व्याकरणमहाभाष्य खण्ड 48

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,२.७१; अकि-२,२८७.१३-१६; रो-३,६६१; भा-१/७) ओः अञ्विधेः नद्याम् मतुपा- विप्रतिषिद्धम् ।

(पा-४,२.७१; अकि-२,२८७.१३-१६; रो-३,६६१; भा-२/७) ओः अञ्विधेः नद्याम् मतुप् भवति विप्रतिषेधेन ।

(पा-४,२.७१; अकि-२,२८७.१३-१६; रो-३,६६१; भा-३/७) ओः अञः अवकाशह्ः कन्नतु कान्नवतम् ।

(पा-४,२.७१; अकि-२,२८७.१३-१६; रो-३,६६१; भा-४/७) मतुपः अवकाशः उदुम्बरावती मशकावती ।

(पा-४,२.७१; अकि-२,२८७.१३-१६; रो-३,६६१; भा-५/७) इह उभयम् प्राप्नोति ।

(पा-४,२.७१; अकि-२,२८७.१३-१६; रो-३,६६१; भा-६/७) इक्षुमती द्रुमती ।

(पा-४,२.७१; अकि-२,२८७.१३-१६; रो-३,६६१; भा-७/७) मतुप् भवति विप्रतिषेधेन ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-१/१०) अङ्गग्रहणम् किमर्थम् ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-२/१०) यथा बह्वज्ग्रहणम् अङ्गविशेषणम् विज्ञायेत ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-३/१०) बह्वचः अङ्गात् इति ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-४/१०) अथ अक्रियमाणे अङ्गग्रहणे बह्वज्ग्रहणम् कस्य विशेषणम् स्यात् ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-५/१०) मत्वन्तविशेषणम् ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-६/१०) तत्र कः दोषः ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-७/१०) इह अपि प्रसज्येत ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-८/१०) मालावताम् अयम् निवासः मालावतम् ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-९/१०) अस्ति च इदानीम् अबह्वच् मत्वन्तः यदर्थः विधिः स्यात् ।

(पा-४,२.७२; अकि-२,२८७.१८-२१; रो-३,६६१-६६२; भा-१०/१०) अस्ति इति आह ॒ स्ववान् , श्ववान् ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-१/८) किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-२/८) नद्याम् मतुब्वचनम् मत्वर्थे अण्विधानात् ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-३/८) नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-४/८) अयम् मत्वर्थे अण् विधीयते ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-५/८) सः विशेषविहितः सामान्यविहितम् मतुपम् बाधेत ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-६/८) निर्वृत्ताद्यर्थम् च ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-७/८) निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते ।

(पा-४,२.८५; अकि-२,२८७.२३-२८८.५; रो-३,६६२; भा-८/८) निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् ।

(पा-४,२.८७; अकि-२,२८८.७; रो-३,६६२; भा-१/२) महिषात् च इति वक्तव्यम् ।

(पा-४,२.८७; अकि-२,२८८.७; रो-३,६६२; भा-२/२) महिष्मान् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१/४०) यदि पुनः अयम् कुट् परादिः क्रियेत ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२/४०) कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३/४०) कुटि सति प्रत्ययादेः इति आदेशस्य अनुपपत्तिः ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-४/४०) कुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-५/४०) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-६/४०) पूर्वान्ते ह्रस्वत्वम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-७/४०) यदि पूर्वान्तः ह्रस्वत्वम् वक्तव्यम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-८/४०) कुञ्चकीयाः ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-९/४०) परादौ पुनः सति के अणः इति ह्रस्वत्वम् सिद्धम् भवति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१०/४०) अस्तु तर्हि परादिः ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-११/४०) ननु च उक्तम् कुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१२/४०) सिद्धम् तु आदिष्टस्य कुड्वचनात् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१३/४०) सिद्धम् एतत् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१४/४०) कथम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१५/४०) कुट् आदिष्टस्य इति वक्तव्यम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१६/४०) तत् तर्हि वक्तव्यम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१७/४०) न वक्तव्यम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१८/४०) सन्नियोगात् सिद्धम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-१९/४०) सन्नियोग्ः करिष्यते ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२०/४०) कः एषः यत्नः चोद्यते सन्नियोगः नाम ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२१/४०) चकारः कर्तव्यः ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२२/४०) कुट् च ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२३/४०) यत् च अन्यत् प्राप्नोति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२४/४०) किम् च अन्यत् प्राप्नोति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२५/४०) आदेशः ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२६/४०) सिध्यति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२७/४०) सूत्रम् तर्हि भिद्यते ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२८/४०) यथान्यासम् एव अस्तु ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-२९/४०) ननु च उक्तम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३०/४०) पूर्वान्ते ह्रस्वत्वम् इति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३१/४०) निपातनात् एतत् सिद्धम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३२/४०) किम् निपातनम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३३/४०) क्रुञ्चाः ह्रस्वत्वम् च इति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३४/४०) तत् तर्हि पूर्वान्ते सति निपातनम् कर्तव्यम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३५/४०) परादौ अपि एषः दोषः ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३६/४०) यत् हि तत् के अणः इति ह्रस्वत्वम् न तत् कादिमात्रे शख्यम् विज्ञातुम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३७/४०) इह अपि प्रसज्येत ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३८/४०) नदीकल्पः परीवाहः कुमारीकाम्यति इति ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-३९/४०) तस्मात् उभाभ्याम् एतत् वक्तव्यम् ।

(पा-४,२.९१; अकि-२,२८८.९-२८९.६; रो-३,६६२-६६४; भा-४०/४०) क्रुञ्चाः ह्रस्वत्वम् च इति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१/५३) शेषे इति उच्यते ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२/५३) कः शेषः नाम ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३/५३) अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः शेषः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४/५३) किमर्थम् पुनः शेषग्रहणम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-५/५३) शेषे घादयः यथा स्युः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-६/५३) स्वार्थे मा भूवन् इति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-७/५३) न एतत् अस्ति प्रयोजनम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-८/५३) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-९/५३) अणादयः स्वार्थे कस्मात् न भवन्ति इति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१०/५३) अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-११/५३) तेन स्वार्थे न भविष्यन्ति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१२/५३) इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१३/५३) तेन स्वार्थे न भविष्यन्ति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१४/५३) कथम् पुनः इह उच्यमानाः घादयः जातादिषु शक्याः विज्ञातुम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१५/५३) अनुवर्तिष्यन्ते तत्र घादयः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१६/५३) यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१७/५३) एवम् तर्हि जातादिषु अर्थेषु घादीन् अपेक्षिष्यामहे ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१८/५३) अयुक्ता एवम् बहुनः अपेक्षा ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-१९/५३) अपेक्षमाणः अयम् अनन्तरम् योगम् अपेक्षेत ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२०/५३) बहुनः अपि अपेक्षा भवति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२१/५३) तत् यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकम् सविशेषकम् सर्वम् अपेक्ष्यते ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२२/५३) अथ वा पुनः अस्तु अनुवृत्तिः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२३/५३) ननु च उक्तम् या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२४/५३) न एषः दोषः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२५/५३) सम्बन्धम् अनुवर्तिष्यते ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२६/५३) राष्ट्रावारपारात् घखौ ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२७/५३) ग्रामात् यखञौ राष्ट्रावारपारात् घखौ ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२८/५३) कत्त्र्यादिभ्यः ढकञ् राष्ट्रावारपारात् घखौ ग्रामात् यखञौ इति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-२९/५३) अतः उत्तरम् पठति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३०/५३) शेषवचनम् घादीनाम् अपत्यादिषु अप्रसङ्गार्थम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३१/५३) शेषवचनम् क्रियते शेषे घादयः यथा स्युः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३२/५३) अपत्यादिषु मा भूवन् इति इति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३३/५३) कथम् च प्राप्नुवन्ति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३४/५३) तस्येदंवचनात् प्रसङ्गः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३५/५३) तस्येदंविशेषाः हि एते अपत्यम् समूहः निवासः विकारः इति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३६/५३) विप्रतिषेधात् सिद्धम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३७/५३) अणादयः क्रियन्ताम् घातयः इति अणादयः भवन्ति विप्रतिषेधेन ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३८/५३) न वा परत्वात् घादीनाम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-३९/५३) न एषः युक्तः विप्रतिषेधः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४०/५३) किम् कारणम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४१/५३) परत्वात् घादीनाम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४२/५३) विप्रतिषेधे परम् इति उच्यते ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४३/५३) पूर्वे च अणादयः परे घादयः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४४/५३) परे अणादयः करिष्यन्ते ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४५/५३) सूत्रविपर्यासः च एवम् कृतः भवति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४६/५३) अणपवादत्वात् च अण्विषये घादिप्रसङ्गः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४७/५३) अणपवादत्वात् च घादीनाम् अण्विषये घादयः प्राप्नुवन्ति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४८/५३) न एषः दोषः ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-४९/५३) आचार्यप्रवृत्तिः ज्ञापयति न अण्विषये घादयः भवन्ति इति यत् अयम् फेः छ च इति फ्यन्तम् छम् शास्ति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-५०/५३) न एतत् अस्ति ज्ञापकम् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-५१/५३) फिनर्थम् एतत् स्यात् ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-५२/५३) सौवीरेषु इति वर्तते न च फिनन्तम् सौवीरगोत्रम् अस्ति ।

(पा-४,२.९२; अकि-२,२९०.२-२९१ ८; रो-३,६६४-६७०; भा-५३/५३) गोत्रग्रहणम् सामुहिकेषु ज्ञापकम् दैवयातवग्रहणम् वैषयिकेषु भास्त्रायणग्रहणम् नैवासिकेषु ।

(पा-४,२.९३; अकि-२,२९१.१०-१३; रो-३,६७०; भा-१/६) अवारपारात् विगृहीतात् अपि ।

(पा-४,२.९३; अकि-२,२९१.१०-१३; रो-३,६७०; भा-२/६) अवारपारात् विगृहीतात् अपि इति वक्तव्यम् ।

(पा-४,२.९३; अकि-२,२९१.१०-१३; रो-३,६७०; भा-३/६) अवरीणः पारीणः अवारपारीणः ।

(पा-४,२.९३; अकि-२,२९१.१०-१३; रो-३,६७०; भा-४/६) विपरीतात् च ।

(पा-४,२.९३; अकि-२,२९१.१०-१३; रो-३,६७०; भा-५/६) विपरीतात् च इति वक्तव्यम् ।

(पा-४,२.९३; अकि-२,२९१.१०-१३; रो-३,६७०; भा-६/६) पारावारीणः ।

(पा-४,२.९५; अकि-२,२९१.१५-१६; रो-३,६७०; भा-१/५) ग्रामात् च इति वक्तव्यम् ।

(पा-४,२.९५; अकि-२,२९१.१५-१६; रो-३,६७०; भा-२/५) ग्रामेयकः ।

(पा-४,२.९५; अकि-२,२९१.१५-१६; रो-३,६७०; भा-३/५) तत् तर्हि वक्तव्यम् ।

(पा-४,२.९५; अकि-२,२९१.१५-१६; रो-३,६७०; भा-४/५) न वक्तव्यम् ।

(पा-४,२.९५; अकि-२,२९१.१५-१६; रो-३,६७०; भा-५/५) कत्त्र्यादिभ्यः ढकञ् इति अत्र ग्रामात् इति अनुवर्तिष्यते ।

(पा-४,२.९६; अकि-२,२९१.१८-२०; रो-३,६७०-६७१; भा-१/६) अयम् योगः शक्यः अवक्तुम् ।

(पा-४,२.९६; अकि-२,२९१.१८-२०; रो-३,६७०-६७१; भा-२/६) कथम् कौलेयकः ।

(पा-४,२.९६; अकि-२,२९१.१८-२०; रो-३,६७०-६७१; भा-३/६) कुलस्य अपत्यम् ।

(पा-४,२.९६; अकि-२,२९१.१८-२०; रो-३,६७०-६७१; भा-४/६) कुक्षिग्रीवात् तु कन् ढञः ।

(पा-४,२.९६; अकि-२,२९१.१८-२०; रो-३,६७०-६७१; भा-५/६) कुलस्य अपत्यम् कौलेयकः इति भविष्यति ।

(पा-४,२.९६; अकि-२,२९१.१८-२०; रो-३,६७०-६७१; भा-६/६) कुक्षिग्रीवात् अपि ढञन्तात् कन् भविष्यति ।

(पा-४,२.९९; अकि-२,२९२.२; रो-३,६७१; भा-१/२) बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यम् ।

(पा-४,२.९९; अकि-२,२९२.२; रो-३,६७१; भा-२/२) बाह्लायनी और्दायनी पार्दायनी ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१/२१) अमनुष्ये इति किमर्थम् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-२/२१) राङ्कवकः मनुष्यः ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-३/२१) रङ्कोः अमनुष्यग्रहणानर्थक्यम् मनुष्यतत्स्थयोः वुञ्विधानात् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-४/२१) रङ्कोः अमनुष्यग्रहणम् अनर्थकम् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-५/२१) किम् कारणम् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-६/२१) मनुष्यतत्स्थयोः वुञ्विधानात् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-७/२१) अयम् मनुष्ये मनुष्यतत्स्थे च वुञ् विधीयते ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-८/२१) सः बाधकः भविष्यति ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-९/२१) एवम् तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१०/२१) अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् न अनिष्टत्वात् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-११/२१) अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् तत् न ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१२/२१) किम् कारणम् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१३/२१) अनिष्टत्वात् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१४/२१) न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१५/२१) किम् तर्हि ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१६/२१) वुञ् एव इष्यते ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१७/२१) अण्ग्रहनम् च कच्छादिभ्यः अण्वचनात् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१८/२१) अण्ग्रहनम् च अनर्थकम् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-१९/२१) किम् कारणम् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-२०/२१) कच्छादिभ्यः अण्वचनात् ।

(पा-४,२.१००; अकि-२,२९२.४-१४; रो-३,६७१-६७२; भा-२१/२१) कच्छादिपाठात् अत्र अण् भविष्यति ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१/२६) परिगणनम् कर्तव्यम् ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२/२६) अमेहक्वतसित्रेभ्यः त्यब्विधिः यो अव्ययात् स्मृतः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-३/२६) अमा अमात्यः अमा ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-४/२६) इह इहत्यः इह ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-५/२६) क्व क्वत्यः क्व ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-६/२६) तसि ततस्त्यः यतस्त्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-७/२६) त्र तत्रत्र्यः यत्रत्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-८/२६) इतरथा हि औत्तराहौपरिष्टपारतानाम् प्रतिषेधः वक्तव्यः स्यात् ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-९/२६) औत्तराहः औपरिष्टः पारतः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१०/२६) त्यप् नेः ध्रुवे ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-११/२६) त्यप् नेः ध्रुवे वक्तव्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१२/२६) नित्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१३/२६) निसः गते ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१४/२६) त्यप् वक्तव्यः इति ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१५/२६) निष्ट्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१६/२६) अरण्यात् णः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१७/२६) अरण्यात् णः वक्तव्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१८/२६) आरण्याः सुमनसः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-१९/२६) दूरात् एत्यः डूरात् एत्यः वक्तव्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२०/२६) दूरेत्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२१/२६) उत्तरात् आहञ् ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२२/२६) उत्तरात् आहञ् वक्तव्यः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२३/२६) औत्तराहः ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२४/२६) अव्ययात् त्यपि आविष्टस्य उपसङ्ख्यानम् छन्दसि ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२५/२६) अव्ययात् त्यप् इति अत्र आविष्टस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,२.१०४.१; अकि-२,२९२.१६-२९३.७; रो-३,६७२-६७३; भा-२६/२६) आविष्ट्यः वर्धते चारुः [आसु (ऋ)].

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१/२६९) अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२/२६९) अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३/२६९) अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४/२६९) छस्य अवकाशः शालीयः मालीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५/२६९) आरात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६/२६९) आरातीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७/२६९) तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९/२६९) वायस्तीरात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०/२६९) वायसतीरीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११/२६९) रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३/२६९) माणिरूप्यात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४/२६९) तम् च अपि छम् परत्वात् योपधलक्षणः वुञ् बाधते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५/२६९) माणिरूप्यकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६/२६९) उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८/२६९) वाडवकर्षात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९/२६९) वाडवकर्षीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०/२६९) कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२/२६९) औलूकात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३/२६९) औलूकीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४/२६९) तेभ्यः ठञ्ञिठौ ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५/२६९) तेभ्यः त्यबादिभ्यः ठञ्ञिठौ भवतः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६/२६९) अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२७/२६९) ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋ॒ कारतन्तविकी कारतन्तविका] ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२८/२६९) आरात् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२९/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३०/२६९) आरात्की आरात्का ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३१/२६९) तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३२/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३३/२६९) कास्तीरः [ऋ॒ कास्तीरम्] नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३४/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३५/२६९) कास्तीरिकी कास्तिरिका ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३६/२६९) रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३७/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३८/२६९) दासरूपम् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-३९/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४०/२६९) तौ च अपि ठञ्ञिठौ परत्वात् योपधलक्षणः वुञ् बाधते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४१/२६९) दासरूप्यकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४२/२६९) उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४३/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४४/२६९) शाकलम् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४५/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४६/२६९) शाकलिकी शाकलिका ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४७/२६९) कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४८/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-४९/२६९) सौसुकम् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५०/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५१/२६९) तौ च अपि ठञ्ञिठौ परत्वात् कोपधलक्षणः छः बाधते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५२/२६९) सौसुकीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५३/२६९) न वा ठञादीनाम् छापवादत्वात् तद्विषये च अभावात् इतरेषाम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५४/२६९) न वा अर्थः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५५/२६९) किम् कारणम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५६/२६९) ठञादीनाम् छापवादत्वात् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५७/२६९) ठञादयः छापवादाः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५८/२६९) तद्विषये च अभावात् इतरेषाम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-५९/२६९) तद्विषये छविषये त्यबादीनाम् अभावः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६०/२६९) कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६१/२६९) अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् कोपधात् अणः छस्य च ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६२/२६९) किम् कारणम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६३/२६९) कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६४/२६९) सिद्धः अत्र अण् उत्सर्गेण एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६५/२६९) तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६६/२६९) सः यथा एव तदपवादम् अञम् बाधते एवम् छम् अपि बाधेत ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६७/२६९) तस्मात् अन्तोदात्ते कोपधप्रतिषेधः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६८/२६९) तस्मात् अन्तोदात्ते कोपधात् अञः प्रतिषेधः वक्तव्यः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-६९/२६९) न वक्तव्यः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७०/२६९) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् कोपधात् अण् अञम् एव बाधिष्यते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७१/२६९) छम् न बाधिष्यते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७२/२६९) छात् ओः देशे कालात् ठञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७३/२६९) छात् ओः देशे ठञ् कालात् ठञ् इति एतत् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७४/२६९) छस्य अवकाशः शालीयः मालीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७५/२६९) ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋ॒ निषादकर्षूः नाम देशः नैषादकर्षुकः ] ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७६/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७७/२६९) दाक्षिकर्षुकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७८/२६९) कालात् ठञ् भवति इति अस्य अवकाशः आर्धमासिकम् सांवत्सरिकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-७९/२६९) छस्य सः एव. मासात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८०/२६९) मासिकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८१/२६९) नक्षत्रात् अण् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८२/२६९) नक्षत्रात् अण् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८३/२६९) अणः अवकाशः तैषः पौषः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८४/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८५/२६९) स्वातेः उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८६/२६९) सौवातः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८७/२६९) अव्ययात् ट्युट्युलौ ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८८/२६९) अव्ययात् ट्युट्युलौ छात् भवतः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-८९/२६९) ट्युट्युलयोः अवकाशः दोषान्तनम् दिवातनम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९०/२६९) छस्य सः एव. प्रातःशब्दात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९१/२६९) प्रातस्तनम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९२/२६९) शरीरावयवात् यत् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९३/२६९) शरीरावयवात् यत् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९४/२६९) यतः अवकाशः दन्त्यम् ओष्ठ्यम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९५/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९६/२६९) पादशब्दात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९७/२६९) पद्यम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९८/२६९) वर्गान्तात् च अशब्दे यत्खौ ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-९९/२६९) वर्गान्तात् च अशब्दे यत्खौ छात् भवतः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१००/२६९) यत्खयोः अवकाशः अक्रूरवग्यः अक्रूरवर्गीणः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०१/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०२/२६९) वासुदेववर्गात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०३/२६९) वासुदेवावर्ग्यः वासुदेववर्गीणः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०४/२६९) बह्वचः अन्तोदात्तात् वुञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०५/२६९) बह्वचः अन्तोदात्तात् ठञ् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०६/२६९) ठञः अवकाशः नतानन नातानतिकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०७/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०८/२६९) सामस्तात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१०९/२६९) सामस्तिकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११०/२६९) आयस्थानेभ्यः ठक् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१११/२६९) आयस्थानेभ्यः ठक् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११२/२६९) ठकः अवकाशः शौल्किकम् गौल्किकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११३/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११४/२६९) आपणात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११५/२६९) आपणिकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११६/२६९) विद्यायोनिसम्बन्धेभ्यः वुञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११७/२६९) विद्यायोनिसम्बन्धेभ्यः वुञ् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११८/२६९) वुञः अवकाशः औपाध्यायकम् पैतामहकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-११९/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२०/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२१/२६९) आचार्यकम् मातुलकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२२/२६९) ऋतः ठञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२३/२६९) ऋतः ठञ् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२४/२६९) ठञः अवकाशः हौतृकम् स्वासृकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२५/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२६/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२७/२६९) शास्तृकम् भ्रातृकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२८/२६९) रूप्यमयटौ ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१२९/२६९) रूप्यमयटौ छात् भवतः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३०/२६९) रूप्यमयटोः अवकाशः देवदत्तरूप्यम् देवदत्तमयम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३१/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३२/२६९) वायुदत्तात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३३/२६९) वायुदत्तरूपम् वायुदत्तमयम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३४/२६९) अचित्तात् ठक् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३५/२६९) अचित्तात् ठक् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३६/२६९) ठकः अवकाशः आपूपिकः शाष्कुलिकः मौदकिकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३७/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३८/२६९) पायसात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१३९/२६९) पायसिकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४०/२६९) गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४१/२६९) गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४२/२६९) वुञः अवकाशः ग्लौचुकायनः त्रैगर्तकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४३/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४४/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४५/२६९) गार्गिकः वात्सकः मालवकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४६/२६९) णिनिः अन्तेवासिब्राह्मणेभ्यः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४७/२६९) णिनिः अन्तेवासिब्राह्मणेभ्यः छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४८/२६९) णिनेः अवकाशः हारिद्रविणः तौम्बुरविणः भाल्लविनः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१४९/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५०/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५१/२६९) आरुणिनः शाट्यायनिनः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५२/२६९) पत्त्रपूर्वात् अञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५३/२६९) पत्त्रपूर्वात् अञ् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५४/२६९) अञः अवकाशः उष्ट्र औष्ट्रम् औष्ट्ररथम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५५/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५६/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५७/२६९) वामी वामम् वामीरथम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५८/२६९) द्वन्द्वात् वुन् वैरमैथुनिकयोः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१५९/२६९) द्वन्द्वात् वुन् वैरमैथुनिकयोः छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६०/२६९) वुनः अवकाशः अहिनकुलिका ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६१/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६२/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६३/२६९) काकोलूकिक श्वावराहिका ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६४/२६९) गोत्रचरणात् वुञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६५/२६९) गोत्रचरणात् वुञ् छात् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६६/२६९) वुञः अवकाशः ग्लौचुकायनकम् म्लौचुकायनकम् काठकम् कालापकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६७/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६८/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१६९/२६९) गार्गकम् वात्सकम् मौदकम् पैप्पलादकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७०/२६९) कण्वादीञः अण्विधेः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७१/२६९) कण्वादिभ्यः अण् भवति ईञः अण् भवति इति एतस्मात् वुञ् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७२/२६९) कण्वादिभ्यः अण् भवति ईञः अण् भवति इति अस्य अवकाशः काण्वाः दण्डमाणवाः दाक्षाः दण्डमाणवाः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७३/२६९) वुञः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७४/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७५/२६९) काण्वकम् दाक्षकम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७६/२६९) ठञ्ञिठाभ्याम् ओः देशे ठञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७७/२६९) ठञ्ञिठाभ्याम् ओः देशे ठञ् इति एतत् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७८/२६९) ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋ॒ कारतन्तविकी कारतन्तविका] ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१७९/२६९) ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋ॒ निषादकर्षूः नाम देशः नैषादकर्षुकः ] ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८०/२६९) इह उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८१/२६९) नापितवास्तुकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८२/२६९) ठञ् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८३/२६९) न वा ठञः अनवकाशत्वात् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८४/२६९) न वा अर्थः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८५/२६९) किम् कारणम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८६/२६९) ठञः अनवकाशत्वात् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८७/२६९) अनवकाशः ठञ् ठञ्ञिठौ बाधिष्यते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८८/२६९) ननु च इदानीम् एव अवकाशः प्रक्ल्̥प्तः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१८९/२६९) यत् वृद्धम् अनुवर्णान्तम् वाहीकग्रामः सः ठञ्ञिठयोः अवकाशः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९०/२६९) यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९१/२६९) यत् वृद्धम् उवर्णान्तम् वाहीकग्रामः तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९२/२६९) एवम् तर्हि न अयम् अस्य विप्रतिषेधस्य उपालम्भः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९३/२६९) कस्य तर्हि ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९४/२६९) छात् ओः देशे कालात् ठञ् इति एतस्य ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९५/२६९) ननु च तत्र अपि अवकाशः प्रक्ल्̥प्तः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९६/२६९) यत् वृद्धम् उवर्णान्तम् सः छस्य अवकाशः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९७/२६९) यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९८/२६९) यत् वृद्धम् उवर्णान्तम् देशः च तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-१९९/२६९) एवम् तर्हि वृद्धात् प्राचाम् इति अनेन वृद्धग्रहणेन किम् क्रियते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२००/२६९) यावत् ब्रूयात् पूर्वस्मिन् योगे वृद्धात् च अवृद्धात् च इति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०१/२६९) यत् एतस्मिन् योगे वृद्धग्रहणम् तत् अनवकाशम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०२/२६९) तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०३/२६९) योपधप्रस्थादीनाम् वुञ् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०४/२६९) योपधप्रस्थादीनाम् वुञ् ठञ्ञिठाभ्याम् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०५/२६९) योपधात् वुञ् भवति इति अस्य अवकाशः साङ्काश्य साङ्कास्यकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०६/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०७/२६९) दासरूप्यम् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०८/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२०९/२६९) दासरूप्यकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१०/२६९) प्रस्थानान्तात् वुञ् भवति इति अस्य अवकाशः मालाप्रस्थ पालाप्रस्थकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२११/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१२/२६९) पातानप्रस्थम् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१३/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१४/२६९) पातानप्रस्थकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१५/२६९) पुरान्तात् वुञ् भवति इति अस्य अवकाशः काञ्चीपुर काञ्चीपुरकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१६/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१७/२६९) नान्दीपुरम् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१८/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२१९/२६९) नान्दीपुरकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२०/२६९) वहान्तात् वुञ् भवति इति अस्य अवकाशः वातवह वातवहकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२१/२६९) ठञ्ञिठयोः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२२/२६९) कौक्कुडीवहम् नाम वाहीकग्रामः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२३/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२४/२६९) कौक्कुडीवहकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२५/२६९) ओः च ठञः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२६/२६९) ओः च ठञः वुञ् भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२७/२६९) ओः ठञः अवकाशः नैषाहकर्षुकः [ऋ॒ नैषादकर्षुकः ] ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२८/२६९) वुञः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२२९/२६९) आप्रीतमायोः उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३०/२६९) आप्रीतमायवकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३१/२६९) जनपदानाम् अकाणौ ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३२/२६९) जनपदानाम् अकाणौ ओः ठञः भवतः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३३/२६९) अकस्य अवकाशः अङ्गाः आङ्गकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३४/२६९) ओः ठञः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३५/२६९) जिह्नवः नाम जनपदः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३६/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३७/२६९) जैह्नवकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३८/२६९) अणः अवकाशः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२३९/२६९) ऋषिक आर्षिकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४०/२६९) ओः ठञः सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४१/२६९) इक्ष्वाकवः नाम जनपदः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४२/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४३/२६९) इक्ष्वाकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४४/२६९) न वा वुञपवादत्वात् अणः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४५/२६९) न वा अर्थः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४६/२६९) किम् कारणम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४७/२६९) वुञपवादत्वात् अणः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४८/२६९) वुञपवादः अण् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२४९/२६९) वुञ् च ओः ठञम् बाधिष्यते ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५०/२६९) कोपधात् अणः अकान्तात् छः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५१/२६९) कोपधात् अण् भवति इति एतस्मात् अकान्तात् छः भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५२/२६९) कोपधात् अण् भवति इति अस्य अवकाशः निलीनक नैलीनकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५३/२६९) अकान्तात् छः भवति इति अस्य अवकाशः आरीहणक आरीहणकीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५४/२६९) ब्राह्मणकः नाम जनपदः तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५५/२६९) ब्राह्मणकीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५६/२६९) धन्ववुञः च ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५७/२६९) धन्ववुञः च छः भवति विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५८/२६९) धन्वनः वुञ् भवति इति अस्य अवकाशः पारेधन्व पारेधन्वकः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२५९/२६९) छस्य सः एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६०/२६९) आष्टकम् नाम धन्व ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६१/२६९) तस्मात् उभयम् प्राप्नोति ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६२/२६९) आष्टकीयः ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६३/२६९) न वा छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६४/२६९) न वा अर्थः विप्रतिषेधेन ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६५/२६९) किम् कारणम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६६/२६९) छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६७/२६९) सिद्धः अत्र छः वृद्धात् छः इति एव ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६८/२६९) तस्य पुनर्वचने एतत्प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

(पा-४,२.१०४.२; अकि-२,२९३.८-२९९.५; रो-३,६७४-६८३; भा-२६९/२६९) सः यथा एव अन्यान् तदपवादान् बाधते एवम् इमम् अपि बाधिष्यते ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-१/१५) जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्रसङ्गः ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-२/१५) जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्राप्नोति ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-३/१५) मौञ्जः नाम वाहीकेषु ग्रामः ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-४/१५) तस्मिन् भवः मौञ्जीयः ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-५/१५) एवम् तर्हि जनपदात् एव जनपदावधेः ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-६/१५) जनपदात् इति चेत् वचनानर्थक्यम् ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-७/१५) जनपदात् इति चेत् अवधिग्रहणम् अनर्थकम् ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-८/१५) सिद्धम् जनपदात् इति एव ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-९/१५) इदम् तर्हि प्रयोजनम् ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-१०/१५) जनपदात् जनपदावदेः वुञ् यथा स्यात् ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-११/१५) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-१२/१५) किम् च अन्यत् प्राप्नोति ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-१३/१५) छः ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-१४/१५) गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् वक्ष्यति ।

(पा-४,२.१२४; अकि-२,२९९.७-१४; रो-३,६८४; भा-१५/१५) सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

(पा-४,२.१२९; अकि-२,२९९.१६-१९; रो-३,६८४-६८५; भा-१/४) अत्यल्पम् इदम् उच्यते ॒ मनुष्ये इति ।

(पा-४,२.१२९; अकि-२,२९९.१६-१९; रो-३,६८४-६८५; भा-२/४) पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यम् ॒ आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती ।

(पा-४,२.१२९; अकि-२,२९९.१६-१९; रो-३,६८४-६८५; भा-३/४) वा गोमयेषु इति वक्तव्यम् ।

(पा-४,२.१२९; अकि-२,२९९.१६-१९; रो-३,६८४-६८५; भा-४/४) आरण्यकाः गोमयाः आरण्याः गोमयाः ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-१/१४) कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ्विधानम् ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-२/१४) कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ् इति एतत् भवति विप्रतिषेधेन ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-३/१४) कुरुयुगन्धरेभ्यः वावचनस्य अवकाशः कौरवः कौरवकः यौगन्धरः यौगन्धरकः ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-४/१४) मनुष्यतत्स्थयोः वुञ् भवति इति अस्य अवकाशः अन्ये कच्छादयः ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-५/१४) काच्छकः मनुष्यः काच्छकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-६/१४) इह उभयम् प्राप्नोति ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-७/१४) कौरव्कः मनुष्यः कौरवकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-८/१४) वुञ् भवति विप्रतिषेधेन ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-९/१४) न एषः युक्तः विप्रतिषेधः ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-१०/१४) न हि कुरुशब्दस्य अन्ये कच्छादयः अवकाशः ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-११/१४) कुरुशब्दस्य यः कच्चादिषु पाठः सः अनवकाशः ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-१२/१४) न खलु अपि कुरुशब्दः विभाषाम् प्रयोजयति ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-१३/१४) अनेन वुञ् कच्छादिपाठात् अण् भविष्यति ।

(पा-४,२.१३०; अकि-२,२९९.२१-३००.८; रो-३,६८५; भा-१४/१४) सा एषा युगन्धरार्था विभाषा ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-१/११) किमर्थम् साल्वानाम् कच्छादिषु पाठः क्रियते ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-२/११) साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-३/११) साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः क्रियते ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-४/११) अण् यथा स्यात् ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-५/११) वुञ् मा भूत् इति ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-६/११) न वा अपदातियोगवाग्रहणम् अवधारणार्थम् ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-७/११) न वा एतत् प्रयोजनम् ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-८/११) किम् कारणम् ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-९/११) अपदातियोगवाग्रहणम् अवधारणार्थम् भविष्यति ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-१०/११) अपदातौ एव साल्वात् ।

(पा-४,२.१३३; अकि-२,३००.१०-१५; रो-३,६८६; भा-११/११) गोयवाग्वोः एव च साल्वात् इति ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-१/११) गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-२/११) गर्त्तोत्तरपदात् छविधेः जनपदात् वुञ् भवति पूर्वविप्रतिषेधेन ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-३/११) गर्त्तोत्तरपदात् छः भवति इति अस्य अवकाशः श्वाविद्गर्त श्वाविद्गर्तीयः ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-४/११) वुञः अवकाशः अङ्गाः आङ्गकः ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-५/११) इह उभयम् प्राप्नोति ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-६/११) त्रैगर्तकः ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-७/११) वुञ् भवति पूर्वविप्रतिषेधेन ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-८/११) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-९/११) न वक्तव्यः ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-१०/११) उक्तम् एव अवधिग्रहणस्य प्रयोजनम् जनपदात् जनपदावदेः वुञ् यथा स्यात् ।

(पा-४,२.१३७; अकि-२,३००.१७-२२; रो-३,६८६; भा-११/११) यत् अन्यत् प्राप्नोति तत् मा भूत् इति

(पा-४,२.१३८; अकि-२,३०१.२-६; रो-३,६८७; भा-१/७) गहादिषु पृथिवीमध्यस्य मध्यमभावः ।

(पा-४,२.१३८; अकि-२,३०१.२-६; रो-३,६८७; भा-२/७) गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः ।

(पा-४,२.१३८; अकि-२,३०१.२-६; रो-३,६८७; भा-३/७) पृथिवीमध्ये भवः मध्यमीयः ।

(पा-४,२.१३८; अकि-२,३०१.२-६; रो-३,६८७; भा-४/७) चरणसम्बन्धेन निवासलक्षणः अण् ।

(पा-४,२.१३८; अकि-२,३०१.२-६; रो-३,६८७; भा-५/७) चरणसम्बन्धेन निवासलक्षणः अण् वक्तव्यः ।

(पा-४,२.१३८; अकि-२,३०१.२-६; रो-३,६८७; भा-६/७) त्रयः प्राच्याः त्रयः माध्यमाः ।

(पा-४,२.१३८; अकि-२,३०१.२-६; रो-३,६८७; भा-७/७) सर्वे निवासलक्षणाः ।

(पा-४,२.१४१; अकि-२,३०१.८-१२; रो-३,६८७-६८८; भा-१/१) ईकान्तात् अपि इति वक्तव्यम् इह यथा स्यात् । ऐणीकीयः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अकेकान्तग्रहणे कोपधग्रहणम् सौसुकाद्यर्थम् । अकेकान्तग्रहणे कोपधग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । सौसुकाद्यर्थम् । सौसुकीयः ।