,४८४; भा-२/६) कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.१९; अकि-२,२१०.२६-२११.३; रो-३,४८४; भा-३/६) आसुरायणी ।

(पा-४,१.१९; अकि-२,२१०.२६-२११.३; रो-३,४८४; भा-४/६) छः च ।

(पा-४,१.१९; अकि-२,२१०.२६-२११.३; रो-३,४८४; भा-५/६) छः च इति वक्तव्यम् ।

(पा-४,१.१९; अकि-२,२१०.२६-२११.३; रो-३,४८४; भा-६/६) आसुरीयः कल्पः ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१/२४) वयसि अचरमे इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-२/२४) वधूटी चिरण्टी इति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-३/२४) इह कस्मात् न भवति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-४/२४) उत्तानशया लोहितपादिका द्विवर्षा त्रिवर्षा इति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-५/२४) न एतानि वयोवाचीनि ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-६/२४) कथम् तर्हि वयः गम्यते ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-७/२४) सम्बन्धात् ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-८/२४) यदि तर्हि यत्र सम्बन्धात् वयः गम्यते तत्र न भवति इह अपि न प्राप्नोति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-९/२४) कुमारी इति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१०/२४) अत्र अपि सम्बन्धात् वयः गम्यते ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-११/२४) कः असु सम्बन्धः ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१२/२४) यः असु पुंसा असम्प्रयोगः ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१३/२४) सम्बन्धात् एव अत्र वयः गम्यते ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१४/२४) इह पुनः सम्बन्धसम्बन्धात् ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१५/२४) इह तावत् उत्तानशया इति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१६/२४) यदा कर्तृत्वम् विशेषितम् भवति ततः उत्तरकालम् वयः गम्यते ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१७/२४) यदि लोहितपादिका इति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१८/२४) यदा बहुव्रीह्यर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-१९/२४) द्विवर्षा त्रिवर्षा इति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-२०/२४) यदा द्विगुअर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-२१/२४) यदि तर्हि यत्र सम्बन्धात् एव वयः गम्यते तत्र भवति इह अपि तरि प्रप्नोति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-२२/२४) कन्या इति ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-२३/२४) निपातनात् एतत् सिद्धम् ।

(पा-४,१.२०; अकि-२,२११.४-१४; रो-३,४८४-४८६; भा-२४/२४) किम् निपातनम्. कन्यायाः कनीन च इति ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-१/९) इमौ द्वौ प्रतिषेधौ उच्येते ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-२/९) तत्र एकः शक्यः अवक्तुम् ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-३/९) कथम् ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-४/९) एवम् वक्ष्यामि ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-५/९) परिमाणान्तात् तद्धितलुकि ङीप् भवति इति ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-६/९) तत् नियमार्थम् भविष्यति ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-७/९) परिमाणान्तात् एव तद्धितलुकि ङीप् भवति न अन्यतः इति ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-८/९) ततः विस्ताचितकम्बल्येभ्यः न इति ।

(पा-४,१.२२; अकि-२,२११.१६-१९; रो-३,४८६; भा-९/९) तद्धितलुकि इति एव ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१/३४) ऊधसः नकारः लिङ्गाधिकारे ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२/३४) ऊधसः नकारः लिङ्गाधिकारे कर्तव्यः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-३/३४) इह मा भूत् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-४/३४) महोधाः पर्जन्यः इति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-५/३४) न वा समासान्ताधिकारे स्त्रीग्रहणात् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-६/३४) न वा लिङ्गाधिकारे नकारः कर्तव्यः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-७/३४) किम् कारणम् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-८/३४) समासान्ताधिकारे स्त्रीग्रहणात् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-९/३४) समासान्ताधिकारे स्त्रीग्रहणम् कर्तव्यम् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१०/३४) इतरथा हि कब्विधिप्रसङ्गः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-११/३४) इतरथा हि कब्विधिः प्रसज्येत ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१२/३४) कस्याम् पुनः अवस्थायाम् कप् प्राप्नोति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१३/३४) प्राक् ङीषुत्पत्तेः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१४/३४) प्राक् तावत् न प्राप्नोति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१५/३४) किम् कारणम् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१६/३४) न हि ङीष् विभाषा ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१७/३४) लुत्क्पन्ने तर्हि ङीषि प्राप्नोति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१८/३४) उत्पन्ने च अपि न प्राप्नोति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-१९/३४) किम् कारणम् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२०/३४) नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२१/३४) न च एषः नद्यन्तानाम् बहुव्रीहिः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२२/३४) प्राक् एव तर्हि प्राप्नोति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२३/३४) ननु च उक्तम् न हि ङीष् विभाषा इति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२४/३४) यदि अपि न ङीष् विभाषा कप् तु विभाषा ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२५/३४) कपः अवकाशः अन्यः बहुव्रीहिः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२६/३४) अयवकः अव्रीहिकः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२७/३४) ङीषः अवकाशः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२८/३४) विभाषा कप् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-२९/३४) यदा न कप् सः अवकाशः ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-३०/३४) कुण्डोध्नी घटोध्नी ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-३१/३४) कप्प्रसङ्गे लुभयम् प्राप्नोति ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-३२/३४) परत्वात् कप् स्यात् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-३३/३४) तस्मात् सुष्थु उच्यते न वा समासान्ताधिकारे स्त्रीग्रहणात् ।

(पा-४,१.२५; अकि-२,२११.२१-२१२.१२; रो-३,४८६-४८८; भा-३४/३४) इतरथा हि कब्विधिप्रसङ्गः इति ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१/३१) दामहायनान्तात् सङ्ख्यादेः ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२/३१) दामहायनान्तात् सङ्ख्यादेः इति वक्तव्यम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-३/३१) इह मा भूत् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-४/३१) उद्दामा वडवा इति ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-५/३१) तत्पुरुषविज्ञानात् वा सिद्धम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-६/३१) बहुव्रीहेः इति वर्तते ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-७/३१) तत्पुरुषः च अयम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-८/३१) उत्क्रान्ता दाम्नः उत्दामा ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-९/३१) भवेत् सिद्धम् यदा तत्पुरुषः ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१०/३१) यदा तु खलु बहुव्रीहिः तदा न सिध्यति ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-११/३१) उत्क्रान्तम् दाम अस्याः इति ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१२/३१) ननु च चेतनावतः एतत् भवति उत्क्रमणम् वा अपक्रमणम् वा दाम च अचेतनम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१३/३१) अचेतनेषु अपि चेतनावतुपचारः दृश्यते ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१४/३१) तत् यथा ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१५/३१) स्रस्तानि अस्याः बन्धनानि ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१६/३१) स्रस्यन्ते अस्याः बन्धनानि इति ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१७/३१) तत् तर्हि सङ्ख्यादेः इति वक्तव्यम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१८/३१) न वक्तव्यम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-१९/३१) प्रकृतम् अनुवर्तते ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२०/३१) न वक्तव्यम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२१/३१) प्रकृतम् अनुवर्तते ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२२/३१) क्व प्रकृतम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२३/३१) सङ्ख्याव्ययादेः ङीप् इति ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२४/३१) यदि तत् अनुवर्तते अव्ययादेः अपि वर्तते ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२५/३१) न एषः दोषः ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२६/३१) सङ्ख्यादेः इति अनुवर्तते ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२७/३१) अव्ययादेः इति निवृत्तम् ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२८/३१) कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-२९/३१) एकयोगनिर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-३०/३१) तत् यथा तस्य पादमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ।

(पा-४,१.२७.१; अकि-२,२१२.१४-२१३.२; रो-३,४८८-४८९; भा-३१/३१) पक्षात् तिः इति अत्र मूले इति अनुवर्तते पाक इति निवृत्तम् ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-१/८) अथ इह कथम् भवितव्यम् ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-२/८) द्वौ हायनौ अस्याः शालायाः ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-३/८) द्विहायना त्रिहायना इति ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-४/८) हायनः वयसि स्मृतः ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-५/८) वयोवाचिनः हायनशब्दस्य ग्रहणम् ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-६/८) न च एषः वयोवाची ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-७/८) अथ णत्वम् कस्मात् न भवति ।

(पा-४,१.२७.२; अकि-२,२१३.३-६; रो-३,४८९; भा-८/८) णत्वम् अपि वयोवाचिनः एव ।

(पा-४,१.३०; अकि-२,२१३.९-१०; रो-३,४८९; भा-१/५) मामकग्रहणम् किमर्थम् न अणन्तात् इति एवम् सिद्धम् ।

(पा-४,१.३०; अकि-२,२१३.९-१०; रो-३,४८९; भा-२/५) नियमाऋथः अयम् आरम्भः ।

(पा-४,१.३०; अकि-२,२१३.९-१०; रो-३,४८९; भा-३/५) मामकशब्दात् सञ्ज्ञाच्छन्दसोः एव ।

(पा-४,१.३०; अकि-२,२१३.९-१०; रो-३,४८९; भा-४/५) क्व मा भूत् ।

(पा-४,१.३०; अकि-२,२१३.९-१०; रो-३,४८९; भा-५/५) मामिका बुद्धिः इति ।

(पा-४,१.३१; अकि-२,२१३.१२-१३; रो-३,४९०; भा-१/६) अजसादिषु इति वक्तव्यम् ।

(पा-४,१.३१; अकि-२,२१३.१२-१३; रो-३,४९०; भा-२/६) इह अपि यथा स्यात् ।

(पा-४,१.३१; अकि-२,२१३.१२-१३; रो-३,४९०; भा-३/६) रात्रिम् रात्रिम् स्मरिष्यन्तः ।

(पा-४,१.३१; अकि-२,२१३.१२-१३; रो-३,४९०; भा-४/६) रात्रिम् रात्रिम् अजानतः ।

(पा-४,१.३१; अकि-२,२१३.१२-१३; रो-३,४९०; भा-५/६) सर्वाम् रात्रिम् सह उषित्वा ।

(पा-४,१.३१; अकि-२,२१३.१२-१३; रो-३,४९०; भा-६/६) वृत्त्याम् एकान्तरात्रिम् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१/२६) अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२/२६) अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे इति वक्तव्यम् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-३/२६) इह मा भूत् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-४/२६) प्रथते त्वया पतिमती पृथिवी इति ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-५/२६) अथ अन्तःशब्दस्य अगर्भसंयोगे किम् प्रत्युदाह्रियते ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-६/२६) अन्तः अस्याम् शालायाम् अस्ति इति ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-७/२६) किम् पुनः कारणम् वाक्यम् एव प्रत्युदाह्रियते न पुनः मतुप् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-८/२६) अस्तिसामानाधिकरण्ये मतुप् विधीयते ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-९/२६) न च अत्र अस्तिसामानाधिकरण्यम् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१०/२६) इह अपि तर्हि न प्राप्नोति ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-११/२६) अन्तर्वत्नी इति ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१२/२६) एवम् तर्हि अन्तर्वत्पतिवतोः तु मतुब्वत्वे निपातनात् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१३/२६) अन्तर्वत् इति मतुप् निपात्यते ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१४/२६) वत्वम् सिद्धम् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१५/२६) पतिवत् इति वत्वम् निपात्यते ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१६/२६) मतुप् सिद्धः ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१७/२६) किम् अविशेषेण ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१८/२६) न इति आह ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-१९/२६) गर्भिण्याम् जीवपत्याम् च ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२०/२६) एतस्मिन् विषये ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२१/२६) वा च छन्दसि नुक् भवेत् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२२/२६) वा च छन्दसि नुक् वक्तव्यः ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२३/२६) सा अन्तर्वती देवान् उपैत् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२४/२६) सा अन्तर्वत्नी देवान् उपैत् ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२५/२६) पतिवती तरुणवत्सा ।

(पा-४,१.३२; अकि-२,२१३.१५-२१४.८; रो-३,४९०-४९१; भा-२६/२६) पतिवत्नी तरुणवत्सा ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-१/१२) यज्ञ्संयोगे इति उच्यते ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-२/१२) तत्र इदम् न सिध्यति ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-३/१२) इयम् अस्ति पत्नी ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-४/१२) क्व तर्हि स्यात् ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-५/१२) पत्नीसंयाजः इति यत्र यज्ञसंयोगः ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-६/१२) न एषः दोषः ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-७/१२) पतिशब्दः अयम् ऐश्वर्यवाची ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-८/१२) सर्वेण च गृहस्थेन पञ्च महायज्ञाः निवर्त्याः ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-९/१२) यत् च अदः सायम् प्रातः होमचरुपुरोडाशान् निर्वपति तस्य असौ ईष्टे ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-१०/१२) एवम् अपि तुषजकस्य पत्नी इति न सिध्यति ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-११/१२) उपमानात् सिद्धम् ।

(पा-४,१.३३; अकि-२,२१४.१०-१४; रो-३,४८४९१-४९२; भा-१२/१२) पत्नी इव पत्नी इति ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-१/१५) पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् । पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् कर्तव्यम् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-२/१५) वृद्धपतिः वृद्धपत्नी स्थूलपतिः स्थूलपत्नी ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-३/१५) वचनात् भविष्यति ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-४/१५) अस्ति वचने प्रयोजनम् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-५/१५) किम् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-६/१५) आशापतिः आसापत्नी । सिद्धम् तु पत्युः प्रातिपदिकविशेषणत्वात् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-७/१५) सिद्धम् एतत् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-८/१५) कथम् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-९/१५) पत्युः प्रातिपदिकविशेषणत्वात् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-१०/१५) न एवम् विज्ञायते ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-११/१५) अस्ति अस्मात् पतिशब्दात् पूर्वः सः अयम् सपूर्वः ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-१२/१५) सपूर्वात् पतिशब्दात् अनुपसर्जनात् इति ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-१३/१५) कथम् तर्हि ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-१४/१५) अस्ति अस्मिन् प्रातिपदिके पूर्वः तत् इदम् सपूर्वम् ।

(पा-४,१.३४; अकि-२,२१४.१६-२१५.२; रो-३,४९२-४९३; भा-१५/१५) सपूर्वात् प्रातिपदिकात् पत्यन्तात् अनुपसर्जनात् इति ।

(पा-४,१.३६.१; अकि-२,२१५.४-२१६.२; रो-३,४९३-४९५; भा-१/३) पूतक्रत्वादीनाम् पुंयोगप्रकरणे वचनम् । पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः ।

(पा-४,१.३६.१; अकि-२,२१५.४-२१६.२; रो-३,४९३-४९५; भा-२/३) पूतक्रतोः स्त्री पूतक्रतायी ।

(पा-४,१.३६.१; अकि-२,२१५.४-२१६.२; रो-३,४९३-४९५; भा-३/३) यया हि पूताः क्रतवः पूतक्रतुः सा भवति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१/३८) लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतप्रसङ्गः । लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतम् प्राप्नोति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२/३८) पञ्चेन्द्राण्यः देवताः अस्य पञ्चेन्द्रः पञ्चाग्निः दशाग्निः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३/३८) किम् उच्यते सर्वत्र इति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-४/३८) अन्यत्र अपि न अवश्यम् इह एव ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-५/३८) क्व अन्यत्र ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-६/३८) पञ्चभिः धीवरीभिः क्रीतः पञ्चधीवा दशधीवा इति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-७/३८) लिङ्गग्रहणे न अर्थः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-८/३८) सर्वत्र आगमादेशानाम् वचने लुकि तत्कृतप्रसङ्गः इति एव ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-९/३८) इदम् अपि सिद्धम् भवति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१०/३८) पञ्चमेन गृह्णाति पञ्चकः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-११/३८) न एतत् अस्ति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१२/३८) मट् अयम् परादिः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१३/३८) स टतः ग्रहणेन ग्रहीष्यते ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१४/३८) इदम् तर्हि प्रयोजनम् ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१५/३८) षष्ठेन गृह्णाति षट्कः इति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१६/३८) सिद्धम् तु आगमादेशानाम् अङ्गतः स्त्रीप्रकरणे वचनात् ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१७/३८) सिद्धम् एतत् ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१८/३८) कथम् ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-१९/३८) आगमादेशाः ये इह स्त्रीप्रकरणे उच्यन्ते ते अङ्गाधिकारे वक्तव्याः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२०/३८) स्त्रीप्रकरणग्रहणेन न अर्थः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२१/३८) सिद्धम् तु आगमादेशानाम् अङ्गतः वचनात् इति एव ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२२/३८) इदम् अपि सिद्धम् भवति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२३/३८) षष्ठेन गृह्णाति षट्कः इति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२४/३८) लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् । अथ वा लिङ्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२५/३८) लिङ्गग्रहणेन न अर्थः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२६/३८) लुकि वा प्रकृतिप्रत्यापत्तिवचनम् इति एव ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२७/३८) इदम् अपि सिद्धम् भवति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२८/३८) षष्ठेन गृह्णाति षट्कः इति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-२९/३८) किम् पुनः अत्र ज्यायः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३०/३८) लुकि प्रकृतिप्रत्यापत्तिवचनम् इति एव ज्यायः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३१/३८) इदम् अपि सिद्धम् भवति ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३२/३८) पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३३/३८) तत् तर्हि वक्तव्यम् ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३४/३८) न वक्तव्यम् ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३५/३८) सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३६/३८) तत् यथा ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३७/३८) देवदत्तयज्ञदत्ताभ्याम् इदम् कर्म कर्तव्यम् ।

(पा-४,१.३६.२; अकि-२,२१५.७-२१६.२; रो-३,४९३-४९५; भा-३८/३८) देवदत्तापाये यज्ञदत्तः अपि न करोति ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-१/९) असितपलितयोः प्रतिषेधः ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-२/९) असितपलितयोः प्रतिषेधः वक्तयः ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-३/९) असिता पलिता ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-४/९) छन्दसि क्नम् एके ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-५/९) छन्दसि क्नम् एके इच्छन्ति ॒ असिक्नी असि ओषधे ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-६/९) पलिक्नीः इत् युवतयः भवन्ति ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-७/९) वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-८/९) वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.३९; अकि-२,२१६.४-९; रो-३,४९६; भा-९/९) पिशङ्गी ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-१/८) नीलात् ओषधौ ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-२/८) नीलात् ओषधौ इति वक्तव्यम् ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-३/८) नीली ओषधिः ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-४/८) प्राणिनि च ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-५/८) प्राणिनि च इति वक्तव्यम् ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-६/८) नीली गौः नीली वडवा ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-७/८) वा सञ्ज्ञायाम् । वा सञ्ज्ञायाम् इति वक्तव्यम् ।

(पा-४,१.४२; अकि-२,२१६.१३-१८; रो-३,४९६-४९७; भा-८/८) नीली नीला ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-१/१३) गुणवचनात् इति उच्यते ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-२/१३) कः गुणः नाम ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-३/१३) सत्त्वे निविशते अपैति पृथग्जातिषु दृश्यते आधेयः च अक्रियाजः च सः असत्त्वप्रकृतिः गुणः । अपरः आह ॒ उपैति अन्यत् ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-४/१३) जहाति अन्यत् ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-५/१३) दृष्टः द्रव्यान्तरेषु अपि ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-६/१३) वाचकः सर्वलिङ्गानाम् द्रव्यात् अन्यः गुणः स्मृतः ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-७/१३) गुणवचनात् ङीपा- आद्युदात्तार्थम् ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-८/१३) गुणवचनात् ङीप् वक्तव्यः ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-९/१३) किम् प्रयोजनम् ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-१०/१३) आद्युदात्तार्थम् ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-११/१३) आद्युदात्ताः प्रयोजयन्ति ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-१२/१३) वस्वी ।

(पा-४,१.४४; अकि-२,२१६.२०-२१७.१०; रो-३,४९७-४९९; भा-१३/१३) खरुसंयोगोपधप्रतिषेधः च ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१/१३२) गोपालिकादीनाम् प्रतिषेधः वक्तव्यः ॒ गोपालिका पशुपालिका ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२/१३२) किम् पुनः इह उदाहरणम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३/१३२) प्रष्ट्ःी प्रचरी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४/१३२) कथम् पुनः अयम् प्रष्ठशब्दः अकारान्तः स्त्रियाम् वर्तते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५/१३२) तस्य इदम् इति अनेन अभिसम्बन्धेन ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६/१३२) यथा एव हि असौ तत्कृतान् स्नानोद्वर्तनपरिषेकान् लभते एवम् प्रष्ठशब्दम् अपि लभते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७/१३२) यदि एवम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८/१३२) पुंयोगात् आख्यायाम् तद्धितस्य लुक् वक्तव्यः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९/१३२) तस्य इदम् इति प्राप्नोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०/१३२) न तर्हि इदानीम् इदम् भवति ॒ प्राष्थ्यः इमाः प्राचर्यः इमाः इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११/१३२) भवति च ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२/१३२) विभाषा लुक् वक्तव्यः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१३/१३२) यदा लुक् तदा प्रष्ठी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१४/१३२) यदा न लुक् तदा प्राष्ठी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१५/१३२) यदि एवम् न अर्थः लुका ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१६/१३२) विभाषा तद्धितोत्पत्तिः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१७/१३२) यदा तद्धितोत्पत्तिः तदा प्राष्ठी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१८/१३२) यदा न तद्धितोत्पत्तिः तदा प्रष्ठी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१९/१३२) एवम् अपि लुक् वक्तव्यः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२०/१३२) न हि अन्तरेण तद्धितस्य लुकम् परार्थे शब्दः वर्तते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२१/१३२) यदि पुनः तस्याम् एव प्रष्ठशब्दः वर्तेत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२२/१३२) कथम् पुनः तस्याम् अप्रतिष्ठमानायाम् प्रष्ठशब्दः वर्तेत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२३/१३२) यथा एव हि असौ अकुर्वती किम् चित् पापम् तत्कृतान् वधबन्दनपरिक्लेशान् लभते एवम् प्रष्ठशब्दम् अपि लभते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२४/१३२) सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२५/१३२) सुबन्तसमासवचनात् च अकारान्तता न उपपद्यते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२६/१३२) सुबन्तानाम् समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२७/१३२) तत्र अन्तरङ्गत्वात् टाप् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२८/१३२) टपि उत्पन्ने समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-२९/१३२) स्थाशब्दः समस्येत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३०/१३२) तत्र पुंयोगात् आख्यायाम् अकारान्तात् इति ईकारः न प्राप्नोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३१/१३२) सिद्धम् तु स्त्रियाः पुंशब्देन अभिधानात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३२/१३२) सिद्धम् एतत् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३३/१३२) कथम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३४/१३२) स्त्रियाः पुंशब्देन अभिधानात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३५/१३२) स्त्री पुंशब्देन अभिधीयते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३६/१३२) ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३७/१३२) न एषः दोषः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३८/१३२) आचार्यप्रवृत्तिः ज्ञापयति न अतः तद्धितोत्पत्तिः भवति इति यत् अयम् पुंयोगात् आख्यायाम् ईकारम् शास्ति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-३९/१३२) न एतत् अस्ति ज्ञापकम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४०/१३२) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४१/१३२) ये अनीकाराः स्त्रीप्रत्ययाः तदर्थम् एतत् स्यात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४२/१३२) यत् तर्हि आख्याग्रहणम् करोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४३/१३२) न हि तद्धितान्तम् आख्या भवति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४४/१३२) अथ वा पुनः अस्तु तस्य इदम् इति अनेन अभिसम्बन्धेन ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४५/१३२) ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४६/१३२) न एषः दोषः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४७/१३२) न अवश्यम् अयम् एव अभिसम्बन्धः भवति तस्य इदम् इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४८/१३२) अयम् अपि अभिसम्बन्धः अस्ति सः अयम् इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-४९/१३२) कथम् पुनः अतस्मिन् सः इति एतत् भवति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५०/१३२) चतुर्भिः प्रकारैः अतस्मिन् सः इति एतत् भवति तात्स्थ्यात् ताद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यात् इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५१/१३२) तात्स्थ्यात् तावत् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५२/१३२) मञ्चाः हसन्ति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५३/१३२) गिरिः दह्यते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५४/१३२) ताद्धर्म्यात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५५/१३२) जटिनम् यान्तम् ब्रह्मदत्तः इति आह ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५६/१३२) ब्रह्मदत्ते यानि कार्याणि जटिनि अपि तानि क्रियन्ते इति अतः जटि ब्रह्मदत्तः इति उच्यते ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५७/१३२) तत्सामीप्यात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५८/१३२) गङ्गायाम् घोषः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-५९/१३२) कूपे गर्गकुलम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६०/१३२) तत्साहचर्यात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६१/१३२) कुन्तान् प्रवेशय ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६२/१३२) यष्टीः प्रवेशय इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६३/१३२) अथ वा पुनः अस्तु तस्याम् एव प्रष्ठशब्दः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६४/१३२) ननु च उक्तम् सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६५/१३२) न एषः दोषः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६६/१३२) गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६७/१३२) गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति एषा परिभाषा कर्तव्या ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६८/१३२) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-६९/१३२) प्रयोजनम् क्तात् अल्पाख्यायाम् । अभ्रविलिप्तीसूपविलिप्ति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७०/१३२) सुबन्तानाम् समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७१/१३२) तत्र अन्तरङ्गत्वात् टाप् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७२/१३२) टपि उत्पन्ने समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७३/१३२) विलिप्ताशब्दः समस्येत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७४/१३२) तत्र क्तात् अल्पाख्यायाम् अकारान्तात् इति ङीष् न प्राप्नोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७५/१३२) जातेः ङीष्विधाने ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७६/१३२) जातेः ङीष्विधाने प्रयोजनम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७७/१३२) व्याघ्री कच्छपी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७८/१३२) सुबन्तानाम् समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-७९/१३२) तत्र अन्तरङ्गत्वात् टाप् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८०/१३२) टपि उत्पन्ने समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८१/१३२) घ्राशब्दः समस्येत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८२/१३२) तत्र जातेः अस्त्रीविषयात् अयोपधात् अकारान्तात् इति ङीष् न प्राप्नोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८३/१३२) समासान्तस्य णत्वे ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८४/१३२) समासान्तस्य णत्वे प्रयोजनम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८५/१३२) वक्ष्यति प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८६/१३२) तस्मिन् क्रियमाणे माषवापिणी व्रीहिवापिणी सुबन्तानाम् समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८७/१३२) तत्र अन्तरङ्गत्वात् नकारान्तत्वात् ङीप् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८८/१३२) ङीपि उत्पन्ने समासः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-८९/१३२) वापिनी शब्दः समस्येत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९०/१३२) तत्र समासान्तस्य इति णत्वम् न प्राप्नोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९१/१३२) कृदन्तात् तद्धिते वृद्धिस्वरौ च ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९२/१३२) कृदन्तात् तद्धिते वृद्धिस्वरौ च प्रयोजनम् ॒ साङ्कुटिनम् व्यावक्रोशी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९३/१३२) अत्र अवयवात् उत्पत्तिः प्रसज्येत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९४/१३२) गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति न दोषः भवति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९५/१३२) सत्याम् अपि एतस्याम् परिभाषायाम् अवयवात् उत्पत्तिः प्राप्नोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९६/१३२) किम् कारणम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९७/१३२) प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९८/१३२) कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-९९/१३२) यदि तर्हि एषा परिभाषा अस्ति न एतस्याः परिभाषायाः प्रयोजनम् भवति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१००/१३२) एतया एव सिद्धम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०१/१३२) न सिध्यति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०२/१३२) किम् कारणम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०३/१३२) अप्रातिपदिकत्वात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०४/१३२) कृत्त्वात् प्रातिपदिकसञ्ज्ञा भविष्यति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०५/१३२) ननु च इदानीम् प्रातिपदिकसञ्ज्ञायाम् अपि एतया परिभाषया शक्यम् उपस्थातुम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०६/१३२) न इति आह ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०७/१३२) इह हि मूलकेन उपदंशम् भुङ्क्ते इति वाक्ये अपि लुक् प्रसज्येत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०८/१३२) स्वरे च दोषः स्यात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१०९/१३२) प्रकारकः प्रकरणम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११०/१३२) गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः न स्यात् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१११/१३२) न एषः दोषः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११२/१३२) द्वे अत्र प्रातिपदिकसञ्ज्ञे ॒ अवयवस्य अपि समुदायस्य अपि ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११३/१३२) तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयः स्वरः भविष्यति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११४/१३२) इह अपि तर्हि साङ्कुटिनम् व्यावक्रोशी इति द्वे अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११५/१३२) तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयावयवात् उत्पत्तिः प्रसज्येत ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११६/१३२) अवयवात् उत्पत्तौ सत्याम् कः दोषः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११७/१३२) कौम्भकारेयः न सिध्यति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११८/१३२) अवयवस्य वृद्धिस्वरौ स्याताम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-११९/१३२) तस्मात् प्रयोजनम् एव एतस्याः परिभाषायाः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२०/१३२) उभाभ्याम् नु खलु सिध्यति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२१/१३२) अवदातायाम् तु ङीप्प्रसङ्गः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२२/१३२) अवदातायाम् तु ङीप् प्राप्नोति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२३/१३२) अवदाता ब्राह्मणी ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२४/१३२) वर्णात् अनुदात्तात् तोपधात् तः नः इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२५/१३२) न एषः वर्णवाची ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२६/१३२) किम् तर्हि विशुद्धवाची ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२७/१३२) आतः च विशुद्धवाची ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२८/१३२) एवम् हि आह त्रीणि यस्य अवदातानि विद्या योनिः च कर्म च एतत् शिवम् विजानीहि ब्राह्मणाग्र्यस्य लक्षणम् इति ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१२९/१३२) सूर्यात् देवतायाम् चाप् वक्तव्यः ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१३०/१३२) सूर्यस्य स्त्री सूर्या ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१३१/१३२) देवतायाम् इति किमर्थम् ।

(पा-४,१.४८; अकि-२,२१७.१२-२२०.११; रो-३,५००-५०९; भा-१३२/१३२) सूरी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१/२४) हिमारण्ययोः महत्त्वे ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-२/२४) हिमारण्ययोः महत्त्वे इति वक्तव्यम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-३/२४) महत् हिमम् हिमानी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-४/२४) महत् अरण्यम् अरण्यानी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-५/२४) यवात् दोषे ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-६/२४) यवात् दोषे इति वक्तव्यम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-७/२४) दुष्टः यवः यवानी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-८/२४) यवनात् लिप्याम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-९/२४) यवनात् लिप्याम् इति वक्तव्यम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१०/२४) यवनानी लिपिः ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-११/२४) उपाध्यायमातुलाभ्याम् वा ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१२/२४) उपाध्यायमातुलाभ्याम् वा इति वक्तव्यम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१३/२४) उपाध्यायी उपाध्यायानी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१४/२४) मातुली मातुलानी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१५/२४) मुद्गलात् छन्दसि लित् च ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१६/२४) मुद्गलात् छन्दसि लित् च इति वक्तव्यम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१७/२४) रथीः अभूत् मुद्गलानी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१८/२४) आचार्यात् अणत्वम् च ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-१९/२४) आचार्यात् अणत्वम् च इति वक्तव्यम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-२०/२४) आचार्यानी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-२१/२४) आर्यक्षत्रियाभ्याम् वा ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-२२/२४) आर्यक्षत्रियाभ्याम् वा इति वक्तव्यम् ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-२३/२४) आर्या आर्याणी ।

(पा-४,१.४९; अकि-२,२२०.१४-२२१.४; रो-३,५१०-५११; भा-२४/२४) क्षत्रिया क्षत्रियाणी ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-१/११) करणपूर्वात् इति किमर्थम् ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-२/११) गवात् क्रीता ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-३/११) अश्वेन क्रीता ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-४/११) करणपूर्वात् इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-५/११) एषः अपि हि क्रीतशब्दः करणपूर्वः ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-६/११) विभक्त्या व्यवहितत्वात् न भविष्यति ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-७/११) यदि तर्हि विभक्तिः अपि ववधायिका भविष्यति मनसाक्रीती इति न सिध्यति ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-८/११) एवम् तर्हि न एवम् विज्ञायते ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-९/११) करणम् पूर्वम् अस्मात् क्रीतशब्दात् सः अयम् करणपूर्वः तस्मात् करणपूर्वात् क्रीतशब्दात् अनुपसर्जनात् इति ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-१०/११) कथम् तर्हि ।

(पा-४,१.५०; अकि-२,२२१.६-१२; रो-३,५११; भा-११/११) करणम् अस्मिन् प्रातिपदिके पूर्वम् तत् इदम् करणपूर्वम् तस्मात् करणपूर्वात् प्रातिपदिकात् क्रीतान्तात् अनुपसर्जनात् इति ।