व्याकरणमहाभाष्य खण्ड 52

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१/४१) प्राग्वचनम् किमर्थम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२/४१) प्राग्वचने उक्तम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३/४१) किम् उक्तम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-४/४१) तत्र तावत् उक्तम् प्राग्वचनम् सकृद्विधानार्थम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-५/४१) अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-६/४१) इह अपि प्राग्वचनम् क्रियते सकृद्विधानार्थम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-७/४१) सकृत् विहितः प्रत्ययः विहितः यथा स्यात् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-८/४१) योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-९/४१) न एतत् अस्ति प्रयोजनम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१०/४१) अधिकारात् अपि एतत् सिद्धम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-११/४१) अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१२/४१) अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१३/४१) अधिकारात् सिद्धम् इति चेत् अपवादविषये छः प्राप्नोति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१४/४१) उगवादिभ्यः यत् छः च इति छः अपि प्राप्नोति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१५/४१) तस्मात् प्राग्वचनम् कर्तव्यम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१६/४१) अथ क्रिय्माणे अपि प्राग्वचने कथम् इदम् विज्ञायते ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१७/४१) प्राक् क्रीतात् याः प्रकृतयः आहोस्वित् प्राक् क्रीतात् ये अर्थाः इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१८/४१) किम् च अतः ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-१९/४१) यदि विज्ञायते प्राक् क्रीतात् याः प्रकृतयः इति सः एव दोषः अपवादविषये अपि छप्रसङ्गः इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२०/४१) अथ विज्ञायते प्राक् क्रीतात् ये अर्थाः इति न दोषः भवति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२१/४१) समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधिष्यते ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२२/४१) यथा न दोषः तथा अस्तु. प्राक् क्रीतात् ये अर्थाः इति विज्ञायते ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२३/४१) कुतः एतत् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२४/४१) तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२५/४१) इतरथा हि बह्व्यः तत्र प्रकृतयः पठ्यन्ते ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२६/४१) ततः याम् काम् चित् एवम् प्रकृतिम् अवधित्वेन उपाददीत ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२७/४१) अथ वा पुनः अस्तु प्राक् क्रीतात् याः प्रकृतयः इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२८/४१) ननु च उक्तम् अपवादविषये अपि छप्रसङ्गः इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-२९/४१) न वा क्व चित् वावचनात् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३०/४१) न वा एषः दोषः ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३१/४१) किम् कारणम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३२/४१) क्व चित् वावचनात् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३३/४१) यत् अयम् क्वच् वावचनम् करोति विभाषा हविरपूपादिभ्यः इति तत् ज्ञापयति न अपवादविषये छः भवति इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३४/४१) यदि एवम् न अर्थः प्राग्वचनेन ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३५/४१) अधिकारात् सिद्धम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३६/४१) ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३७/४१) परिहृतम् एतत् ण वा क्व चित् वावचनात् इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३८/४१) अथ किमर्थम् इयान् अवधिः गृह्यते न प्राक् ठञः इति एव उच्येत ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-३९/४१) एतत् ज्ञापयति आचार्यः अर्थेषु अयम् भवति इति ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-४०/४१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,१.१; अकि-२,३३६.२-२३; रो-४,३-६; भा-४१/४१) समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधते ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१/३५) यञ्ञ्यौ अञः पूर्वविप्रतिषिद्धम् सनङ्गूपानहौ प्रयोजनम् । यञ्ञ्यौ भवतः अञः पूर्वविप्रतिषेधेन ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२/३५) किम् प्रयोजनम् षनङ्गूपानहौ प्रयोजनम् ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-३/३५) यतः अवकाशः शङ्कव्यम् दारु पिचव्यः कार्पासः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-४/३५) अञः अवकाशः वार्ध्रम् वारत्रम् ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-५/३५) सनङ्गुः नाम चर्मविकारः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-६/३५) तस्मात् उभयम् प्राप्नोति ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-७/३५) सनङ्गव्यम् चर्म ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-८/३५) ञ्यस्य अवकाशः औपानह्यम् दारु ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-९/३५) अञः सः एव ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१०/३५) उपानत् नाम चर्मविकारः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-११/३५) तस्मात् उभयम् प्राप्नोति ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१२/३५) औपानह्यम् चर्म ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१३/३५) ढञ् च । ढञ् च भवति अञः पूर्वविप्रतिषेधेन ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१४/३५) ढञः अवकाशः छादिषेयम् तृणम् ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१५/३५) अञः सः एव ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१६/३५) छदिः नाम् चर्मविकारः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१७/३५) तस्मात् उभयम् प्राप्नोति ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१८/३५) छादिषेयम् चर्म ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-१९/३५) ढञ् भवति पूर्वविप्रतिषेधेन ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२०/३५) हविरपूपादिभ्यः विभाषायाः यत् । हविरपूपादिभ्यः विभाषायाः यत् भवति पूर्वविप्रतिषेधेन ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२१/३५) हविरपूपादिभ्यः विभाषायाः अवकाशः आमिक्ष्यम् आमिक्षीयम् पुरोडाश्यम् पुरोडाशीयम् ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२२/३५) यतः सः एव ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२३/३५) इह उभयम् प्राप्नोति ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२४/३५) चरव्याः तण्डुलाः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२५/३५) यत् भवति पूर्वविप्रतिषेधेन ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२६/३५) अन्नविकारेभ्यः च । अन्नविकारेभ्यः च विभाषायाः यत् भवति पूर्वविप्रतिषेधेन ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२७/३५) अन्नविकारेभ्यः च विभाषायाः अवकाशः सुर्याः सुरीयाः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२८/३५) यतः सः एव ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-२९/३५) इह उभयम् प्राप्नोति ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-३०/३५) सक्तव्याः धानाः इति ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-३१/३५) यत् भवति पूर्वविप्रतिषेधेन ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-३२/३५) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-३३/३५) न वक्तव्यः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-३४/३५) इष्टवाची परशब्दः ।

(पा-५,१.२.१; अकि-२,३३७.२-२१; रो-४,६-७; भा-३५/३५) विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१/३३) अयम् नाभिशब्दः गवादिषु पठ्यते. तत्र एव उच्यते नाभि नभम् च इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२/३३) तत्र चोद्यते ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-३/३३) नाभेः नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् । नाभेः नभभावे प्रत्ययानुपपत्तिः ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-४/३३) किम् कारणम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-५/३३) प्रकृत्यभावात् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-६/३३) विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् न च नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-७/३३) यत् एव हि तन्मण्डलचक्राणाम् मण्डलचक्रम् तत् नभ्यम् इति उच्यते ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-८/३३) सिद्धम् तु शाखादिषु वचनात् ह्रस्वत्वम् च ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-९/३३) सिद्धम् एतत् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१०/३३) कथम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-११/३३) शाखादिषु नाभिशब्दः पठितव्यः ह्रस्वत्वम् च वक्तव्यम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१२/३३) नाभिः इव नभ्यम् इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१३/३३) कः पुनः इह उपमार्थः ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१४/३३) यत् तत् अक्षधारणम् परिवर्तनम् वा ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१५/३३) अपरः आह ॒ यत् तत् अञ्जनोपाञ्जनम् इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१६/३३) न तर्हि इदानीम् इदम् वक्तव्यम् नाभि नभम् च इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१७/३३) वक्तव्यम् च ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१८/३३) किम् प्रयोजनम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-१९/३३) यानि एतानि अरवन्ति चक्राणि तदर्थम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२०/३३) तत्र नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२१/३३) यानि च अपि अनरवन्ति चक्राणि तदर्थम् अपि इदम् वक्तव्यम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२२/३३) दृश्यते हि समुदायात् अवयवस्य पृथक्त्वम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२३/३३) तत् यथा वार्क्षी शाखा इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२४/३३) गुणान्तरयोगात् च विकारशब्दः दृश्यते ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२५/३३) तत् यथा वैभीतकः यूपः खादिरम् चषालम् इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२६/३३) तत्र अवयवसमुदाये वृत्तिः भविष्यति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२७/३३) अथ यः नभ्यार्थः वृक्षः कथम् तत्र भवितव्यम् ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२८/३३) नभ्यः वृक्षः नभ्या शिंशिपा इति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-२९/३३) नभ्यात् तु लुग्वचनम् । नभ्यात् तु लुक् वक्तव्यः ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-३०/३३) सः तर्हि वक्तव्यः ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-३१/३३) न वक्तव्यः ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-३२/३३) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-५,१.२.२; अकि-२,३३७.२२-३३८.१५; रो-४,७-१०; भा-३३/३३) नभ्यार्थः नभ्यः इति ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-१/१०) अयम् योगः शक्यः अवक्तुम् ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-२/१०) कथम् अशीतिशतम् कम्बल्यम् इति ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-३/१०) निपातनात् एतत् सिद्धम् ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-४/१०) किम् निपातनम् ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-५/१०) अपरिमाणविस्ताचितकम्बलेभ्यः न तद्धितलुकि इति ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-६/१०) इदम् तर्हि प्रयोजनम् सञ्ज्ञायाम् इति वक्ष्यामि इति ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-७/१०) इह मा भूत् ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-८/१०) कम्बलीयाः ऊर्णाः ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-९/१०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,१.३; अकि-२,३३८.१७-२१; रो-४,१०; भा-१०/१०) परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बलग्रहणम् क्रियते परिमाणार्थम् परिमाणम् च सञ्ज्ञा एव ।

(पा-५,१.४; अकि-२,३३८.२३-३३९.२; रो-४,१०-११; भा-१/७) किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

(पा-५,१.४; अकि-२,३३८.२३-३३९.२; रो-४,१०-११; भा-२/७) कथम् च प्राप्ते कथम् वा अप्राप्ते ।

(पा-५,१.४; अकि-२,३३८.२३-३३९.२; रो-४,१०-११; भा-३/७) उवर्णान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।

(पा-५,१.४; अकि-२,३३८.२३-३३९.२; रो-४,१०-११; भा-४/७) हविरपूपादिभ्यः अप्राप्ते ।

(पा-५,१.४; अकि-२,३३८.२३-३३९.२; रो-४,१०-११; भा-५/७) हविरपूपादिभ्यः अप्राप्ते विभाषा ।

(पा-५,१.४; अकि-२,३३८.२३-३३९.२; रो-४,१०-११; भा-६/७) प्राप्ते नित्यः विधिः ।

(पा-५,१.४; अकि-२,३३८.२३-३३९.२; रो-४,१०-११; भा-७/७) चरव्याः तण्डुलाः ।

(पा-५,१.६; अकि-२,३३९.४-५; रो-४,११; भा-१/२) यत्प्रकरणे रथात् च । यत्प्रकरणे रथात् च उपसङ्ख्यानम् ।

(पा-५,१.६; अकि-२,३३९.४-५; रो-४,११; भा-२/२) रथाय हिता रथ्या ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१/२२) वृषशब्दः अयम् अकारान्तः गृह्यते ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-२/२२) वृषन्शब्दः अपि नकारान्तः अस्ति ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-३/२२) तस्य उपसङ्ख्यानम् कर्तव्यम् वृषशब्दः च आदेशः वक्तव्यः वृष्णे हितम् इति विगृह्य वृष्यम् इति एव यथा स्यात् ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-४/२२) तथा ब्रह्मन्शब्दः नकारान्तः गृह्यते ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-५/२२) ब्राह्मणशब्दः च अकारान्तः अस्ति ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-६/२२) तस्य उपसङ्ख्यानम् कर्तव्यम् ब्रह्मन्शब्दः च आदेशः वक्तव्यः ब्राह्मणेभ्यः हितम् इति विगृह्य ब्रह्मण्यम् इति एव यथा स्यात् ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-७/२२) तत् तर्हि वक्तव्यम् ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-८/२२) न वक्तव्यम् ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-९/२२) समानार्थौ एतौ वृषशब्दः वृषन्शब्दः च ब्रह्मन्शब्दः ब्राह्मणशब्दः च ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१०/२२) आतः च समानार्थौ ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-११/२२) एवम् हि आह ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१२/२२) कुतः नु चरसि ब्रह्मन् ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१३/२२) कुतः नु चरसि ब्राह्मण इति ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१४/२२) तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१५/२२) तत् यथा ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१६/२२) अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१७/२२) एवम् इह अपि वृषाय हितम् इति विगृह्य वृष्यम् इति भविष्यति ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१८/२२) वृष्णे हितम् इति विगृह्य वाक्यम् एव ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-१९/२२) तथा ब्रह्मणे हितम् इति विगृह्य ब्रह्मण्यम् इति भविष्यति ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-२०/२२) ब्राह्मणेभ्यः हितम् इति विगृह्य वाक्यम् एव भविष्यति ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-२१/२२) त्रैशब्द्यम् च इह साध्यम् ।

(पा-५,१.७; अकि-२,३३९.७-१८; रो-४,११-१२; भा-२२/२२) तत् च एवम् सति सिद्धम् भवति ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१/३३) भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् । भोगोत्तरपदात् खविधाने अनिर्देशः ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२/३३) अगमकः निर्देशः अनिर्देशः ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-३/३३) किम् कारणम् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-४/३३) पूर्वपदार्थहितत्वात् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-५/३३) उत्तरपदार्थप्रधानः तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्ययः इष्यते ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-६/३३) पितृभोगाय हिते प्राप्नोति पित्रे च एव हिते इष्यते ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-७/३३) एवम् तर्हि भोगीनर्प्रत्ययः विज्ञास्यते ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-८/३३) भोगीनर् इति चेत् वावचनम् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-९/३३) भोगीनर् इति यदि प्रत्ययः विधीयते वावचनम् कर्तव्यम् मात्रीयः पित्रीयः इति अपि यथा स्यात् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१०/३३) राजाचार्याभ्याम् नित्यम् । राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-११/३३) राजभोगीनः ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१२/३३) आचार्यात् अणत्वम् च ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१३/३३) आचार्यभोगीनः ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१४/३३) किम् भोगीनर्प्रत्ययः विधीयते इति अतः राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१५/३३) न इति आह ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१६/३३) सर्वथा राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१७/३३) इह च ग्रामणिभोगीनः सेनानिभोगीनः इति उत्तरपदे इति ह्रस्वत्वम् न प्राप्नोति ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१८/३३) इह च अब्भोगिनः इति अपः भि इति तत्वम् प्राप्नोति ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-१९/३३) सूत्रम् च भिद्यते ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२०/३३) यथान्यासम् एव अस्तु ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२१/३३) ननु च उक्तम् भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् इति ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२२/३३) न एषः दोषः ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२३/३३) अयम् भोगशब्दः अस्ति एव द्रव्यपदार्थकः ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२४/३३) तत् यथा भोगवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्नानि च वर्तन्ते ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२५/३३) अस्ति क्रियापदार्थकः ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२६/३३) तत् यथा भोगवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् स्नानादीः क्रियाः अनुभवति ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२७/३३) तत् यः क्रियापदार्थकः तस्य अयम् ग्रहणम् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२८/३३) यः च पितृस्थाभ्यः क्रियाभ्यः हितः सम्बन्धात् असौ पित्रे अपि हितः भवति ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-२९/३३) यदि सम्बन्धात् अस्तु द्रव्यपदार्थकस्य अपि ग्रहणम् ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-३०/३३) यः अपि हि पितृद्रव्याय हितः सम्बन्धात् असौ पित्रे हितः भवति ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-३१/३३) अथ वा भोगशब्दः शरीरवाची अपि द्र्श्यते ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-३२/३३) तत् यथा अहिः इव भोगैः पर्येति बाहुम् इति. अहिः इव शरीरैः इति गम्यते ।

(पा-५,१.९.१; अकि-२,३३९.२०-३४०.१८; रो-४,१२-१४; भा-३३/३३) एवम् पितृशरीराय हितः पितृभोगीणः इति ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१/१७) खविधाने पञ्चजनात् उपसङ्ख्यानम् । खविधाने पञ्चजनात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-२/१७) पञ्चजनाय हितः पञ्चजनीनः ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-३/१७) समानाधिकरणे इति वक्तव्यम् ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-४/१७) यः हि पञ्चानाम् जनाय हितः पञ्चजनीयः सः भवति ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-५/१७) सर्वजनात् ठञ् च । सर्वजनात् ठञ् वक्तव्यः खः च ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-६/१७) सर्वजनाय हितः सार्वजनिकः सार्वजनीनः ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-७/१७) समानाधिकरणे इति च वक्तव्यम् ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-८/१७) यः हि सर्वेषाम् जनाय हितः सर्वजनीयः सः ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-९/१७) महाजनात् नित्यम् । महाजनात् नित्यम् ठञ् वक्तव्यः ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१०/१७) महाजनाय हितः माहाजनिकः ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-११/१७) तत्पुरुषे इति वक्तव्यम् बहुव्रीहौ मा भूत् इति ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१२/१७) महान् जनः अस्य महाजनः महाजनाय हितः महाजनीयः ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१३/१७) यदि तर्हि अतिप्रसङ्गाः सन्ति इति उपाधिः क्रियते आद्यन्यासे अपि उपाधिः कर्तव्यः ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१४/१७) आत्मन्विश्वजने समानाधिकरणे इति वक्तव्यम् ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१५/१७) यः हिस् विश्वेषाम् जनाय हितः विश्वजनीयः सः भवति ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१६/१७) अथ मतम् एतत् अनभिधानात् आद्यन्यासे न भविष्यति इति इह अपि न अर्थः उपाधिग्रहणेन ।

(पा-५,१.९.२; अकि-२,३४०.१९-३४१.६; रो-४,१४-१५; भा-१७/१७) इह अपि अनभिधानात् न भविष्यति ।

(पा-५,१.१०; अकि-२,३४१.८-१३; रो-४, १५-१६; भा-१/५) सर्वात् णस्य वावचनम् । सर्वात् णस्य वा इति वक्तव्यम् ।

(पा-५,१.१०; अकि-२,३४१.८-१३; रो-४, १५-१६; भा-२/५) सार्वः सर्वीयः ।

(पा-५,१.१०; अकि-२,३४१.८-१३; रो-४, १५-१६; भा-३/५) पुरुषात् वधे । पुरुषात् वधे इति वक्तव्यम् ॒ पौरुषेयः वधः ।

(पा-५,१.१०; अकि-२,३४१.८-१३; रो-४, १५-१६; भा-४/५) अत्यल्पम् इदम् उच्यते ॒ पुरुषात् वधे इति ।

(पा-५,१.१०; अकि-२,३४१.८-१३; रो-४, १५-१६; भा-५/५) पुरुषात् वधविकारसमूहतेनकृतेषु इति वक्तव्यम् ॒ पौरुषेयः वधः , पौरुषेयः विकारः , पौरुषेयः समूहः , तेन कृतम् पौरुषेयम् ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-१/९) तदर्थम् इति कृत्यनामभ्यः ठञ् ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-२/९) तदर्थम् इति कृत्यनामभ्यः ठञ् वक्तव्यः ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-३/९) इन्द्रमहार्थम् ऐन्द्रमहिहम् गाङ्गामहिहम् काशेरुयज्ञिकम् ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-४/९) न वा प्रयोजनेन कृतत्वात् ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-५/९) न वा वक्तव्यम् ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-६/९) किम् कारणम् ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-७/९) प्रयोजनेन कृतत्वात् ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-८/९) यत् हि इन्द्रमहार्थम् इन्द्रमहः तस्य प्रयोजनम् भवति ।

(पा-५,१.१२; अकि-२,३४१.१५-२०; रो-४,१६; भा-९/९) तत्र प्रयोजनम् इति एव सिद्धम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१/४६) उपध्यर्थम् इति प्रत्ययानुपपत्तिः । उपध्यर्थम् इति प्रत्ययस्य इह अनुपपत्तिः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२/४६) किम् कारणम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३/४६) उपध्यभावात् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४/४६) विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-५/४६) न च उपधिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-६/४६) यत् हि तत् रथाङ्गम् तत् औपधेयम् इति उच्यते ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-७/४६) सिद्धम् तु कृदन्तस्य स्वार्थे अञ्वचनात् । सिद्धम् एतत् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-८/४६) कथम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-९/४६) कृदन्तस्य स्वार्थे अञ् वक्तव्यः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१०/४६) उपधीयते उपधेयम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-११/४६) उपधेयम् एव औपधेयम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१२/४६) सिध्यति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१३/४६) सूत्रम् तर्हि भिद्यते ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१४/४६) यथान्यासम् एव अस्तु ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१५/४६) ननु च उक्तम् उपध्यर्थम् इति प्रत्ययानुपपत्तिः इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१६/४६) न एतत् अस्ति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१७/४६) अयम् उपधिशब्दः अस्ति एव कर्मसाधनः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१८/४६) उपधीयते उपधिः इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-१९/४६) अस्ति भावसाधनः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२०/४६) उपधानम् उपधिः इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२१/४६) तत् यः भावसाधनः तस्य इदम् ग्रहणम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२२/४६) एवम् अपि न सिध्यति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२३/४६) किम् कारणम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२४/४६) विकृतेः प्रकृतौ इति वर्तते ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२५/४६) प्रकृतिविकृतिग्रहणम् निवर्तिष्यते ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२६/४६) तत् च अवश्यम् निवर्त्यम् इहार्थम् उत्तराथम् च ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२७/४६) इहार्थम् तावत् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२८/४६) बालेयाः तण्डुलाः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-२९/४६) उत्तरार्थम् ऋषभोपानहोः ञ्यः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३०/४६) आर्षभ्यः वत्सः इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३१/४६) अथ तदर्थम् इति अनुवर्तते उताहो न ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३२/४६) किम् च अर्थः अनुवृत्त्या ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३३/४६) बाढम् अर्थः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३४/४६) तत् अस्य तत् अस्मिन् स्यात् इति तदर्थे यथा स्यात् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३५/४६) इह मा भूत् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३६/४६) प्रासादः देवदत्तस्य स्यात् इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३७/४६) प्राकारः नगरस्य स्यात् इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३८/४६) यदि तदर्थम् इति अनुवर्तते ऋषभोपानहोः ञ्यः ऋषभार्थः घासः उपानदर्थः तिलकल्कः इति अत्र अपि प्राप्नोति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-३९/४६) एवम् तर्हि अनुवर्तते प्रकृतिविकृतिग्रहणम् ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४०/४६) ननु च उक्तम् बल्यृषभयोः न सिध्यति इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४१/४६) किम् पुनः भवान् विकारम् मत्वा आह बल्यृषभयोः न सिध्यति इति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४२/४६) यदि तावत् यः प्रकृत्युपमर्देन भवति सः विकारः वैभीतकः यूपः खादिरम् चषालम् इति न सिध्यति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४३/४६) अथ मतम् एतत् एव गुणान्तरयुक्तम् विकारः इति बल्यृषभयोः अपि सिद्धम् भवति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४४/४६) गुणन्तरयुक्ताः हि तण्डुलाः बालेयाः गुणान्तरयुक्तः च वत्सः आर्षभः ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४५/४६) औपधेयम् तु न सिध्यति ।

(पा-५,१.१३; अकि-२,३४१.२२-३४२.२०; रो-४,१७-१९; भा-४६/४६) वचनात् स्वार्थिकः भविष्यति ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१/१९) स्याद्ग्रहणम् किमर्थम् ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-२/१९) इह मा भूत् ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-३/१९) प्रासादः देवदत्तस्य प्राकारः नगरस्य इति ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-४/१९) अथ क्रियमाणे अपि स्याद्ग्रहणे इह कस्मात् न भवति ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-५/१९) प्रासादः देवदत्तस्य स्यात् ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-६/१९) प्राकारः नगरस्य स्यात् इति ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-७/१९) शक्यार्थे लिङ् इति वक्तव्यम् ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-८/१९) न एवम् शक्यम् ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-९/१९) इदानीम् एव हि उक्तम् न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१०/१९) एवम् तर्हि इतिकरणः क्रियते ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-११/१९) ततः चेत् विवक्षा भवति ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१२/१९) विवक्षा च द्वयी ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१३/१९) अस्ति एव प्रायोक्त्री विवक्षा अस्ति लौकिकी ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१४/१९) प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून् स्निग्धान् श्लक्ष्णान् शब्दान् प्रयुङ्क्ते ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१५/१९) लौकिकी विवक्षा यत्र प्रायस्य सम्प्रत्ययः ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१६/१९) प्रायः इति लोकः व्यपदिश्यते ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१७/१९) न च प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१८/१९) यदि एवम् न अर्थः स्याद्ग्रहणेन ।

(पा-५,१.१६; अकि-२,३४२.२२-३४३.६; रो-४,१९-२१; भा-१९/१९) न हि प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१/३१) किमर्थम् सङ्ख्यायाः पृथग्ग्रहणम् क्रियते न सङ्ख्या अपि परिमाणम् एव तत्र परिमाणपर्युदासेन पर्युदासः भविष्यति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२/३१) एवम् तर्हि सिद्धे सति यत् सङ्ख्ययाः पृथग्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-३/३१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-४/३१) अपरिमाणबिस्ताचितकम्बएल्भ्यः न तद्धितलुकि इति द्वाभ्याम् शताभ्याम् क्रीता द्विशता त्रिशता परिमाणपर्युदासेन न भवति इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-५/३१) यदि एतत् ज्ञाप्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते परिमाणम् या सङ्ख्या इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-६/३१) इह च क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-७/३१) शतस्य विकारः शत्यः शतिकः ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-८/३१) साहस्रः इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-९/३१) यत् तावत् उच्यते तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१०/३१) न्यायसिद्धम् एव एतत् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-११/३१) भेदमात्रम् सङ्ख्या आह ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१२/३१) यत् च इषीकान्तम् यत् च अपरिमाणम् सर्वस्य सङ्ख्या भेदमात्रम् ब्रवीति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१३/३१) परिमाणम् तु सर्वतः ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१४/३१) सर्वतः मानम् इति च अतः परिमाणम् इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१५/३१) प्रस्थस्य च समानाकृतेः न कुतः चित् विशेषः गम्यते न च उन्मानतः न परिमाणतः न प्रमाणतः ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१६/३१) किम् पुनः उन्मानम् किम् परिमाणम् किम् प्रमाणम् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१७/३१) ऊर्ध्वमानम् किल उन्मानम् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१८/३१) ऊर्ध्वम् यत् मीयते तत् उन्मानम् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-१९/३१) परिमाणम् तु सर्वतः । सर्वतः मानम् इति च अतः परिमाणम् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२०/३१) कुत एतत् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२१/३१) परिः सर्वतोभावे वर्तते ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२२/३१) आयामः तु प्रमाणम् स्यात् । आयामविवक्षायाम् प्रमाणम् इति एतत् भवति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२३/३१) सङ्ख्या बाह्या तु सर्वतः ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२४/३१) आतः च सर्वतः सङ्ख्या बाह्या ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२५/३१) भेदभावम् ब्रवीति एषा न एषा मानम् कुतः चन । एवम् च कृत्वा सङ्ख्यायाः पृथग्ग्रहणम् क्रियते ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२६/३१) यत् अपि उच्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२७/३१) आह अयम् परिमाणम् या सङ्ख्या इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२८/३१) न च अस्ति सङ्ख्या परिमाणम् ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-२९/३१) तत्र वचनात् इयती विवक्षा भविष्यति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-३०/३१) यद् अपि उच्यते क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते इति ।

(पा-५,१.१९.१; अकि-२,३४३.८-३४४.१०; रो-४,२२-२५; भा-३१/३१) सङ्ख्यायाः इति च तत्र वक्तव्यम् ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१/४१) किम् पुनः इमे ठगादयः प्राक् अर्हात् भवन्ति आहोस्वित् सह अर्हेण ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२/४१) कः च अत्र विशेषः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३/४१) ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-४/४१) ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-५/४१) अर्हे ठगादयः विधेयाः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-६/४१) शतम् अर्हति शत्यः शतिकः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-७/४१) साहरः इति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-८/४१) वस्ने वसनात् सिद्धम् ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-९/४१) इह यः शतम् अर्हति शतम् तस्य वस्नः भवति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१०/४१) तत्र सः अस्य अंशवस्नभृतयः इति एव सिद्धम् ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-११/४१) वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१२/४१) वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१३/४१) मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१४/४१) तथा गुणानाम् परिप्रश्नः भवति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१५/४१) किम् अयम् ब्राह्मणः अर्हति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१६/४१) शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१७/४१) सन्तु तर्हि सहार्हेण ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१८/४१) आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः । आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः भवति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-१९/४१) भोजनम् अर्हति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२०/४१) पानम् अर्हति इति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२१/४१) किम् उच्यते भोजनादिषु अत्र्प्रसङ्गः इति यदा छेदादिभ्यः इति उच्यते ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२२/४१) अवश्यम् मांसौदनिकाद्यर्थम् योगविभागः कर्तव्यः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२३/४१) तत् अर्हति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२४/४१) ततः छेदादिभ्यः नित्यम् इति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२५/४१) तस्मिन् क्रियमाणे भोजनादिषु अत्र्प्रसङ्गः भवति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२६/४१) उक्तम् वा । किम् उक्तम् ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२७/४१) अनभिधानात् इति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२८/४१) अनभिधानात् भोजनादिषु अतिप्रसङ्गः न भवति [ऋ॒ भविष्यति] ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-२९/४१) अथ वा योगविभागः न करिष्यते ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३०/४१) कथम् मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३१/४१) अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३२/४१) अथ वा पुनः अस्तु प्राक् अर्हात् ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३३/४१) ननु च उक्तम् ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः इति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३४/४१) परिहृतम् एतत् वस्ने वचनात् सिद्धम् इति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३५/४१) ननु च उक्तम् वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३६/४१) मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३७/४१) तथा गुणानाम् परिप्रश्नः भवति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३८/४१) किम् अयम् ब्राह्मणः अर्हति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-३९/४१) शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-४०/४१) न एषः दोषः ।

(पा-५,१.१९.२; अकि-२,३४४.११-३४५.७; रो-४,२५-२७; भा-४१/४१) अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१/३३) असमासे इति किमर्थम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२/३३) परमनिष्केण क्रीतम् परमनैष्किकम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-३/३३) न एतत् अस्ति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-४/३३) निष्कशब्दात् प्रत्ययः विधीयते ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-५/३३) तत्र कः प्रसङ्गः यत् परमनिष्कशब्दात् स्यात् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-६/३३) न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-७/३३) तदन्तविधिना प्राप्नोति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-८/३३) ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-९/३३) निष्कादिषु असमासग्रहणम् ज्ञापकम् पूर्वत्र तदन्ताप्रतिषेधस्य । निष्कादिषु असमासग्रहणम् क्रियते ज्ञापकार्थम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१०/३३) किम् ज्ञाप्यम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-११/३३) पूर्वत्र तदन्त्विधेः प्रतिषेधः न भवति इति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१२/३३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१३/३३) प्राक् वतेः ठञ् इति अत्र तदन्तविधिः सिद्धः भवति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१४/३३) न एतत् अस्ति प्रयोजनम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१५/३३) ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१६/३३) न च ठञ्विधौ का चित् प्रकृतिः गृह्यते ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१७/३३) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१८/३३) आ अर्हात् अगोपुच्छसङ्ख्यापरिमाणात् ठक् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-१९/३३) परमगोपुच्छेन क्रीतम् पारमगोपुच्छिकम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२०/३३) अत्र तदन्तविधिः सिद्धः भवति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२१/३३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२२/३३) विधौ प्रतिषेधः प्रतिषेधः च अयम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२३/३३) एवम् तर्हि ज्ञापयति आचार्यः इतः उत्तरम् तदन्तविधेः प्रतिषेधः न भवति इति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२४/३३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२५/३३) पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२६/३३) अत्र तदन्तविधिः सिद्धः भवति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२७/३३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२८/३३) वक्ष्यति एतत् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-२९/३३) प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-३०/३३) पूर्वत्र एव तर्हि प्रयोजनम् ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-३१/३३) खलयवमाषतिलवृषब्रह्मणः च इति ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-३२/३३) कृष्णतिलेभ्यः हितः कृष्णतिल्यः ।

(पा-५,१.२०.१; अकि-२,३४५.९-२५; रो-४, २७-२९; भा-३३/३३) राजमाषेभ्यः हितम् राजमाष्यम् ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-१/८) प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-२/८) प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि कर्तव्यम् ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-३/८) पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-४/८) अलुकि इति किमर्थम् ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-५/८) द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-६/८) त्रिशूर्पम् ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-७/८) द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

(पा-५,१.२०.२; अकि-२,३४६.१-४; रो-४,२९-३०; भा-८/८) त्रैशौर्पिकम् ।

(पा-५,१.२१; अकि-२,३४६.६-८; रो-४,३०-३१; भा-१/५) शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः ।

(पा-५,१.२१; अकि-२,३४६.६-८; रो-४,३०-३१; भा-२/५) शतप्रतिषेधे अन्यशतत्वे प्रतिषेधः न भवति इति वक्तव्यम्. इह मा भूत् ।

(पा-५,१.२१; अकि-२,३४६.६-८; रो-४,३०-३१; भा-३/५) शतेन क्रीतम् शत्यम् शाटकशतम् इति ।

(पा-५,१.२१; अकि-२,३४६.६-८; रो-४,३०-३१; भा-४/५) अन्यशतत्वे इति किम् ।

(पा-५,१.२१; अकि-२,३४६.६-८; रो-४,३०-३१; भा-५/५) शतकम् निदानम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१/२०) डतेः च इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-२/२०) कतिभिः क्रीतम् कतिकम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-३/२०) किम् पुनः कारणम् न सिध्यति ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-४/२०) त्यन्तायाः न इति प्रतिषेधः प्राप्नोति ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-५/२०) तिप्रतिषेधात् डतिग्रहणम् इति चेत् अर्थवद्ग्रहणात् सिद्धम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-६/२०) अर्थवतः तिशब्दस्य ग्रहणम् न च डतेः तिशब्दः अर्थवान् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-७/२०) न एषा परिभाषा इह शक्या विज्ञातुम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-८/२०) न हि केवलेन प्रत्ययेन अर्थः गम्यते ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-९/२०) केन तर्हि ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१०/२०) सप्रकृतिकेन ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-११/२०) क्व तर्हि एषा परिभाषा भवति ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१२/२०) यानि एतानि शब्दसङ्घातग्रहणानि ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१३/२०) तत् तर्हि वक्तव्यम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१४/२०) न वक्तव्यम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१५/२०) अर्थवद्ग्रहणात् सिद्धम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१६/२०) ननु च उक्तम् न एषा परिभाषा इह शक्या विज्ञातुम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१७/२०) न हि केवलेन प्रत्ययेन अर्थः गम्यते इति ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१८/२०) केवलेन अपि प्रत्ययेन अर्थः गम्यते ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-१९/२०) कथम् ।

(पा-५,१.२२; अकि-२,३४६.१०-१८; रो-४,३१-३२; भा-२०/२०) उक्तम् अन्वयव्यतिरेकाभ्याम् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१/२०) कस्य अयम् इट् विधीयते ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-२/२०) कनः इति आह ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-३/२०) तत् कनः ग्रहणम् कर्तव्यम् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-४/२०) अक्रियमाणे हि कनः ग्रहणे प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-५/२०) टित्करणसामर्थ्यात् आदिः भविष्यति ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-६/२०) अस्ति अन्यत् टित्करणे प्रयोजनम् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-७/२०) टितः इति ईकारः यथा स्यात् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-८/२०) अकारान्तप्रकरणे ईकारः न च एषः अकारान्तः ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-९/२०) एवम् अपि कुतः एतत् टित्करणसामर्थ्यात् आदिः भविष्यति न पुनः अकारान्तप्रकरणे सति अनकारान्तात् अपि ईकारः स्यात् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१०/२०) तस्मात् कणः ग्रहणम् कर्तव्यम् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-११/२०) न कर्तव्यम् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१२/२०) प्रकृतम् अनुवर्तते ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१३/२०) क्व प्रकृतम् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१४/२०) सङ्ख्यायाः अतिशदन्तायाः कन् इति ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१५/२०) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१६/२०) वतोः इति एषा पञ्चमी कन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१७/२०) प्रत्ययविधिः अयम् ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१८/२०) न च प्रत्ययविधौ पञ्चम्याः प्रकल्पिकाः भवन्ति ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-१९/२०) न अयम् प्रत्ययविधिः ।

(पा-५,१.२३; अकि-२,३४६.२०-३४७.८; रो-४,३२-३३; भा-२०/२०) विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-१/१२) असञ्ज्ञायाम् इति किमर्थम् ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-२/१२) त्रिंशत्कः विंशत्कः ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-३/१२) कथम् च अत्र कन् भवति ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-४/१२) सङ्ख्यायाः कन् भवति इति ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-५/१२) अतिशदन्तायाः इति प्रतिषेधः प्राप्नोति ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-६/१२) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र कन् इति यत् अयम् विंशतिकात् खः इति प्रत्ययान्तनिपातनम् करोति ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-७/१२) विंशतेः एतत् ज्ञापकम् स्यात् ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-८/१२) न इति आह ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-९/१२) योगापेक्षम् ज्ञापकम् ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-१०/१२) अथ वा योगविभागः करिष्यते ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-११/१२) विंशतित्रिंशभ्याम् कन् भवति इति ।

(पा-५,१.२४; अकि-२,३४७.१०-१४; रो-४,३३-३४; भा-१२/१२) ततः ड्वुन् असञ्ज्ञायाम् इति ।

(पा-५,१.२५; अकि-२,३४७.१६-२०; रो-४,३४; भा-१/६) टिथन् अर्धात् च ।

(पा-५,१.२५; अकि-२,३४७.१६-२०; रो-४,३४; भा-२/६) टिथन् अर्धात् च इति वक्तव्यम् ।

(पा-५,१.२५; अकि-२,३४७.१६-२०; रो-४,३४; भा-३/६) अर्धिकः अर्धिकी ।

(पा-५,१.२५; अकि-२,३४७.१६-२०; रो-४,३४; भा-४/६) कार्षापणात् वा प्रतिः च ।

(पा-५,१.२५; अकि-२,३४७.१६-२०; रो-४,३४; भा-५/६) कार्षापणात् टिठन् वक्तव्यः वा च प्रतिः आदेशः वक्तव्यः ।

(पा-५,१.२५; अकि-२,३४७.१६-२०; रो-४,३४; भा-६/६) कार्षापणिकः कार्षापणिकी प्रतिकः प्रतिकी ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१/७१) द्विगोः लुकि उक्तम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२/७१) किम् उक्तम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३/७१) तत्र तावत् उक्तम् द्विगोः लुकि तन्निमित्तग्रहणम्. अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४/७१) इह अपि द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५/७१) द्विगोः निमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६/७१) इह मा भूत् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-७/७१) द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-८/७१) त्रिशूर्पम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-९/७१) द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१०/७१) त्रैशौर्पिकम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-११/७१) अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१२/७१) अर्थविशेषस्य असम्प्रत्यये अतन्निमित्तात् अपि वक्तव्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१३/७१) किम् प्रयोजनम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१४/७१) द्वयोः शूर्पयोः समाहारः द्विशूर्पी ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१५/७१) द्विशूर्प्या क्रीतम् इति विगृह्य द्विशूर्पम् इति एव यथा स्यात् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१६/७१) अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१७/७१) तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१८/७१) किम् च अतः ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-१९/७१) यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२०/७१) द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२१/७१) त्रिशूर्पम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२२/७१) द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२३/७१) त्रैशौर्पिकम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२४/७१) अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२५/७१) यथ न दोषः तथा अस्तु ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२६/७१) सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२७/७१) कुतः एतत् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२८/७१) यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-२९/७१) तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३०/७१) न कर्तव्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३१/७१) द्विगोः इति न एषा पञ्चमी ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३२/७१) का तर्हि ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३३/७१) सम्बन्धषष्ठी ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३४/७१) द्विगोः तद्धितस्य लुक् भवति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३५/७१) किम् च द्विगोः तद्धितः ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३६/७१) निमित्तम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३७/७१) यस्मिन् द्विगुः इति एतत् भवति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३८/७१) कस्मिन् च एतत् भवति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-३९/७१) प्रत्यये ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४०/७१) इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४१/७१) एतत् च न वक्तव्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४२/७१) इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४३/७१) द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४४/७१) त्रिशूर्पम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४५/७१) द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४६/७१) त्रैशौर्पिकम् इति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४७/७१) तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४८/७१) तत् यथा ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-४९/७१) अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५०/७१) एवम् इह अपि द्वाभ्याम् शूर्पाभ्याम् क्रीतम् इति विगृह्य द्विशूर्पम् इति भविष्यति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५१/७१) द्विशूर्प्या क्रीतम् इति विगृह्य वाक्यम् एव भविष्यति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५२/७१) अथ असञ्ज्ञायाम् इति किमर्थम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५३/७१) पाञ्चलोहितिकम् पाञ्चकलापिकम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५४/७१) सञ्ज्ञाप्रतिषेधानर्थक्यम् च तन्निमित्तत्वात् लोपस्य ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५५/७१) सञ्ज्ञाप्रतिषेधः च अनर्थकः ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५६/७१) किम् कारणम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५७/७१) तन्निमित्तत्वात् लोपस्य ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५८/७१) न अन्तरेण तद्धितम् तद्धितस्य च लुकम् द्विगुः सञ्ज्ञा अस्ति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-५९/७१) यः तस्मात् उत्पद्यते न असु तन्निमित्तम् स्यात् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६०/७१) एवम् तर्हि इदम् स्यात् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६१/७१) पञ्चानाम् लोहितानाम् समाहारः पञ्चलोहिती पञ्चलोहित्या क्रीतम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६२/७१) अत्र अपि पञ्चलोहितम् इति एव भवितव्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६३/७१) कथम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६४/७१) उक्तम् हि एतत् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६५/७१) उक्तम् सङ्ख्यात्वे प्रयोजनम् तस्मात् इह अध्यर्धग्रहणानर्थक्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६६/७१) उक्तम् सङ्ख्यात्वे अध्यर्धग्रहणस्य प्रयोजनम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६७/७१) किम् उक्तम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६८/७१) अध्यर्धग्रहणम् च समासकन्विध्यर्थम् लुकि च अग्रहणम् इति ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-६९/७१) तस्मात् इह अध्यर्धग्रहणानर्थक्यम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-७०/७१) तस्मात् इह अध्यर्धग्रहणम् अनर्थकम् ।

(पा-५,१.२८; अकि-२,३४७.२२-३४९.४; रो-४,३५-३७; भा-७१/७१) द्विगोः इति एव लुक् सिद्धः ।

(पा-५,१.२९; अकि-२,३४९.६-९; रो-४,३७; भा-१/२) कार्षापणसहस्राभ्याम् सुवर्णशतमानयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.२९; अकि-२,३४९.६-९; रो-४,३७; भा-२/२) अध्यर्धसुवर्णम् अध्यर्धसौवर्णिकम् अध्यर्धशतमानम् अध्यर्धशातमानम् द्विशतमानम् द्विशातमानम्

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-१/११) द्वित्रिभ्याम् द्वैयोग्यम् ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-२/११) द्वित्रिभ्याम् इति यत् उच्यते द्वैयोग्यम् एतत् द्रष्टव्यम् ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-३/११) किम् इदम् द्वैयोग्यम् इति ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-४/११) द्वयोः योगयोः भवम् द्वियोगम् ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-५/११) द्वियोगस्य भावः द्वैयोग्यम् इति ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-६/११) द्वेष्यम् विजानीयात् ॒ अविशेषेण इतः उत्तरम् द्वित्रिभ्याम् इति ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-७/११) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ द्वित्रिभ्याम् द्वैयोग्यम् इति ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-८/११) तत्र च बहुग्रहणम् ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-९/११) तत्र च बहुग्रहणम् कर्तव्यम् ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-१०/११) बहुनिष्कम् बहुनैष्किकम् ।

(पा-५,१.३०-३१; अकि-२,३४९.१२-१८; रो-४,३७-३८; भा-११/११) बहुबिस्तम् बहुबैस्तिकम् ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-१/८) खार्याः ईकन् केवलायाः च ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-२/८) खार्याः ईकन् केवलायाः च इति वक्तव्यम् ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-३/८) खारीकम् ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-४/८) काकिण्याः च उपसङ्ख्यानम् ।काकिण्याः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-५/८) अध्यर्धकाकिणीकम् द्विकाकिणीकम् ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-६/८) केवलायाः च ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-७/८) केवलायाः च इति वक्तव्यम् ।

(पा-५,१.३३; अकि-२,३४९.२०-३५०.४; रो-४,३८; भा-८/८) काकिणीकम् ।

(पा-५,१.३५; अकि-२,३५०.६-११; रो-४,३८-३९; भा-१/६) शतशाणाभ्याम् वा ।

(पा-५,१.३५; अकि-२,३५०.६-११; रो-४,३८-३९; भा-२/६) शतशाणाभ्याम् वा इति वक्तव्यम् ।

(पा-५,१.३५; अकि-२,३५०.६-११; रो-४,३८-३९; भा-३/६) अध्यर्धशतम् अध्यर्धशत्यम् पञ्चशतम् पञ्चशत्यम् अध्यर्धशाणम् अध्यर्धशाण्यम् पञ्चशाणम् पञ्चशाण्यम् ।

(पा-५,१.३५; अकि-२,३५०.६-११; रो-४,३८-३९; भा-४/६) द्वित्रिपूर्वात् अण् च ।

(पा-५,१.३५; अकि-२,३५०.६-११; रो-४,३८-३९; भा-५/६) द्वित्रिपूर्वात् अण् च इति वक्तव्यम् ।

(पा-५,१.३५; अकि-२,३५०.६-११; रो-४,३८-३९; भा-६/६) द्विशाणम् त्रिशाणम् द्वैशाणम् त्रैशाणम् द्विशाण्यम् त्रिशाण्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१/३८) तेन क्रीतम् इति करणात् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२/३८) तेन क्रीतम् इति अत्र करणात् इति वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३/३८) इह मा भूत् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-४/३८) देवदत्तेन क्रीतम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-५/३८) यज्ञदत्तेन क्रीतम् इति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-६/३८) अकर्त्रेकान्तात् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-७/३८) अकर्त्रेकान्तात् इति वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-८/३८) इह मा भूत् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-९/३८) देवदत्तेन पाणिना क्रीतम् इति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१०/३८) सङ्ख्यैकवचनात् द्विगोः च उपसङ्ख्यानम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-११/३८) सङ्ख्यायाः इति वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१२/३८) इह अपि यथा स्यात् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१३/३८) पञ्चभिः क्रीतम् पञ्चकम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१४/३८) किम् पुनः कारणम् न सिध्यति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१५/३८) एकवचनान्तात् इति वक्ष्यति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१६/३८) तस्य अयम् पुरस्तात् अपकर्षः ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१७/३८) एकवचनात् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१८/३८) एकवचनान्तात् इति वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-१९/३८) इह मा भूत् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२०/३८) शूर्पाभ्याम् क्रीतम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२१/३८) शूर्पैः क्रीतम् इति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२२/३८) द्विगोः च ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२३/३८) द्विगोः च इति वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२४/३८) इह अपि यथा स्यात् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२५/३८) द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् त्रिशूर्पम् इति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२६/३८) यदि एकवचनान्तात् इति उच्यते मुद्गैः क्रीतम् मौद्गिकम् माषैः क्रीतम् माषिकम् इति न सिध्यति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२७/३८) परिमाणस्य सङ्ख्यायाः यत् एकवचनम् तदन्तात् इति वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२८/३८) तत् तर्हि एकवचनान्तात् इति वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-२९/३८) तस्मिन् च क्रियमाणे बहु वक्तव्यम् भवति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३०/३८) न वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३१/३८) कस्मात् न भवति शूर्पाभ्याम् क्रीतम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३२/३८) शूर्पैः क्रीतम् इति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३३/३८) उक्तम् वा ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३४/३८) किम् उक्तम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३५/३८) अनभिधानात् इति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३६/३८) यदि एवम् करणात् अकर्त्रेकान्तात् इति अपि न वक्तव्यम् ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३७/३८) कर्तुः कर्त्रेकान्तात् वा कस्मात् न भवति ।

(पा-५,१.३७; अकि-२,३५०.१३-३५१.६; रो-४,३९-४०; भा-३८/३८) अनभिधानात् ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-१/१०) संयोगनिपातयोः कः विशेषः ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-२/१०) संयोगः नाम सः भवति इदम् कृत्वा इदम् अवाप्यते इति ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-३/१०) उत्पातः नाम सः भवति यादृच्छिकः भेदः वा छेदः वा पद्मम् वा पर्णम् वा ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-४/१०) तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-५/१०) तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-६/१०) वातस्य शमनम् कोपनम् वा वातिकम् ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-७/१०) पैत्तिकम् श्लैष्मिकम् ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-८/१०) सन्निपातात् च ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-९/१०) सन्निपातात् च इति वक्तव्यम् ।

(पा-५,१.३८; अकि-२,३५१.८-१४; रो-४,४०-४१; भा-१०/१०) सान्निपातिकम् ।

(पा-५,१.३९; अकि-२,३५१.१६-१८; रो-४,४१; भा-१/४) यत्प्रकरणे ब्रह्मवर्चसात् च ।

(पा-५,१.३९; अकि-२,३५१.१६-१८; रो-४,४१; भा-२/४) यत्प्रकरणे ब्रह्मवर्चसात् च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.३९; अकि-२,३५१.१६-१८; रो-४,४१; भा-३/४) ब्रह्मवर्चसस्य निमित्तम् ब्रह्म्वर्चस्यः ।

(पा-५,१.३९; अकि-२,३५१.१६-१८; रो-४,४१; भा-४/४) उत्पातः वा ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-१/११) तद् अस्मिन् दीयते अस्मै इति च ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-२/११) तद् अस्मिन् दीयते अस्मै इति च इति वक्तव्यम् ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-३/११) पञ्च वृद्धिः वा आयः वा लाभः वा शुल्कः वा उपदा वा दीयते अस्मै पञ्चकः ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-४/११) सप्तकः ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-५/११) अष्टकः ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-६/११) नवकः ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-७/११) दशकः ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-८/११) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-९/११) न कर्तव्यम् ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-१०/११) यत् हि यस्मै दीयते तस्मिन् अपि तत् दीयते ।

(पा-५,१.४७; अकि-२,३५१.२०-३५२.२; रो-४,४१; भा-११/११) तत् अस्मिन् दीयते इति एव सिद्धम् ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-१/१३) ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-२/१३) ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-३/१३) द्वितीयकः ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-४/१३) तृतीयकः ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-५/१३) किम् पुनः कारणम् न सिध्यति ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-६/१३) पूरणात् इति उच्यते ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-७/१३) न च एतत् पूरणान्तम् ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-८/१३) अना एतत् पर्यवपन्नम् ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-९/१३) पूरणम् नाम अर्थः ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-१०/१३) तम् अर्थम् आह तीयशब्दः ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-११/१३) पूरणम् सः असौ भवति ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-१२/१३) पूरणन्तात् स्वार्थे भागे अन् ।

(पा-५,१.४८; अकि-२,३५२.४-८; रो-४,४१-४२; भा-१३/१३) सः अपि पूरणम् भवति एव ।

(पा-५,१.५२; अकि-२,३५२.१०-११; रो-४,४२; भा-१/५) तत् पचति इति द्रोणात् अण् च ।

(पा-५,१.५२; अकि-२,३५२.१०-११; रो-४,४२; भा-२/५) तत् पचति इति द्रोणात् अण् च इति वक्तव्यम् ।

(पा-५,१.५२; अकि-२,३५२.१०-११; रो-४,४२; भा-३/५) द्रोणम् पचति ।

(पा-५,१.५२; अकि-२,३५२.१०-११; रो-४,४२; भा-४/५) द्रौणी ।

(पा-५,१.५२; अकि-२,३५२.१०-११; रो-४,४२; भा-५/५) द्रौणिकी ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-१/९) कुलिजात् च इति सिद्धे लुक्खग्रहणानर्थक्यम् पूर्व्समिन् त्रिकभावात् ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-२/९) कुलिजात् च इति एव सिद्धम् ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-३/९) न अर्थः लुक्खग्रहणेन ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-४/९) किम् कारणम् ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-५/९) पूर्वस्मिन् त्रिकभावात् ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-६/९) पूर्वस्मिन् योगे सर्वः एषः त्रिकः निर्दिश्यते ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-७/९) द्व्याढकी ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-८/९) द्व्याढिकी ।

(पा-५,१.५५; अकि-२,३५२.१३-१५; रो-४,४२-४३; भा-९/९) द्व्याढकीना ।