व्याकरणमहाभाष्य खण्ड 51

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-१/१३) ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-२/१३) ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-३/१३) माशब्दिकः नैत्यशब्दिकः कार्यशब्दिकः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-४/१३) आहौ प्रभूतादिभ्यः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-५/१३) आहौ प्रभूतादिभ्यः ठक् वक्तव्यः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-६/१३) प्रभूतम् आह प्राभूतिकः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-७/१३) पार्याप्तिकः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-८/१३) पृच्छतौ सुस्नातादिभ्यः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-९/१३) पृच्छतौ सुस्नातादिभ्यः ठक् वक्तव्यः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-१०/१३) सौस्नातिकः सौखरात्रिकः सौखशायिकः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-११/१३) गच्छतौ परदारादिभ्यः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-१२/१३) गच्छतौ परदारादिभ्यः ठक् वक्तव्यः ।

(पा-४,४.१; अकि-२,३२९.२-१०; रो-३,७४२; भा-१३/१३) पारदारिकः गौरुतल्पिकः ।

(पा-४,४.९; अकि-२,१२-१५; रो-३,७४३; भा-१/४) इह केषाम् चित् सांहितिकम् षत्वम् केषाम् चित् षिदर्थम् ।

(पा-४,४.९; अकि-२,१२-१५; रो-३,७४३; भा-२/४) तत्र न ज्ञायते केषाम् सांहितिकम् षत्वम् केषाम् षिदर्थम् इति ।

(पा-४,४.९; अकि-२,१२-१५; रो-३,७४३; भा-३/४) परिगणनम् कर्तव्यम् ।

(पा-४,४.९; अकि-२,१२-१५; रो-३,७४३; भा-४/४) आकर्षात् पर्पादेः भस्त्रादिभ्यः कुसीद्सूत्रात् च आवसथात् किसरादेः षितः षट् एते ठगधिकारे ।

(पा-४,४.१७; अकि-२,३२९.१७; रो-३,७४३; भा-१/२) वीवधात् च इति वक्तव्यम् ।

(पा-४,४.१७; अकि-२,३२९.१७; रो-३,७४३; भा-२/२) वैवधिकः ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१/२३) नित्यग्रहणम् किमर्थम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-२/२३) विभषा मा भूत् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-३/२३) न एतत् अस्ति प्रयोजनम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-४/२३) पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-५/२३) इदम् तर्हि प्रयोजनम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-६/२३) त्रेः मम्नित्यवचनम् विषयार्थम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-७/२३) नित्यम् त्र्यन्तम् मब्विषयम् एव यथा स्यात् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-८/२३) केवलस्य प्रयोगः मा भूत् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-९/२३) अस्ति प्रयोजनम् एतत् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१०/२३) किम् तर्हि इति. तत्र यथाधिकारम् तद्विषयप्रसङ्गः ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-११/२३) तत्र यथाधिकारम् तद्विषयता प्राप्नोति ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१२/२३) निर्वृत्ते इत् वर्तते ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१३/२३) तेन निर्वृत्ते एव त्र्यन्तम् मब्विषयम् स्यात् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१४/२३) ये अन्ये उपचाराः तत्र न स्यात् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१५/२३) कृत्रिमम् महत् सुविहितम् इति ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१६/२३) एवम् तर्हि भावे इति प्रकृत्य इमप् वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१७/२३) ततः वक्तव्यम् त्रेः ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१८/२३) त्रेः मप् भवति ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-१९/२३) ततः नित्यम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-२०/२३) नित्यम् त्र्यन्तात् इमप् इति ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-२१/२३) किमर्थम् इदम् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-२२/२३) नित्यम् त्र्यन्तम् इमब्विषये एव यथा स्यात् ।

(पा-४,४.२०; अकि-२,३३०.२-१२; रो-३,७४३-७४५; भा-२३/२३) केवलस्य प्रयोगः मा भूत् इति ।

(पा-४,४.२३; अकि-२,३३०.१४-१५; रो-३,७४५; भा-१/३) अयम् योगः शक्यः अवक्तुम् ।

(पा-४,४.२३; अकि-२,३३०.१४-१५; रो-३,७४५; भा-२/३) कथम् चूर्णी चूर्णिनौ चूर्णिनः इति ।

(पा-४,४.२३; अकि-२,३३०.१४-१५; रो-३,७४५; भा-३/३) इनिना एतत् मत्वर्थीयेन सिद्धम् ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-१/१४) लवणात् लुग्वचनानर्थक्यम् रसवाचिव्तात् ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-२/१४) लवणात् लुग्वचनम् अनर्थकम् ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-३/१४) किम् कारणम् ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-४/१४) रसवाचिव्तात् ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-५/१४) रसवाची एषः लवणशब्दः ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-६/१४) न एषः संसृष्टनिमित्तः ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-७/१४) आतः च रसवाची ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-८/१४) असंसृष्टे च दर्शनात् ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-९/१४) असंसृष्टे अपि हि लवणशब्दः वर्तते ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-१०/१४) तत् यथा ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-११/१४) लवणम् क्षीरम् लवणम् पानीयम् इति ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-१२/१४) संसृष्टे च अदर्शनात् ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-१३/१४) संसृष्टे अपि च यदा न उपलभ्यते तदा आह ।

(पा-४,४.२४; अकि-२,३३०.१७-३३१.२; रो-३,७४५; भा-१४/१४) अलवणः सूपः अलवणः शाकम् इति ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-१/१५) अयुक्तः अयम् निर्देशः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-२/१५) यत् असौ अल्पम् दत्त्वा बहु गृह्णाति तत् गर्ह्यम् ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-३/१५) कथम् तर्हि निर्देशः कर्तव्यः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-४/१५) प्रयच्छति गर्हाय इति ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-५/१५) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-६/१५) न कर्तव्यः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-७/१५) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-८/१५) गर्ह्यार्थम् गर्ह्यम् ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-९/१५) मेस्याल्लोपः वा ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-१०/१५) मेस्याच्छब्दलोपः वा द्रष्टव्यः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-११/१५) द्विगुणम् मे स्यात् इति प्रयच्छति द्वैगुणिकः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-१२/१५) त्रैगुणिकः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-१३/१५) वृद्धेः वृधुषिभावः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-१४/१५) वृद्धेः वृधुषिभावः वक्तव्यः ।

(पा-४,४.३०; अकि-२,३३१.४-१३; रो-३,७४६; भा-१५/१५) वार्धुषिकः ।

(पा-४,४.४१; अकि-२,३३१.१५-१६; रो-३,७४६; भा-१/३) अधर्मात् च ।

(पा-४,४.४१; अकि-२,३३१.१५-१६; रो-३,७४६; भा-२/३) अधर्मात् च इति वक्तव्यम् ।

(पा-४,४.४१; अकि-२,३३१.१५-१६; रो-३,७४६; भा-३/३) आधर्मिकः ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-१/१०) नृनराभ्याम् अञ्वचनम् ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-२/१०) नृनराभ्याम् च इति वक्तव्यम् ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-३/१०) नुः धर्म्या नारी ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-४/१०) नरस्य अपि नारी ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-५/१०) विशसितुः इड्लोपः च ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-६/१०) विशसितुः इड्लोपः च अञ् च वक्तव्यः ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-७/१०) विशसितुः धर्म्यम् वैशस्त्रम् ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-८/१०) विभाजयितुः णिलोपः च ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-९/१०) विभाजयितुः णिलोपः च अञ् च वक्तव्यः ।

(पा-४,४.४९; अकि-२,३३१.१८-३३२.२; रो-३,७४७; भा-१०/१०) विभाजयितुः धर्म्यम् वैभाजित्रम् ।

(पा-४,४.५५; अकि-२,३३२.४-६; रो-३,७४७; भा-१/७) किम् यस्य मृदङ्गः शिल्पम् सः मार्दङ्गिकः ।

(पा-४,४.५५; अकि-२,३३२.४-६; रो-३,७४७; भा-२/७) किम् च अतः ।

(पा-४,४.५५; अकि-२,३३२.४-६; रो-३,७४७; भा-३/७) कुम्भकारे प्राप्नोति ।

(पा-४,४.५५; अकि-२,३३२.४-६; रो-३,७४७; भा-४/७) एवम् तर्हि उत्तरपदलोपः द्रष्टव्यः ।

(पा-४,४.५५; अकि-२,३३२.४-६; रो-३,७४७; भा-५/७) शिल्पम् इव शिल्पम् ।

(पा-४,४.५५; अकि-२,३३२.४-६; रो-३,७४७; भा-६/७) मृदङ्ग्वादनम् शिल्पम् अस्य मार्दङ्गिकः ।

(पा-४,४.५५; अकि-२,३३२.४-६; रो-३,७४७; भा-७/७) पैठरिकः ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-१/१६) किमर्थम् इदम् उच्यते ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-२/१६) न कक् एव उच्यते का रूपसिद्धिः ॒ शाक्तीकः याष्टीकः इति ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-३/१६) शक्तियष्ट्योः ईकारः अन्ते कशब्दः च प्रत्ययः ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-४/१६) न सिध्यति ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-५/१६) विभाषा च एव हि शक्तियष्ट्योः ईकारः अपि च के अणः इति ह्रस्वत्वम् प्रसज्येत ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-६/१६) एवम् तर्हि इकक् उच्यते ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-७/१६) का रूपसिद्धिः ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-८/१६) शाक्तीकः याष्टीकः इति ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-९/१६) सवर्णदीर्घत्वेन सिद्धम् ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-१०/१६) न सिध्यति ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-११/१६) यस्य इति च लोपः प्राप्नोति ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-१२/१६) इकारोच्चारणसामार्थ्यात् न भविष्यति ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-१३/१६) यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-१४/१६) यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-१५/१६) यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।

(पा-४,४.५९; अकि-२,३३२.८-१५; रो-३,७४८; भा-१६/१६) यस्य इति लोपम् च प्रति इकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य तु निमित्तम् एव ।

(पा-४,४.६०; अकि-२,३३२.१७-१९; रो-३,७४९; भा-१/७) किम् यस्य अस्ति मतिः सः आस्तिकः ।

(पा-४,४.६०; अकि-२,३३२.१७-१९; रो-३,७४९; भा-२/७) किम् च अतः ।

(पा-४,४.६०; अकि-२,३३२.१७-१९; रो-३,७४९; भा-३/७) चौरे अपि प्राप्नोति ।

(पा-४,४.६०; अकि-२,३३२.१७-१९; रो-३,७४९; भा-४/७) एवम् तर्हि इतिलोपः अत्र द्रष्टव्यः ।

(पा-४,४.६०; अकि-२,३३२.१७-१९; रो-३,७४९; भा-५/७) अस्ति इति अस्य मतिः आस्तिकः ।

(पा-४,४.६०; अकि-२,३३२.१७-१९; रो-३,७४९; भा-६/७) न अस्ति इति अस्य मतिः नास्तिकः ।

(पा-४,४.६०; अकि-२,३३२.१७-१९; रो-३,७४९; भा-७/७) दिष्टम् इति अस्य मतिः दैष्टिकः ।

(पा-४,४.६२; अकि-२,३३२.२१-३३३.२; रो-३,७४९; भा-१/६) किम् यस्य छत्रधारणम् शीलम् सः छात्रः ।

(पा-४,४.६२; अकि-२,३३२.२१-३३३.२; रो-३,७४९; भा-२/६) किम् च अतः ।

(पा-४,४.६२; अकि-२,३३२.२१-३३३.२; रो-३,७४९; भा-३/६) राजपुरुषे प्राप्नोति ।

(पा-४,४.६२; अकि-२,३३२.२१-३३३.२; रो-३,७४९; भा-४/६) एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः. छत्रम् इव छत्रम् ।

(पा-४,४.६२; अकि-२,३३२.२१-३३३.२; रो-३,७४९; भा-५/६) गुरुः छत्रम् ।

(पा-४,४.६२; अकि-२,३३२.२१-३३३.२; रो-३,७४९; भा-६/६) गुरुणा शिष्यः छत्रवत् छाद्यः शिष्येण च गुरुः छत्रवत् परिपाल्यः ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-१/१२) हितम् भक्षाः इति चतुर्थीनिर्देशः ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-२/१२) हितम् भक्षाः इति चतुर्थीनिर्देशः कर्तव्यः ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-३/१२) इतरथा हि अनिर्देशः ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-४/१२) इतरथा हि निर्देशः न भवति ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-५/१२) हितशब्देन च योगे चतुर्थी विधीयते ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-६/१२) सा प्राप्नोति ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-७/१२) सः तर्हि चतुर्थीनिर्देशः कर्तव्यः ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-८/१२) न कर्तव्यः ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-९/१२) एवम् वक्ष्यामि ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-१०/१२) हितम् भक्षाः तस्मै ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-११/१२) ततः दीयते नियुक्तम् ।

(पा-४,४.६५; अकि-२,३३३.४-९; रो-३,७५०; भा-१२/१२) तत् अस्मै इति ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१/१८) वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानानर्थक्यम् विहितत्वात् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-२/१८) वहत् इति अभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानम् अनर्थकम् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-३/१८) किम् कारणम् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-४/१८) विहितत्वात् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-५/१८) विहितः अत्र प्रत्ययः तस्य इदम् इति ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-६/१८) शब्दभेदात् अविधानम् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-७/१८) शब्दभेदात् अविधिः सः भवति ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-८/१८) अन्यः हि शब्दः रथम् वहति अन्यः हि रथस्य वोढा इति ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-९/१८) शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयत्वात् प्रत्ययविधानस्य अर्थसामान्यात् सिद्धम् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१०/१८) शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयः प्रत्ययविधिः ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-११/१८) सः एव अर्थ रथम् वहति सः एव रथस्य वोढा इति ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१२/१८) तत्र अर्थसामान्यात् सिद्धम् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१३/१८) इदम् तर्हि प्रयोजनम् ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१४/१८) यः द्वौ रथौ वहति सः द्विरथ्यः ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१५/१८) यः द्वयोः रथयोः वोढा सः द्विरथः ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१६/१८) तेन सति लुक् भवति ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१७/१८) अनेन सति कस्मात् न भवति ।

(पा-४,४.७६; अकि-२,३३३.११-२२; रो-३,७५०-७५१; भा-१८/१८) प्राक् दीव्यतः इति उच्यते ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-१/१२) किम् निपात्यते ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-२/१२) जनन्याः जनीभावः निपात्यते यत् च प्रत्ययः ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-३/१२) जन्याः इति निपातनानर्थक्यम् पञ्चमीनिर्देशात् ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-४/१२) जन्याः इति निपातनम् अनर्थकम् ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-५/१२) किम् कारणम् ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-६/१२) पञ्चमीनिर्देशात् ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-७/१२) जननीशब्दात् एषा पञ्चमी ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-८/१२) इदम् तर्हि प्रयोजनम् ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-९/१२) सर्वकालः प्रत्ययविधिः यथा विज्ञायेत ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-१०/१२) जनीम् वहन्ति जन्याः ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-११/१२) जनीम् वोढारः जन्याः ।

(पा-४,४.८२; अकि-२,३३४.२-६; रो-३,७५१-७५२; भा-१२/१२) जनीम् अवाक्षुः जन्याः इति ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-१/११) विध्यति अकरणेन ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-२/११) विध्यति अकरणेन इति वक्तव्यम् ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-३/११) इतरथा ह अतिप्रसङ्गः ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-४/११) अधनुषा इति उच्यमाने अत्रिप्रसङ्गः भवति ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-५/११) इह अपि प्रसज्येत ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-६/११) शर्कराभिः विध्यति ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-७/११) कण्टकैः विध्यति इति ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-८/११) तत् तर्हि वक्तव्यम् ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-९/११) न वक्तव्यम् ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-१०/११) कस्मात् न भवति शर्कराभिः विध्यति कण्टकैः विध्यति इति ।

(पा-४,४.८३; अकि-२,३३४.८-१३; रो-३,७५२; भा-११/११) अनभिधानात् ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-१/१०) गृहपतिना संयुक्ते इति उच्यते ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-२/१०) तत्र दक्षिणाग्नौ अपि प्राप्नोति ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-३/१०) दक्षिणाग्निः अपि गृहपतिना संयुज्यते ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-४/१०) एवम् तर्हि गृहपतिना संयुक्ते इति उच्यते सर्वः च गृहपतिना संयुक्तः ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-५/१०) तत्र प्रकर्षगतिः भविष्यति ॒ साधीयः यः गृहपतिना संयुक्तः इति ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-६/१०) कः च साधीयः ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-७/१०) यस्मिन् पत्नीसंयाज्याः क्रियन्ते ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-८/१०) अथ वा गृहपतिः नाम मन्त्रः ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-९/१०) सः यस्मिन् उच्यते ।

(पा-४,४.९०; अकि-२,३३४.१५-१९; रो-३,७५२-७५३; भा-१०/१०) अथ वा सञ्ज्ञायाम् इति वर्तते ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-१/९) मासतन्वोः अनन्तरार्थे वा ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-२/९) मासतन्वोः अनन्तरार्थे वा इति वक्तव्यम् ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-३/९) मधु अस्मिन् असिति मधु अनन्तरम् वा मधव्यः माधवः ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-४/९) लुगकारेकाररेफाः च ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-५/९) लुगकारेकाररेफाः च प्रत्ययाः वक्तव्याः ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-६/९) लुक् मधुः तपः नभः ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-७/९) अकारः इषः ऊर्जः ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-८/९) इकारः शुचिः ।

(पा-४,४.१२८; अकि-२,३३४.२१-३३५.३; रो-३,७५३; भा-९/९) रेफः च शुक्रः ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१/१८) अक्षरसमूहे छन्दसः उपसङ्ख्यानम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-२/१८) अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-३/१८) ओ श्रावय इति चतुरक्षरम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-४/१८) अस्तु श्रौषट् इति चतुरक्षरम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-५/१८) ये यजामहे इति पञ्चाक्षरम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-६/१८) यज इति द्व्यक्षरम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-७/१८) द्व्यक्षरः वषट्कारः ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-८/१८) एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-९/१८) छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१०/१८) छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-११/१८) हस्तौ पृणस्व बहुविः वसव्यैः ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१२/१८) अग्निरीशेवसव्यस्य ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१३/१८) अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१४/१८) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१५/१८) न कर्तव्यम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१६/१८) स्वार्थविज्ञानात् सिद्धम् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१७/१८) स्वार्थविज्ञानात् सिद्धम् एतत् ।

(पा-४,४.१४०; अकि-२,३३५.५-१५; रो-३,७५३-७५४; भा-१८/१८) वसवः एव वसव्याः पान्तु ।