व्याकरणमहाभाष्य खण्ड 46

विकिपुस्तकानि तः



(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-१/१६) बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-२/१६) बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः वक्तव्यः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-३/१६) बाहोः अपत्यम् बाहिः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-४/१६) यः हि बाहुः नाम बाहवः तस्य भवति ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-५/१६) नडस्य अपत्यम् नाडायनः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-६/१६) यः हि नडः नाम नाडिः तस्य भवति ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-७/१६) सम्बन्धिशब्दप्रत्ययानाम् तत्सदृशात् प्रतिषेधः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-८/१६) सम्बन्धिशब्दप्रत्ययानाम् च तत्सदृशात् प्रतिषेधः वक्तव्यः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-९/१६) श्वशुरस्य अपत्यम् श्वशुर्यः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-१०/१६) यः हि श्वशुरः नाम श्वाशुरिः तस्य भवति ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-११/१६) प्रत्ययग्रहणेन न अर्थः ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-१२/१६) सम्बन्धिशब्दानाम् तत्सदृशात् प्रतिषेधः इति एव ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-१३/१६) इदम् अपि सिद्धम् भवति ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-१४/१६) मातृपितृभ्याम् स्वसा ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-१५/१६) मातृष्वसा ।

(पा-४,१.९६; अकि-२,२५२.१२-२१; रो-३,५९१-५९२; भा-१६/१६) अन्या मातृस्वसा इति ।

(पा-४,१.९७; अकि-२,२५३.२-६; रो-३,५९२-५९३; भा-१/७) सुधातृव्यासयोः ।

(पा-४,१.९७; अकि-२,२५३.२-६; रो-३,५९२-५९३; भा-२/७) सुधातृव्यासयोः इति वक्तव्यम् ॒ सौधातकिः , वयासकिः शुकः ।

(पा-४,१.९७; अकि-२,२५३.२-६; रो-३,५९२-५९३; भा-३/७) अत्यल्पम् इदम् उच्यते ।

(पा-४,१.९७; अकि-२,२५३.२-६; रो-३,५९२-५९३; भा-४/७) सुधातृव्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम् ॒ सौधातकिः , वैयासिकः शुकः , वारुडकिः , नैषादकिः , चाण्डालकिः , बैम्बकिः ।

(पा-४,१.९७; अकि-२,२५३.२-६; रो-३,५९२-५९३; भा-५/७) तत् तर्हि वक्तव्यम् ।

(पा-४,१.९७; अकि-२,२५३.२-६; रो-३,५९२-५९३; भा-६/७) न वक्तव्यम् ।

(पा-४,१.९७; अकि-२,२५३.२-६; रो-३,५९२-५९३; भा-७/७) प्रकृत्यन्तराणि एतानि ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१/४६) किमर्थः चकारः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२/४६) स्वरार्थः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३/४६) चितः अन्तः उन्दात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४/४६) अथ ञकारः किमर्थः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-५/४६) ञकारः वृद्ध्यर्थः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-६/४६) ञ्णिति इति वृद्धिः यथा स्यात् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-७/४६) एकेन ककारेण उभयम् सिद्धम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-८/४६) अवश्यम् अत्र विशेषणाऋथः अन्यः अनुबन्धः कर्तव्यः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-९/४६) क्व विशेषणार्थेन अर्थः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१०/४६) व्रातच्फञोः अस्त्रियाम् इति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-११/४६) फकः इति हि उच्यमाने नाडायनः अत्र अपि प्रसज्येत ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१२/४६) अथ अपि फञः इति उच्यते एवम् अपि आश्वायनः अत्र अपि प्रसज्येत ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१३/४६) तस्मात् चकारः एव कर्तव्यः अन्तोदात्तत्वम् अपि यथा स्यात् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१४/४६) चकारे च इदानीम् विशेषणार्थे क्रियमाणे अवश्यम् वृद्ध्यर्थः अन्यः अनुबन्धः कर्तव्यः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१५/४६) सः च ञकारः एव कर्तव्यः सूत्रभेदः मा भूत् इति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१६/४६) अथ क्रियमाने अपि वै चकारे अन्तोदात्तत्वम् न प्राप्नोति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१७/४६) किम् कारणम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१८/४६) परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-१९/४६) चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२०/४६) ञित्करणसामर्थ्यात् आद्युदात्तत्वम् प्राप्नोति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२१/४६) अस्ति अन्यत् ञित्करणे प्रयोजनम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२२/४६) किम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२३/४६) वृद्ध्यर्थः ञकारः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२४/४६) चित्करणे अपि तर्हि अन्यत् प्रयोजनम् अस्ति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२५/४६) किम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२६/४६) विशेषणार्थः चकारः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२७/४६) शक्यः अत्र विशेषणार्थः अन्यः अनुबन्धः आसङ्क्तुम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२८/४६) तत्र चकारानुरोधात् अन्तोदात्तत्वम् भवति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-२९/४६) वृद्ध्यर्थः अपि तर्हि अन्यः शक्यः अनुबन्धः आसङ्क्तुम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३०/४६) तत्र ञकारानुरोधात् आद्युदात्तत्वम् प्राप्नोति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३१/४६) एवम् तर्हि स्वरे योगविभागः करिष्यते ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३२/४६) इदम् अस्ति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३३/४६) चितः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३४/४६) चितः अन्तः उदात्तः भवति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३५/४६) ततः तद्धितस्य ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३६/४६) तद्धितस्य च चितः अन्तः उदात्तः भवति इति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३७/४६) किमर्थम् इदम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३८/४६) परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-३९/४६) तद्बाधनार्थम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४०/४६) ततः कितः ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४१/४६) कितः तद्धितस्य अन्तः उदात्तः भवति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४२/४६) किम् पुनः अत्र स्वरार्थेन चकारेण अनुबन्धेन यावता च्फञन्तात् ञ्यः विधीयते ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४३/४६) तत्र ञ्निति इति आद्युदात्तत्वेन भवितव्यम् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४४/४६) न एतत् अस्ति ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४५/४६) बहुषु लोपे कृते अन्तोदात्तत्वम् यथा स्यात् ।

(पा-४,१.९८.१; अकि-२,२५३.८-२५४.३; रो-३,५९३-५९४; भा-४६/४६) कौञ्चायनाः इति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१/१८) इह के चित् द्व्येकयोः फ्यञम् विदधति बहुषु च फकम् के चित् च्फञन्तात् ञ्यम् ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-२/१८) किम् अत्र न्याय्यम् ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-३/१८) ञ्यवचनम् एव न्याय्यम् ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-४/१८) द्व्येकयोः हि फ्यञि सति बहुषु च फकि क्रौञ्जायनानाम् अपत्यम् माणवकः कौञ्जायन्यः कौञ्जायन्यौ केन यशब्दः श्रूयेत ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-५/१८) द्व्येकयोः इति उच्यमानः न प्राप्नोति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-६/१८) इह कौञ्जायनस्य अपत्यम् बहवः माणवकाः कौञ्जायनाः केन य शब्दः न श्रूयेत ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-७/१८) द्व्येकयोः इति उच्यमानः प्राप्नोति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-८/१८) तत् एतत् कथम् कृत्वा ञ्यवचनम् ज्यायः भवति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-९/१८) यदि तत् न अस्ति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१०/१८) आपत्यः वा गोत्रम् ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-११/१८) परमप्रकृतेः च आपत्यः ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१२/१८) आपत्यात् जीववञ्श्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः सः च अस्त्रियाम् ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१३/१८) एकोगोत्रग्रहणानर्थक्यम् च बहुवचनलोपिषु च सिद्धम् इति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१४/१८) सति हि तस्मिन् द्व्येकयोः अपि फ्यञि सति बहुषु च फकि न दोषः भवति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१५/१८) तत्र कौञ्जायनानाम् अपत्यम् माणवकः इति विगृह्य कुञ्जशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१६/१८) कौञ्जायन्यः कौञ्जायन्यौ ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१७/१८) कौञ्जायनस्य अपत्यम् बहवः माणवकाः इति विगृह्य कुञ्जशब्दात् बहुषु उत्पत्तिः भविष्यति ।

(पा-४,१.९८.२; अकि-२,२५४.४-१४; रो-३,५९४-५९५; भा-१८/१८) कौञ्जायनाः इति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१/२६) अनृष्यानन्तर्ये इति उच्यते ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२/२६) तत्र इदम् सिध्यति कौशिकः विश्वामित्रः इति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-३/२६) किम् कारणम् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-४/२६) विश्वामित्रः तपः तेपे न अनृष्हिः स्याम् इति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-५/२६) तत्रभवान् ऋषिः सम्पन्नः ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-६/२६) सः पुनः तपः तेपे न अनृष्हेः पुत्रः स्याम् इति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-७/२६) तत्रभवान् गाधिः अपि ऋषिः सम्पन्नः ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-८/२६) सः पुनः तपः तेपे न अनृष्हेः पौत्रः स्याम् इति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-९/२६) तत्रभवान् कुशिकः अपि ऋषिः सम्पन्नः ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१०/२६) तत् एतत् ऋष्यानन्तर्यम् भवति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-११/२६) तत्र अनृष्यानन्तर्ये इति प्रतिषेधः प्राप्नोति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१२/२६) न एषः दोषः ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१३/२६) न एवम् विज्ञायते ऋष्यानन्तर्ये न भवति इति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१४/२६) कथम् तर्हि ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१५/२६) ऋषौ अनन्तरे न इति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१६/२६) यदि एवम् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१७/२६) अनृष्यानन्तर्यवचनम् अनर्थकम् सञ्ज्ञागोत्राधिकारात् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१८/२६) अनृष्यानन्तर्यवचनम् अनर्थकम् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-१९/२६) किम् कारणम् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२०/२६) सञ्ज्ञागोत्राधिकारात् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२१/२६) सञ्ज्ञागोत्रे इति वर्तते ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२२/२६) कः प्रसङ्गः यत् अनन्तेरे स्यात् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२३/२६) न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२४/२६) एवम् तर्हि सिद्धे सति यत् अनृष्यानन्तर्ये इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः बिदादिषु ये अनृषयः पठन्ते तेषाम् अनन्तरे अपि वृत्तिः भवति ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२५/२६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,१.१०४; अकि-२,२५४.१६-२७; रो-३,५९५-५९६; भा-२६/२६) नानान्द्रः पौत्रः दौहित्रः इति एतत् सिद्धम् भवति ।

(पा-४,१.१०८; अकि-२,२५५.२-४; रो-३,५९६-५९७; भा-१/५) किमर्थम् इदम् उच्यते न गर्गादिभ्यः यञ् इति एव सिद्धम् ।

(पा-४,१.१०८; अकि-२,२५५.२-४; रो-३,५९६-५९७; भा-२/५) लुक् स्त्रियाम् इति वक्ष्यामि इति ।

(पा-४,१.१०८; अकि-२,२५५.२-४; रो-३,५९६-५९७; भा-३/५) यदि पुनः तत्र एव उच्येत ।

(पा-४,१.१०८; अकि-२,२५५.२-४; रो-३,५९६-५९७; भा-४/५) न एवम् शक्यम् ।

(पा-४,१.१०८; अकि-२,२५५.२-४; रो-३,५९६-५९७; भा-५/५) आङ्गिरसग्रहणम् हि विच्छिद्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१/३९) किमर्थम् शिवादिभ्यः अण् विधीयते न यथाविहितम् एव उच्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२/३९) शिवादिभ्यः यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३/३९) इञ् अतो यथाविहितः ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-४/३९) पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-५/३९) पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-६/३९) ये तस्य बाधकाः तद्बाधनार्थम् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-७/३९) सः वै न अस्ति यः तम् बाधेत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-८/३९) तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-९/३९) कः च असौ ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१०/३९) अण् एव ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-११/३९) उत्तरार्थम् तर्हि ॒ अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः इति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१२/३९) अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१३/३९) ढक् अतः यथाविहितः ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१४/३९) पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१५/३९) ये तस्य बाधकाः तद्बाधनार्थम् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१६/३९) सः वै न अस्ति यः तम् बाधेत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१७/३९) तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१८/३९) कः च असौ ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-१९/३९) अण् एव ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२०/३९) उत्तरार्थम् एव तर्हि ॒ ऋष्यन्धकवृष्णिकुरुभ्यः च इति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२१/३९) अत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रस्ज्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२२/३९) इञ् अतः यथाविहितः ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२३/३९) पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२४/३९) ये तस्य बाधकाः तद्बाधनार्थम् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२५/३९) सः वै न अस्ति यः तम् बाधेत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२६/३९) तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२७/३९) कः च असौ ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२८/३९) अण् एव ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-२९/३९) उत्तरार्थम् एव तर्हि ॒ मातुः उत् सङ्ख्यासम्भद्रपूर्वायाः , कन्यायाः कनीन च इति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३०/३९) अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३१/३९) ढक् अतः यथाविहितः ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३२/३९) पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३३/३९) मातुः उकारम् वक्ष्यामि कन्यायाः कनीनभावम् इति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३४/३९) यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् ॒ स्त्रीभ्यः ढक् , मातुः उकारः , कन्यायाः च कनीनभावः इति ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३५/३९) इदम् तर्हि प्रयोजनम् ॒ अयम् ऋष्टिषेणशब्दः शिवादिषु पठ्यते ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३६/३९) तत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३७/३९) तम् परत्वात् सेनान्तात् ण्यः बाधेत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३८/३९) तत्र आरम्भसामर्थ्यात् इञ् प्रसज्येत ।

(पा-४,१.११२; अकि-२,२५५.६-२४; रो-३,५९७-५९८; भा-३९/३९) पुनरण्ग्रहणात् अण् एव भवति

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१/५७) ऋषिस्त्र्यणः ढग्ढ्रकौ विप्रतिषेधेन ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२/५७) ऋषिस्त्र्यणः ढग्ढ्रकौ भवतः विप्रतिषेधेन ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३/५७) ऋष्यणः अवकाशः ॒ वासिष्ठः, वैश्वामित्रः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४/५७) ढकः अवकाशः ॒ दुलि दौलेयः, बलि बालेयः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५/५७) इह उभयम् प्राप्नोति ॒ अत्रि , आत्रेयः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-६/५७) स्त्र्यणः अवकाशः ॒ मकन्दिका माकन्दिकः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-७/५७) ढ्रकः अवकाशः ॒ काणिकेरः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-८/५७) इह उभयम् प्राप्नोति ॒ पौणिकेरः , मौद्गलिकेरः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-९/५७) ढग्ढ्रकौ भवतः विप्रतिषेधेन ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१०/५७) द्व्यचः ढकः ढ्रग्ढञौ ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-११/५७) द्व्यचः ढक् भवति इति एतस्मात् ढ्रग्ढञौ भवतः विप्रतिषेधेन ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१२/५७) द्व्यचः ढक् भवति इति अस्य अवकाशः ॒ दात्तेयः , गौप्तेयः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१३/५७) ढ्रकः सः एव ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१४/५७) इह उभयम् प्राप्नोति ॒ नटी नाटेरः , दासी दासेरः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१५/५७) ढञः अवकाशः ॒ कामण्डलेयः , भाद्रबाहेयः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१६/५७) ढकः सः एव ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१७/५७) इह उभयम् प्राप्नोति ॒ जम्बू जाम्बेयः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१८/५७) ढ्रग्ढञौ भवतः विप्रतिषेधेन ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-१९/५७) न वा ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२०/५७) न वा एषः युक्तः विप्रतिषेधः यः अयम् ऋष्यणः ढकः च ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२१/५७) किम् कारणम् ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२२/५७) ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२३/५७) सिद्धः अत्र अण् उत्सर्गेण एव ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२४/५७) तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।



(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२५/५७) सः यथा एव तदपवादम् इञम् बाधते एवम् ढकम् अपि बाधेत ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२६/५७) तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२७/५७) तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः वक्तव्यः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२८/५७) न वक्तव्यः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-२९/५७) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ऋष्यण् इञम् बाधिष्यते ढकम् न बाधिष्यते ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३०/५७) अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् ढकः ड्रग्ढञोः च. किम् कारणम् ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३१/५७) ढकः पुनर्वचनम् अन्यनिवृत्त्यर्थम् । सिद्धः अत्र ढक् स्त्रीभ्यः ढक् इति एव ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३२/५७) तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३३/५७) सः यथा एव तदपवादम् तन्नामिकाणम् बाधते एवम् ढग्ढ्रञौ अपि बाधेत ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३४/५७) तस्मात् तन्नामिकाणि अद्व्यचः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३५/५७) तस्मात् तन्नामिकाणि अद्व्यचः इति वक्तव्यम् ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३६/५७) न वक्तव्यम् ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३७/५७) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ढक् तन्नामिकाणम् तदपवादम् बाधिष्यते ढ्रग्ढञौ न बाधिष्यते ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३८/५७) ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-३९/५७) ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः भवति विप्रतिषेधेन ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४०/५७) ऋष्यणः अवकाशः ॒ वासिष्ठः, वैश्वामित्रः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४१/५७) ण्यस्य अवकाशः ॒ पाऋइषेण्यः, वारिषेण्यः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४२/५७) जातसेनः नाम् ऋषिः तस्मात् उभयम् प्राप्नोति ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४३/५७) ण्यः भवति विप्रतिषेधेन ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४४/५७) अन्धकाणः अवकाशः ॒ श्वाफल्कः, श्वैत्रकः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४५/५७) ण्यस्य सः एव ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४६/५७) उग्रसेनः नाम अन्धकः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४७/५७) तस्मात् उभयम् प्राप्नोति ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४८/५७) ण्यः भवति विप्रतिषेधेन ॒ औग्रसेन्यः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-४९/५७) वृष्ण्यणः अवकाशः ॒ वासुदेवः , बालदेवः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५०/५७) ण्यस्य सः एव ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५१/५७) व्ष्वक्सेनः नाम वृष्णिः तस्मात् उभयम् प्राप्नोति ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५२/५७) ण्यः भवति विप्रतिषेधेन ॒ वैष्वक्सेन्यः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५३/५७) कुर्वणः अवकाशः ॒ नाकुलः , साहदेवः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५४/५७) ण्यस्य सः एव ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५५/५७) भीमसेनः नाम कुरुः तस्मात् उभयम् प्राप्नोति ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५६/५७) ण्यः भवति विप्रतिषेधेन ॒ भैमसेन्यः ।

(पा-४,१.११४; अकि-२,२५६.२-२५७.१५; रो-३,५५९-६०१; भा-५७/५७) सेनान्तात् ण्यः भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्यः इति वक्तव्यम्

(पा-४,१.११५; अकि-२,२५७.१७-१९; रो-३,६०१; भा-१/३) किमर्थम् स्त्रीलिङ्गेन निर्देशः क्रियते न सङ्ख्यासम्भद्रपूर्वस्य इति एव उच्येत ।

(पा-४,१.११५; अकि-२,२५७.१७-१९; रो-३,६०१; भा-२/३) स्त्रीलिङ्गः यः मातृशब्दः तस्मात् यथा स्यात् ।

(पा-४,१.११५; अकि-२,२५७.१७-१९; रो-३,६०१; भा-३/३) इह मा भूत् ॒ सम्मिमीते सम्माता, सम्मातुः अपत्यम् साम्मात्रः इति

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-१/११) इदम् सर्वेषु एव स्त्रीग्रहणेषु विचार्यते ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-२/११) स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्रीशब्दग्रहणम् वा स्त्र्यर्थग्रहणम् वा ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-३/११) किम् च अतः ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-४/११) यदि शब्दग्रहणम् अर्थग्रहणम् वा इडविड् ऐडद्विड् पृथ् पार्थः उशिज् आउशिजः शरत् शारदसः अत्र अपि प्राप्नोति ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-५/११) अथ प्रत्ययग्रहणम् लैखाभ्रेयः वैमात्रेयः इति न सिध्यति ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-६/११) अस्तु प्रत्ययग्रहणम् ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-७/११) कथम् लैखाभ्रेयः वैमात्रेयः इति ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-८/११) शुभ्रादिषु पाठः करिष्यते ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-९/११) वडवायाः वृषे वाच्ये ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-१०/११) वडवायाः वृषे वाच्ये ढक् वक्तव्यः ।

(पा-४,१.१२०; अकि-२,२५८.३-१५; रो-३,६०३-६०४; भा-११/११) वडवायाः वृषः वाडवेयः ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-१/९) चटकायाः पुल्म्̐लिङ्गनिर्देशः ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-२/९) चटकायाः पुल्म्̐लिङ्गेन निर्देशः कर्तव्यः ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-३/९) इह अपि यथा स्यात् ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-४/९) चटकस्य अपत्यम् चाटकैरः ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-५/९) यदि पुल्म्̐लिन्ग्निर्देशः क्रियते चटकाया अपत्यम् चाटकैरः इति न सिध्यति ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-६/९) प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-७/९) स्त्रियाम् अपत्ये लुक् ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-८/९) स्त्रियाम् अपत्ये लुक् वक्तव्यः ।

(पा-४,१.१२८; अकि-२,२५८.१९-२४; रो-३,६०४; भा-९/९) चटकायाः अपत्यम् स्त्री चटका ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-१/८) आरग्वचनम् अनर्थकम् रका सिद्धत्वात् ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-२/८) आरग्वचनम् अनर्थकम् ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-३/८) किम् कारणम् ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-४/८) रका सिद्धत्वात् ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-५/८) गोधा आकारान्ता रक् च प्रत्ययः ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-६/८) एवम् तर्हि सिद्धे सति यत् आरकम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-७/८) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,१.१३०; अकि-२,२५९.२-६; रो-३,६०४; भा-८/८) मौण्डारः जाण्डारः पाण्डारः इति एतत् सिद्धम् भवति इति ।

(पा-४,१.१३१; अकि-२,२५९.८; रो-३,६०४; भा-१/३) क्षुद्राभ्यः इति उच्यते ।

(पा-४,१.१३१; अकि-२,२५९.८; रो-३,६०४; भा-२/३) का क्षुद्रा नाम ।

(पा-४,१.१३१; अकि-२,२५९.८; रो-३,६०४; भा-३/३) अनियतपुंस्का अङ्गहीना वा ।

(पा-४,१.१३३; अकि-२,२५९.१०-११; रो-३,६०५; भा-१/२) केन विहिते पितृष्वसुः ढकि लोपः इति उच्यते ।

(पा-४,१.१३३; अकि-२,२५९.१०-११; रो-३,६०५; भा-२/२) एतत् एव ज्ञापयति भवति पितृष्वसुः ढक् इति यत् अयम् ढकि लोपम् शास्ति ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-१/९) ढकि लोपः इति उच्यते ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-२/९) तत्र इदम् न सिध्यति मातृष्वस्रीयः इति ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-३/९) न एषः दोषः ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-४/९) एवम् वक्ष्यामि ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-५/९) पितृष्वसुः छण् ढकि लोपः ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-६/९) ततः मातृष्वसुः च ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-७/९) पितृष्वसुः यत् उक्तम् तत् मातृष्वसुः भवति इति ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-८/९) किम् पुनः तत् ।

(पा-४,१.१३४; अकि-२,२५९.१३-१५; रो-३,६०५; भा-९/९) छण् ढकि लोपः च ।

(पा-४,१.१३७; अकि-२,२५९.१७-१९; रो-३,६०५; भा-१/५) राज्ञः अपत्ये जातिग्रहणम् ।

(पा-४,१.१३७; अकि-२,२५९.१७-१९; रो-३,६०५; भा-२/५) राज्ञः अपत्ये जातिग्रहणम् कर्तव्यम् ।

(पा-४,१.१३७; अकि-२,२५९.१७-१९; रो-३,६०५; भा-३/५) राजन्यः नाम जातिः ।

(पा-४,१.१३७; अकि-२,२५९.१७-१९; रो-३,६०५; भा-४/५) क्व मा भूत् ।

(पा-४,१.१३७; अकि-२,२५९.१७-१९; रो-३,६०५; भा-५/५) राजनः इति ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-१/१२) व्यन्वचनम् अनर्थकम् प्रत्ययार्थाभावात् ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-२/१२) व्यन्वचनम् अनर्थकम् ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-३/१२) किम् कारणम् ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-४/१२) प्रत्ययार्थाभावात् ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-५/१२) किम् इदम् प्रत्ययार्थाभावात् इति ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-६/१२) अपत्यार्थाभावात् ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-७/१२) अपत्यम् इति वर्तते अनपत्ये च अपि सपत्ने भ्रातृव्यशब्दः वर्तते ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-८/१२) पाप्मना भ्रातृव्येण इति ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-९/१२) अस्तु तावत् अपत्यम् सपत्नः च तत्र भ्रातृव्यः इति ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-१०/१२) कथम् पाप्मना भ्रातृव्येण इति ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-११/१२) उपमानात् सिद्धम् ।

(पा-४,१.१४५; अकि-२,२६०.२-६; रो-३,६०६; भा-१२/१२) भ्रातृव्यः इव भ्रातृव्यः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१/४१) किमर्थः णकारः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२/४१) वृद्ध्यर्थः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३/४१) ञ्णिति इति वृद्धिः यथा स्यात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-४/४१) गार्गः जाल्मः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-५/४१) गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-६/४१) गोत्रस्त्रियाः प्रत्ययस्य णित्करणम् अनर्थकम् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-७/४१) किम् कारणम् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-८/४१) वृद्धत्वात् प्रातिपदिकस्य ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-९/४१) वृद्धम् एव एतत् प्रातिपदिकम् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१०/४१) लुगर्थः तर्हि णकारः कर्तव्यः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-११/४१) यत् लुगन्तम् अवृद्धम् तत्र वृद्धिः यथात् स्यात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१२/४१) वातण्डः जाल्मः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१३/४१) लुगर्थम् इति चेत् न लुक्प्रतिषेधात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१४/४१) लुगर्थम् इति चेत् तत् न ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१५/४१) किम् कारणम् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१६/४१) लुक्प्रतिषेधात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१७/४१) प्रतिषिध्यते अत्र लुक् गोत्रे अलुक् अचि इति ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१८/४१) व्यवहितत्वात् अप्रतिषेधः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-१९/४१) ईकारेण व्यवहितत्वात् प्रतिषेधः न प्राप्नोति ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२०/४१) व्यवहितत्वात् अप्रतिषेधः इति चेत् न पुंवद्भावात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२१/४१) व्यवहितत्वात् अप्रतिषेधः इति चेत् तत् न ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२२/४१) किम् कारणम् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२३/४१) पुंवद्भावात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२४/४१) पुंवद्भावः अत्र भवति भस्य तद्धिते अढे पुंवद्भावः भवति इति ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२५/४१) फिनर्थम् तु ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२६/४१) फिनर्थम् तु णकारः कर्तव्यः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२७/४१) यत् फिनन्तम् अवृद्धम् तत्र वृद्धिः यथा स्यात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२८/४१) ग्लौचुकायनः जाल्मः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-२९/४१) पुंवद्भावप्रतिषेधार्थम् च ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३०/४१) पुंवद्भावप्रतिषेधार्थम् च णकारः कर्तव्यः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३१/४१) गार्गा भार्या अस्य गार्गाभार्यः ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३२/४१) वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३३/४१) गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३४/४१) गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् एतत् भवति ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३५/४१) न अस्ति गार्गा ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३६/४१) अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३७/४१) अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् एतत् भवति ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३८/४१) न स्त्री वंश्या ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-३९/४१) अस्ति गार्गा स्त्री ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-४०/४१) अपरः आह ॒ द्वौ एव वंशौ मातृवंशः पितृवंशः च ।

(पा-४,१.१४७; अकि-२,२६०.८-२६१.६; रो-३,६०६-६०८; भा-४१/४१) यावता मातृवंशः अपि अस्ति न अस्ति गार्गा ।

(पा-४,१.१४८; अकि-२,२६१.८-१०; रो-३,६०९; भा-१/४) गोत्रस्त्रियाः वृद्धात् ठक् फेः छ च फाण्टाहृति इमे चत्वारः योगाः ।

(पा-४,१.१४८; अकि-२,२६१.८-१०; रो-३,६०९; भा-२/४) तत्र त्रयः कुत्सने त्र्तयः सौवीरगोत्रे ।

(पा-४,१.१४८; अकि-२,२६१.८-१०; रो-३,६०९; भा-३/४) आद्यः योगः कुत्सने एव ।

(पा-४,१.१४८; अकि-२,२६१.८-१०; रो-३,६०९; भा-४/४) परः सौवीरगोत्रे एव ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१/१७) किमर्थः णकारः ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-२/१७) वृद्ध्यर्थः ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-३/१७) ञ्णिति इति वृद्धिः यथा स्यात् ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-४/१७) फाण्टाहृतः ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-५/१७) फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिपदिकस्य ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-६/१७) फाण्टाहृतेः प्रत्ययस्य णित्करणम् अनर्थकम् ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-७/१७) किम् कारणम् ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-८/१७) वृद्धत्वात् प्रातिपदिकस्य ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-९/१७) वृद्धम् एव एतत् प्रातिपदिकम् ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१०/१७) पुंवद्भावप्रतिषेधार्थम् तु ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-११/१७) पुंवद्भावस्य प्रतिषेधार्थः णकारः कर्तव्यः ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१२/१७) फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१३/१७) वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् इति ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१४/१७) उक्तम् वा ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१५/१७) किम् उक्तम् ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१६/१७) गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् ।

(पा-४,१.१५०; अकि-२,२६१.१२-२१; रो-३,६०९-६१०; भा-१७/१७) अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् इति ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१/२२) वामरथस्य कण्वादिवत् स्वरवर्जम् ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-२/२२) वामरथस्य कण्वादिवद्भावः वक्तव्यः ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-३/२२) किम् अविशेषेण ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-४/२२) न इति आह ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-५/२२) स्वरम् वर्जयित्वा ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-६/२२) किम् प्रयोजनम् ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-७/२२) वामरथ्यस्य छात्राः वामरथाः ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-८/२२) कण्वादिभ्यः गोत्रे इति अण् यथा स्यात् ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-९/२२) यदि कण्वादिवत् इति उच्यते प्रत्ययाश्रयम् अनतिदिष्टम् भवति ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१०/२२) तत्र कः दोषः ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-११/२२) वामरथाः ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१२/२२) बहुषु लोपः न प्राप्नोति ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१३/२२) वामरथानाम् सङ्घः ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१४/२२) सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् न प्राप्नोति ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१५/२२) यदि पुनः यञ्वत् इति उच्येत ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१६/२२) एवम् अपि प्रकृत्याश्रितम् अनतिदिष्टम् भवति ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१७/२२) तत्रो कः दोषः ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१८/२२) वामरथ्यस्य छात्राः वामरथाः ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-१९/२२) कण्वादिभ्यः गोत्रे इति अण् न प्राप्नोति ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-२०/२२) अस्तु तर्हि कण्वादिवत् इति एव ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-२१/२२) कथम् वामरथाः वामरथानाम् सङ्घः इति ।

(पा-४,१.१५१; अकि-२,२६२.२-११; रो-३,६१०-६११; भा-२२/२२) यत् अयम् स्वरवर्जम् इति आह तत् ज्ञापयति आचार्यः प्रत्ययाश्रितम् अपि अतिदिष्टम् भवति इति ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-१/१३) उदीचाम् अञ्विधौ तक्ष्णः अण्वचनम् ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-२/१३) उदीचाम् अञ्विधौ तक्ष्णः अण् वक्तव्यः ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-३/१३) ताक्ष्णः ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-४/१३) यदि पुनः अयम् तक्षन्शब्दः शिवादिषु पठ्येत ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-५/१३) शिवादिः इति चेत् ण्यविधिः ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-६/१३) शिवादिः इति चेत् ण्यः विधेयः ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-७/१३) ताक्ष्ण्यः इति ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-८/१३) सिद्धम् तु उदीचाम् वा ण्यवचनात् ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-९/१३) सिद्धम् एतत् ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-१०/१३) कथम् ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-११/१३) उदीचाम् वा ण्यवचनात् ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-१२/१३) उदीचाम् वा ण्यः भवति इति वक्तव्यम् ।

(पा-४,१.१५३; अकि-२,२६२.१३-२०; रो-३,६११-६१२; भा-१३/१३) ण्येन मुक्ते यः यतः प्राप्नोति सः ततः भविष्यति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१/४२) किम् इदम् कौसल्यकार्मार्ययोः विकृतयोः ग्रहणम् क्रियते ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२/४२) एवम् विकृताभ्याम् यथा स्यात् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३/४२) अत्यल्पम् इदम् उच्यते ॒ कौसल्यकार्मार्याभ्याम् च इति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-४/४२) फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-५/४२) फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च इति वक्तव्यम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-६/४२) दगु दागव्यायनिः कोसल कौसल्यायनिः कर्मार कर्मार्यायणिः छाग छाग्यायनिः वृष वार्ष्यायणिः ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-७/४२) यदि युट् क्रियते युटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-८/४२) इदम् इह सम्प्रधार्यम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-९/४२) युट् क्रियताम् आदेशः इति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१०/४२) किम् अत्र कर्तव्यम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-११/४२) परत्वात् आदेशः ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१२/४२) नित्यः युट् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१३/४२) कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१४/४२) युट् अपि अनित्यः ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१५/४२) अन्यस्य कृते आदेशे प्राप्नोति अन्यस्य अकृते ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१६/४२) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१७/४२) अन्तरङ्गः तर्हि युट् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१८/४२) का अन्तरङ्गता ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-१९/४२) उत्पत्तिसन्नियोगेन युट् उच्यते ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२०/४२) उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य आदेशः उच्यते ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२१/४२) आदेशः अपि अन्तरङ्गः ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२२/४२) कथम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२३/४२) वक्ष्यति एतत् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२४/४२) अनवकाशः तर्हि युट् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२५/४२) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२६/४२) यदि पूर्वान्तः क्रियते दागव्यायनिः ओः गुणः न प्राप्नोति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२७/४२) अस्तु तर्हि परादिः एव ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२८/४२) ननु च उक्तम् युटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-२९/४२) न एषः दोषः ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३०/४२) सिद्धम् तु आदिष्टस्य युड्वचनात् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३१/४२) सिद्धम् एतत् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३२/४२) कथम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३३/४२) आदिष्टस्य युड्वचनात् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३४/४२) युट् च आदिष्टस्य इति वक्तव्यम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३५/४२) तत् तर्हि वक्तव्यम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३६/४२) न वक्तव्यम् ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३७/४२) चेन सन्नियोगः करिष्यते ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३८/४२) युट् च ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-३९/४२) किम् च ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-४०/४२) यत् च अन्यत् प्राप्नोति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-४१/४२) किम् च अन्यत् प्राप्नोति ।

(पा-४,१.१५५; अकि-२,२६२.२२-२६३.१५; रो-३,६१२-६१३; भा-४२/४२) आदेशः इति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१/३८) यदि पुनः अयम् कुट् परादिः क्रियेत ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२/३८) कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३/३८) कुटि सति प्रत्ययादेः आदेशः न उपपद्यते ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-४/३८) किम् कारणम् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-५/३८) अनादित्वात् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-६/३८) कुटि सति अनादित्वात् आदेशः न प्राप्नोति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-७/३८) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-८/३८) पूर्वान्ते नलोपवचनम् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-९/३८) यदि पूर्वान्तः क्रियते नलोपः वक्तव्यः ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१०/३८) चार्मिकायणिः वार्मिकायणिः ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-११/३८) नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१२/३८) परादौ पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१३/३८) अस्तु तर्हि परादिः एव ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१४/३८) ननु च उक्तम् कुटि सति अनादित्वात् आदेशः न प्राप्नोति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१५/३८) सिद्धम् तु आदिष्टस्य कुड्वचनात् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१६/३८) सिद्धम् एतत् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१७/३८) कथम् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१८/३८) कुट् च आदिष्टस्य इति वक्तव्यम् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-१९/३८) तत् तर्हि वक्तव्यम् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२०/३८) न वक्तव्यम् ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२१/३८) चेन सन्नियोगः करिष्यते ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२२/३८) कुट् च ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२३/३८) किम् च ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२४/३८) यत् च अन्यत् प्राप्नोति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२५/३८) किम् च अन्यत् प्राप्नोति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२६/३८) आदेशः ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२७/३८) सिध्यति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२८/३८) सूत्रम् तर्हि भिद्यते ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-२९/३८) यथान्यासम् एव अस्तु ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३०/३८) ननु च उक्तम् पूर्वान्ते नलोपवचनम् इति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३१/३८) क्रियते एतत् न्यासे एव चर्मिवर्मिणोः नलोपः च इति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३२/३८) कारिभ्यः इञः अगोत्रात् फिञ् विप्रतिषेधेन ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३३/३८) कारिभ्यः इञ् भवति इति एतस्मात् अगोत्रात् फिञ् भवति विप्रतिषेधेन ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३४/३८) कारिभ्यः इञ् भवति इति अस्य अवकाशः आयस्कारिः लौहकारिः ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३५/३८) फिञः अवकाशः तापसायनिः साम्मितिकायनिः ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३६/३८) इह उभयम् प्राप्नोति ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३७/३८) नापितायनिः ।

(पा-४,१.१५८; अकि-२,२६३.१७-२६४.१०; रो-३,६१३-६१४; भा-३८/३८) फिञ् भवति विप्रतिषेधेन ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-१/१३) यदि षुक् पूर्वान्तः क्रियते मानुषाः बहुषु लोपः प्राप्नोति ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-२/१३) मानुषाणाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् इत् अण् प्राप्नोति ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-३/१३) अस्तु तर्हि परादिः ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-४/१३) यदि परादिः मानुषी अञन्तात् ईकारः न प्राप्नोति ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-५/१३) अस्तु तर्हि पूर्वान्तः एव ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-६/१३) कथम् मानुषाः मानुषाणाम् सङ्घः इति ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-७/१३) उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-८/१३) इह तर्हि मानुष्यकम् इति हलः तद्धितस्य इति लोपः प्राप्नोति ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-९/१३) परादौ अपि एषः दोषः ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-१०/१३) यत् हि हलः तद्धितस्य इति हल्ग्रहणम् न तत् अङ्गविशेषणम् शक्यम् विज्ञातुम् ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-११/१३) इह तर्हि दोषः स्यात् ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-१२/१३) वृकात् टेण्यण् वार्केणी इति ।

(पा-४,१.१६१; अकि-२,२६४.१२-२१; रो-३,६१४-६१५; भा-१३/१३) तस्मात् उभाभ्याम् एव वक्तव्यम् प्रकृत्या अके राजन्यमनुष्ययुवानः इति ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-१/१५) पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यम् तस्य पौत्रप्रभृतिसञ्ज्ञाकरणम् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-२/१५) पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यविवक्षा तस्य पौत्रप्रभृतेः गोत्रसञ्ज्ञा भवति इति वक्तव्यम् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-३/१५) गर्गः अपि हि कम् चित् प्रति पौत्रः कुशिकः अपि ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-४/१५) तत्र मा भूत् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-५/१५) तत् तर्हि वक्तव्यम् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-६/१५) न वक्तव्यम् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-७/१५) समर्थानाम् प्रथमात् वा इति वर्तते ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-८/१५) समर्थानाम् प्रथमस्य यत् अपत्यम् पौत्रप्रभृति इति विज्ञायते ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-९/१५) जीवद्वंश्यम् च कुत्सितम् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-१०/१५) जीवद्वंश्यम् च कुत्सितम् गोत्रसञ्ज्ञम् भवति इति वक्तव्यम् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-११/१५) गार्ग्यः त्वम् जाल्म. वात्स्यः त्वम् जाल्म ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-१२/१५) का पुनः इह कुत्सा ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-१३/१५) पितृतः लोके व्यपदेशवता अस्वतन्त्रेण भवितव्यम् ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-१४/१५) यः इदानीम् पितृमान् स्वतन्त्रः भवति सः उच्यते गार्ग्यः त्वम् असि जाल्म ।

(पा-४,१.१६२; अकि-२,२६४.२३-२६५.८; रो-३,६१६-६१७; भा-१५/१५) न त्वम् पितृतः व्यपदेशम् अर्हसि ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१/४२) जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२/४२) जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च इति वक्तव्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३/४२) तत् तर्हि वक्तव्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-४/४२) न वक्तव्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-५/४२) पौत्रप्रभृति इति वर्तते ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-६/४२) एवम् तर्हि अन्वाचष्टे पौत्रप्रभृति इति वर्तते इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-७/४२) किम् एतस्य अन्वाख्याने प्रयोजनम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-८/४२) तत् च दैवदत्त्यर्थम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-९/४२) देवदत्तस्य अपत्यम् देवदत्तिः इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१०/४२) अनन्तरम् यत् अपत्यम् तस्य युवसञ्ज्ञा मा भूत् इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-११/४२) देवदत्तस्य तर्हि पौत्रे युवसञ्ज्ञा प्राप्नोति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१२/४२) एतत् अपि पौत्रप्रभृति भवति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१३/४२) न पौत्रप्रभृति इति अनेन अपत्यम् अभिसम्बध्यते ॒ पौत्रप्रभृति यत् अपत्यम् इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१४/४२) किम् तर्हि ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१५/४२) वंश्ये अभिसम्बध्यते ॒ पौत्रप्रभृतिवंश्ये जीवति यत् अपत्यम् इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१६/४२) एवम् अपि देवदत्तस्य द्वौ पुत्र तयोः कनीयसि युवसञ्ज्ञा प्राप्नोति भ्रातरि च ज्यायसि इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१७/४२) एवम् तर्हि अपत्यम् एव अभिसम्बध्यते न तु पौत्रप्रभृतिसमानाधिकरणम् अपत्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१८/४२) न एवम् विज्ञायते पौत्रप्रभृति यत् अपत्यम् इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-१९/४२) कथम् तर्हि ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२०/४२) पौत्रप्रभृतेः यत् अपत्यम् इति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२१/४२) वृद्धस्य च पूजायाम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२२/४२) वृद्धस्य च पूजायाम् युवसञ्ज्ञा वक्तव्या ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२३/४२) तत्रभवन्तः गार्ग्यायणाः तत्रभवन्तः वात्स्यायनाः ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२४/४२) का पुनः इह पूजा ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२५/४२) युवत्वम् लोके ईप्सितम् पूजा इति उपचर्यते ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२६/४२) तत्रभवन्तः युवत्वेन उपचर्यमाणाः प्रीताः भवन्ति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२७/४२) आपत्यः वा गोत्रम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२८/४२) अथ वा आपत्यः गोत्रसञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-२९/४२) परमप्रकृतेः च आपत्यः ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३०/४२) परमप्रकृतेः च आपत्यः भवति इति वक्तव्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३१/४२) आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३२/४२) आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः प्रत्ययः वक्तव्यः युवसञ्ज्ञः च भवति इति वक्तव्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३३/४२) सः च अस्त्रियाम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३४/४२) सः च अस्त्रियाम् इति वक्तव्यम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३५/४२) एकोगोत्रग्रहणानर्थक्यम् च ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३६/४२) एवम् च कृत्वा एकोगोत्रग्रहणम् अनर्थकम् भवति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३७/४२) बहुवचनलोपिषु च सिद्धम् ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३८/४२) बहुवचनलोपिषु च सिद्धम् भवति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-३९/४२) तत्र बिदाणाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-४०/४२) बैदः बैदौ ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-४१/४२) बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति ।

(पा-४,१.१६३; अकि-२,२६५.१०-२६६.१५; रो-३,६१७-६१९; भा-४२/४२) बिदाः इति ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-१/८) अन्यग्रहणम् किमर्थम् ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-२/८) भ्रातरि इति वर्तते ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-३/८) सपिण्डमात्रे यथा स्यात् ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-४/८) अथ स्थविरतरग्रहणम् किमर्थम् ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-५/८) उभयतः विशिष्टे यथा स्यात् स्थानतः वयस्तः च ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-६/८) अथ जीवति इति वर्तमाने पुनः जीवतिग्रहणम् किमर्थम् ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-७/८) जीवतः जीवति यथा स्यात् मृते मा भूत् ।

(पा-४,१.१६५.१; अकि-२,२६६.१७-२०; रो-३,६२०-६२१; भा-८/८) मृते हि मार्ग्यः मृतः इति एव भवितव्यम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१/८०) अथ गोत्रयूनयोः समावेशः भवति उताहो न ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२/८०) किम् च प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३/८०) बाढम् प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४/८०) न हि अयम् एकसञ्ज्ञाधिकारः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५/८०) किम् च अतः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६/८०) गोत्रयोः समावेशे कः दोषः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७/८०) तत्कृतम् भवेत् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-८/८०) गोत्रयोः समावेशे कः दोषः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-९/८०) तत्कृतम् प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१०/८०) गोत्राश्रयाः विधयः यूनि अपि प्राप्नुवन्ति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-११/८०) यास्कायनयः लाह्यायनयः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१२/८०) यस्कादिभ्यः गोत्रे इति लुक् प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१३/८०) यस्कादिषु न दोषः अस्ति न यूनि इति अनुवर्तनात् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१४/८०) यस्कादिषु न दोषः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१५/८०) किम् कारणम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१६/८०) न यूनि इति अनुवर्तनात् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१७/८०) न यूनि इति तत्र अनुवर्तते ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१८/८०) क्व प्रकृतम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-१९/८०) न तौल्वलिभ्यः इति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२०/८०) दोषः अत्रिबिदपञ्चालाः न यूनि इति अनुवर्तनात् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२१/८०) यदि न यूनि इति अनुवर्तते अत्रयः बिदाः पञ्चालाः माणवकाः इति न सिध्यति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२२/८०) न एषः दोषः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२३/८०) सम्बन्धम् अनुवर्तिष्यते ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२४/८०) न तौल्वलिभ्यः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२५/८०) तद्राजस्य बहुषु तेन एव अस्त्रियाम् लुक् भवति तौल्वलिभ्यः यूनि न ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२६/८०) यस्कादिभ्यः गोत्रे लुक् भवति यूनि न ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२७/८०) तौल्वलिभ्यः इति निवृत्तम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२८/८०) यञञोः च अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च लुक् भवति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-२९/८०) यूनि न इति निवृत्तम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३०/८०) इह तर्हि काण्व्ययनस्य छात्राः काण्व्यायनीयाः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३१/८०) कण्वादिभ्यः गोत्रे इति अण् प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३२/८०) कण्वादिषु न दोषः अस्ति न यूनि अस्ति ततः परम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३३/८०) कण्वादिषु दोषः न अस्ति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३४/८०) किम् कारणम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३५/८०) न यूनि अस्ति ततः परम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३६/८०) कण्वादिभ्यः यः विहितः तदन्तात् प्रातिपदिकात् इति उच्यते ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३७/८०) यः च अत्र कण्वादिभ्यः विहितः न तदन्तम् प्रातिपदिकम् यदन्तम् च प्रातिपदिकम् न असौ कण्वादिभ्यः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३८/८०) इह तर्हि औपगवस्य अपत्यम् औपगविः इति एकः गोत्रे इति एतस्मात् नियमात् प्रत्ययः न प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-३९/८०) एकः गोत्रे प्रतिपदम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४०/८०) प्रतिपदम् अत्र प्रत्ययाः विधीयन्ते गोत्रात् यूनि अस्त्रियाम् इति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४१/८०) तदन्तात् तर्हि अनेकः प्रत्ययः प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४२/८०) गोत्रात् यूनि च तत् स्मरेत् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४३/८०) गोत्रात् यूनि अस्त्रियाम् इति तत् स्मरेत् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४४/८०) किम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४५/८०) एकः इति एव ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४६/८०) गोत्रे तर्हि अलुक् उक्तः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४७/८०) सः यूनि अपि प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४८/८०) अस्तु ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-४९/८०) पुनः यूनि लुक् भविष्यति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५०/८०) न एवम् शक्यम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५१/८०) फक्फिञोः दोषः स्यात् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५२/८०) शालङ्केः यूनः छात्राः शालङ्काः पैलस्य पैलाः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५३/८०) फक्फिञोः अन्यतरस्याम् इति अन्यतरस्याम् श्रवणम् प्रसज्येत ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५४/८०) तस्मात् युवसञ्ज्ञायाम् गोत्रसञ्ज्ञायाः प्रतिषेधः वक्तव्यः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५५/८०) न वक्तव्यः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५६/८०) तुः नियामकः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५७/८०) तुः क्रियते ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५८/८०) सः नियामकः भविष्यति ॒ जीवति तु वंश्ये अपत्यम् युवसञ्ज्ञम् एव भवति इति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-५९/८०) यदि तर्हि युवसञ्ज्ञायाम् गोत्रसञ्ज्ञा न भवति ये इष्यन्ते यूनि गोत्राश्रयाः विधयः ते न सिध्यन्ति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६०/८०) गार्ग्यायणानाम् समूहः गार्ग्यायणकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६१/८०) गोत्राश्रयः वुञ् न प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६२/८०) एवम् तर्हि राजन्यात् वुञ् मनुष्यात् च ज्ञापकम् लौकिकम् परम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६३/८०) यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६४/८०) युवा च लोके गोत्रम् इति उच्यते ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६५/८०) किम्गोत्रः असि माणवक ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६६/८०) गार्ग्यायणः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६७/८०) किम्गोत्रः असि माणवक ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६८/८०) वात्स्यायनः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-६९/८०) यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः इति गोत्रे इति अण् प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७०/८०) सामूहिकेषु ज्ञापकम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७१/८०) यदि सामूहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७२/८०) वुञ्विधौ ज्ञापकम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७३/८०) वुञ्विधौ एतत् ज्ञापकम् ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७४/८०) यदि वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७५/८०) अस्तु तर्हि अविशेषेण ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७६/८०) कथम् औपगवेः यूनः छात्राः औपगवीयाः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७७/८०) इञः गोत्रे इति अण् प्राप्नोति ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७८/८०) न एषः दोषः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-७९/८०) गोत्रेण इञम् विशेषयिष्यामः ।

(पा-४,१.१६५.२; अकि-२,२६६.२१-२६८.१८; रो-३,६२१-६२५; भा-८०/८०) गोत्रे यः इञ् विहितः इति ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-१/१६) क्षत्रियात् एकराजात् सङ्घप्रतिषेधार्थम् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-२/१६) क्षत्रियात् एकराजात् इति वक्तव्यम् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-३/१६) किम् प्रयोजनम् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-४/१६) सङ्घप्रतिषेधार्थम् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-५/१६) सङ्घात् मा भूत् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-६/१६) पञ्चालानाम् अपत्यम् विदेहानाम् अपत्यम् इति ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-७/१६) तत् तर्हि वक्तव्यम् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-८/१६) न वक्तव्यम् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-९/१६) न हि अन्तरेण बहुषु लुकम् पञ्चालाः इति एतत् भवति ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-१०/१६) यः तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-११/१६) युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-१२/१६) इदम् तर्हि क्षौद्रकाणाम् अपत्यम् मालवानाम् अपत्यम् इति ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-१३/१६) अत्र अपि क्षौद्रक्यः मालक्यः इति न एतत् तेषाम् दासे वा भवति कर्मकरे वा ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-१४/१६) किम् तर्हि तेषाम् एव कस्मिन् चित् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-१५/१६) यावता तेषाम् एव कस्मिन् चित् तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् ।

(पा-४,१.१६८.१; अकि-२,२६८.२०-२६९.३; रो-३,६२५-६२६; भा-१६/१६) युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति ।

(पा-४,१.१६८.२; अकि-२,२६९.४-८; रो-३,६२६; भा-१/७) अथ क्षत्रियग्रहणम् किमर्थम् ।

(पा-४,१.१६८.२; अकि-२,२६९.४-८; रो-३,६२६; भा-२/७) इह मा भूत् ।

(पा-४,१.१६८.२; अकि-२,२६९.४-८; रो-३,६२६; भा-३/७) विदेहः नाम ब्राह्मणः तस्य अपत्यम् वैदेहिः ।

(पा-४,१.१६८.२; अकि-२,२६९.४-८; रो-३,६२६; भा-४/७) क्षत्रियग्रहणानर्थक्ये च उक्तम् ।

(पा-४,१.१६८.२; अकि-२,२६९.४-८; रो-३,६२६; भा-५/७) किम् उक्तम् ।

(पा-४,१.१६८.२; अकि-२,२६९.४-८; रो-३,६२६; भा-६/७) एकम् तावत् उक्तम् ॒ बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः इति ।

(पा-४,१.१६८.२; अकि-२,२६९.४-८; रो-३,६२६; भा-७/७) अपरम् उक्तम् ॒ अनभिधानात् इति ।

(पा-४,१.१६८.३; अकि-२,२६९.९-१३; रो-३,६२६; भा-१/७) क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् ।

(पा-४,१.१६८.३; अकि-२,२६९.९-१३; रो-३,६२६; भा-२/७) क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् प्रत्ययाः भवन्ति इति वक्तव्यम् ।

(पा-४,१.१६८.३; अकि-२,२६९.९-१३; रो-३,६२६; भा-३/७) पञ्चालानाम् राजा पाञ्चालः ।

(पा-४,१.१६८.३; अकि-२,२६९.९-१३; रो-३,६२६; भा-४/७) पूरोः अण् वक्तव्यः ।

(पा-४,१.१६८.३; अकि-२,२६९.९-१३; रो-३,६२६; भा-५/७) पौरवः ।

(पा-४,१.१६८.३; अकि-२,२६९.९-१३; रो-३,६२६; भा-६/७) पाण्डोः ड्यण् वक्तव्यः ।

(पा-४,१.१६८.३; अकि-२,२६९.९-१३; रो-३,६२६; भा-७/७) पाण्ड्यः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१/२२) अणः ण्यङ्ण्येञः विप्रतिषेधेन ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-२/२२) अणः ण्यङ् ण्य इञ् इति एते भवन्ति विप्रतिषेधेन ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-३/२२) अणः अवकाशः आङ्गः वाङ्गः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-४/२२) ञ्यङः अवकाशः आम्बष्ठ्यः सौवीर्यः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-५/२२) इह उभयम् प्राप्नोति ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-६/२२) दार्व्यः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-७/२२) ण्यस्य अवकाशः निचकः नैचक्यः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-८/२२) अणः सः एव ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-९/२२) इह उभयम् प्राप्नोति ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१०/२२) नीपः नैप्यः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-११/२२) इञः अवकाशः आजमीढिः आजक्रन्दिः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१२/२२) अणः सः एव ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१३/२२) इह उभयम् प्राप्नोति ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१४/२२) बुधः बौधिः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१५/२२) ण्यङ्ण्येञः भवन्ति विप्रतिषेधेन ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१६/२२) ञ्यङः कुरुनादिभ्यः ण्यः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१७/२२) ञ्यङः कुरुनादिभ्यः ण्यः भवति विप्रतिषेधेन ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१८/२२) ञ्यङः अवकाशः आवन्त्यः कौन्त्यः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-१९/२२) ण्यस्य सः एव. नैशः नाम जनपदः ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-२०/२२) तस्मात् उभयम् प्राप्नोति ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-२१/२२) ण्यः भवति विप्रतिषेधेन ।

(पा-४,१.१७०; अकि-२,२६९.१५-२४; रो-३,६२७; भा-२२/२२) नैश्यः ।

(पा-४,१.१७५; अकि-२,२७०.२-४; रो-३,६२७; भा-१/५) कम्बोजादिभ्यः लुग्वचनम् चोडाद्यर्थम् ।

(पा-४,१.१७५; अकि-२,२७०.२-४; रो-३,६२७; भा-२/५) कम्बोजादिभ्यः लुक् वक्तव्यः ।

(पा-४,१.१७५; अकि-२,२७०.२-४; रो-३,६२७; भा-३/५) किम् प्रयोजनम् ।

(पा-४,१.१७५; अकि-२,२७०.२-४; रो-३,६२७; भा-४/५) चोडाद्यर्थम् ।

(पा-४,१.१७५; अकि-२,२७०.२-४; रो-३,६२७; भा-५/५) चोडः कडेरः केरलः ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-१/१०) इह कस्मात् न भवति ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-२/१०) आम्बष्ठ्या सौवीर्या ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-३/१०) अतः इति उच्यते ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-४/१०) न च एषः अकारः ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-५/१०) तदन्तविधिना प्राप्नोति ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-६/१०) अतः उत्तरम् पठति अतः इति तदन्ताग्रहणम् अवन्त्यादिभ्यः लुग्वचनात् ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-७/१०) अतः इति तदन्तस्य अग्रहणम् ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-८/१०) किम् कारणम् ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-९/१०) अवन्त्यादिभ्यः लुग्वचनात् ।

(पा-४,१.१७७.१; अकि-२,२७०.६-१०; रो-३,६२७-६२८; भा-१०/१०) यत् अयम् अवन्त्यादिभ्यः लुकम् शास्ति तत् ज्ञापयति आचार्यः न अत्र तदन्तविधिः भवति इति ।

(पा-४,१.१७७.२; अकि-२,२७०.११-१४; रो-३,६२८; भा-१/४) पर्श्वादिभ्यः लुक् वक्तव्यः ।

(पा-४,१.१७७.२; अकि-२,२७०.११-१४; रो-३,६२८; भा-२/४) पर्शूः रक्षाः असुरी ।

(पा-४,१.१७७.२; अकि-२,२७०.११-१४; रो-३,६२८; भा-३/४) यौधेयादिप्रतिषेधः ज्ञापकः पार्श्वादिलुकः ।

(पा-४,१.१७७.२; अकि-२,२७०.११-१४; रो-३,६२८; भा-४/४) यत् अयम् न प्राच्यभर्गादियौधेयादिभ्यः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति पर्श्वादिभ्यः लुक् इति ।