व्याकरणमहाभाष्य खण्ड 44

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१/२८) अन्तोदात्ते जातप्रतिषेधः ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२/२८) अन्तोदात्ते जातस्य प्रतिषेधः वक्तव्यः ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-३/२८) दन्तजाता स्तनजाता ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-४/२८) पाणिगृहीत्यादीनाम् विशेषे ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-५/२८) पाणिगृहीत्यादीनाम् विशेषे इति वक्तव्यम् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-६/२८) पाणिन्गृहीती इति भार्या ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-७/२८) यस्य यथा कथम् चित् पाणिः गृह्यते पाणिगृहीता सा भवति ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-८/२८) बहुलम् तणि ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-९/२८) बहुलम् तणि इति वक्तव्यम् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१०/२८) किम् इदम् तणि इति ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-११/२८) सञ्ज्ञाच्छन्दसोः ग्रहणम् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१२/२८) किम् प्रयोजनम् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१३/२८) प्रबद्धविलूनाद्यर्थम् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१४/२८) प्रबद्धविलूनी प्रबद्धविलूना ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१५/२८) अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१६/२८) अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् इति वक्तव्यम् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१७/२८) बहु ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१८/२८) बहुकृता ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-१९/२८) नञ् ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२०/२८) अकृता ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२१/२८) सु ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२२/२८) सुकृता ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२३/२८) काल ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२४/२८) मासजाता संवत्सरजाता ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२५/२८) सुखादि ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२६/२८) सुखजाता दुःखजाता ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२७/२८) जातिपूर्वात् वा ।

(पा-४,१.५२; अकि-२,२२१.१४-२२२.६; रो-३,५१२-५१३; भा-२८/२८) अथ वा जातिपूर्वात् इति वक्तव्यम् ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१/२८) स्वाङ्गात् च उपसर्जनात् इति उच्यते ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२/२८) किम् स्वाङ्गम् नाम ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-३/२८) अद्रवम् मूर्तिमत् स्वाङ्गम् प्राणिस्थम् अविकारजम् अतत्स्थम् तत्र दृष्टम् च तस्य चेत् तत् तथा युतम् ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-४/२८) अप्राणिनः अपि स्वाङ्गम् ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-५/२८) अद्रवम् इति किमर्थम् ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-६/२८) बहुलोहिता ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-७/२८) न एतत् अस्ति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-८/२८) बह्वचः न इति प्रतिषेधः भविष्यति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-९/२८) इदम् तर्हि बहुकफा ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१०/२८) मूर्तिमत् इति किमर्थम् ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-११/२८) बहुबुद्धिः बहुमनाः ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१२/२८) न एतत् अस्ति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१३/२८) अतः इति वर्तते ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१४/२८) इदम् तर्हि ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१५/२८) बहुज्ञाना ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१६/२८) प्राणिस्थम् इति किमर्थम् ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१७/२८) श्लक्ष्णमुखा शाला ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१८/२८) अविकारजम् इति किमर्थम् ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-१९/२८) बहुगडुः बहुपटिका ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२०/२८) न एतत् अस्ति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२१/२८) इह तावत् बहुगडुः इति अतः इति वर्तते ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२२/२८) बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२३/२८) इदम् तर्हि बहुशोफा ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२४/२८) अतत्स्थम् तत्र दृष्टम् च ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२५/२८) अप्राणिस्थम् प्राणिनि दृष्टम् च स्वाङ्गसञ्ज्ञम् भवति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२६/२८) दीर्घकेशी रथ्या इति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२७/२८) तस्य चेत् तत् तथा युतम् अप्राणिनः अपि स्वाङ्गसञ्ज्ञम् भवति ।

(पा-४,१.५४.१; अकि-२,२२२.८-१८; रो-३,५१३-५१३; भा-२८/२८) दीर्घनासिकी अर्चा तुङ्गनासिकी अर्चा ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१/५४) अथ उपसर्जनग्रहणम् किमर्थम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२/५४) इह मा भूत् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३/५४) शिखा ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४/५४) उपसर्जनग्रहणम् अनर्थकम् बहुव्रीह्यधिकारात् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-५/५४) उपसर्जनग्रहणम् अनर्थकम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-६/५४) किम् कारणम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-७/५४) बहुव्रीह्यधिकारात् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-८/५४) बहुव्रीहेः इति वर्तते ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-९/५४) क्व प्रकृतम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१०/५४) बहुव्रीहेः च अन्तोदात्तात् इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-११/५४) बह्वजर्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१२/५४) बह्वचः न इति प्रतिषेधम् वक्ष्यति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१३/५४) तत् बह्वज्ग्रहणम् उपसर्जनविशेषणम् यथा विज्ञायेत ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१४/५४) बह्वचः उपसर्जनात् न इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१५/५४) अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणम् विशेषणम् स्यात् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१६/५४) बहुर्वीहेः इति वर्तते ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१७/५४) बहुव्रीहिविशेषणम् विज्ञायेत ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१८/५४) अस्ति च इदानीम् कः चित् अबह्वच् बहुव्रीहिः यदर्थः विधिः स्यात् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-१९/५४) अस्ति इति आह ॒ स्वडा स्वडी इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२०/५४) बह्वजर्थम् इति चेत् स्वाङ्गग्रहणात् सिद्धम् । स्वाङ्गग्रहणम् क्रियते ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२१/५४) तत् बह्वज्ग्रहणेन विशेषयिष्यामः ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२२/५४) स्वाङ्गात् बह्वचः न इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२३/५४) एवम् तर्हि अन्तोदादात्तात् इति वर्तते ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२४/५४) अन्तोदात्तार्थः अयम् आरम्भः ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२५/५४) अन्तोदात्तार्थम् इति चेत् सहादिकृतत्वात् सिद्धम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२६/५४) यत् अयम् सहनञ्विद्यमानपूर्वात् च इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः अन्तोदात्तात् अपि भवति इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२७/५४) स्वाङ्गसमुदायप्रतिषेधार्थम् तु ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२८/५४) स्वाङ्गसमुदायप्रतिषेधार्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-२९/५४) श्वाङ्गात् यथा स्यात् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३०/५४) स्वाङ्गसमुदायात् मा भूत् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३१/५४) कल्याणपाणिपादा ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३२/५४) अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मात् एव अत्र न भवति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३३/५४) स्वाङ्गम् हि एतत् उपसर्जनम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३४/५४) न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३५/५४) काशिकोसलीया इति जनपदतदवध्योः इति वुञ् न भवति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३६/५४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३७/५४) अस्वाङ्गपूर्वपदात् इति वर्तते ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३८/५४) तेन स्वाङ्गम् विशेषयिष्यामः ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-३९/५४) अस्वाङ्गपूर्वपदात् परम् यत् स्वाङ्गम् तदन्तात् बहुव्रीहेः इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४०/५४) यत् च अत्र अस्वाङ्गपूर्वपदात् परम् न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न तत् अस्वाङ्गपूर्वपदात् परम् स्वाङ्गम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४१/५४) ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४२/५४) न इति आह ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४३/५४) पूर्वपदविशेषणम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४४/५४) न स्वाङ्गम् अस्वाङ्गम् पूर्वम् पदम् पूर्वपदम् अस्वाङ्गम् पूर्वपदम् अस्वाङ्गपूर्वपदम् अस्वाङ्गपूर्वपदात् इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४५/५४) यदि एवम् पूर्वस्मिन् योगे बहुव्रीहिः अविशेषितः भवति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४६/५४) बहुव्रीहिः च विशेषितः ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४७/५४) कथम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४८/५४) क्तात् इति वर्तते ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-४९/५४) तेन बहुव्रीहिम् विशेषयिष्यामः ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-५०/५४) अस्वाङ्गात् पूर्वपदात् परम् यत् क्तान्तम् तदन्तात् बहुव्रीहेः इति ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-५१/५४) इदम् तर्हि प्रयोजनम् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-५२/५४) बहुव्रीहेः इति वर्तते उपसर्जनमात्रात् यथा स्यात् ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-५३/५४) निष्केशी यूका ।

(पा-४,१.५४.२; अकि-२,२२२.१९-२२३.२३; रो-३,५१४-५१६; भा-५४/५४) अतिकेशी माला ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-१/९) नासिकादीनाम् विभाषायाम् पुच्छात् च ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-२/९) नासिकादीनाम् विभाषायाम् पुच्छात् च इति वक्तव्यम् ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-३/९) कल्याणपुच्छी कल्याणपुच्छा ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-४/९) कबरमणिविषशरेभ्यः नित्यम् ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-५/९) कबरमणिविषशरेभ्यः नित्यम् इति वक्तव्यम् ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-६/९) कबरपुच्छी मणिपुच्छी विषपुच्छी शरपुच्छी ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-७/९) उपमानात् पक्षात् च ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-८/९) उपमानात् पक्षात् च पुच्छात् च इति वक्तव्यम् ।

(पा-४,१.५५.१; अकि-२,२२३.२५-२२४.५; रो-३,५१७; भा-९/९) उलूकपक्षी शाला उलूकपक्षी सेना इति ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१/१९) नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः विप्रतिषेधेन ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-२/१९) नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-३/१९) नासिकादिभ्यः विभाषायाः अवकाशः कल्याणनासिकी कल्याणनासिका ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-४/१९) सहनञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्य अवकाशः समुखा अमुखा विद्यमान्मुखा इति ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-५/१९) इह उभयम् प्राप्नोति ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-६/१९) सनासिका अनासिका विद्यमाननासिका इति ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-७/१९) सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-८/१९) न एषः युक्तः विप्रतिषेधः ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-९/१९) अयम् विधिः सः प्रतिषेधः ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१०/१९) विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-११/१९) अयम् अपि विधिः न मृदूनाम् इव कर्पासानाम् कृतः प्रतिषेधविषये आरभ्यते ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१२/१९) सः यथा एव बह्वज्लक्षणम् संयोगोपधलक्षणम् च प्रतिषेधम् बाधते एवम् सहनञ्विद्यमानपूर्वलक्षणम् अपि बाधेत ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१३/१९) का तर्हि गतिः ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१४/१९) इह तावत् नासिकोदर इति बह्वज्लक्षणः च प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१५/१९) पुरस्तात् अपवादाः अनन्तरान् विधीन् भादन्ते इति एवम् इयम् विभाषा बह्वज्लक्षणम् प्रतिषेधम् बाधिष्यते ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१६/१९) सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१७/१९) ओष्ठजङ्घादन्तकर्णश्र्ङ्गात् च इति संयोगलक्षणः प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१८/१९) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा संयोगलक्षणम् प्रतिषेधम् बाधिष्यते ।

(पा-४,१.५५.२; अकि-२,२२४.६-२१; रो-३,५१७-५१८; भा-१९/१९) सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१/२०) दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् । दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् वक्तव्यम् ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-२/२०) प्राङ्मुखी प्रत्यङ्मुक्ःी ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-३/२०) ङीब्विधाने हि अन्यत्र अपि ङीष्विषयान् ङीप्प्रसङ्गः ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-४/२०) ङीब्विधाने हि सति अन्यत्र अपि ङीष्विषयान् ङीप् प्रसज्येत ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-५/२०) प्राग्गुल्फा प्रत्यग्ललाटा ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-६/२०) ननु च एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-७/२०) यदि अपि एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति एवम् अपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-८/२०) न एषः दोषः ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-९/२०) उक्तम् एतत् यत्रोत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१०/२०) अथ वा ङीषः आदेशः ङीप् करिष्यते ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-११/२०) तत् तर्हि ङीषः ग्रहणम् कर्तव्यम् ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१२/२०) न कर्तव्यम् ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१३/२०) प्रकृतम् अनुवर्तते ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१४/२०) क्व प्रकृतम् ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१५/२०) अन्यतः ङीष् इति ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१६/२०) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१७/२०) दिक्पूर्वपदात् इति एषा पञ्चमी ङीष् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१८/२०) प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-१९/२०) न अयम् प्रत्ययविधिः ।

(पा-४,१.६०; अकि-२,२२४. २३-२२५.११; रो-३,५१८-५१९; भा-२०/२०) विहितः प्रत्ययः प्रकृतः च अनुवर्तते.

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-१/८) जातेः इति उच्यते ।

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-२/८) का जातिः नाम ।

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-३/८) आकृतिग्रहणा जातिः लिङ्गानाम् च न सर्वभाक् सकृताख्यातनिर्ग्राह्या गोत्रम् च चरणैः सह ।

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-४/८) अपरः आह ॒ प्रादुर्भावविनाशाभ्याम् सत्त्वस्य युगपत् गुणैः असर्वलिङ्गाम् बह्वर्थाम् ताम् जातिम् कवयः विदुः ।

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-५/८) गोत्रम् च चरणानि च ।

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-६/८) कः पुनः एतयोः जातिलक्षणयोः विशेषः ।

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-७/८) यथा पूर्वम् जातिलक्षणम् तथा कुमारीभार्यः इति भवितव्यम् ।

(पा-४,१.६३.१; अकि-२,२२५.१३-२१; रो-३,५१९-५२१; भा-८/८) यथा उत्तरम् तथा कुमारभार्यः इति भवितव्यम् ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-१/८) अथ अस्त्रीविषयात् इति कथम् इदम् विज्ञायते ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-२/८) समानायाम् आकृतौ यत् अस्त्रीविषयम् इति आहोस्वित् क्व चित् यत् अस्त्रीविषयम् इति ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-३/८) किम् च अतः ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-४/८) यदि विज्ञायते समानायाम् आकृतौ यत् अस्त्रीविषयम् इति द्रोणी कुटी पात्री इति न सिध्यति ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-५/८) अथ विज्ञायते क्व चित् यत् अस्त्रीविषयम् इति माला बलाका अत्र अपि प्राप्नोति ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-६/८) अस्तु क्व चित् यत् अस्त्रीविषयम् इति ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-७/८) कथम् माला बलाका इति ।

(पा-४,१.६३.२; अकि-२,२२५.२२-२६; रो-३,५२२; भा-८/८) अजादिषु पाठः करिष्यते ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-१/९) अयोपधात् इति किमर्थम् ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-२/९) इभ्या क्षत्रिया ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-३/९) अत्यल्पम् इदम् उच्यते अयोपधात् इति ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-४/९) अकोपधात् इति अपि वक्तव्यम् इह अपि यथा ॒ स्यात् ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-५/९) चटका मूषिका इति ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-६/९) यदि अकोपधात् इति उच्यते काकी कोकी शुकी इति न सिध्यति ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-७/९) अस्तु तर्हि अयोपधात् इति एव ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-८/९) कथम् चटका मूषिका इति ।

(पा-४,१.६३.३; अकि-२,२२५.२७-२२६.६; रो-३,५२२-५२३; भा-९/९) अजादिषु पाठः कर्तव्यः ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१/२५) सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः । सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः वक्तव्यः ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-२/२५) सत्पुष्पा प्राक्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा अकपुष्पा ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-३/२५) सम्भस्त्राजिनशणपिण्डेभ्यः फलात् ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-४/२५) सम्भस्त्रात्जिनशणपिण्डेभ्यः फलात् प्रतिषेधः वक्तव्यः ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-५/२५) सम् ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-६/२५) सम्फला ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-७/२५) सम् ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-८/२५) भस्त्रा ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-९/२५) भस्त्राफला ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१०/२५) भस्त्रा ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-११/२५) अजिन ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१२/२५) अजिनफला ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१३/२५) अजिन ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१४/२५) पिण्ड ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१५/२५) पिण्डफला ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१६/२५) पिण्ड ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१७/२५) शण ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१८/२५) शणफला ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-१९/२५) शण ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-२०/२५) श्वेतात् च इति वक्तव्यम् ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-२१/२५) श्वेतफला ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-२२/२५) त्रेः च ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-२३/२५) त्रेः च प्रतिषेधः वक्तव्यः ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-२४/२५) त्रिफला ।

(पा-४,१.६४; अकि-२,२२६.८-१९; रो-३,५२३; भा-२५/२५) मुलात् नञः ।

(पा-४,१.६५; अकि-२,२२६.१-२२७.२; रो-३,५२४; भा-१/६) जातेः इति वर्तमाने पुनः जातिग्रहणम् किमर्थम् ।

(पा-४,१.६५; अकि-२,२२६.१-२२७.२; रो-३,५२४; भा-२/६) अयोपधात् इति वर्तते ।

(पा-४,१.६५; अकि-२,२२६.१-२२७.२; रो-३,५२४; भा-३/६) योपधात् अपि यथा स्यात् ।

(पा-४,१.६५; अकि-२,२२६.१-२२७.२; रो-३,५२४; भा-४/६) औदमेयी ।

(पा-४,१.६५; अकि-२,२२६.१-२२७.२; रो-३,५२४; भा-५/६) इतः मनुष्यजातेः इञः उपसङ्ख्यानम् । इतः मनुष्यजातेः इञः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.६५; अकि-२,२२६.१-२२७.२; रो-३,५२४; भा-६/६) सौतङ्गमी मौनिचिती ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१/२१) किमर्थः ङकारः ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-२/२१) विशेषणाऋथः ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-३/२१) क्व विशेषणाऋथेन अर्थः ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-४/२१) न ऊङ्धात्वोः इति ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-५/२१) न ऊधात्वोः इति उच्यमाने यवाग्वा यवाग्वै इति अत्र अपि प्रसज्येत ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-६/२१) अथ दीर्घोच्चारणम् किमर्थम् न ऊङ् उतः इति एव उच्येत ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-७/२१) का रूपसिद्धिः ॒ ब्रह्मबन्धूः , धीवबन्धूः इति ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-८/२१) सवर्णदीर्घत्वेन सिद्धम् ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-९/२१) न सिध्यति ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१०/२१) गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-११/२१) इह च ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१२/२१) इह च ब्रह्मबन्धूः , धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१३/२१) न एषः दोषः ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१४/२१) यत् तावत् उच्यते ब्रह्मबन्धूः , धीवबन्धूः इति गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत इति ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१५/२१) उभयतः आश्रये न अन्तादिवत् ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१६/२१) यत् अपि उच्यते ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत इति ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१७/२१) पदान्तपदाद्योः एकादेशः असिद्धः न च एषः पदान्तपदाद्योः एकादेशः ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१८/२१) यत् अपि उच्यते इह च ब्रह्मबन्धूः धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत इति ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-१९/२१) नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् न च एषः नद्यन्तानाम् यः बहुव्रीहिः ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-२०/२१) शेषलक्षणः तर्हि कप् प्राप्नोति ।

(पा-४,१.६६.१; अकि-२,२२७.४-१६; रो-३,५२४-५२५; भा-२१/२१) तस्मात् दीर्घोच्चारणम् कर्तव्यम् ।

(पा-४,१.६६.२; अकि-२,२२७.१७-१९; रो-३,५२५; भा-१/७) ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् ।

(पा-४,१.६६.२; अकि-२,२२७.१७-१९; रो-३,५२५; भा-२/७) ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् इति वक्तव्यम् ।

(पा-४,१.६६.२; अकि-२,२२७.१७-१९; रो-३,५२५; भा-३/७) अलाबूः कर्कन्धूः ।

(पा-४,१.६६.२; अकि-२,२२७.१७-१९; रो-३,५२५; भा-४/७) अप्राणिजातेः इति किमर्थम् ।

(पा-४,१.६६.२; अकि-२,२२७.१७-१९; रो-३,५२५; भा-५/७) कृकवाकुः ।

(पा-४,१.६६.२; अकि-२,२२७.१७-१९; रो-३,५२५; भा-६/७) अरज्ज्वादीनाम् इति किमर्थम् ।

(पा-४,१.६६.२; अकि-२,२२७.१७-१९; रो-३,५२५; भा-७/७) रज्जुः हनुः ।

(पा-४,१.७०; अकि-२,२२७.२१; रो-३,५२६; भा-१/२) सहितसह्हाभ्याम् च इति वक्तव्यम् ।

(पा-४,१.७०; अकि-२,२२७.२१; रो-३,५२६; भा-२/२) सहितोरूः सहोरूः ।

(पा-४,१.७१; अकि-२,२२७.२३-२४; रो-३,५२६; भा-१/२) अत्यल्पम् इदम् उच्यते कद्रुकमण्डव्ल्वोः इति ।

(पा-४,१.७१; अकि-२,२२७.२३-२४; रो-३,५२६; भा-२/२) कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूणाम् इति वक्तव्यम् ॒ कद्रूः , कमण्डलूः , गुग्गुलूः , मधूः , जतूः , पतयालूः ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-१/११) षात् च यञः चाप् ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-२/११) षात् च यञः चाप् वक्तव्यः ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-३/११) शार्कराक्ष्या पौतिमाष्या ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-४/११) तत्र अयम् अपि अर्थः ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-५/११) गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-६/११) सः न पठितव्यः भवति ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-७/११) यदि न पठ्यते गौक्षीपुत्रः इति सम्प्रसारणम् न प्राप्नोति ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-८/११) इष्टम् एव एतत् सङ्गृहीतम् ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-९/११) गौक्ष्यापुत्रः इति एव भवितव्यम् ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-१०/११) एवम् हि सौनागाः पठन्ति ।

(पा-४,१.७४; अकि-२,२२८.२-६; रो-३,५२६; भा-११/११) ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः इति ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१/३७) अनः उपधालोपिनः ऊधसः ङीष् पूर्वविप्रतिषिद्धम् ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२/३७) अनः उपधालोपिनः अन्यतरस्याम् इति एतस्मात् ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३/३७) अतः उपधालोपिनः अन्यतरस्याम् इति एतस्य अवकाशः बहुराज्ञी बहुतक्ष्णी ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-४/३७) ऊधसः ङीष् भवति इति अस्य अवकाशः ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-५/३७) विभाषा ङीप् ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-६/३७) यदा न ङीप् सः अवकाशः ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-७/३७) ङीप्प्रसङ्गे उभयम् प्राप्नोति ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-८/३७) ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-९/३७) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१०/३७) न वक्तव्यः ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-११/३७) अनः उपधालोपिनः अन्यतरस्याम् इति अत्र ऊधसः ङीष् भवति इति एतत् अनुवर्तिष्यते ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१२/३७) आवट्यात् यञः ष्फः चापः ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१३/३७) आवट्यात् यञः ष्फः चापः भवति पूर्वविप्रतिषेधेन ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१४/३७) आवट्यात् यञः चापः अवकाशः उदीचाम् ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१५/३७) आवट्या ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१६/३७) ष्फस्य अवकाशः अन्यानि यञन्तानि ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१७/३७) गार्ग्यायणी वात्स्यायनी ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१८/३७) आवट्यशब्दात् प्राचाम् उभयम् प्राप्नोति ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-१९/३७) आवट्यायनी ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२०/३७) ष्फः भवति पूर्वविप्रतिषेधेन ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२१/३७) आवट्यग्रहणेन न अर्थः ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२२/३७) यञः ष्फः चापः इति एव ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२३/३७) इदम् अपि सिद्धम् भवति ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२४/३७) शार्कराक्ष्यायणी पौतिमाष्यायणी ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२५/३७) यञ्ग्रहणेन न अर्थः ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२६/३७) ष्फः चापः इति एव ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२७/३७) गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२८/३७) इदम् अपि सिद्धम् भवति गौकक्ष्यायणी ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-२९/३७) तत् तर्हि वक्तव्यम् ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३०/३७) न वक्तव्यम् ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३१/३७) एवम् वक्ष्यामि ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३२/३७) प्राचाम् ष्फः तद्धितः सर्वत्र ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३३/३७) क्व सर्वत्र ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३४/३७) यत्र ष्फः च अन्यः च प्राप्नोति ष्फः एव तत्र भवति इति ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३५/३७) ततः लोहिताइद्कतन्तेभ्यः सर्वत्र ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३६/३७) क्व सर्वत्र ।

(पा-४,१.७५; अकि-२,२२८.८-२४; रो-३,५२७-५२८; भा-३७/३७) प्राचाम् च उदीचाम् च ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१/३३) इह कस्मात् न भवति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२/३३) दाक्षी प्लाक्षी इति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-३/३३) अतिशायिकेन अयम् तमशब्देन निर्देशः क्रियते ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-४/३३) सः च त्रिप्रभृतिषु वर्तते ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-५/३३) त्रिप्रभृतीनाम् अभावात् ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-६/३३) यदि एवम् प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु आम्विधिः केन ते न स्यात् प्रकर्षे यदि अयम् तमः ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-७/३३) प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु इति उच्यते आम्विधिः केन तव न स्यात् ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-८/३३) अव्ययघात् इति प्राप्नोति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-९/३३) प्रकर्षे यदि अयम् तमः ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१०/३३) यदि अयम् तमः प्रकर्षे वर्तते ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-११/३३) उद्गतस्य प्रकर्षः अयम् ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१२/३३) गतशब्दः अत्र लुप्यते ।उद्गतस्य अयम् प्रकर्षः ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१३/३३) गतशब्दस्य अत्र लोपः भवति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१४/३३) नाव्ययार्थप्रकर्षः अस्ति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१५/३३) धात्वर्थः अत्र प्रकृष्यते ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१६/३३) नाव्ययस्य अर्थस्य प्रकर्षः ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१७/३३) कस्य तर्हि ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१८/३३) धात्वर्थस्य ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-१९/३३) उद्गतः अपेक्षते किम् चित् ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२०/३३) त्रयाणाम् द्वौ किल उद्गतौ । अनुद्गतम् अपेक्ष्य उद्गतः इति एतत् भवति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२१/३३) त्रयाणाम् द्वौ किल उद्गतौ ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२२/३३) त्रयाणाम् किल द्वौ उद्गतौ भवतः ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२३/३३) चतुष्प्रभृतिकर्तव्यः वाराह्यायाम् न सिध्यति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२४/३३) चतुष्प्रभृतिषु ष्यङ् वक्तव्यः वाराह्यायाम् न सिध्यति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२५/३३) वाराह्यायाम् न प्राप्नोति ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२६/३३) किम् कारणम् ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२७/३३) चतुष्प्रभृतीनाम् अभावात् ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२८/३३) भिद्यते अस्य स्वरः तेन विधिः च आमः न लक्ष्यते ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-२९/३३) भिद्यते खलु अस्य स्वरः तेन आतिशायिकेन शब्देन उत्तमस्य ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-३०/३३) विधिः च आमः न लक्ष्यते ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-३१/३३) विधिः च आमः न क्व चित् अपि लक्ष्यते ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-३२/३३) शब्दान्तरम् इदम् विध्यात् दृष्टम् अभ्यन्तरम् त्रिषु ।

(पा-४,१.७८.१; अकि-२,२२९.२-२२; रो-३,५२८-५३०; भा-३३/३३) एवम् तर्हि अन्यः अयम् आतिशायिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१/११९) किम् पुनः अयम् अणिञोः आदेशः आहोस्वित् अणिञ्भ्याम् परः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२/११९) कः च अत्र विशेषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३/११९) ष्यङि अनादेशे यलोपवचनम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४/११९) ष्यङि अनादेशे यलोपः वक्तव्यः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५/११९) औदमेघ्यायाः छात्राः औदमेघाः । द्विः अण्विधिः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६/११९) द्विः च अण् विधेयः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७/११९) औदमेघ्यायाः छात्राः औदमेघाः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८/११९) औदमेघ्यानाम् सङ्घः औदमेघः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९/११९) इञः इति अण् न प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०/११९) अस्तु तर्हि आदेशः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११/११९) आदेशे नलोपवचनम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१२/११९) यदि आदेशः नलोपः वक्तव्यः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१३/११९) औडुलोम्या शारलोम्या इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१४/११९) ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१५/११९) न वा ष्यङः लोपनिमित्तत्वात् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१६/११९) न वा एषः दोषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१७/११९) किम् कारणम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१८/११९) ष्यङः लोपनिमित्तत्वात् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१९/११९) लोपनिमित्तः ष्यङ् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२०/११९) न अकृते लोपे ष्यङ् प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२१/११९) किम् कारणम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२२/११९) गुरूपोत्तमयोः इति उच्यते न च अकृते लोपे गुरूपोत्तमम् भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२३/११९) अथ वा पुनः अस्तु परः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२४/११९) ननु च उक्तम् ष्यङि अनादेशे यलोपवचनम् द्विः अण्विधिः इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२५/११९) न एषः दोषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२६/११९) यत् तावत् उच्यते यलोपवचनम् इति अदोषः एषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२७/११९) किम् कारणम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२८/११९) पुंवद्भावात् यजादौ तद्धिते ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-२९/११९) यजादौ तद्धिते पुंवद्भावः भविष्यति भस्य अढे तद्धिते पुंवत् भवति इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३०/११९) अयम् तर्हि दोषः द्विः अण्विधिः इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३१/११९) न एषः दोषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३२/११९) सिद्धः च प्रत्ययविधौ ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३३/११९) सः च सिद्धः प्रत्ययविधौ ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३४/११९) उभयम् इदम् उक्तम् आदेशः परः इति च ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३५/११९) किम् अत्र न्याय्यम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३६/११९) अदेशः इति एतत् न्याय्यम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३७/११९) कुतः एतत् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३८/११९) एवम् च एव हि कृत्वा आचार्येण सूत्रम् पठितम् षष्ठ्या च निर्देशः कृतः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-३९/११९) अतः एषः पक्षः निर्दोषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४०/११९) ननु च परस्मिन् अपि सति ये दोषाः ते परिहृताः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४१/११९) पुंवद्भावेन यलोपः परिहृतः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४२/११९) स च पुंवद्भावः अडे भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४३/११९) तत्र औदमेघेयः न सिध्यति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४४/११९) अनुबन्धौ त्वया कार्यौ ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४५/११९) यस्य आदेशः अनुबन्धौ तेन कर्तव्यौ ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४६/११९) एकः सामान्यग्रहणाऋथः अपरः सामान्यग्रहणाविघातार्थः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४७/११९) क्व सामान्यग्रहणाऋथेन अर्थः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४८/११९) यङः चाप् इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-४९/११९) अथ सामान्यग्रहणाविघातार्थेन क्व अर्थः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५०/११९) अत्र एव ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५१/११९) किम् प्रयोजनम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५२/११९) चापर्थम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५३/११९) चाप् यथा स्यात् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५४/११९) तव कथम् चाप् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५५/११९) टाब्विधिः मम ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५६/११९) टापा मम सिद्धम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५७/११९) ननु च मम अपि टापा सिद्धम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५८/११९) न सिध्यति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-५९/११९) अणः इति इञः इति च ईकारः प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६०/११९) न एषः दोषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६१/११९) न एवम् विज्ञायते अणन्तात् अकारान्तात् इञन्तात् इकारान्तात् इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६२/११९) कथम् तर्हि ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६३/११९) अण् यः अकारः इञ् यः इकारः इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६४/११९) स्वरार्थः तर्हि त्वया चाप् वक्तव्यः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६५/११९) ञ्निति इति आद्युदात्तत्वम् मा भूत् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६६/११९) तव अपि तर्हि ष्यङा उक्तत्वात् स्त्रीत्वस्य टाप् न प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६७/११९) उक्ते अपि हि भवन्ति एते ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६८/११९) उक्ते अपि हि स्त्रीत्वे भवन्ति एते टाबादयः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-६९/११९) उक्तम् एतत् स्वाऋथिकाः टाबादयः इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७०/११९) मम अपि तर्हि सानुबन्धकस्य आदेशः इत्कार्यम् न इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७१/११९) तेन ञित् न भविष्यति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७२/११९) अस्थानिवत्त्वे दोषः ते वृद्धिः अत्र न सिध्यति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७३/११९) अस्थानिवत्त्वे दोषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७४/११९) वृद्धिः ते न प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७५/११९) औडुलोम्या शारलोम्या ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७६/११९) न च इदानीम् अर्धजरतीयम् लभ्यम् वृद्धिः मे भविष्यति स्वरः न इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७७/११९) तत् यथा अर्धम् जरत्याः कामयते अर्धम् न इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७८/११९) त्वया अपि अत्र विशेषार्थम् कर्तव्यम् स्यात् विशेषणम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-७९/११९) त्वया अपि अत्र विशेषार्थः अनुबन्धः कर्तव्यः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८०/११९) क्व विशेषणार्थेन अर्थः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८१/११९) ष्यङः सम्प्रसारणम् इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८२/११९) अक्रिया एव विशेषः अत्र सानुबन्धः विशेषवान् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८३/११९) अक्रिया एव मम विशेषः सानुबन्धः तु विशेषवान् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८४/११९) पाश्यायाम् ते कथम् न स्यात् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८५/११९) पाश्यापुत्रः इति अत्र कस्मात् न भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८६/११९) एकः मे स्यात् विशेषणम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८७/११९) एकः मम विशेषणाऋथः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८८/११९) त्वया पुनः द्वौ कर्तव्यौ ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-८९/११९) अथ एकस्मिन् अपि सति कः करिष्यते ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९०/११९) किम् च अतः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९१/११९) अन्यस्मिन् सूत्रभेदः स्यात् । यदि एताभ्याम् अन्यः क्रियते सूत्रभेदः कृतः भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९२/११९) षिति लिङ्गम् प्रसज्येत ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९३/११९) अथ षित् क्रियते षितः इति ईकारः प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९४/११९) ङिति चेक्रीयिते दोषः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९५/११९) अथ ङित् क्रियते चेक्रीयिते दोषः भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९६/११९) लोलूयापुत्रः लोलूयापतिः इति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९७/११९) व्यवधानात् न दुष्यति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९८/११९) अकारेण व्यवहितत्वात् न दोषः भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-९९/११९) यः अनन्तरः न धातुः सः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१००/११९) धातोः इति वर्तते यः च अत्र अनन्तरः न असौ धातुः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०१/११९) यः धातुः सः अननन्तरः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०२/११९) यः च धातुः स असौ अनन्तरः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०३/११९) न चेत् उभयतः साम्यम् उभयत्र प्रसज्येत ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०४/११९) न चेत् उभयतः साम्यम् उभयत्र प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०५/११९) यदि पुनः यङा धातुः विशेष्येत ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०६/११९) यङा विशेष्येत यदि इह धातुः यङ् धातुना वा यदि तुल्यम् एतत् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०७/११९) यदि एव यङा धातुः विशेष्यते यदि अथ अपि धातुना यङ् तुल्यम् एतत् भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०८/११९) उभौ प्रधानम् यदि न अत्र दोषः । अथ उभौ प्रधानम् भवतः न अत्र दोषः भवति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१०९/११९) तथा प्रसार्येत तु वाक्पतिः ते ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११०/११९) तथा सति वाक्पतिः वाक्पुत्रः इति अत्र प्रसारणम् प्राप्नोति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-१११/११९) धातुप्रकरणस्य इह न स्थानम् इति निश्चयः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११२/११९) धातुप्रकरणस्य इह स्थानम् न अस्ति इति कृत्वा एषः निश्चयः क्रियते ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११३/११९) अवश्यम् आत्त्वार्थम् धातुग्रहणम् कर्तव्यम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११४/११९) इह मा भूत् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११५/११९) गोभ्याम् गोभिः नौभ्याम् नौभिः ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११६/११९) आत्त्वार्थम् यदि कर्तव्यम् तत्र एव तत् करिष्यते ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११७/११९) उपदेशे यत् एजन्तम् तस्य चेद् आत्त्वम् इष्यते उद्देशः ऋऊढिशब्दानाम् ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११८/११९) तेन गोः न भविष्यति ।

(पा-४,१.७८.२; अकि-२,२२९.२३-२३३.१; रो-३, ५३०-५३८; भा-११९/११९) एवम् तर्हि उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१/३९) किमर्थम् इदम् उच्यते ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२/३९) गोत्रावयवात् अगोत्रार्थम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३/३९) गोत्रावयवात् इति उच्यते ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-४/३९) अगोत्रार्थः अयम् आरम्भः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-५/३९) गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-६/३९) गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-७/३९) इह अपि प्राप्नोति आहिच्छत्री कान्यकुब्जी ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-८/३९) एवम् तर्हि गोत्रात् एव गोत्रावयवात् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-९/३९) गोत्रात् इति चेत् वचनानर्थक्यम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१०/३९) गोत्रात् इति चेत् वचनम् अनर्थकम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-११/३९) सिद्धम् गोत्रे पुर्वेण एव ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१२/३९) इदम् तर्हि प्रयोजनम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१३/३९) गुरूपोत्तमयोः इति उच्यते ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१४/३९) अगुरूपोत्तमाऋथः अयम् आरम्भः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१५/३९) अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वप्रसङ्गः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१६/३९) अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वत्र प्राप्नोति ॒ अष्टाशीतिः सहस्राणि ऊर्ध्वरेतसाम् ऋषीणाम् बभूवुः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१७/३९) तत्र अगस्त्याष्टमैः ऋषिभिः प्रजनः अभ्युपगतः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१८/३९) तत्रभवताम् यत् अपत्यम् तानि गोत्राणि ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-१९/३९) अतः अन्ये गोत्रावयवाः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२०/३९) तत्र उत्पत्तिः प्राप्नोति ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२१/३९) तत् च अनिष्टम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२२/३९) तस्मात् न अर्थः अनेन योगेन ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२३/३९) कथम् येभ्यः अगुरूपोत्तमेभ्यः इष्यते ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२४/३९) सिद्धम् तु रौढ्यादिषु उपसङ्ख्यानात् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२५/३९) सिद्धम् एतत् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२६/३९) कथम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२७/३९) रौढ्यादिषु उपसङ्ख्यानात् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२८/३९) रौढ्यादिषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-२९/३९) के पुनः रौढ्यादयः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३०/३९) ये क्रौड्यादयः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३१/३९) भारद्वाजीयाः पठन्ति सिद्धम् तु कुलाख्येभ्यः लोके गोत्राभिमताभ्यः इति ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३२/३९) सिद्धम् एतत् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३३/३९) कथम् ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३४/३९) कुलाख्याः लोके गोत्रावयवाः इति उच्यन्ते ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३५/३९) अथ वा गोत्रावयवः कः भवतुम् अर्हति ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३६/३९) गोत्रात् अवयुतः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३७/३९) कः च गोत्रात् अवयुतः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३८/३९) यः अनन्तरः ।

(पा-४,१.७९; अकि-२,२३३.३-२२; रो-३,५३८-५४०; भा-३९/३९) दैवदत्त्या याज्ञदत्त्या इति ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१/५२) समर्थवचनम् किमर्थम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२/५२) समर्थात् उत्पत्तिः यथा स्यात् ॒ उपगोः अपत्यम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३/५२) असमर्थात् मा भूत् इति ॒ कम्बलः उपगोः अपत्यम् देवदत्तस्य इति ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४/५२) समर्थवचनम् अनर्थकम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-५/५२) न हि असमर्थेन अर्थाभिधानम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-६/५२) समर्थवचनम् अनर्थकम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-७/५२) किम् कारणम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-८/५२) न हि असमर्थेन अर्थाभिधानम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-९/५२) न हि असमर्थात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१०/५२) अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-११/५२) अथ प्रथमवचनम् किमर्थम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१२/५२) प्रथमवचनम् प्रकृतिविशेषणार्थम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१३/५२) प्रथमात् प्रत्ययोत्पत्तिः यथा स्यात् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१४/५२) अप्रथमात् मा भूत् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१५/५२) उपगोः अपत्यम् इति अपत्यशब्दात् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१६/५२) प्रथमवचनम् अनर्थकम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१७/५२) न हि अप्रथमेन अर्थाभिधानम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१८/५२) प्रथमवचनम् अनर्थकम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-१९/५२) किम् कारणम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२०/५२) न हि अप्रथमेन अर्थाभिधानम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२१/५२) न हि अप्रथमात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२२/५२) अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२३/५२) अथ वावचनम् किमर्थम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२४/५२) वाक्यम् अपि यथात् स्यात् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२५/५२) उपगोः अपत्यम् इति ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२६/५२) वावचने च उक्तम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२७/५२) किम् उक्तम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२८/५२) तत्र तावत् उक्तम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-२९/५२) वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३०/५२) इह अपि वावचनम् अनर्थकम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३१/५२) किम् कारणम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३२/५२) तत्र नित्यत्वात् प्रत्ययस्य ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३३/५२) इह द्वौ पक्षौ वृत्तिपक्षः च अवृत्तिपक्षः च ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३४/५२) स्वभाव्तः च एतत् भवति वाक्यम् च वृत्तिः च ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३५/५२) तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन् किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३६/५२) न च सञ्ज्ञायाः भावाभावौ इष्येते ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३७/५२) तस्मात् न अर्थः वावचनेन ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३८/५२) अथ एतत् समर्थग्रहणम् न एव कर्तव्यम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-३९/५२) कर्तव्यम् च ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४०/५२) किम् प्रयोजनम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४१/५२) समर्थात् उत्पत्तिः यथा स्यात् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४२/५२) असमर्थात् मा भूत् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४३/५२) किम् पुनः समर्थम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४४/५२) अर्थाभिधाने यत् समर्थम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४५/५२) किम् पुनः तत् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४६/५२) कृतवर्णानुपूर्वीकम् पदम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४७/५२) सौत्थितिः वैक्षमाणिः इति ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४८/५२) अथ तत् वावचनम् न एव कर्तव्यम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-४९/५२) कर्तव्यम् च ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-५०/५२) किम् प्रयोजनम् ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-५१/५२) नित्याः शब्दाः ।

(पा-४,१.८२; अकि-२,२३४.२-२३; रो-३,५४१-५४३; भा-५२/५२) नित्येषु शब्देषु वाक्यस्य अनेन साधुत्वम् अन्वाख्यायते ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१/१९) अयुक्तः अयम् निर्देशः ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-२/१९) न हि तत्र कः चित् दीव्यच्छब्दः पठ्यते ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-३/१९) कः तर्हि ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-४/१९) दीव्यतिशब्दः ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-५/१९) कथम् तर्हि निर्देशः कर्तव्यः ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-६/१९) प्राक् दीव्यतेः इति ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-७/१९) सः तर्हि तथा निर्देशः कर्तव्यः प्राक् दीव्यतेः इति ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-८/१९) न कर्तव्यः ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-९/१९) दीव्यतिशब्दे दीव्यच्छब्दः अस्ति ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१०/१९) तस्मात् एषा पञ्चमी ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-११/१९) किम् पुनः कारणम् विकृतनिर्देशः क्रियते ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१२/१९) एतत् ज्ञापयति आचार्यः ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१३/१९) भवति एषा परिभाषा ॒ एकदेशविकृतम् अनन्यवत् भवति इति ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१४/१९) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१५/१९) एकदेशविक्र्टेषु उपसङ्ख्यानम् चोदितम् ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१६/१९) तत् न कर्तव्यम् भवति ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१७/१९) अथ वा प्राक्शब्दः अयम् दिक्शब्दः ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१८/१९) दिक्शब्दैः च योगे पञ्चमी भवति ।

(पा-४,१.८३.१; अकि-२,२३५.२-८; रो-३,५४४-५४५; भा-१९/१९) तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-१/१२) अथ प्राग्वचनम् किमर्थम् ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-२/१२) प्राग्वचनम् सकृद्विधानार्थम् ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-३/१२) प्राग्वचनम् क्रियते सकृद्विधानार्थम् ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-४/१२) सकृद्विहितः प्रत्ययः विहितः यथा स्यात् ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-५/१२) योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-६/१२) न एतत् अस्ति प्रयोजनम् ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-७/१२) अधिकारात् अपि एतत् सिद्धम् ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-८/१२) अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-९/१२) अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः । अधिकारात् सिद्धम् इति चेत् अपवादविषये अण् प्राप्नोति ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-१०/१२) अतः इञ् अण् च इति अण् अपि प्राप्नोति ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-११/१२) तस्मात् प्राग्वचनम् ।

(पा-४,१.८३.२; अकि-२,२३५.९-१८; रो-३,५४५; भा-१२/१२) तस्मात् प्राग्वचनम् कर्तव्यम् ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१/२९) अथ क्रियमाणे अपि प्राग्वचने कथम् इदम् विज्ञायते ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२/२९) प्राक् दीव्यतः याः प्रकृतयः आहोस्वित् प्राक् दीव्यतः ये अर्थाः इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-३/२९) किम् च अतः ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-४/२९) यदि विज्ञायते प्राक् दीव्यतः याः प्रकृतयः इति सः एव दोषः अपवादविषये अण्प्रसङ्गः इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-५/२९) अथ विज्ञायते प्राक् दीव्यतः ये अर्थाः इति न दोषः भवति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-६/२९) समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः इञ् अणम् भाधते ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-७/२९) यथा न दोषः तथा अस्तु ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-८/२९) प्राक् दीव्यतः ये अर्थाः इति विज्ञायते ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-९/२९) कुतः एतत् ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१०/२९) तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-११/२९) इतरथा बह्व्यः प्रकृतयः पठ्यन्ते ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१२/२९) ततः याम् काम् चित् एवम् निमित्तत्वेन उपाददीत ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१३/२९) अथ वा पुनः अस्तु प्राक् दीव्यतः याः प्रकृतयः इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१४/२९) ननु च उक्तम् अपवादविषये अण्प्रसङ्गः इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१५/२९) न वा क्व चित् वावचनात् ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१६/२९) न वा एषः दोषः ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१७/२९) किम् कारणम् ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१८/२९) क्व चित् वावचनात् ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-१९/२९) यत् अयम् वावचनम् करोति पीलायाः वा उदश्वितः अन्यतरस्याम् इति तत् ज्ञापयति आचार्यः न अपवादविषये अण् भवति इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२०/२९) यदि एतत् ज्ञाप्यते न अर्थः प्राग्वचनेन ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२१/२९) अधिकारात् सिद्धम् ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२२/२९) ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२३/२९) न एषः दोषः ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२४/२९) परिहृतम् एतत् न वा क्व चित् वावचनात् इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२५/२९) किम् पुनः कारणम् इयान् अवधिः गृह्यते ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२६/२९) न प्राक् ठकः इति एव उच्येत ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२७/२९) एतत् ज्ञापयति अर्थेषु अयम् भवति इति ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२८/२९) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,१.८३.३; अकि-२,२३५.२३५.१८-२३६.८; रो-३,५४५-५४७; भा-२९/२९) प्रकृतिविशेषात् उपद्यमानः इञ् अणम् बाधते ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१/३५) वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२/३५) वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-३/३५) वाक् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-४/३५) वाच्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-५/३५) वाक् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-६/३५) मति ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-७/३५) मात्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-८/३५) मति ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-९/३५) पितृमत् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१०/३५) पैतृमत्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-११/३५) पृथिव्याः ञाञौ । पृथिव्याः ञाञौ वक्तव्यौ ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१२/३५) पार्थिवा पार्थिवी ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१३/३५) देवस्य यञञौ ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१४/३५) देवस्य यञञौ वक्तव्यौ ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१५/३५) दैव्यम् दैवम् ।बहिषः टिलोपः च यञ् च ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१६/३५) बहिषः टिलोपः च यञ् च वक्तव्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१७/३५) बहिर्भवः बाह्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१८/३५) ईकक् च ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-१९/३५) ईकक् च वक्तव्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२०/३५) बाहीकः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२१/३५) ईकञ् छन्दसि । ईकञ् छन्दसि वक्तव्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२२/३५) बाहीकम् अस्तु भद्रम् वः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२३/३५) स्थाम्नः अकारः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२४/३५) स्थाम्नः अकारः वक्तव्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२५/३५) अश्वत्थामः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२६/३५) लोम्नः अपत्येषु बहुषु ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२७/३५) लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः ।उडुलोमाः शरलोमाः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२८/३५) बहुषु इति किमर्थम् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-२९/३५) औडलोमिः शारलोमिः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-३०/३५) सर्वत्र गोः अजादिप्रसङ्गे यत् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-३१/३५) सर्वत्र गोः अजादिप्रसङ्गे यत् वक्तव्यः ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-३२/३५) गवि भवम् गव्यम् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-३३/३५) गोः इदम् गव्यम् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-३४/३५) गोः स्वम् गव्यम् ।

(पा-४,१.८५.१; अकि-२,२३६.१०-२३७.८; रो-३,५४७-५४९; भा-३५/३५) गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१/२१) ण्यादयः अर्थविशेषलक्षणात् अणपवादात् पूर्वविप्रतिषेद्धम् ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-२/२१) ण्यादयः अर्थविशेषलक्षणात् अणपवादात् भवन्ति पूर्वविप्रतिषेधेन ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-३/२१) ण्यादीनाम् अवकाशः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-४/२१) दितिः देवता अस्य दैत्यः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-५/२१) अथविशेषलक्षणस्य अणपवादस्य अवकाशः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-६/२१) दुलेः अपत्यम् दौलेयः बालेयः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-७/२१) इह उभयम् प्राप्नोति ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-८/२१) दितेः अपत्यम् दैत्यः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-९/२१) अपरस्य अथविशेषलक्षणस्य अणपवादस्य अवकाशः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१०/२१) अचित्तहस्तिधेनोः ठक् ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-११/२१) आपूपिकम् शाष्कुलिकम् ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१२/२१) ण्यादीनाम् अवकाशः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१३/२१) बार्हस्पत्यम् प्राजापत्यम् ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१४/२१) इह उभयम् प्राप्नोति ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१५/२१) वनस्पतीनाम् समूहः वानस्पत्यम् ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१६/२१) ण्यादयः भवन्ति पूर्वविप्रतिषेधेन ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१७/२१) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१८/२१) न वक्तव्यः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-१९/२१) इष्टवाचीपरशब्दः ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-२०/२१) विप्रतिषेधे यत् इष्टम् तत् भवति ।

(पा-४,१.८५.२; अकि-२,२३७.९-१७; रो-३,५४९; भा-२१/२१) दितिवनस्पतिभ्याम् अपत्यसमूहयोः ।