व्याकरणमहाभाष्य खण्ड 50

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१/१८) प्रत्यक्षकारिग्रहणम् ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-२/१८) प्रत्यक्षकारिग्रहणम् कर्तव्यम् अन्तेवास्यन्तेवासिभ्यः मा भूत् इति ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-३/१८) तत् तर्हि वक्तव्यम् ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-४/१८) न वक्तव्यम् ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-५/१८) कलापिखाडायग्रहणम् ज्ञापकम् वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-६/१८) यत् अयम् कलापिखाडायग्रहणम् करोति तत् ज्ञापयति आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-७/१८) कथम् कृत्वा ज्ञापकम् ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-८/१८) वैशम्पायनान्तेवासी कठः कठान्तेवासी खाडायनः ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-९/१८) वैशम्पायनान्तेवासी कलापी ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१०/१८) यदि च अन्तेवास्यन्तेवासिभ्यः अपि स्यात् कलापिखाडायग्रहणम् अनर्थकम् स्यात् ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-११/१८) पश्यति तु आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१२/१८) ततः कलापिखाडायग्रहणम् करोति ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१३/१८) छन्दोग्रहणम् च इतरथा हि अतिप्रसङ्गः ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१४/१८) छन्दोग्रहणम् च कर्तव्यम् ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१५/१८) इतरथा हि अतिप्रसङ्गः ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१६/१८) इतरथा हि अतिप्रसङ्गः स्यात् ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१७/१८) इह अपि प्रसज्येत ।

(पा-४,३.१०४; अकि-२,३१५.२१-३१६.१०; रो-३,७१८; भा-१८/१८) तित्तिरिणा प्रोक्ताः श्लोकाः इति ।

(पा-४,३.१०५; अकि-२,३१६.१२-१६; रो-३,७१९; भा-१/७) पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् ।

(पा-४,३.१०५; अकि-२,३१६.१२-१६; रो-३,७१९; भा-२/७) पुराणप्रोक्तेषु ब्राह्मणकल्पेषु इति अत्र याज्ञवल्क्यादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,३.१०५; अकि-२,३१६.१२-१६; रो-३,७१९; भा-३/७) याज्ञवल्कानि ब्राह्मणानि ।

(पा-४,३.१०५; अकि-२,३१६.१२-१६; रो-३,७१९; भा-४/७) सौलभानि इति ।

(पा-४,३.१०५; अकि-२,३१६.१२-१६; रो-३,७१९; भा-५/७) किम् कारणम् ।

(पा-४,३.१०५; अकि-२,३१६.१२-१६; रो-३,७१९; भा-६/७) तुल्यकालत्वात् ।

(पा-४,३.१०५; अकि-२,३१६.१२-१६; रो-३,७१९; भा-७/७) एतानि अपि तुल्यकालानि इति ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१/१८) कृते ग्रन्थे मक्षिकादिभ्यः अण् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-२/१८) कृते ग्रन्थे इति अत्र मक्षिकादिभ्यः अण् वक्तव्यः ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-३/१८) मक्षिकाभिः कृतम् माक्षिकम् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-४/१८) तद्विशेषेभ्यः च ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-५/१८) तद्विशेषेभ्यः च अण् वक्तव्यः ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-६/१८) सरघाभिः कृतम् सारघम् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-७/१८) गार्मुतम् पौत्तिकम् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-८/१८) सः तर्हि वक्तव्यः ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-९/१८) न वक्तव्यः ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१०/१८) योगविभागात् सिद्धम् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-११/१८) योगविभागः करिष्यते ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१२/१८) कृते ग्रन्थे ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१३/१८) ततः सञ्ज्ञायाम् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१४/१८) सञ्ज्ञायाम् च तेन कृते इति एतस्मिन् अर्थे यथाविहितम् प्रत्ययः भवति ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१५/१८) सरघाभिः कृतम् सारघम् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१६/१८) गार्मुतम् पौत्तिकम् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१७/१८) ततः कुलालादिभ्यः वुञ् ।

(पा-४,३.११६; अकि-२,३१६.१८-३१७.४; रो-३,३१९-३२०; भा-१८/१८) सञ्ज्ञायाम् इति एव ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१/६४) तस्य इदम् इति असन्निहिते अप्राप्तिः इदमः प्रत्यक्षवाचित्वात् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२/६४) तस्य इदम् इति असन्निहिते अप्राप्तिः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३/६४) किम् कारणम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४/६४) इदमः प्रत्यक्षवाचित्वात् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५/६४) इदम् इति एतत् प्रत्यक्षे वर्तते ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-६/६४) तेन इह एव स्यात् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-७/६४) तस्य इदम् इति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-८/६४) तस्य अदः इति तस्य तत् इति न स्यात् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-९/६४) सिद्धम् तु यद्योगा षष्ठी तत्र ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१०/६४) सिद्धम् एतत् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-११/६४) कथम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१२/६४) यद्योगा षष्ठी प्रवर्तते तत्र इति वक्तव्यम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१३/६४) अनन्तरादिषु च प्रतिषेधः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१४/६४) अनन्तरादिषु च प्रतिषेधः वक्तव्यः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१५/६४) तस्य अनन्तरः तस्य समीपः इति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१६/६४) किम् यद्योगा षष्ठी प्रवर्तते इति अतः अनन्तरादिषु प्रतिषेधः वक्तव्यः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१७/६४) न इति आह ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१८/६४) सर्वथ अनन्तरादिषु प्रतिषेधः वक्तव्यः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-१९/६४) सिद्धम् तु परिगणनात् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२०/६४) सिद्धम् एतत् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२१/६४) कथम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२२/६४) परिगणनम् कर्तव्यम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२३/६४) स्वे ग्रामजनपद्मनुष्येभ्यः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२४/६४) स्वे ग्रामजनपद्मनुष्येभ्यः इति वक्तव्यम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२५/६४) स्रौघ्नः माथुरः ग्राम ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२६/६४) जनपद आङ्गकः वाङ्गकः जनपद ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२७/६४) मनुष्य दैवदत्तः याज्ञदत्तः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२८/६४) पत्त्रात् वाह्ये ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-२९/६४) पत्त्रात् वाह्ये इति वक्तव्यम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३०/६४) आश्वम् आउष्ट्रम् गार्दभम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३१/६४) रथात् रथाङ्गे ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३२/६४) रथात् रथाङ्गे इति वक्तव्यम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३३/६४) आश्वरथम् औष्ट्ररथम् गार्दभरथम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३४/६४) वहेः तुः अण् इट् च ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३५/६४) वहेः त्रन्तात् अण् वल्तव्यः इट् च वक्तव्यः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३६/६४) संवोढुः स्वम् सांवहित्रम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३७/६४) अग्नीधः शरणे रञ् भ च ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३८/६४) अग्नीधः शरणे रञ् वक्तव्यः भसञ्ज्ञा च वक्तव्या ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-३९/६४) अग्नीधः शरणम् आग्नीध्रम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४०/६४) समिधाम् आधाने षेण्यण् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४१/६४) समिधाम् आधाने षेण्यण् वक्तव्यः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४२/६४) समिधाम् आधानः मन्त्रः सामिधेन्यः मन्त्रः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४३/६४) सामिधेनी ऋक् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४४/६४) चरणात् धर्माम्नाययोः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४५/६४) चरणात् धर्माम्नाययोः इति वक्तव्यम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४६/६४) कठानाम् धर्मः आम्नायः वा काठकम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४७/६४) कालापकम् मौदुकम् पैप्पलादकम् इति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४८/६४) तत् तर्हि बहु वक्तव्यम् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-४९/६४) सूत्रम् च भिद्यते ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५०/६४) यथान्यासम् एव अस्तु ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५१/६४) ननु च उक्तम् तस्य इदम् इति असन्निहिते अप्राप्तिः इति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५२/६४) किम् इदम् भवान् प्रत्ययार्थम् एव उपालम्भते न पुनः प्रकृत्यर्थम् अपि ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५३/६४) यथा एव हि इदम् इति एतत् प्रत्यक्षे वर्तते एवम् तत् इति एतत् परोक्षे वर्तते ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५४/६४) तेन इह एव स्यात् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५५/६४) तस्य इदम् इति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५६/६४) अस्य अमुष्य इति अत्र न स्यात् ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५७/६४) अस्ति अत्र विशेषः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५८/६४) एकशेषनिर्देशः अत्र भविष्यति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-५९/६४) तस्य च अस्य च अमुष्य त तस्य इति भवति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-६०/६४) इह अपि तर्हि एकशेषनिर्देशः भविष्यति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-६१/६४) तत् च अदः च इदम् च इदम् इति एव ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-६२/६४) यत् अपि उच्यते अनन्तरादिषु च प्रतिषेधः वक्तव्यः इति ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-६३/६४) न वक्तव्यः ।

(पा-४,३.१२०; अकि-२,३१८.२-३१९.१३; रो-३,७२०-७२२; भा-६४/६४) अनभिधानात् अनन्तरादिषु उत्पत्तिः न भविष्यति ।

(पा-४,३.१२५; अकि-२,३१९.१५-१६; रो-३,७२३; भा-१/३) वैरे देवासुरादिभ्यः प्रतिषेधः ।

(पा-४,३.१२५; अकि-२,३१९.१५-१६; रो-३,७२३; भा-२/३) वैरे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,३.१२५; अकि-२,३१९.१५-१६; रो-३,७२३; भा-३/३) दैवासुरम् राक्षोसुरम् ।

(पा-४,३.१२७.१; अकि-२,३१९.१८-१९; रो-३,७२३; भा-१/३) सङ्घादिषु घोषग्रहणम् ।

(पा-४,३.१२७.१; अकि-२,३१९.१८-१९; रो-३,७२३; भा-२/३) सङ्घादिषु घोषग्रहणम् कर्तव्यः ।

(पा-४,३.१२७.१; अकि-२,३१९.१८-१९; रो-३,७२३; भा-३/३) गार्गः घोषः वात्सः घोषः ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-१/१५) किमर्थः णकारः ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-२/१५) वृद्ध्यर्थः ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-३/१५) ञ्णिति इति वृद्धिः यथा स्यात् ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-४/१५) सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिदिकस्य ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-५/१५) सङ्घादिषु प्रत्ययस्य णित्करणम् अनर्थकम् ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-६/१५) किम् कारणम् ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-७/१५) वृद्धत्वात् प्रातिदिकस्य ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-८/१५) वृद्धम् एव एतत् प्रातिपदिकम् ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-९/१५) लिङ्गपुंवद्भावप्रतिषेधार्थम् तु ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-१०/१५) लिङ्गपुंवद्भावप्रतिषेधार्थम् तु णकारः कर्तव्यः ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-११/१५) लिङ्गार्थम् ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-१२/१५) वैदी ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-१३/१५) पुंवद्भावप्रतिषेधार्थम् ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-१४/१५) बैदी स्थूणा अस्य बैदीस्थूणः ।

(पा-४,३.१२७.२; अकि-२,३१९.२०-३२०.४; रो-३,७२३; भा-१५/१५) वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१/२६) कौपिञ्जलहस्तिपदाद् अण् ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२/२६) कौपिञ्जलहस्तिपदाद् अण् वक्तव्यः ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-३/२६) कौपिञ्जलाः हास्तिपदाः ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-४/२६) आथर्वणिकस्य इकलोपः च ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-५/२६) आथर्वणिकस्य इकलोपः च अण् च वक्तव्यः ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-६/२६) आथर्वणः धर्मः आथर्वणः आम्नायः ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-७/२६) इदम् आथर्वणार्थम् आथर्वणिकार्थम् च चतुर्ग्रहणम् क्रियते ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-८/२६) वसन्तादिषु अथर्वन्शब्दः आथर्वणशब्दः च पठ्यते ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-९/२६) षष्थाध्याये प्रकृतिभावार्थम् ग्रहणम् क्रियते ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१०/२६) इदम् चतुर्थम् इकलोपार्थम् ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-११/२६) द्विर्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१२/२६) कथम् ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१३/२६) तेन प्रोक्तम् इति प्रकृत्य ऋषिभ्यः लुक् वक्तव्यः वसिष्ठः अनुवाकः विश्वामित्रः अनुवाकः इति एवमर्थम् ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१४/२६) ततः वक्तव्यम् अथर्वणः वा इति ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१५/२६) तेन् सिद्धम् अथर्वा आथर्वणः इति च ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१६/२६) अथ वसन्तादिषु आथर्वणशब्दः पठितव्यः ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१७/२६) तत्र न एव अर्थः प्रकृतिभावाऋथेन न अपि इकलोपार्थेन ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१८/२६) यदि वसन्तादिषु आथर्वणशब्दः पठ्यते अथर्वाणम् अधीते आथर्वणिकः इति न सिध्यति ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-१९/२६) न एषः दोषः ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२०/२६) इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२१/२६) तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२२/२६) तत् यथा ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२३/२६) अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२४/२६) एवम् आथर्वणम् अधीते इति विगृह्य आथर्वणिकः इति भविष्यति अथर्वाणम् अधीते इति विगृह्य वाक्यम् एव ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२५/२६) तत्र अभिसम्बन्धमात्रम् कर्तव्यम् आथर्वणिकानाम् इति ।

(पा-४,३.१३१; अकि-२,३२०.६-२१; रो-३,७२४-७२५; भा-२६/२६) न च इदानीम् अन्यत् आथर्वणिकानाम् स्वम् भवितुम् अर्हति अन्यत् अतः धर्मात् आम्नायात् वा ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१/५५) तस्य इति वर्तमाने पुनः तस्यग्रहणम् किमर्थम् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२/५५) तस्यप्रकरणे तस्यपुनर्वचनम् शैषिकनिवृत्त्यर्थम् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३/५५) तस्यप्रकरणे तस्य इति पुनर्वचनम् क्रियते शैषिकनिवृत्त्यर्थम् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४/५५) शैषिकाः निवर्त्यन्ते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-५/५५) कथम् च प्राप्नुन्वन्ति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-६/५५) तस्येदंवचनात् प्रसङ्गः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-७/५५) तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः निवासः इति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-८/५५) किमर्थम् इदम् उच्यते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-९/५५) बाधनार्थम् कृतम् भवेत् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१०/५५) ये तस्य बाधकाः तद्बाधनार्थम् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-११/५५) कथम् पुनः अशैषिकम् शैषिकम् बाधेत ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१२/५५) उत्सर्गः शेषः एव असौ ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१३/५५) यः हि उत्सर्गः सः अपि शेषः एव ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१४/५५) के पुनः शैषिकाणाम् विकारावयवयोः प्राप्नुवन्ति यावता सर्वम् अद्य अपवादैः व्याप्तम् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१५/५५) इह न किम् चित् उच्यते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१६/५५) हलसीरात् ठक् इति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१७/५५) कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१८/५५) तस्यग्रहणसामर्थ्यात् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-१९/५५) किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२०/५५) अवश्यम् उत्तरार्थः अर्थनिर्देशः कर्तव्यः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२१/५५) समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्था निर्देष्टव्या ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२२/५५) प्रकृता समर्थविभक्तिः अनुवर्तते तस्य इदम् इति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२३/५५) न वा सम्प्रत्ययः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२४/५५) न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२५/५५) न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२६/५५) यदि खलु अपि विकारावयवयोः शैषिकाः न इष्यन्ते महता सूत्रेण निवृत्तिः वक्तव्या ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२७/५५) अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२८/५५) अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इष्टा तत्र च निवृत्तिः प्राप्नोति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-२९/५५) पाटलिपुत्रकाः प्रासादाः पाटलिपुत्रकाः प्राकाराः इति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३०/५५) अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३१/५५) अण्मयटोः च विप्रतिषेधः न उपपद्यते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३२/५५) पठिष्यति हि विप्रतिषेधम् ॒ अणः वृद्धात् मयट् इति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३३/५५) सः विप्रतिषेधः न उपपद्यते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३४/५५) किम् कारणम् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३५/५५) मयडुत्सर्गात् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३६/५५) निवृत्तेषु हि शैषिकेषु वृद्धात् मयट् उत्सर्गः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३७/५५) तस्य अण् अपवादः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३८/५५) उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-३९/५५) अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधात् मयट् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४०/५५) अनुवर्तमानेषु हि शैषिकेषु वृद्धात् छः उत्सगः तस्य अण्मयटौ अपवादौ ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४१/५५) अपवादविप्रतिषेधात् मयट् भविष्यति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४२/५५) यत् तावत् उच्यते न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः इति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४३/५५) सम्प्रत्ययः एव ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४४/५५) न हि अत्र अण् दुर्लभः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४५/५५) सिद्धः अत्र अण् तस्य इदम् इति एव ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४६/५५) सः अयम् पुनः तस्यग्रहणेन तस्य सापवादस्य अणः प्रसङ्गः इमम् निरपवादकम् अणम् प्रतिपादयति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४७/५५) तत्र ये तावत् द्वितीयाः तान् अयम् अपवादत्वात् बाधिष्यते ये तृतीयाः तान् परत्वात् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४८/५५) ये चतुर्थाः तत्र के चित् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इमम् न बाधिष्यन्ते के चित् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-४९/५५) एतावन्तः च एते स्युः यत् उत द्वितीयाः तृतीयाः चतुर्थाः वा ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-५०/५५) न पञ्चमाः सन्ति न षष्ठाः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-५१/५५) यत् अपि उच्यते अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इति प्राण्योषधिवृक्षेभ्यः निवृत्तिः उच्यते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-५२/५५) तत्र कः प्रसङ्गः यत् अप्राण्योषधिवृक्षेभ्यः निवृत्तिः स्यात् ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-५३/५५) यत् अपि उच्यते अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् इति मा भूत् विप्रतिषेधः ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-५४/५५) पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अणञम् बाधिष्यते ।

(पा-४,३.१३४; अकि-२,३२०.२३-३२२.१५; रो-३,७२५-७३०; भा-५५/५५) मयटम् न बाधिष्यते ।

(पा-४,३.१३५; अकि-२,३२२.१७-२१; रो-३,७३०-७३१; भा-१/७) किमर्थम् विकारावयवयोः युगपदधिकारः ।

(पा-४,३.१३५; अकि-२,३२२.१७-२१; रो-३,७३०-७३१; भा-२/७) विकारावयवयोः उक्तम् ।

(पा-४,३.१३५; अकि-२,३२२.१७-२१; रो-३,७३०-७३१; भा-३/७) किम् उक्तम् ।

(पा-४,३.१३५; अकि-२,३२२.१७-२१; रो-३,७३०-७३१; भा-४/७) तत्र तावत् उक्तम् भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः ।

(पा-४,३.१३५; अकि-२,३२२.१७-२१; रो-३,७३०-७३१; भा-५/७) कृतनिर्देशौ हि तौ इति ।

(पा-४,३.१३५; अकि-२,३२२.१७-२१; रो-३,७३०-७३१; भा-६/७) इह अपि विकारावयवयोः युगपदधिकारः अपवादविधानार्थः ।

(पा-४,३.१३५; अकि-२,३२२.१७-२१; रो-३,७३०-७३१; भा-७/७) कृतनिर्देशौ हि तौ तस्य इदम् इति ।

(पा-४,३.१३६; अकि-२,३२२.२३-३२३.२; रो-३,७३१; भा-१/४) किमर्थम् बिल्वादिषु गवीधुकाशब्दः पठ्यते न कोपधात् अण् इति एव सिद्धम् ।

(पा-४,३.१३६; अकि-२,३२२.२३-३२३.२; रो-३,७३१; भा-२/४) बिल्वादिषु गवीधुकाग्रहणम् मयट्प्रतिषेधार्थम् ।

(पा-४,३.१३६; अकि-२,३२२.२३-३२३.२; रो-३,७३१; भा-३/४) बिल्वादिषु गवीधुकाग्रहणम् क्रियते मयट्प्रतिषेधार्थम् ।

(पा-४,३.१३६; अकि-२,३२२.२३-३२३.२; रो-३,७३१; भा-४/४) मयट् अतः मा भूत् इति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१/३५) अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२/३५) अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-३/३५) कुवली कौवलम् बदरी बादरम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-४/३५) तत् तर्हि वक्तव्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-५/३५) न वक्तव्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-६/३५) निघाते कृते अनुदात्तादेः इति एव सिद्धम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-७/३५) न सिध्यति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-८/३५) किम् कारणम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-९/३५) पदस्य हि अनुदात्तादित्वम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१०/३५) पदस्य हि निघातः सुबन्तम् च पदम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-११/३५) ङ्याप्प्रातिपदिकात् च प्रत्ययः विधीयते ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१२/३५) न वा समर्थस्य अनुदात्तादित्वात् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१३/३५) न वा कर्तव्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१४/३५) किम् कारणम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१५/३५) समर्थस्य अनुदात्तादित्वात् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१६/३५) समर्थम् अनुदात्तादित्वेन विशेषयिष्यामः ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१७/३५) न एवम् शक्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१८/३५) इह हि प्रसज्येत ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-१९/३५) वाचः विकारः त्वचः विकारः इति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२०/३५) एतद् हि समर्थम् अनुदात्तादि ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२१/३५) इह च न स्यात् सर्वेषाम् विकारः इति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२२/३५) तस्मात् न एवम् शक्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२३/३५) न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२४/३५) न कर्तव्यम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२५/३५) आचार्यप्रवृत्तिः ज्ञापयति यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति यत् अयम् भिक्षादिषु गर्भिणीशब्दस्य पाठम् करोति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२६/३५) कथम् कृत्वा ज्ञापकम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२७/३५) भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत् प्रयोजनम् अनुदात्तादिलक्षणः अञ् मा भूत् इति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२८/३५) यदि च पदस्य निघातः गर्भशब्दः अयम् आद्युदात्तः तस्मात् इन् अन्तात् यः प्रत्ययः प्राप्नोति सः तावत् स्यात् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-२९/३५) तस्मिन् अवस्थिते निघातः ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-३०/३५) तत्र कः अनुदात्तादिलक्षणस्य अञः प्रसङ्गः ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-३१/३५) पश्यति तु आचार्यः यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-३२/३५) अतः भिक्षादिषु गर्भिणीशब्दम् पठति ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-३३/३५) पदग्रहणम् परिमाणार्थम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-३४/३५) पदग्रहणम् क्रियते परिमाणार्थम् ।

(पा-४,३.१४०; अकि-२,३२३.४-२४; रो-३,७३१-७३३; भा-३५/३५) वाक्यस्य मा भूत् अनुदात्तम् पदम् एकवर्जम् इति ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-१/८) किमर्थम् एतयोः इति उच्यते ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-२/८) मयड्वैतयोर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-३/८) मयट् वा एतयोः इति उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-४/८) बिल्वमयम् बैल्वम् ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-५/८) एतयोः इति अर्थनिर्देशः ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-६/८) एतयोः इति अर्थनिर्देशः द्रष्टव्यः ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-७/८) द्वेष्यम् विजानीयात् ॒ योगयोः वा प्रत्यययोः वा इति ।

(पा-४,३.१४३; अकि-२,३२४.२-७; रो-३,७३३; भा-८/८) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ एतयोः इति अर्थनिर्देशः इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१/५२) किमर्थम् इदम् उच्यते ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२/५२) विकारावयवयोः विकारावयवयुक्तत्वात् मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३/५२) विकारः विकारेण युज्यते अवयवेन अवयवः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४/५२) विकारावयवयोः विकारावयवयुक्तत्वात् मयट् प्राप्नोति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-५/५२) इष्यते च अञ् एव स्यात् इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-६/५२) तत् च अन्तरेण यत्नम् न सिध्यति इति मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-७/५२) एवमर्थम् इदम् उच्यते ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-८/५२) न वा दृष्टः हि अवयवे समुदायशब्दः विकारे च प्रकृतिशब्दः तस्मात् मयडभावः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-९/५२) न वा एतत् प्रयोजनम् अस्ति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१०/५२) किम् कारणम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-११/५२) दृष्टः हि अवयवे समुदायशब्दः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१२/५२) तत् यथा पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतम् भुक्तम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१३/५२) विकारे च प्रकृतिशब्दः दृश्यते ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१४/५२) तत् यथा ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१५/५२) शालीन् भुङ्क्ते मुद्गैः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१६/५२) शालीविकारम् मुद्गविकारेण इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१७/५२) तस्मात् मयट् अतः न भविष्यति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१८/५२) न एतत् विवदामहे ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-१९/५२) अवयवे समुदायशब्दः अस्ति न अस्ति इति विकारे वा प्रकृतिशब्दः इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२०/५२) किम् तर्हि विकारावयवशब्दः अपि तु अस्ति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२१/५२) ततः उत्पत्तिः प्राप्नोति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२२/५२) विकारावयवशब्दात् प्रसङ्गः इति चेत् न तेन अनभिधानात् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२३/५२) विकारावयवशब्दात् प्रसङ्गः इति चेत् तत् न ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२४/५२) किम् कारणम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२५/५२) तेन अनभिधानात् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२६/५२) न हि विकारावयवशब्दात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२७/५२) अनभिधानात् ततः उतपत्तिः न भविष्यति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२८/५२) तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-२९/५२) अभिधाने हि अन्यतः अपि मयट्प्रसङ्गः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३०/५२) अभिधाने हि सति अन्यतः अपि मयट् प्रसज्येत ॒ बैल्वस्य विकारः इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३१/५२) तस्मात् तत्प्रत्ययान्तात् लुग्वचनम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३२/५२) तस्मात् तत्प्रत्ययान्तात् लुक् वक्तव्यः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३३/५२) यदि लुक् उच्यते कथम् गौमयम् भस्म द्रौवयम् मानम् कापित्थः रसः इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३४/५२) अन्यत्र गोमयात् द्रुवयात् फलात् च लुक् वक्तव्यः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३५/५२) इह तर्हि औष्ट्रकी अञन्तात् इति ईकारः न प्राप्नोति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३६/५२) इष्टम् एव एतत् सङ्गृहीतम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३७/५२) औष्ट्रिका इति एव भवितव्यम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३८/५२) एवम् हि सौनागाः पठन्ति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-३९/५२) वुञः च अञ् कृतप्रसङ्गः इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४०/५२) इह तर्हि पालाशी समित् इति अनुपसर्जनलक्षणः ईकारः न प्राप्नोति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४१/५२) मा भूत् एवम् अञ् यः अनुपर्सर्जनम् इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४२/५२) अञन्तात् अनुपसर्जनात् इति एवम् भविष्यति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४३/५२) न एवम् शक्यम् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४४/५२) इह हि दोषः स्यात् ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४५/५२) काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी ताम् अधीते काशकृत्स्ना ब्राह्मणी इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४६/५२) अणन्तात् इति ईकारः प्रसज्येत ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४७/५२) तस्मात् अस्तु न तेन अनभिभानात् इति एव ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४८/५२) इह तर्हि कापोतः रसः इत् प्राणिशब्दः न उपपद्यते ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-४९/५२) न एषः दोषः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-५०/५२) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-५१/५२) अथ यः असौ आद्यः कपोतः सलोमकः सपक्षः न च सम्प्रति प्रणिति कथम् तत्र प्राणिशब्दः वर्तते इति ।

(पा-४,३.१५५; अकि-२,३२४.९-३२५.१८; रो-३,७३३-७३६; भा-५२/५२) अथ मतम् एतत् प्रकृत्यन्वयाः विकाराः भवन्ति इति इह अपि न दोषः भवति ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-१/१३) कथम् इदम् विज्ञायते ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-२/१३) क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-३/१३) आहोस्वित् परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-४/१३) किम् च अतः ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-५/१३) यदि विज्ञायते क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति प्रत्ययमात्रम् प्राप्नोति ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-६/१३) अथ विज्ञायते परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति प्रकृतिमात्रात् प्राप्नुवन्ति ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-७/१३) तस्मात् क्रीतवत् परिमाणात् अङ्गम् च ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-८/१३) अङ्गम् च क्रीतवत् इति वक्तव्यम् ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-९/१३) तत् तर्हि वक्तव्यम् ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-१०/१३) न वक्तव्यम् ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-११/१३) क्रीतवत् इति वतिनिर्देशः अयम् ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-१२/१३) यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण क्रीते प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण विकारावयवयोः भवन्ति ततः अमी क्रीतवत् कृताः स्युः ।

(पा-४,३.१५६.१; अकि-२,३२५.२०-३२६.६; रो-३,७३७; भा-१३/१३) अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी क्रीतवत् कृताः स्युः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१/५७) अणः वृद्धात् मयट् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२/५७) अणः वृद्धात् मयट् इति एतत् भवति विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३/५७) अणः अवकाशः तित्तिडीक तैत्तिडीकम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४/५७) मयटः अवकाशः काष्ठमयम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५/५७) इह उभयम् प्राप्नोति ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-६/५७) शाकमयम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-७/५७) ओः अञः अनुदात्तादेः अञः च मयट् भवति विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-८/५७) ओः अञः अवकाशः आरडवम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-९/५७) मयटः सः एव ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१०/५७) इह उभयम् प्राप्नोति ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-११/५७) दारुमयम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१२/५७) अनुदात्तादेः अञ् भवति इति अस्य अवकाशः कौवलम् जरद्वृक्ष जारद्वृक्षम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१३/५७) मयटः सः एव ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१४/५७) इह उभयम् प्राप्नोति ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१५/५७) आम्रमयम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१६/५७) मयटः प्राण्यञ् विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१७/५७) मयटः प्राण्यञ् भवति विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१८/५७) प्राण्यञः अवकाशः गृध्र गार्ध्रम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-१९/५७) मयटः सः एव ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२०/५७) इह उभयम् प्राप्नोति ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२१/५७) चाषम् भासम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२२/५७) प्राण्यञ् भवति विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२३/५७) न वा अनवकाशत्वात् अपवादः मयट् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२४/५७) न वा एषः युक्तः विप्रतिषेधः यः अयम् अञः मयटः च ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२५/५७) किम् कारणम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२६/५७) अनवकाशत्वात् अपवादः मयट् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२७/५७) अनवकाशः मयट् सावकाशम् अञम् बाधिष्यते ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२८/५७) सः कथम् अनवकाशः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-२९/५७) यदि अनुवर्तन्ते शैषिकाः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३०/५७) अथ निवृत्ताः शैषिकाः वृद्धम् आद्युदात्तम् मयटः अवकाशः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३१/५७) प्राण्यञः च ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३२/५७) अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् मयटः प्राण्यञः च ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३३/५७) किम् कारणम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३४/५७) अनवकाशत्वात् अपवादः मयट् इति एव ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३५/५७) अनवकाशः मयट् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३६/५७) सः यथा एव ओः अञम् अनुदात्तादेः अञम् च बाधते एवम् प्राण्यञम् अपि बाधेत ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३७/५७) तस्मात् मयड्विधाने प्राणिप्रतिषेधः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३८/५७) तस्मात् मयड्विधाने प्राणिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-३९/५७) सः तर्हि वक्तव्यः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४०/५७) न वक्तव्यः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४१/५७) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् मयट् ओः अञम् अनुदात्तादेः अञम् च बाधिष्यते ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४२/५७) प्राण्यञम् न बाधिष्यते ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४३/५७) यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति मा अनुवृतन् शैषिकाः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४४/५७) पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् अण् अञम् बाधिष्यते ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४५/५७) मयटम् न बाधिष्यते ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४६/५७) अनुदात्तादेः अञः प्राण्यञ् विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४७/५७) अनुदात्तादेः अञः प्राण्यञ् भवति विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४८/५७) अनुदात्तादेः अञ् भवति इति अस्य अवकाशः जरद्वृक्ष जारद्वृक्षम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-४९/५७) प्राण्यञः सः एव ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५०/५७) इह उभयम् प्राप्नोति ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५१/५७) कपोत कापोतम् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५२/५७) प्राण्यञ् भवति विप्रतिषेधेन ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५३/५७) कः पुनः अत्र विशेषः तेन वा सति अनेन वा ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५४/५७) सापवादकः सः विधिः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५५/५७) अयम् पुनः निरपवादकः ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५६/५७) यदि तेन स्यात् इह न स्यात् ।

(पा-४,३.१५६.२; अकि-२,३२६.७-३२७.१२; रो-३,७३७-७४०; भा-५७/५७) श्वाविधः विकारः शौवाविधम् ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-१/९) फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-२/९) फले लुग्वचनम् अनर्थकम् ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-३/९) किम् कारणम् ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-४/९) प्रकृत्यन्तरत्वात् ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-५/९) प्रकृत्यन्तरम् आमलकशब्दः फले वर्तते ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-६/९) एकान्तदर्शनात् प्राप्नोति ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-७/९) एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुग्वचनम् ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-८/९) एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुक् वक्तव्यः ।

(पा-४,३.१६३; अकि-२,३२७.१४-१८; रो-३,७४०-७४१; भा-९/९) वृक्षः अपि फलैकान्तः ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-१/८) लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-२/८) लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-३/८) व्रीहयः यवाः माषाः मुद्गाः तिलाः ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-४/८) पुष्पमूलेषु च बहुलम् ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-५/८) पुष्पमूलेषु च बहुलम् लुप् वक्तव्यः ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-६/८) मल्लिका करवीरम् बिसम् मृणालम् ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-७/८) न च भवति ।

(पा-४,३.१६६; अकि-२,३२७.२०-३२८.३; रो-३,७४१; भा-८/८) पाटलानि मूलानि ।