व्याकरणमहाभाष्य खण्ड 47

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,२.१; अकि-२,२७१.२-५; रो-३,६२९; भा-१/६) रागात् इति किम् ।

(पा-४,२.१; अकि-२,२७१.२-५; रो-३,६२९; भा-२/६) देवदत्तेन रक्तम् वस्त्रम् ।

(पा-४,२.१; अकि-२,२७१.२-५; रो-३,६२९; भा-३/६) रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाध्यानर्थक्यम् ।

(पा-४,२.१; अकि-२,२७१.२-५; रो-३,६२९; भा-४/६) रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।

(पा-४,२.१; अकि-२,२७१.२-५; रो-३,६२९; भा-५/६) न हि अरागात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् ।

(पा-४,२.१; अकि-२,२७१.२-५; रो-३,६२९; भा-६/६) अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१/२०) ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-२/२०) ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-३/२०) शाकलिकम् कार्दमिकम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-४/२०) नील्याः अन् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-५/२०) नील्याः अन् वक्तव्यः ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-६/२०) नील्या रक्तम् नीलम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-७/२०) पीतात् कन् ।पीतात् कन् वक्तव्यः ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-८/२०) पीतेन रक्तम् पीतकम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-९/२०) पीतकशब्दः वा प्रकृत्यन्तरम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१०/२०) तस्मात् लुक् वक्तव्यः ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-११/२०) हरिद्रामहारजनाभ्याम् अञ् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१२/२०) हरिद्रामहारजनाभ्याम् अञ् वक्तव्यः ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१३/२०) हारिद्रम् माहारजनम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१४/२०) रागात् इति उच्यते ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१५/२०) तत्र इदम् न सिध्यति ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१६/२०) हारिद्रौ कुक्कुटस्य पादौ ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१७/२०) काषायौ गर्दभस्य कर्णौ इति ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१८/२०) उपमानात् सिद्धम् ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-१९/२०) हरिद्रौ इव हरिद्रौ ।

(पा-४,२.२; अकि-२,२७१.७-१७; रो-३,६२९-६३०; भा-२०/२०) काषायौ इव काषायौ

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१/२६) अयुक्तः अयम् निर्देशः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२/२६) योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-३/२६) न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-४/२६) नित्ये हि कालनक्षत्रे ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-५/२६) कथम् तर्हि निर्देशः कर्तव्यः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-६/२६) नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययविधानम् ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-७/२६) नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-८/२६) पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले ॒ पौषम् अहः , पौषी रात्रिः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-९/२६) तत्र उत्तरपदलोपः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१०/२६) तत्र उत्तरपदलोपः वक्तव्यः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-११/२६) पुष्ययुक्तशब्दात् हि प्रत्ययः विधीयते ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१२/२६) लिङ्गवचनानुपपत्तिः च ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१३/२६) लिङ्गवचनयोः च अनुपपत्तिः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१४/२६) चन्द्रमसः यत् लिङ्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१५/२६) कालयोगात् सिद्धम् ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१६/२६) अस्तु नक्ष्त्रेण युक्तः कालः इति एव ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१७/२६) नन् च उक्तम् अयुक्तः अयम् निर्देशः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१८/२६) योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-१९/२६) नित्ये हि कालनक्षत्रे इति ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२०/२६) न एषः दोषः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२१/२६) पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२२/२६) तेन तत्सञ्ज्ञकेन कालः विशेष्यते ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२३/२६) तथा च सम्प्रत्ययः ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२४/२६) एवम् च कृत्वा लोके सम्प्रत्ययः भवति ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२५/२६) पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य ।

(पा-४,२.३; अकि-२,२७१.१९-२७२.१७; रो-३,६३०-६३१; भा-२६/२६) मघाभिः अद्य इति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१/२०) इह कस्मात् न भवति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-२/२०) पौषी रात्रिः पौषम् अहः ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-३/२०) अविशेषे इति उच्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-४/२०) विशेषः च अत्र गम्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-५/२०) रात्रिः इति उक्ते अहः न इति गम्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-६/२०) अहः इति उक्ते रात्रिः न इति गम्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-७/२०) इह अपि तर्हि न प्राप्नोति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-८/२०) अद्य पुष्यः इति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-९/२०) अत्र अपि हि विशेषः गम्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१०/२०) अद्य इति उक्ते न ह्यः न श्वः इति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-११/२०) यदि अपि अत्र विशेषः गम्यते अविशेषः अपि गम्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१२/२०) अद्य इति उक्ते न ज्ञायते रात्रौ वा दिवा वा इति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१३/२०) यतः अविशेषः तदाश्रयः लुप् भविष्यति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१४/२०) इह अपि तर्हि यदि अपि विशेषः गम्यते अविशेषः अपि तु गम्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१५/२०) रात्रिः इति उक्ते न ज्ञायते कदा इति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१६/२०) यतः अविशेषः तदाश्रयः लुप् प्राप्नोति ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१७/२०) एवम् तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१८/२०) नक्षत्रेण युक्तस्य कालस्य अविशेषे ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-१९/२०) कः पुनः कालः नक्षत्रेण युज्यते ।

(पा-४,२.४; अकि-२,२७२.१९-२७३.२; रो-३,६३२; भा-२०/२०) अहोरात्रः ।

(पा-४,२.५; अकि-२,२७३.४-५; रो-३,६३२-६३३; भा-१/५) इह कस्मात् न युक्तवद्भावः भवति ।

(पा-४,२.५; अकि-२,२७३.४-५; रो-३,६३२-६३३; भा-२/५) श्रवणा रात्रिः ।

(पा-४,२.५; अकि-२,२७३.४-५; रो-३,६३२-६३३; भा-३/५) निपातनात् एतत् सिद्धम् ।

(पा-४,२.५; अकि-२,२७३.४-५; रो-३,६३२-६३३; भा-४/५) किम् निपातनम् ।

(पा-४,२.५; अकि-२,२७३.४-५; रो-३,६३२-६३३; भा-५/५) फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः इति ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१/२९) दृष्टम् साम कलेः ढक् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२/२९) दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-३/२९) कलिना दृष्टम् साम कालेयम् साम गीयते ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-४/२९) अपरः आह ॒ सर्वत्र अग्निकलिभ्याम् ढक् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-५/२९) सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-६/२९) अग्निना दृष्टम् साम आग्नेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-७/२९) अग्नौ भवम् आग्नेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-८/२९) अग्नेः आगतम् आग्नेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-९/२९) अग्नेः स्वम् आग्नेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१०/२९) अग्निः देवता अस्य आग्नेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-११/२९) कलिना दृष्टम् साम कालेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१२/२९) कलेः आगतम् कालेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१३/२९) कलौ भवम् कालेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१४/२९) कलेः स्वम् कालेयम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१५/२९) कलिः देवता अस्य कालेयः चरुः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१६/२९) दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१७/२९) दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१८/२९) उशनसा दृष्टम् साम औशनसम् औशनम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-१९/२९) शतभिषजि जातः शातभिषजः शातभिषः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२०/२९) तीयात् ईकक् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२१/२९) तीयात् ईकक् वक्तव्यः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२२/२९) द्वैतीयिकः तार्तीयिकः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२३/२९) न विद्यायाः ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२४/२९) विद्यायाः न भवति इति वक्तव्यम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२५/२९) द्वितीया विद्या तृतीया विद्या इति एव ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२६/२९) गोत्रात् अङ्कवत् इष्यते ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२७/२९) औपगवकम् ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२८/२९) दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते ।

(पा-४,२.७; अकि-२,२७३.७-२३; रो-३,६३३-६३४; भा-२९/२९) तीयात् ईकक् न विद्यायाः गोत्रात् अङ्कवत् इष्यते ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-१/१०) किमर्थः डकारः ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-२/१०) डिति इति लोपः यथा स्यात् ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-३/१०) न एतत् अस्ति प्रयोजनम् ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-४/१०) यस्येतिलोपेन अपि एतत् सिद्धम् ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-५/१०) एवम् तर्हि सिद्धे सति यत् ययतौ डितौ करोति तत् ज्ञापयति आचार्यः भवतः एते परिभाषे ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-६/१०) अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणम् इति ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-७/१०) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-८/१०) अवामदेव्यम् इति एतत् सिद्धम् भवति ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-९/१०) सिद्धे यस्येतिलोपेन किमर्थम् ययतौ डितौ ।

(पा-४,२.९; अकि-२,२७४.२-८; रो-३,६३४; भा-१०/१०) ग्रहणम् मा अतदर्थे भूत् वामदेवस्य नञ्स्वरे ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-१/९) परिवृतः रथः इति तदेकान्तग्रहणम् ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-२/९) परिवृतः रथः इति अत्र तदेकान्तग्रहणम् कर्तव्यम् ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-३/९) येन परिवृतः रथः रथैकान्तः चेत् सः भवति इति वक्तव्यम् ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-४/९) इह मा भूत् ॒ पुत्रैः परिवृतः रथः ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-५/९) छात्रैः परिवृतः रथः इति ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-६/९) तत् तर्हि वक्तव्यम् ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-७/९) न वक्तव्यम् ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-८/९) कस्मात् न भवति ॒ पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति ।

(पा-४,२.१०; अकि-२,२७४.१०-१४; रो-३,६३५; भा-९/९) अनभिधानात् ।

(पा-४,२.११; अकि-२,२७४.१६-१७; रो-३,६३५; भा-१/४) अयम् योगः शक्यः अवक्तुम् ।

(पा-४,२.११; अकि-२,२७४.१६-१७; रो-३,६३५; भा-२/४) कथम् पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति ।

(पा-४,२.११; अकि-२,२७४.१६-१७; रो-३,६३५; भा-३/४) इनिना एतत् मत्वर्थीयेन सिद्धम् ।

(पा-४,२.११; अकि-२,२७४.१६-१७; रो-३,६३५; भा-४/४) पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-१/१०) कौमारापूर्ववचने इति उभयतः स्त्रियाः अपूर्वत्वे ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-२/१०) कौमारापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यम् ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-३/१०) अपूर्वपतिम् कुमारीम् उपपन्नः कौमारः भर्ता ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-४/१०) कुमारी अपूर्वपतिः पतिम् उपपन्ना कौमारी भार्या ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-५/१०) कौमारापूर्ववचने कुमार्याः अण् विधीयते अपूर्वत्वम् यदा तस्याः कुमार्याम् भवति इति वा ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-६/१०) अथ वा कुमार्याम् भवः कौमारः ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-७/१०) यदि एवम् कौमारी भार्या इति न सिध्यति ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-८/१०) पुंयोगात् स्त्र्यभिधानम् ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-९/१०) पुंयोगात् स्त्र्यभिधानम् भविष्यति ।

(पा-४,२.१३; अकि-२,२७४.१९-२७५.५; रो-३,६३५-६३६; भा-१०/१०) कौमारस्य भार्या कौमारी इति ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-१/१३) सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-२/१३) सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् कर्तव्यम् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-३/१३) असञ्ज्ञायाम् गरीयान् उप्संयोगः ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-४/१३) अक्रियमाणे हि सञ्ज्ञाग्रहणे गरीयान् उप्संयोगः कर्तव्यः स्यात् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-५/१३) मासार्धमासयोः इति वक्तव्यम् स्यात् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-६/१३) इह मा भूत् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-७/१३) पौषी पौर्णमासी अस्मिन् पञ्चदशरात्रे दशरात्रे इति ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-८/१३) संवत्सरपर्वणि इति च वक्तव्यम् स्यात् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-९/१३) भृतकमासे मा भूत् इति ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-१०/१३) तत् तर्हि वक्तव्यम् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-११/१३) न वक्तव्यम् ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-१२/१३) इतिकरणः क्रियते ।

(पा-४,२.२१; अकि-२,२७५.७-१३; रो-३,६३६-६३७; भा-१३/१३) ततः चेत् विवक्षा ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-१/११) यस्य इति लोपः कस्मात् न भवति ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-२/११) इकारोच्चारणसामर्थ्यात् ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-३/११) अथ यत् कायम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-४/११) यदि तावत् किमः कादेशः कस्मै अनुब्रूहि इति भवितव्यम् ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-५/११) अथ न किमः काय अनुब्रूहि इति भवितव्यम् ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-६/११) यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यम् ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-७/११) सर्वस्य हि सर्वनामसञ्ज्ञा क्रियते ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-८/११) सर्वः च प्रजापतिः प्रजापतिः च कः ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-९/११) अपरः आह ॒ यदि एव किमः अथ अपि न किमः उभयथा काय अनुब्रूहि इति भवितव्यम् ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-१०/११) सञ्ज्ञोपसर्जनयोः हि सर्वनामसञ्ज्ञा प्रतिषिध्यते ।

(पा-४,२.२५; अकि-२,२७५.१५-२१; रो-३,६३७-६३८; भा-११/११) सञ्ज्ञा च एषा तत्रभवतः ।

(पा-४,२.२७; अकि-२,२७६.२-४; रो-३,६३८; भा-१/६) अथ यत् अपोनप्त्रियम् अपान्नप्त्रियम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः ।

(पा-४,२.२७; अकि-२,२७६.२-४; रो-३,६३८; भा-२/६) अपोनपाते अनुब्रूहि ।

(पा-४,२.२७; अकि-२,२७६.२-४; रो-३,६३८; भा-३/६) अपान्नपाते अनुब्रूहि ।

(पा-४,२.२७; अकि-२,२७६.२-४; रो-३,६३८; भा-४/६) अपोनप्त्रपान्नप्तृभावः कस्मात् न भवति ।

(पा-४,२.२७; अकि-२,२७६.२-४; रो-३,६३८; भा-५/६) प्रत्ययसन्नियोगेन ऋकारान्तत्वम् उच्यते ।

(पा-४,२.२७; अकि-२,२७६.२-४; रो-३,६३८; भा-६/६) तेन असति प्रत्यये न भवितव्यम् ।

(पा-४,२.२८; अकि-२,२७६.६-१०; रो-३,६३९; भा-१/६) छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् ।

(पा-४,२.२८; अकि-२,२७६.६-१०; रो-३,६३९; भा-२/६) छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,२.२८; अकि-२,२७६.६-१०; रो-३,६३९; भा-३/६) पैङ्गाक्षीपुत्रीयम् तार्णबिन्दवीयम् ।

(पा-४,२.२८; अकि-२,२७६.६-१०; रो-३,६३९; भा-४/६) शतरुद्रात् घ च ।

(पा-४,२.२८; अकि-२,२७६.६-१०; रो-३,६३९; भा-५/६) शतरुद्रात् घप्रत्ययः वक्तव्यः छः च वक्तव्यः ।

(पा-४,२.२८; अकि-२,२७६.६-१०; रो-३,६३९; भा-६/६) शतरुद्रियम् शतरुद्रीयम् ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१/१८) कथम् इदम् विज्ञायते ॒ भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-२/१८) आहोस्वित् कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-३/१८) कः च अत्र विशेषः ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-४/१८) कालेभ्यः भवे प्रत्ययमात्रप्रसङ्गः ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-५/१८) यदि विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रत्ययमात्रम् प्राप्नोति ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-६/१८) यः कालेभ्यः भवे तस्य विधाने प्रातिपदिकमात्रात् प्रसङ्गः ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-७/१८) अथ विज्ञायते कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रातिपदिकमात्रात् प्राप्नुवन्ति ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-८/१८) सिद्धम् तु उभयनिर्देशात् ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-९/१८) सिद्धम् एतत् ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१०/१८) कथम् ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-११/१८) उभयनिर्देशात् ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१२/१८) उभयनिर्देशः कर्तव्यः ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१३/१८) कालेभ्यः भववत् कालेभ्यः इति ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१४/१८) सः तर्हि उभयनिर्देशः कर्तव्यः ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१५/१८) न कर्तव्यः ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१६/१८) भववत् इति वतिना निर्देशः अयम् ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१७/१८) यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण सा अस्य देवता इति अस्मिन् अर्थे भवन्ति ततः अमी भववत् कृताः स्युः ।

(पा-४,२.३४; अकि-२,२७६.१२-२७७.५; रो-३,६३९-६४०; भा-१८/१८) अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी भववत् कृताः स्युः ।

(पा-४,२.३५; अकि-२,२७७.७-११; रो-३,६४०; भा-१/७) ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् ।

(पा-४,२.३५; अकि-२,२७७.७-११; रो-३,६४०; भा-२/७) ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,२.३५; अकि-२,२७७.७-११; रो-३,६४०; भा-३/७) नवयज्ञः वर्तते अस्मिन् काले नावयज्ञिकः ।

(पा-४,२.३५; अकि-२,२७७.७-११; रो-३,६४०; भा-४/७) पाकयज्ञिकः ।

(पा-४,२.३५; अकि-२,२७७.७-११; रो-३,६४०; भा-५/७) पूर्णमासात् अण् ।

(पा-४,२.३५; अकि-२,२७७.७-११; रो-३,६४०; भा-६/७) पूर्णमासात् अण् वक्तव्यः ।

(पा-४,२.३५; अकि-२,२७७.७-११; रो-३,६४०; भा-७/७) पूर्णमासः वर्तते अस्मिन् काले पौर्णमासी तिथिः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१/२६) पितृव्यमातुल इति किम् निपात्यते ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२/२६) पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-३/२६) पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-४/२६) पितुः भ्राता पितृव्यः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-५/२६) मातुः भ्राता मातुलः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-६/२६) मातामहपितामहेति किम् निपात्यते ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-७/२६) मातृपितृभ्याम् पितरि डामहच् ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-८/२६) मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-९/२६) मातुः पिता मातामहः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१०/२६) पितुः पिता पितामहः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-११/२६) मातरि षित् च ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१२/२६) षित् च वक्तव्यः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१३/२६) मातामही पितामही ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१४/२६) महः वा छन्दसि आनङः अवग्रहदर्शनात् ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१५/२६) महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात् ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१६/२६) छन्दसि आनङः अवग्रहः दृश्यते ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१७/२६) पिता-महः इति ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१८/२६) अवेः दुग्धे सोढदूसमरीसचः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-१९/२६) अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२०/२६) अविसोढम् अविदूसम् अविमरीसम् ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२१/२६) तिलात् निष्फलात् पिञ्जपेजौ ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२२/२६) तिलात् निष्फलात् पिञ्जपेजौ वक्तव्यौ ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२३/२६) तिलपिञ्जः तिलपेजः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२४/२६) पिञ्जः छन्दसि डित् च ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२५/२६) पिञ्जः छन्दसि डित् च वक्तव्यः ।

(पा-४,२.३६; अकि-२,२७०.१३-२७८.१०; रो-३,६४०-६४१; भा-२६/२६) तिलपिञ्जम् दण्डानतम् ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-१/११) किमर्थम् भिक्षादिषु युवतिशब्दः पठ्यते न तस्य समूहः इति एव सिद्धम् ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-२/११) न सिध्यति ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-३/११) अनुदात्तादिलक्षणः अञ् प्राप्तः ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-४/११) तद्बाधनार्थम् ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-५/११) अतः उत्तरम् पठति ॒ भिक्षादिषु युवतिग्रहणानर्थक्यम् पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-६/११) भिक्षादिषु युवतिग्रहणम् अनर्थकम् ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-७/११) किम् कारणम् ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-८/११) पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-९/११) पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत् भवति इति ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-१०/११) सिद्धः च प्रत्ययविधौ ।

(पा-४,२.३८; अकि-२,२७८.१२-१७; रो-३,६४२; भा-११/११) सः च सिद्धः प्रत्ययविधौ ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१/१९) वृद्धात् च इति वक्तव्यम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-२/१९) वृद्धानाम् समूहः वार्धकम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-३/१९) अञः वुञ् पूर्वविप्रतिषिद्धम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-४/१९) अञः वुञ् भवति पूर्वविप्रतिषेधेन ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-५/१९) अञः अवकाशः कपोत कापोतम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-६/१९) वुञः अवकाशः ग्लुचुकायनि ग्लौचुकायनकम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-७/१९) इह उभयम् प्राप्नोति औपगवकम् कापटवकम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-८/१९) वुञ् भवति पूर्वविप्रतिषेधेन ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-९/१९) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१०/१९) न वक्तव्यः ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-११/१९) वक्ष्यति एतत् पूर्वः अपि वुञ् परम् अञम् बाधते इति ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१२/१९) अथ वा इष्टवाची परशब्दः ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१३/१९) विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१४/१९) ठक् तु विप्रतिषेधात् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१५/१९) ठक् तु भवति विप्रतिषेधेन ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१६/१९) ठकः अवकाशः सक्तु साक्तुकम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१७/१९) अञः सः एव ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१८/१९) इह उभयम् प्राप्नोति आपूपिकम् शाष्कुलिकम् मौदिकम् ।

(पा-४,२.३९; अकि-२,२७८.२०-२७९.७; रो-३,६४२-६४३; भा-१९/१९) ठक् भवति विप्रतिषेधेन ।

(पा-४,२.४०; अकि-२,२७९.९; रो-३,६४३; भा-१/२) गणिकायः च इति वक्तव्यम् ।

(पा-४,२.४०; अकि-२,२७९.९; रो-३,६४३; भा-२/२) गणिकानाम् समूहः गाणिक्यम् ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-१/१०) किमर्थम् ब्राह्मणादिभ्यः यन् विधीयते न यञ् प्रकृतः सः अनुवर्तिष्यते ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-२/१०) न हि अस्ति विशेषः ब्राह्मणादिभ्यः यनः वा यञः वा ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-३/१०) तत् एव रूपम् सः एव स्वरः ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-४/१०) एवम् तर्हि सिद्धे सति यत् ब्राह्मणादिभ्यः यनम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-५/१०) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-६/१०) यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् इति चोदयिष्यति ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-७/१०) तन् न कर्तव्यम् भवति ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-८/१०) यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-९/१०) यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,२.४२; अकि-२,२७९.११-१७; रो-३,६४३; भा-१०/१०) पृष्ठानाम् समूहः पृष्ठ्यः षडहः ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-१/१३) गजसहायाभ्याम् च इति वक्तव्यम् ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-२/१३) गजता सहायता ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-३/१३) अह्नः खः ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-४/१३) अह्नः खः वक्तव्यः ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-५/१३) अह्नाम् समूहः अहीनः ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-६/१३) क्रतौ । क्रतौ इति वक्तव्यम् ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-७/१३) इह मा भूत् ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-८/१३) आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-९/१३) पर्श्वाः सण् ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-१०/१३) पर्श्वाः सण् वक्तव्यः ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-११/१३) पर्शूनाम् समूहः पार्श्वम् ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-१२/१३) यदि सण् क्रियते इत्सञ्ज्ञा न प्राप्नोति ।

(पा-४,२.४३; अकि-२,२७९.१९-२८०.६; रो-३,६४४; भा-१३/१३) एवम् तर्हि णस् वक्तव्यः ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१/५२) खण्डिका शुक उलूक ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२/५२) किमर्थम् कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३/५२) न सिध्यति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४/५२) चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-५/५२) चषेण किकिदीविना ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-६/५२) यत् उलूकः वदति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-७/५२) न एतयोः छन्दसि सामूहिकः दृश्यते ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-८/५२) यत्र च दृश्यते तत्र एतौ अनुदात्तादी ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-९/५२) इदम् तर्हि प्रयोजनम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१०/५२) अयम् औलूक्यः गोत्रम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-११/५२) तत्र गोत्राश्रयः वुञ् प्राप्तः ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१२/५२) तद्बाधनार्थम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१३/५२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१४/५२) बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१५/५२) तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१६/५२) न सिध्यति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१७/५२) गोत्रे अलुक् अचि इति अलुक् प्राप्नोति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१८/५२) अञ्सिद्धिः अनुदात्तादेः कः अर्थः क्षुद्रकमालवात् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-१९/५२) अनुदात्तादेः इति एव अञ् सिद्धः ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२०/५२) किमर्थम् क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२१/५२) गोत्राश्रयः वुञ् प्राप्तः तद्बाधनार्थम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२२/५२) गोत्रात् वुञ् न च तत् गोत्रम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२३/५२) गोत्रात् वुञ् भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२४/५२) न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२५/५२) तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२६/५२) काशिकोसलीयाः इति वुञ् न भवति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२७/५२) तदन्तविधिना प्राप्नोति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२८/५२) तदन्तात् न सः सर्वतः ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-२९/५२) परिगणितेषु कार्येषु तदन्तविधिः ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३०/५२) न च इदम् तत्र परिगण्यते ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३१/५२) ज्ञापकम् स्यात् तदन्तत्वे ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३२/५२) एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३३/५२) तथा च आपिशलेः विधिः ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३४/५२) एवम् च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३५/५२) धेनुः अनञि कम् उत्पादयति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३६/५२) धेनूनाम् समूहः धैनुकम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३७/५२) अनञि इति किम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३८/५२) अधेनूनाम् समूहः आधेनवम् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-३९/५२) सेनायाम् नियमार्थम् वा ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४०/५२) अथ वा नियमार्थः अयम् आरम्भः ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४१/५२) क्षुद्रकमालवशब्दात् सेनायाम् एव ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४२/५२) क्व मा भूत् ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४३/५२) क्षौद्रकमालवकम् अन्यत् इति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४४/५२) यथा बाध्येत वा अञ् वुञा ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४५/५२) अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ् परम् अञम् बाधते इति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४६/५२) ननु च उक्तम् गोत्रात् वुञ् न च तत् गोत्रम् इति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४७/५२) तदन्तविधिना प्राप्नोति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४८/५२) ननु च उक्तम् तदन्तात् न सः सर्वतः इति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-४९/५२) ज्ञापकम् स्यात् तदन्तत्वे ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-५०/५२) एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-५१/५२) कथम् पुनः एतत् उभयम् शक्यम् ज्ञापयितुम् भवति च तदन्तविधिः पूर्वः च वुञ् परम् अञम् बाधते इति ।

(पा-४,२.४५.१; अकि-२,२८०.८-२८१.१४; रो-३,६४४-६४७; भा-५२/५२) उभयम् ज्ञाप्यते ।

(पा-४,२.४५.२; अकि-२,२८१.१५-१७; रो-३,६४७; भा-१/५) अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् ।

(पा-४,२.४५.२; अकि-२,२८१.१५-१७; रो-३,६४७; भा-२/५) अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् इति वक्तव्यम् ।

(पा-४,२.४५.२; अकि-२,२८१.१५-१७; रो-३,६४७; भा-३/५) क्षौद्रकमालवी सेना चेत् ।

(पा-४,२.४५.२; अकि-२,२८१.१५-१७; रो-३,६४७; भा-४/५) क्व मा भूत् ।

(पा-४,२.४५.२; अकि-२,२८१.१५-१७; रो-३,६४७; भा-५/५) क्षौद्रकमालवकम् अन्यत् ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-१/११) पाश तृण धूम वात ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-२/११) पृथग्वातादर्शनात् असमूहः ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-३/११) पृथग्वातादर्शनात् अयुक्तः अयम् सामूहिकः ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-४/११) न हि पृथक् वाताः दृश्यन्ते ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-५/११) न तर्हि इदानीम् भवति वात्या इति ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-६/११) भवति ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-७/११) शीघ्रत्वे तु ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-८/११) शीघ्रः वातः वात्या ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-९/११) अथ वा पृथक् वाताः अपि दृश्यन्ते ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-१०/११) तत् यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः ।

(पा-४,२.४९; अकि-२,२८१.१९-२५; रो-३,६४७-६४८; भा-११/११) वाताः वान्तु दिशः दश ।

(पा-४,२.५०-५१; अकि-२,२८२.३-४; रो-३,६४८; भा-१/३) खलादिभः इनिः ।

(पा-४,२.५०-५१; अकि-२,२८२.३-४; रो-३,६४८; भा-२/३) खलादिभः इनिः वक्तव्यः ।

(पा-४,२.५०-५१; अकि-२,२८२.३-४; रो-३,६४८; भा-३/३) खलिनी ऊहिनी कुन्दुमिनी इति ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१/२५) विषयाभिधाने जनपदे लुपा- बहुवचनविषयात् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-२/२५) विषयाभिधाने जनपदे लुप् बहुवचनविषयात् वक्तव्यः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-३/२५) अङ्गानाम् विषयः अङ्गाः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-४/२५) वङ्गाः सुह्माः पुण्ड्राः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-५/२५) गान्धार्यादिभ्यः वा ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-६/२५) गान्धार्यादिभ्यः वा इति वक्तव्यम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-७/२५) गान्धारः गान्धारयः वासातः वसातयः शैबः शिबयः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-८/२५) राजन्यादिभ्यः वा वुञ् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-९/२५) राजन्यादिभ्यः वा वुञ् वक्तव्यः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१०/२५) राजन्याः राजन्यकः दैवयातवः दैवयातवकः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-११/२५) बैल्ववनादिभ्यः नित्यम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१२/२५) बैल्ववनादिभ्यः नित्यम् इति वक्तव्यम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१३/२५) बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१४/२५) तत् तर्हि बहु वक्तव्यम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१५/२५) न वा अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुब्विषयविवक्षायाम् प्रत्ययः ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१६/२५) न वा वक्तव्यम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१७/२५) किम् कारणम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१८/२५) अभिधेयस्य निवासविषयत्वात् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-१९/२५) यत् अभिधेयम् सः निवासः च विषयः च ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-२०/२५) अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः भविष्यति ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-२१/२५) इदम् तर्हि प्रयोजनम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-२२/२५) एतत् ज्ञास्यामि इह नित्यः विधिः इह विभाषा इति ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-२३/२५) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-२४/२५) यावता यत् अभिधेयम् सः निवासः च विषयः च ।

(पा-४,२.५२; अकि-२,२८२.६-२८३.३; रो-३,६४८-६५०; भा-२५/२५) अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः ।

(पा-४,२.५५; अकि-२,२८३.५-७; रो-३,६५०; भा-१/३) छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् ।

(पा-४,२.५५; अकि-२,२८३.५-७; रो-३,६५०; भा-२/३) छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,२.५५; अकि-२,२८३.५-७; रो-३,६५०; भा-३/३) त्रिष्टुप् एव त्रैष्टुभम् अनुष्टुप् एव आनुष्टुभम् जगती एव जागतम् ।

(पा-४,२.५९; अकि-२,२८३.९-११; रो-३,६५०-६५१; भा-१/३) किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ ।

(पा-४,२.५९; अकि-२,२८३.९-११; रो-३,६५०-६५१; भा-२/३) न एतयोः आवश्यकः समावेशः ।

(पा-४,२.५९; अकि-२,२८३.९-११; रो-३,६५०-६५१; भा-३/३) भवति हि कः चित् सम्पाठम् पठति न च वेत्ति कः चित् च वेत्ति न च सम्पाठम् पठति ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१/४८) उक्थादि इति उच्यते ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२/४८) कानि उक्थानि ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३/४८) सामानि ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४/४८) यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-५/४८) न एषः दोषः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-६/४८) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-७/४८) उक्थार्थम् उक्थम् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-८/४८) इह उक्थानि अधीते औक्थिकः यज्ञम् अधीते याज्ञिकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-९/४८) यः इदानीम् औक्थिक्यम् याज्ञिकम् च अधीते कथम् तत्र भवितव्यम् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१०/४८) औक्थिकः याज्ञिकः इति एव भवितव्यम् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-११/४८) कथम् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१२/४८) तस्येदम्प्रत्ययात् लुक् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१३/४८) तस्येदम्प्रत्ययात् लुक् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१४/४८) तस्येदम्प्रत्ययस्य च ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१५/४८) सः तर्हि वक्तव्यः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१६/४८) न वक्तव्यः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१७/४८) इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१८/४८) उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-१९/४८) तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२०/४८) तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२१/४८) एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२२/४८) औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव. विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२३/४८) विद्या ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२४/४८) वायसविद्यकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२५/४८) विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२६/४८) लक्षण ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२७/४८) कल्प ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२८/४८) पाराशरकल्पिकः पारकल्पिकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-२९/४८) कल्प् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३०/४८) सूत्र ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३१/४८) वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३२/४८) अकल्पादेः इति किमर्थम् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३३/४८) काल्पसूत्रः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३४/४८) विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३५/४८) विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३६/४८) आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३७/४८) आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३८/४८) यावक्रीतिकः प्रैयङ्गविकः यायातिकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-३९/४८) आख्यान ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४०/४८) आख्यायिका ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४१/४८) वासवदत्तिकः सौमनोत्तरिकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४२/४८) ऐतिहासिकः पौराणिकः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४३/४८) सर्वसादेः द्विगोः च लः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४४/४८) सर्वसादेः द्विगोः च लः वक्तव्यः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४५/४८) सर्ववेदः सर्वतन्त्रः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४६/४८) सवार्त्तिकः ससङ्ग्रहः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४७/४८) पञ्चकल्पः द्वितन्त्रः ।

(पा-४,२.६०; अकि-२,२८३.१३-२८४.१५; रो-३,६५१-६५३; भा-४८/४८) अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन् पदोत्तरपदात् शतषष्टेः षिकन् पथः ।

(पा-४,२.६२; अकि-२,२८४.१७-१८; रो-३,६५४; भा-१/३) अयम् योगः शक्यः अवक्तुम् ।

(पा-४,२.६२; अकि-२,२८४.१७-१८; रो-३,६५४; भा-२/३) कथम् अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः ।

(पा-४,२.६२; अकि-२,२८४.१७-१८; रो-३,६५४; भा-३/३) इनिना एव मत्वर्थीयेन सिद्धम् ।

(पा-४,२.६३; अकि-२,२८४.२०-२२; रो-३,६५४; भा-१/५) अयुक्तः अयम् निर्देशः ।

(पा-४,२.६३; अकि-२,२८४.२०-२२; रो-३,६५४; भा-२/५) अधीते इति वर्तते न च वसन्तः नाम अध्ययनम् अस्ति ।

(पा-४,२.६३; अकि-२,२८४.२०-२२; रो-३,६५४; भा-३/५) न एषः दोषः ।

(पा-४,२.६३; अकि-२,२८४.२०-२२; रो-३,६५४; भा-४/५) साहचर्यात् ताच्छब्द्यम् भविष्यति ।

(पा-४,२.६३; अकि-२,२८४.२०-२२; रो-३,६५४; भा-५/५) वसन्तसहचरितम् अध्ययनम् वसन्ते अध्ययनम् इति ।

(पा-४,२.६४; अकि-२,२८४.२४; रो-३,६५४; भा-१/३) अयुक्तः अयम् निर्देशः ।

(पा-४,२.६४; अकि-२,२८४.२४; रो-३,६५४; भा-२/३) प्रौक्तात् इति भवितव्यम् ।

(पा-४,२.६४; अकि-२,२८४.२४; रो-३,६५४; भा-३/३) सौत्रः निर्देशः ।

(पा-४,२.६५; अकि-२,२८५.२; रो-३,६५५; भा-१/३) सङ्ख्याप्रकृतेः इति वक्तव्यम् ।

(पा-४,२.६५; अकि-२,२८५.२; रो-३,६५५; भा-२/३) इह मा भूत् ।

(पा-४,२.६५; अकि-२,२८५.२; रो-३,६५५; भा-३/३) माहावार्त्तिकः कालपकः ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१/३१) किमर्थम् इदम् उच्यते ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२/३१) अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् तद्विषयवचनम् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-३/३१) अन्यत्र अभिधेयम् अनित्यम् भवति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-४/३१) पाणिनीयम् इति वा भवति पाणिनीयाः इति वा ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-५/३१) अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् अपि अनित्यता प्राप्नोति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-६/३१) इष्यते च तद्विषयता एव स्यात् इति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-७/३१) तत् च अन्तरेण यत्नम् न सिध्यति इति छन्दोब्राह्मणानाम् तद्विषयवचनम् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-८/३१) एवमर्थम् इदम् उच्यते ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-९/३१) अस्ति प्रयोजनम् एतत् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१०/३१) किम् तर्हि इति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-११/३१) तत्र यथाधिकारम् तद्विषयप्रसङ्गः ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१२/३१) तत्र यथाधिकारम् तद्विषयता प्राप्नोति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१३/३१) अधीते वेद इति वर्तते ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१४/३१) तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१५/३१) ये अन्ये उपचाराः तत्र न स्यात् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१६/३१) यथा इह भवति पाणिनीयम् महत् सुविहितम् इति एवम् इह अपि स्यात् कठम् महत् सुविहितम् इति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१७/३१) सिद्धम् तु प्रोक्ताधिकारे तद्विषयवचनात् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१८/३१) सिद्धम् एतत् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-१९/३१) कथम् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२०/३१) प्रोक्ताधिकारे एव तद्विषयता वक्तव्या ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२१/३१) तेन प्रोक्तम् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२२/३१) छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२३/३१) तत् तर्हि अध्येतृवेदितृग्रहणम् कर्तव्यम् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२४/३१) ननु च इह अपि क्रियते ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२५/३१) परार्थम् एतद् भवति तत् अधीते तत् वेद इति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२६/३१) एवम् तर्हि यावत् इह छन्दोब्राह्मणग्रहणम् तावत् अत्र अध्येतृवेदितृग्रहणम् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२७/३१) ननु च तत्र अपि क्रियते ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२८/३१) परार्थम् तत् भविष्यति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-२९/३१) पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि इति ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-३०/३१) इह वा छन्दोब्राह्मणग्रहणम् क्रियते तत्र वा अध्येतृवेदितृग्रहणम् ।

(पा-४,२.६६.१; अकि-२,२८५.४-२०; रो-३,६५५-६५७; भा-३१/३१) कः नु अत्र विशेषः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१/३४) याज्ञवक्क्यादिभ्यः प्रतिषेधः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२/३४) याज्ञवक्यादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-३/३४) याज्ञवल्कानि ब्राह्मणानि ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-४/३४) सौलभानि ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-५/३४) किम् प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-६/३४) न इति आह ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-७/३४) सर्वथा याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-८/३४) इनिः वा प्रोक्ते तद्विषयः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-९/३४) अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यम् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१०/३४) यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पैङ्गी कल्पः अत्र अपि प्राप्नोति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-११/३४) काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१२/३४) काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् द्रष्टव्यम् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१३/३४) काश्यपकौशिकाभ्याम् एव इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१४/३४) एवम् अपि छणादीनाम् तद्विषयता न प्राप्नोति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१५/३४) तैत्तिरीयाः वारतन्तवीयाः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१६/३४) यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१७/३४) एवम् अपि पैङ्गी कल्पः अत्र अपि प्राप्नोति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१८/३४) काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् इति एव ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-१९/३४) एवम् अपि औत्सर्गिकाणाम् तद्विषयता न प्राप्नोति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२०/३४) क्रौडाः काङ्कताः मौदाः पैप्पलादाः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२१/३४) छणादयः च अपि औत्सर्गिकान् अध्येतृवेदित्रोः एव बाधेरन् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२२/३४) ये अन्ये उपचाराः तत्र न बाधेरन् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२३/३४) तित्तिरिणा प्रोक्ताः श्लोकाः इति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२४/३४) अस्ति तर्हि अविशेषेण ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२५/३४) ननु च उक्तम् याज्ञवक्यादिभ्यः प्रतिषेधः इति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२६/३४) वक्ष्यति एतत् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२७/३४) याज्ञवक्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् इति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२८/३४) तत्र एव वक्तव्यम् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-२९/३४) तद्विषयता च न भवति इति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-३०/३४) कथम् काश्यपिनः कौशिकिनः इति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-३१/३४) इनिः प्रोक्ते तद्विषयः भवति इति उच्यमाने अवश्यम् काश्यपकौशिकग्रहणम् कल्पे नियमार्थम् द्रष्टव्यम् ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-३२/३४) तत् एव इदानीम् विध्यर्थम् भविष्यति ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-३३/३४) कथम् पाराशरिणः भिक्षवः शैलालिनः नटाः ।

(पा-४,२.६६.२; अकि-२,२८५.२१-२८६.१९; रो-३,६५७-६५९; भा-३४/३४) अत्र अपि तद्विषयता च इति अनुवर्तिष्यते ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१/२१) किम् पुनः अयम् एकः योगः आहोस्वित् नानायोगाः ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-२/२१) किम् च अतः ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-३/२१) यदि एकः योगः उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-४/२१) न हि एकयोगे अनुवृत्तिः भवति ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-५/२१) कथम् ज्ञायते ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-६/२१) यत् अयम् तत् अधीते तत् वेद इति द्विः तद्ग्रहणम् करोति ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-७/२१) अथ नानायोगाः ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-८/२१) यथा इच्छसि तथा अस्तु ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-९/२१) अस्तु तावत् एकः योगः ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१०/२१) ननु च उक्तम् उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-११/२१) न हि एकयोगे अनुवृत्तिः भवति इति ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१२/२१) एकयोगे अपि अनुवृत्तिः भवति ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१३/२१) कथम् ज्ञायते ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१४/२१) यत् अयम् तत् अस्य अस्ति अस्मिन् इति मतुप् इति द्विः तद्ग्रहणम् न करोति ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१५/२१) कथम् तत् अधीते तत् वेद इति ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१६/२१) प्रमादकृतम् आचार्यस्य शक्यम् अकर्तुम् ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१७/२१) अथ वा पुनः सन्तु नानायोगाः ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१८/२१) ननु च उक्तम् ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् इति ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-१९/२१) न एषः दोषः ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-२०/२१) गोयूथवत् अधिकाराः ।

(पा-४,२.६७-७०; अकि-२,२८६.२४-२८७.१०; रो-३,६६०-६६१; भा-२१/२१) तत् यथा गोयूथम् एकदण्डप्रघट्टितम् सर्वम् समम् घोषम् गच्छति तद्वत् अधिकाराः ।