व्याकरणमहाभाष्य खण्ड 45

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-१/११) अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-२/११) अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि इति वक्तव्यम् ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-३/११) ग्रैष्मम् ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-४/११) अच्छन्दसि इति किम् ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-५/११) त्रिष्टुप् ग्रैष्मी ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-६/११) यदि अच्छन्दसि इति उच्यते ग्रैष्मौ एतौ मासौ अत्र न प्राप्नोति ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-७/११) अच्छन्दसि इति उच्यते ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-८/११) न एतत् छन्दः समीक्षितम् काठकम् कापालकम् मौदकम् पप्पलादकम् वा ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-९/११) किम् तर्हि ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-१०/११) प्रत्ययार्थविशेषणम् एत ।

(पा-४,१.८६; अकि-२,२३७.१९-२३; रो-३,५५०; भा-११/११) न चेत् छन्दः प्रत्ययार्थः भवति इति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१/२६) किमर्थम् नञ्स्नञौ उच्येते न नञ् एव उच्येत ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२/२६) का रूपसिद्धिः ॒ पौंस्नम् ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-३/२६) पुंस् इति सकारान्तः नकारशब्दः च प्रत्ययः ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-४/२६) न सिध्यति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-५/२६) संयोगान्तस्य लोपः इति लोपः प्राप्नोति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-६/२६) एवम् तर्हि न एव अर्थः नञा न अपि स्नञा ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-७/२६) अञ् प्रकृतः ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-८/२६) सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-९/२६) अथ नकारागमे सति किम् पूर्वान्तः करिष्यते आहोस्वित् परादिः ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१०/२६) किम् च अतः ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-११/२६) यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१२/२६) स्त्रैणानाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् प्राप्नोति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१३/२६) अथ परादिः पौंसम् सः एव दोषः संयोगान्तलोपः प्राप्नोति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१४/२६) अस्तु पूर्वान्तः ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१५/२६) कथम् स्त्रैणाः स्त्रैणानाम् सङ्घः इति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१६/२६) उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१७/२६) न च इदम् लौकिकम् गोत्रम् ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१८/२६) ईकारः तर्हि प्राप्नोति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-१९/२६) इष्टम् एव एतत् सङ्गृहीतम् ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२०/२६) स्त्रैणी पौंसी इति एव भवितव्यम् ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२१/२६) एवम् हि सौनागाः पठन्ति नञ्स्नञीकक्खुंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२२/२६) टिलोपः तर्हि प्राप्नोति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२३/२६) नुग्वचनात् न भविष्यति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२४/२६) भवेत् इह नुग्वचनात् न स्यात् स्त्रैणम् इति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२५/२६) इह तु खलु पऊम्सम् इति नुग्वचनात् एव प्राप्नोति ।

(पा-४,१.८७.१; अकि-२,२३८.२-१३; रो-३,५५०-५५१; भा-२६/२६) तस्मात् नञ्स्नञौ वक्तव्यौ ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१/२१) अथ इमौ नञ्स्नञौ प्राक् भवनात् आहोस्वित् प्राक् वतेः ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-२/२१) कः च अत्र विशेषः ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-३/२१) नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-४/२१) नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः वक्तव्यः ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-५/२१) स्त्रीवत् पुंवत् इति ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-६/२१) किम् पुनः कारणम् न सिध्यति ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-७/२१) इम नञ्स्नञौ प्राक् भवनात् इति उच्येते ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-८/२१) तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-९/२१) तत् तर्हि वक्तव्यम् ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१०/२१) न वक्तव्यम् ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-११/२१) वतेः प्राक् इति वक्ष्यामि ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१२/२१) वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१३/२१) वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१४/२१) स्त्रीभावः स्त्रैणम् पुम्भावः पौंस्नम् इति ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१५/२१) सूत्रम् च भिद्यते ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१६/२१) यथान्यासम् एव अस्तु ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१७/२१) ननु च उक्तम् नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः इति ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१८/२१) न एषः दोषः ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-१९/२१) आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-२०/२१) एवम् अपि स्त्रीवत् इति न सिध्यति ।

(पा-४,१.८७.२; अकि-२,२३८.१४-२५; रो-३,५५२; भा-२१/२१) योगापेक्षम् ज्ञापकम् । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-१/१४) इह कस्मात् न भवति त्रैविद्यः पाञ्चनदः षाट्कुलः इति । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-२/१४) इह तावत् त्रैविद्यः इति न एवम् विज्ञायते तिस्रः विद्याः अधीते त्रैविद्यः इति । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-३/१४) कथम् तर्हि । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-४/१४) त्र्यवयवा विद्या त्रिविद्या । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-५/१४) त्रिविद्याम् अधीते त्रैविद्यः इति । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-६/१४) इह अपि पाञ्चनदः इति न एवम् विज्ञायते पञ्चसु नदीषु भवः पाञ्चनदः इति । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-७/१४) कथम् तर्हि । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-८/१४) पञ्चानाम् नदीनाम् समाहारः पञ्चनदम् । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-९/१४) पञ्चनदे भवः पाञ्चनदः इति । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-१०/१४) षाट्कुलः इति न एवम् विज्ञायते षट्सु कुलेषु भवः षाट्कुलः इति । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-११/१४) कथम् तर्हि । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-१२/१४) षण्णाम् कुलम् षट्कुलम् षट्कुले भवः षाट्कुलः इति । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-१३/१४) अजादिग्रहणम् च कर्तव्यम् । (४.१.८८.१) पा- ईई.२३९.२ - ८ ऋ ईईई.५५३; भा-१४/१४) इह मा भूत् पञ्चगर्भरूप्यम् पञ्चगर्भमयम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१/४१) द्विगोः लुकि तन्निमित्तग्रहणम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२/४१) द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३/४१) द्विगुनिमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-४/४१) इह मा भूत् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-५/४१) पञ्चकपालस्य इदम् खण्डम् पाञ्चकपालम् इति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-६/४१) अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-७/४१) अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति वक्तव्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-८/४१) किम् प्रयोजनम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-९/४१) पञ्चसु कपालेषु संस्कृतः पञ्चकपालः ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१०/४१) पन्चकपाल्याम् संस्क्र्तः इति अपि विगृह्य पञ्चकपालः इति एव यथा स्यात् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-११/४१) अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१२/४१) तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१३/४१) किम् च अतः ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१४/४१) यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति पञ्चकपालस्य इदम् खण्डम् इति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१५/४१) अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१६/४१) यथ न दोषः तथा अस्तु ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१७/४१) सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१८/४१) कुतः एतत् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-१९/४१) यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२०/४१) तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२१/४१) न कर्तव्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२२/४१) द्विगोः इति न एषा पञ्चमी ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२३/४१) का तर्हि ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२४/४१) सम्बन्धषष्ठी ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२५/४१) द्विगोः तद्धितस्य लुक् भवति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२६/४१) किम् च द्विगोः तद्धितः ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२७/४१) निमित्तम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२८/४१) यस्मिन् द्विगुः इति एतत् भवति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-२९/४१) कस्मिन् च एतत् भवति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३०/४१) प्रत्यये ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३१/४१) इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३२/४१) एतत् च न वक्तव्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३३/४१) इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३४/४१) पञ्चसु कपालेषु संस्कृतः पञ्चकपाल्याम् संस्कृतः पञ्चकपालः दशकपालः इति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३५/४१) तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३६/४१) तत् यथा ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३७/४१) अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३८/४१) एवम् पञ्चसु कपालेषु संस्कृतः इति विगृह्य पञ्चकपालः इति भविष्यति ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-३९/४१) पञ्चकपाल्याम् संस्कृतः इति विगृह्य वाक्यम् एव ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-४०/४१) त्रैशब्द्यम् च इह साध्यम् ।

(पा-४,१.८८.२; अकि-२,२३९.९-२४०.६; रो-३,५५४-५५६; भा-४१/४१) तत् च एवम् सति सिद्धम् भवति ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१/२४) गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-२/२४) गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-३/२४) का इतरेतराश्रयता ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-४/२४) अलुग्निमित्तः अजादिः अजादिनिमित्तः च अलुक् ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-५/२४) तत् इतरेतराश्रयम् भवति ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-६/२४) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-७/२४) विप्रतिषेधात् तु लुकः छविधानम् ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-८/२४) विप्रतिषेधात् तु लुकः छः भविष्यति ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-९/२४) लुकः अवकाशः गर्गाः वत्साः बिदाः उर्वाः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१०/२४) छस्य अवकाशः शालीयः मालीयः गार्गीयः वात्सीयः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-११/२४) इह उभयम् प्राप्नोति ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१२/२४) गर्गाणाम् छात्राः गार्गीयाः वात्सीयः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१३/२४) छः भवति विप्रतिषेधेन ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१४/२४) न एषः युक्तः विप्रतिषेधः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१५/२४) भूम्नि च लुक् प्राप्तः बाह्ये च अर्थे विधीयते अजादिः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१६/२४) बहिरङ्गम् अन्तरङ्गात् ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१७/२४) विप्रतिषेधात् अयुक्तम् स्यात् ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१८/२४) भूम्नि प्राप्तस्य लुकः यत् अजादौ तद्धिते अलुकम् शास्ति एतत् ब्रवीति कूर्वन् समानकालौ अलुक् लुक् च ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-१९/२४) यत् अयम् भूम्नि प्राप्तस्य लुकः अजादौ तद्धिते अलुकम् शास्ति तत् ज्ञापयति आचार्यः समानकालौ एतौ अलुग्लुकौ इति ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-२०/२४) यदि वा लुकः प्रसङ्गे भवति अलुक् छः तथा प्रसिद्धः अस्य ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-२१/२४) यदि वा लुकः प्रसङ्गे भवति अलुक् भवति तथा अस्य छः प्रसिद्धः अस्य ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-२२/२४) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-२३/२४) लुक् वा अलुकः प्रसङ्गम् प्रतीक्षते छे अलुक् अस्य तथा । लुक् वा पुनः अलुकः प्रसङ्गम् यदि प्रतीक्षते तथा अस्य छे अलुक् सिद्धः भवति ।

(पा-४,१.८९.१; अकि-२,२४०.८-२४१.३; रो-३,५५६-५५७; भा-२४/२४) प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१/६४) गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२/६४) गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३/६४) बिदानाम् अपत्यम् माणवकः बैदः बैदौ ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४/६४) किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५/६४) अचि इति उच्यते ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-६/६४) न च अत्र अजादिम् पश्यामः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-७/६४) प्रत्ययलक्षणेन ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-८/६४) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-९/६४) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१०/६४) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-११/६४) बैदस्य अपत्यम् बहवः माणवकाः बिदाः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१२/६४) बैदयोः बिदाः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१३/६४) अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१४/६४) मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१५/६४) अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१६/६४) न एवम् शक्यम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१७/६४) इह हि दोषः स्यात् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१८/६४) काश्यपप्रतिकृतयः काश्यपाः इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-१९/६४) न एषः दोषः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२०/६४) यत् तावत् उच्यते गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२१/६४) न वक्तव्यः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२२/६४) अचि इति एव अलुक् सिद्धः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२३/६४) अचि इति उच्यते ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२४/६४) न च अत्र अजादिम् पश्यामः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२५/६४) प्रत्ययलक्षणेन ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२६/६४) ननु च उक्तम् वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२७/६४) यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२८/६४) अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-२९/६४) यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि प्राप्नोति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३०/६४) अस्तु ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३१/६४) पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३२/६४) पुनः अलुक् कस्मात् न भवति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३३/६४) समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३४/६४) न च एतत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३५/६४) किम् तर्हि ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३६/६४) द्वितीयम् अर्थम् उपसङ्क्रान्तम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३७/६४) अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरवाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिकाकुत्सकुशिकिका इति एवमर्थम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३८/६४) गर्गभार्गविकाग्रहणम् वा नियमार्थम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-३९/६४) अथ वा गर्गभार्गविकाग्रहणम् नियमार्थम् भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४०/६४) एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४१/६४) यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४२/६४) अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४३/६४) मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४४/६४) अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४५/६४) ननु च उक्तम् न एवम् शक्यम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४६/६४) इह हि दोषः स्यात् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४७/६४) काश्यपप्रतिकृतयः काश्यपाः इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४८/६४) न एषः दोषः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-४९/६४) लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५०/६४) यदि अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति एवम् उच्यते बिदानाम् अपत्यम् माणवकः बैदः बैदौ अत्र अपि प्राप्नोति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५१/६४) अलुक् अत्र लिकम् बाधिष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५२/६४) अलुकि च कृते पुनः लुकः निमित्तम् न अस्ति इति कृत्वा पुनः लुक् न भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५३/६४) उक्तम् वा ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५४/६४) किम् उक्तम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५५/६४) आपत्यः वा गोत्रम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५६/६४) परमप्रकृतेः च आपत्यः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५७/६४) आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५८/६४) सः च अस्त्रियाम् ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-५९/६४) एकगोत्रग्रहणानर्थक्यम् च ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-६०/६४) बहुवचनलोपिषु च सिद्धम् इति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-६१/६४) तत्र बिदानाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-६२/६४) बैदः बैदौ ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-६३/६४) बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति ।

(पा-४,१.८९.२; अकि-२,२४१.४-२४२.१३; रो-३,५५८-५६२; भा-६४/६४) बिदा इति अविरविकन्यायेन ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१/१७) यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-२/१७) यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टम् प्राप्नोति ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-३/१७) अनिष्टे प्रत्यये अवस्थिते लुक् ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-४/१७) अनिष्टप्रत्ययस्य श्रवणम् प्रस्ज्येत ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-५/१७) सिद्धम् तु अविशेषेण लुग्वचनम् हलि च प्रतिषेधः ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-६/१७) सिद्धम् एतत् ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-७/१७) कथम् ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-८/१७) अविशेषेण लुकम् उक्त्वा हलि न इति वक्ष्यामि ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-९/१७) सिध्यति ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१०/१७) सूत्रम् तर्हि भिद्यते ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-११/१७) यथान्यासम् एव अस्तु ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१२/१७) ननु च उक्तम् यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः इति ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१३/१७) न एषः दोषः. अचि इति न एषा परसप्तमी ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१४/१७) का तर्हि ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१५/१७) विषयसप्तमी ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१६/१७) अजादौ विषये इति ।

(पा-४,१.९०.१; अकि-२,२४२.१५-२३; रो-३,५६२-५६३; भा-१७/१७) तत्र अचि विषये लुके कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१/५०) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२/५०) प्रयोजनम् सौवीरगोत्रेभ्यः णठक्छाः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३/५०) ण ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४/५०) फाण्टाहृतेः अपत्यम् माणवकः फाण्टाहृतः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-५/५०) फाण्टहृतस्य यूनः छात्राः फाण्टाहृताः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-६/५०) ण ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-७/५०) ठक् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-८/५०) भागवित्तेः अपत्यम् माणवकः भागवित्तिकः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-९/५०) भागवित्तिकस्य यूनः छात्राः भागवित्ताः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१०/५०) ठक् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-११/५०) तैलायनेः अपत्यम् माणवकः तैलायनीयः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१२/५०) तैलायनीय यूनः छात्राः तैलायनीयाः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१३/५०) इञ्ण्यौ सर्वत्र ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१४/५०) इञ्ण्यौ सर्वत्र प्रयोजनम् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१५/५०) औपगवेः यूनः छात्राः औपगवीयाः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१६/५०) वृद्धवदतिदेशे सति इञः गोत्रे इति अण् प्राप्नोति ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१७/५०) न एषः दोषः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१८/५०) प्रत्याख्यायते असौ अतिदेशः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-१९/५०) कथम् यानि प्रयोजनानि ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२०/५०) तानि ज्ञापकेन सिद्धानि ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२१/५०) यत्खच्छान्तात् तर्हि इञः प्रयोजनम् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२२/५०) यत् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२३/५०) श्वशुरस्य अपत्यम् श्वशुर्यः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२४/५०) श्वशुर्यस्य अपत्यम् श्वाशुरिः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२५/५०) श्वाशुरेः यूनः छात्राः श्वाशुराः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२६/५०) यत् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२७/५०) ख ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२८/५०) कुलस्य अपत्यम् कुलीनः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-२९/५०) कुलीनस्य अपत्यम् कौलीनिः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३०/५०) कौलीनेः यूनः छात्राः कौलीनाः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३१/५०) ख ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३२/५०) छ ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३३/५०) स्वसुः अपत्यम् स्वस्रीयः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३४/५०) स्वस्रीयस्य अपत्यम् स्वास्रीयिः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३५/५०) स्वास्रीयेः यूनः छात्राः स्वास्रीयाः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३६/५०) एतानि अपि हि न सन्ति प्रयोजनानि ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३७/५०) अत्र अपि यूनि श्वशुर्यः कुलीनः स्वस्रीयः इति एव भवितव्यम् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३८/५०) उक्तम् एतत् अणिञोः लुकि अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् इति ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-३९/५०) अब्राह्मणगोत्रमात्रात् इति उच्यते ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४०/५०) न च एतत् अब्राह्मणगोत्रमात्रम् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४१/५०) अब्राह्मणगोत्रमात्रात् इति न अयम् पर्युदासः यत् अन्यत् ब्राह्मणगोत्रमात्रात् इति ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४२/५०) किम् तर्हि प्रसज्य अयम् प्रतिषेधः ब्राह्मणगोत्रमात्रात् न इति ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४३/५०) अवश्यम् च एतत् एवम् विज्ञेयम् मायुरिः कापोतिः कापिञ्जलिः इति एवमर्थम् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४४/५०) एवम् तर्हि अण्ण्यौ सर्वत्र प्रयोजनम् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४५/५०) अण् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४६/५०) ग्लुचुकायनेः अपत्यम् माणवकः ग्लौचुकायनः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४७/५०) ग्लौचुकायनस्य यूनः छात्राः ग्लौचुकायनाः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४८/५०) ण्यः च कापिञ्जलाद्यर्थम् ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-४९/५०) कापिञ्जलेः अपत्यम् माणवकः कापिञ्जलाद्यः ।

(पा-४,१.९०.२; अकि-२,२४२.२४-२४३.१९; रो-३,५६३-५६५; भा-५०/५०) तस्य यूनः छात्राः कापिञ्जलादाः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१/४३) प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः । प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः कर्तव्यः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२/४३) युवा वृद्धवत् भवति इति वक्तव्यम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३/४३) गार्ग्यायणानाम् समूहः गार्ग्याणकम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-४/४३) गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-५/४३) गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-६/४३) गोत्राश्रयः वुञ् यथा स्यात् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-७/४३) यदि वृद्धवदतिदेशः क्रियते औपगवेः यूनः छात्राः औपगवीयाः इति इञः गोत्रे इति अण् प्राप्नोति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-८/४३) यदि पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः अतिदिश्येत ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-९/४३) कथम् पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः शक्या अतिदेष्टुम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१०/४३) वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-११/४३) तत् यथा ॒ उशीनरवत् मद्रेषु यवाः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१२/४३) सन्ति न सन्ति इति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१३/४३) मातृवत् अस्याः कलाः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१४/४३) सन्ति न सन्ति इति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१५/४३) एवम् इह अपि युवा वृद्धवत् भवति वृद्धवत् न भवति इति एवम् वाक्यशेषम् समर्थयिष्यामहे ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१६/४३) यथ गोत्रे युवप्रत्ययः न भवति एवम् प्राग्दीव्यतोधिकारे यूनि अपि न भवति इति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१७/४३) तत् वक्तव्यम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१८/४३) यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न क्रियते ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-१९/४३) कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२०/४३) फक्फिञ्वर्ती युवा वा वृद्धवत् भवति इति वक्ष्यामि ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२१/४३) यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२२/४३) यदि पुनः युवा वृद्धवत् इति अनेन अर्थः अतिदिश्येत ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२३/४३) प्राग्दीव्यतोधिकारेयूनः वृद्धवत् अर्थः भवति इति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२४/४३) तत् वक्तव्यम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२५/४३) यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न करिष्यते ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२६/४३) कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२७/४३) फक्फिञ्वर्ती युवार्थः वा वृद्धवत् भवति इति वक्ष्यामि ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२८/४३) यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-२९/४३) एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३०/४३) यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३१/४३) युवा च लोके गोत्रम् इति उपचर्यते ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३२/४३) किङ्गोत्रः असि माणवकः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३३/४३) गार्ग्यायणः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३४/४३) किङ्गोत्रः असि माणवकः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३५/४३) वात्स्यायनः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३६/४३) यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः गोत्राश्रयः इञः गोत्रे इति अण् प्राप्नोति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३७/४३) सामुहिकेषु ज्ञापकम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३८/४३) यदि सामुहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-३९/४३) वुञ्विधौ ज्ञापकम् ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-४०/४३) वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-४१/४३) अस्तु तर्हि अविशेषेण ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-४२/४३) कथम् औपगवेः यूनः छात्राः औपगवीयाः ।गोत्रेण इञम् विशेषयिष्यामः ।

(पा-४,१.९०.३; अकि-२,२४३.२०-२४४.२७; रो-३,५६५-५६९; भा-४३/४३) गोत्रे यः इञ् विहितः इति ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१/२०) तस्य इदम् इति अपत्ये अपि ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-२/२०) तस्य इदम् इति अपत्ये अपि अण् सिद्धः ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-३/२०) तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः तस्य निवासः इति ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-४/२०) किम् अर्थम् तर्हि इदम् उच्यते ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-५/२०) बाधनार्थम् कृतम् भवेत् ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-६/२०) ये तस्य बाधकाः तद्बाधनार्थम् ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-७/२०) कथम् पुनः अशैषिकः शैषिकम् बाधेत ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-८/२०) उत्सर्गः शेषः एव असौ । यः हि उत्सर्गः सः अपि शेषः एव ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-९/२०) अथ एतस्मिन् बाधकबाधने सति किम् प्रयोजनम् ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१०/२०) वृद्धानि अस्य प्रयोजनम् ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-११/२०) वृद्धानि प्रयोजयन्ति ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१२/२०) भानोः अपत्यम् भानवः ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१३/२०) श्यामगोः अपत्यम् श्यामगवः ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१४/२०) कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१५/२०) तस्यग्रहणसामर्थ्यात् ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१६/२०) किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१७/२०) अवश्यम् उत्तराथम् अर्थनिर्देशः कर्तव्यः ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१८/२०) समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्थम् प्रतिनिर्देष्टव्या ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-१९/२०) एवम् तर्हि योगविभागकरणसामर्थ्यात् ।

(पा-४,१.९२.१; अकि-२,२४५.२-१५; रो-३,५६९-५७०; भा-२०/२०) इतरथा हि तस्य अपत्यम् अतः इञ् भवति इति एव ब्रूयात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१/५९) पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनान्तेन च ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२/५९) तेन पुंलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३/५९) स्त्रीनपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च इदम् न स्यात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४/५९) तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् तस्य अविवक्षितत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५/५९) तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-६/५९) किम् कारणम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-७/५९) तस्य अविवक्षितत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-८/५९) न अत्र निर्देशः तन्त्रम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-९/५९) कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१०/५९) तत्कारी च भवान् तद्द्वेषी च ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-११/५९) नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्य इति ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१२/५९) तत् यथा ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१३/५९) कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१४/५९) सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१५/५९) तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१६/५९) सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१७/५९) एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. न हि अत्र निर्देशः तन्त्रम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१८/५९) सर्वनामनिर्देशे विशेषासम्प्रत्ययः सामान्यनिर्देशात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-१९/५९) सर्वनामनिर्देशे विशेषस्य असम्प्रत्ययः ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२०/५९) किम् कारणम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२१/५९) सामान्यनिर्देशात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२२/५९) सर्वनाम्ना अयम् निर्देशः क्रियते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२३/५९) सरनाम च सामान्यवाचि ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२४/५९) तेन सामान्यवाचिनः एव उत्पत्तिः स्यात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२५/५९) विशेषवाचिनः न स्यात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२६/५९) सामान्यचोदनाः तु विशेषेषु ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२७/५९) सामान्यचोदनाः तु विशेषेषु अवतिष्ठन्ते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२८/५९) तत् यथा ॒ गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-२९/५९) विषमः उपन्यासः ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३०/५९) अस्ति कारणम् येन एतत् एवम् भवति ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३१/५९) किम् कारणम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३२/५९) असम्भवात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३३/५९) आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३४/५९) इदम् अपि एवञ्जातीयकम् एव ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३५/५९) असम्भवात् सामान्यवाचिनः उत्पत्तौ विशेषवाचिनः उत्पत्तिः भविष्यति ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३६/५९) अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः नपुंसकत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३७/५९) अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३८/५९) किम् कारणम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-३९/५९) नपुंसकलिङ्गत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४०/५९) अपत्यम् नपुंसकलिङ्गम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४१/५९) तेन नपुंसकलिङ्गस्य एव अभिधानम् स्यात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४२/५९) स्त्रीपुंलिङ्गस्य न स्यात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४३/५९) ननु च इदम् पुरस्तात् एव चोदितम् परिहृतम् च ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४४/५९) उत्पत्तिः तत्र चोद्यते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४५/५९) इह पुनः उत्पन्नेन अभिधानम् चोद्यते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४६/५९) सिद्धम् तु प्रजनस्य विवक्षितत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४७/५९) सिद्धम् एतत् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४८/५९) कथम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-४९/५९) प्रजनस्य विवक्षितत्वात् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५०/५९) प्रजनः अत्र विवक्षितः सः च सर्वलिङ्गः ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५१/५९) किम् पुनः कारणम् समानायाम् प्रवृत्तौ अपत्यम् नपुंसकलिङ्गम् प्रजनः सर्वलिङ्गः ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५२/५९) एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५३/५९) एकार्थे शब्दान्यत्वात् लिङ्गान्यत्वम् दृश्यते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५४/५९) तत् यथा पुष्यः तारकाः नक्षत्रम् ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५५/५९) गेहम् कुटी मठः इति ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५६/५९) अवयवान्यत्वात् च ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५७/५९) अवयवान्यत्वात् च लिङ्गान्यत्वम् दृश्यते ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५८/५९) तत् यथा कुटी कुटीरः शमी शमीरः शुण्डा शुण्डारः ।

(पा-४,१.९२.२; अकि-२,२४५.१६-२४६.२७; रो-३,५७१-५७३; भा-५९/५९) अवयवान्यत्वात् किल लिङ्गान्यत्वम् स्यात् किम् पुनः यत्र शब्दान्यत्वम् अपि ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१/२००) किमर्थम् इदम् उच्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२/२००) उत्पादयितारम् प्रति अपत्ययोगात् तस्य च विवक्षितत्वात् एकवचनम् गोत्रे ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३/२००) उत्पादयिता उत्पादयिता अपत्येन युज्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४/२००) तस्य च विवक्षितत्वात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५/२००) उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६/२००) उत्पादयितारम् प्रति अपत्ययोगात् तस्य च अभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७/२००) इष्यते च एकः एव स्यात् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८/२००) तत् च अन्तरेण यत्नम् न सिध्यति इति एकवचनम् गोत्रे ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९/२००) एवमर्थम् इदम् उच्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०/२००) कथम् पुनः ज्ञायते उत्पादयिता उत्पादयिता अपत्येन युज्यते इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११/२००) एवम् हि दृश्यते लोके ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२/२००) पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३/२००) सः आह देवदत्तस्य यज्ञदत्तस्य वा इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४/२००) उत्पादयितारम् व्यपदिशति न आत्मानम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५/२००) अस्ति प्रयोजनम् एतत् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६/२००) किम् तर्हि इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७/२००) तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः गोत्रे नियतत्वात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८/२००) तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः वक्तव्यः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९/२००) औपगवस्य अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२०/२००) किम् कारणम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२१/२००) गोत्रे नियतत्वात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२२/२००) गोत्रे हि अयम् नियमः क्रियते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२३/२००) तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२४/२००) कः च प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२५/२००) यः प्रत्ययान्तात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२६/२००) परमप्रकृतेः च उत्पत्तिः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२७/२००) परमप्रकृतेः च उत्पत्तिः वक्तव्या ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२८/२००) अयोगात् हि न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२९/२००) एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३०/२००) यथा तत् एव विकारावयवप्रत्ययान्तम् द्वितीयम् च तृतीयम् च विकारम् सङ्क्रामति एवम् इह अपि तत् एव अपत्यप्रत्ययान्तम् द्वितीयम् च तृतीयम् च अपत्यम् सङ्क्रमिष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३१/२००) भवेत् सिद्धम् औपगवस्य अपत्यम् औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३२/२००) इदम् तु खलु न सिध्यति गर्गस्य अपत्यम् गार्ग्यः इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३३/२००) अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३४/२००) स्त्रियाम् च अनियमः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३५/२००) स्त्रियाम् च युवत्याम् नियमः न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३६/२००) औपगवी माणवकी ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३७/२००) नियमात् हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात् यूनि अस्त्रियाम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३८/२००) कतरस्मिन् पक्षे अयम् दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-३९/२००) उत्पादयितरि अपत्ययुक्ते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४०/२००) उत्पादयितरि तावत् अपत्ययुक्ते न दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४१/२००) उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४२/२००) तत्र नियमः न उपपद्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४३/२००) असति नियमे न एषः दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४४/२००) सर्वेषु तर्हि अपत्ययुक्तेषु अयम् दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४५/२००) सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४६/२००) तत्र नियमः उपपन्नः भवति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४७/२००) सति नियमे एषः दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४८/२००) उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानम् न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-४९/२००) किम् कारणम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५०/२००) गोत्रसञ्ज्ञा युवसञाम् बाधते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५१/२००) गोत्रात् यूनि च अस्त्रियाम् प्रत्ययः विधीयते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५२/२००) यूनि च अन्तर्हिते अप्राप्तिः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५३/२००) यूनि च अन्तर्हिते नियमस्य अप्राप्तिः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५४/२००) गार्ग्यायणस्य अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५५/२००) कतरस्मिन् पक्षे अयम् दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५६/२००) सर्वेषु अपत्ययुक्तेषु ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५७/२००) सर्वेषु अपत्ययुक्तेषु तावत् न दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५८/२००) सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-५९/२००) तत्र नियमः उपपन्नः भवति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६०/२००) सति नियमे न एषः दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६१/२००) उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६२/२००) उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात् गोत्रात् च अयोगात् न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६३/२००) यूनः च न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६४/२००) किम् कारणम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६५/२००) गोत्रात् इति नियमात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६६/२००) सन्तु तर्हि कथम् पुनः ज्ञायते सर्वे अपत्ययुक्ताः इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६७/२००) एवम् हि याज्ञिकाः पठन्ति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६८/२००) दशपुरुषानूकम् यस्य गृहे शूद्राः न विद्येरन् सः सोमम् पिबेत् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-६९/२००) यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एतत् उपपन्नम् भवति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७०/२००) कथम् यत् उक्तम् पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७१/२००) सः आह देवदत्तस्य यज्ञदत्तस्य वा इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७२/२००) उत्पादयितारम् व्यपदिशति न आत्मानम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७३/२००) उत्पत्तिः तस्य विवक्षिता ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७४/२००) सर्वेषाम् न इदम् अपत्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७५/२००) देवदत्तः तु अस्य उत्पादयिता इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७६/२००) अथ सर्वेषु अपत्ययुक्तेषु किम् अनेन क्रियते एकः गोत्रे इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७७/२००) सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७८/२००) सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे इति उच्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-७९/२००) अस्ति प्रयोजनम् एतत् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८०/२००) किम् तर्हि इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८१/२००) न तु ज्ञायते कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरात् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८२/२००) नियमानुपपत्तिः च ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८३/२००) नियमः च न उपपद्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८४/२००) किम् कारणम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८५/२००) न हि एकस्मिन् अपत्ये अनेकप्रत्ययप्राप्तिः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८६/२००) न हि एकस्मिन् अपत्ये अनेकप्रत्ययः प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८७/२००) किम् तर्हि ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८८/२००) अपत्यान्तरे शब्दान्तरात् प्रत्ययान्तरप्राप्तिः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-८९/२००) अपत्यान्तरे अपत्यान्तर शब्दान्तरात् शब्दान्तरात् प्रत्ययान्तरम् प्रत्ययान्तरम् प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९०/२००) फकन्तात् इञ् इञन्तात् फक् इति फगिञोः दाशतयी प्रत्ययमाला प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९१/२००) कतरस्मिन् पक्षे अयम् दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९२/२००) सर्वेषु अपत्ययुक्तेषु ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९३/२००) सर्वेषु अपत्ययुक्तेषु तावत् न दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९४/२००) सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९५/२००) तत्र नियमः उपपन्नः भवति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९६/२००) सति नियमे न एषः दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९७/२००) उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९८/२००) उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवतिव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-९९/२००) तत्र नियमः न उपपद्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१००/२००) असति नियमे एषः दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०१/२००) उत्पादयितरि च अपत्ययुक्ते न दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०२/२००) कथम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०३/२००) अपत्यम् समुदायः चेत् नियमः अत्र समीक्षितः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०४/२००) तस्मिन् सुबहवः प्राप्ताः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०५/२००) नियमः अस्य भविष्यति । अपत्यम् इति सर्वम् उपग्वादिपितृकम् अपत्यम् समीक्षितम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०६/२००) तस्मिन् सुबहवः प्रत्ययाः प्राप्ताः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०७/२००) नियमः अस्य भविष्यति एकः गोत्रे इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०८/२००) यत् अपि उच्यते स्त्रियाम् च अनियमः इति एवम् वक्ष्यामि ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१०९/२००) गोत्रात् यूनि प्रत्ययः भवति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११०/२००) स्त्रियाम् न इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१११/२००) एवम् अपि स्त्रियाः युवत्याः अभिधानम् न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११२/२००) एवम् तर्हि एवम् वक्ष्यामि ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११३/२००) गोत्रात् यूनि प्रत्ययः भवति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११४/२००) स्त्रियाम् लुक् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११५/२००) एवम् अपि औपगवी माणविका अनुपसर्जनात् इति ईकारः न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११६/२००) मा भूत् एवम् अण् यः अनुपसर्जनम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११७/२००) अणन्तात् अनुपसर्जनात् इति एवम् भविष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११८/२००) न एवम् शक्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-११९/२००) इह हि दोषः स्यात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२०/२००) काशकृत्स्निन प्रोक्ता मीमांसा काशकृत्स्नी ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२१/२००) ताम् अधीते काशकृत्स्ना ब्राह्मणी ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२२/२००) अणन्तात् इति ईकारः प्रसज्येत ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२३/२००) न एषः दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२४/२००) अध्येत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२५/२००) यः च अत्र अध्येत्र्याम् अभिधेयायाम् अण् लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२६/२००) इह तर्हि औपगवी माणविका भार्या अस्य औपगवीभार्यः जातिलक्षणः पुंवद्भावप्रतिषेधः न प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२७/२००) मा भूत् एवम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२८/२००) वृद्धिनिमित्तस्य इति एवम् भविष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१२९/२००) यः तर्हि न वृद्धिनिमित्तः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३०/२००) ग्लुचुकायनी माणविका भार्या अस्य ग्लुचुकायनीभार्यः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३१/२००) तस्मात् स्त्रियाः युवत्याः युवसञ्ज्ञा एव पर्युदसितव्या ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३२/२००) तस्याम् च पर्युदस्तायाम् गोत्रप्रत्ययान्तम् एतत् यूनि वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३३/२००) इह उत्पादयितरि अपत्ययुक्ते प्रत्ययान्तात् प्रतिषेधः वक्तव्यः परमप्रकृतेः च उत्पत्तिः वक्तव्या ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३४/२००) सर्वेषु अपत्ययुक्तेषु प्रत्ययान्तात् प्रतिषेधः वक्तव्यः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३५/२००) तस्मात् प्रतिषेधः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३६/२००) तस्मात् प्रतिषेधः वक्तव्यः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३७/२००) सञ्ज्ञाकारिभ्यः वा प्रत्ययोत्पत्तिः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३८/२००) अथ वा सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः वक्तव्या ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१३९/२००) यदि सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः उच्यते कथम् गार्ग्यायणः वात्स्यायनः इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४०/२००) गोत्रात् यूनि च ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४१/२००) गोत्रात् यूनि इति एतत् वक्तव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४२/२००) तत् च जात्यादिनिवृत्त्यर्थम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४३/२००) तत् च अवश्यम् सञ्ज्ञाकारिग्रहणम् कर्तव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४४/२००) किम् प्रयोजनम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४५/२००) जात्यादिनिवृत्त्यर्थम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४६/२००) जात्यादिभ्यः उत्पत्तिः मा भूत् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४७/२००) जातिः न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४८/२००) सङ्ख्या न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१४९/२००) सर्वनाम न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५०/२००) जातिः न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५१/२००) काकस्य अपत्यम् कुररस्य अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५२/२००) सङ्ख्या न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५३/२००) नवानाम् अपत्यम् दशानाम् अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५४/२००) सर्वनाम न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५५/२००) सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५६/२००) यत् तावत् उच्यते जातिः न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५७/२००) काकस्य अपत्यम् कुररस्य अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५८/२००) येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१५९/२००) यत् अपि उच्यते सङ्ख्या न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६०/२००) नवानाम् अपत्यम् दशानाम् अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६१/२००) सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६२/२००) तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६३/२००) यत् अपि उच्यते सर्वनाम न वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६४/२००) सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६५/२००) निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६६/२००) तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६७/२००) यत् तावत् उच्यते येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६८/२००) न एतत् विवदामहे काकः न काकः इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१६९/२००) किम् तर्हि ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७०/२००) येन एव हेतुना एतत् वाक्यम् भवति काकस्य अपत्यम् कुररस्य अपत्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७१/२००) यद् अपि उच्यते सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७२/२००) तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७३/२००) भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७४/२००) यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७५/२००) यद् अपि उच्यते निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७६/२००) तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७७/२००) भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७८/२००) यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१७९/२००) एवम् तर्हि अनभिधानात् जात्यादिभ्यः उत्पत्तिः न भविष्यति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८०/२००) तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८१/२००) क्रियमाणे अपि हि सञ्ज्ञाकारिग्रहणे यत्र जात्यादिभ्यः उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८२/२००) तत् यथा ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८३/२००) कुतः चरति मायूरिः केन कापिञ्जलिः कृशः आहेयेन च दष्टस्य पाञ्चिः सुतमसः मतः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८४/२००) तादायनिः , यादायनिः , कैमायनिः इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८५/२००) तत् एतत् अनन्यार्थम् सञ्ज्ञाकारिग्रहणम् वा कर्तव्यम् प्रत्ययान्तात् व प्रतिषेधः वक्तव्यः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८६/२००) उभयम् न कर्तव्यम् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८७/२००) गोत्रग्रहणम् न करिष्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८८/२००) एकः अपत्ये प्रत्ययः भवति इति एव ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१८९/२००) यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एकः अपत्ये प्रत्ययः स्यात् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९०/२००) यदि गोत्रग्रहणम् न क्रियते कथम् गार्ग्यायणः वात्स्यायनः इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९१/२००) वक्तव्यम् एव एतत् गोत्रात् यूनि अस्त्रियाम् इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९२/२००) अथ अपि गोत्रग्रहणम् क्रियते एवम् अपि न दोषः ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९३/२००) न एकग्रहणेन प्रत्ययः अभिसम्बध्यते ॒ एकः गोत्रे प्रत्ययः भवति इति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९४/२००) किम् तर्हि ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९५/२००) प्रकृतिः अभिसम्बध्यते ॒ एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयति ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९६/२००) यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयेत् ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९७/२००) अथ वा अस्थाने अयम् यत्नः क्रियते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९८/२००) न हि इदम् लोकात् भिद्यते ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-१९९/२००) लोके सञ्ख्याम् प्रवर्तमानाम् उपचरन्ति एकः इति वा प्रथमः इति वा ।

(पा-४,१.९३; अकि-२,२४७.२-२५१.११; रो-३,५७४-५९०; भा-२००/२००) यावत् ब्रूयात् प्रथमः अपत्ये प्रत्ययम् उत्पादयति तावत् एकः गोत्रे इति ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१/१७) इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ विप्रतिषेधेन ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-२/१७) इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ भवतः विप्रतिषेधेन ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-३/१७) इञः अवकाशः दाक्षिः प्लाक्षिः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-४/१७) फिञः अवकाशः तादायनिः यादायनिः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-५/१७) इह उभयम् प्राप्नोति तापसायनिः साम्मितिकायनिः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-६/१७) फिनः अवकाशः त्वचायनिः स्रुचायनिः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-७/१७) इञः सः एव ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-८/१७) इह उभयम् प्राप्नोति ग्लुचुकायनिः मुलुचुकायनिः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-९/१७) फिञ्फिनौ भवतः विप्रतिषेधेन ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१०/१७) इह कस्मात् न भवति दाक्षिः प्लाक्षिः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-११/१७) बहुलवचनात् ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१२/१७) तद्राजः च ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१३/१७) तद्राजः च इञः भवति विप्रतिषेधेन ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१४/१७) तद्राजसय अवकाशः ऐक्ष्वकः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१५/१७) इञः सः एव ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१६/१७) इह उभयम् प्राप्नोति पाञ्चालः वैदेहः वैदर्भः ।

(पा-४,१.९५; अकि-२,२५२.२-१०; रो-३,५९०-५९१; भा-१७/१७) तद्राजः भवति विप्रतिषेधेन ।