व्याकरणमहाभाष्य खण्ड 53

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१/७३) सञ्ज्ञायाम् स्वार्थे ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२/७३) सञ्ज्ञायाम् स्वार्थे प्रत्ययः उत्पाद्यः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३/७३) पञ्च एव पञ्चकाः शकुनयः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४/७३) त्रिकाः शालङ्कायनाः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५/७३) सप्तकाः ब्रह्मवृक्षाः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६/७३) ततः परिमाणिनि ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-७/७३) ततः परः प्रत्ययः परिमाणिनि इति वक्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-८/७३) पञ्चकः सङ्घः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-९/७३) दशकः सङ्घः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१०/७३) जीवितपरिमाणे च उपसङ्ख्यानम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-११/७३) जीवितपरिमाणे च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१२/७३) षष्टिः जीवितपरिमाणम् अस्य षाष्टिकः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१३/७३) साप्ततिकः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१४/७३) जीवितपरिमाणे च इति अनर्थकम् वचनम् कालात् इति सिद्धत्वात् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१५/७३) जीवितपरिमाणे च इति अनर्थकम् वचनम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१६/७३) किम् कारणम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१७/७३) कालात् इति सिद्धत्वात् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१८/७३) कालात् इति एव सिद्धम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-१९/७३) इह यस्य षष्टिः जीवितपरिमाणम् षष्तिम् असु भूतः भवति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२०/७३) तत्र तम् अधीष्टः भृतः भूतः भावी इति एव सिद्धम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२१/७३) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२२/७३) इह वचने हि लुक्प्रसङ्गः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२३/७३) इह हि क्रियमाणे लुक् प्रसज्येत ॒ द्विषाष्टिकः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२४/७३) त्रिषाष्टिकः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२५/७३) अनेन सति लुक् भवति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२६/७३) तेन सति कस्मात् न भवति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२७/७३) आ अर्हात् इति उच्यते ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२८/७३) न सिध्यति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-२९/७३) किम् कारणम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३०/७३) न हि इमे कालशब्दाः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३१/७३) किम् तर्हि सङ्ख्याशब्दाः इमे ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३२/७३) इमे अपि कालशब्दाः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३३/७३) कथम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३४/७३) सङ्ख्या सङ्ख्येये वर्तते ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३५/७३) यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३६/७३) रमणीयम् कालम् भूतः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३७/७३) शोभनम् कालम् भूतः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३८/७३) अथ मतम् एतत् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-३९/७३) काले दृष्टः शब्दः कालशब्दः कालम् यः न व्यभिचरति इति न रमणीयादिषु अत्रिप्रसङ्गः भवति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४०/७३) जीवितपरिमाणे तु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४१/७३) इह च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४२/७३) वार्षशतिकः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४३/७३) वार्षसहस्रिकः इति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४४/७३) किम् पुनः कारणम् न सिध्यति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४५/७३) न हि वर्षशतशब्दः सङ्ख्या ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४६/७३) किम् तर्हि सङ्ख्येये वर्तते वर्षशतशब्दः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४७/७३) एवम् तर्हि अन्येभ्यः अपि दृश्यते खारशताद्यर्थम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४८/७३) अन्येभ्यः अपि दृश्यते इति वक्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-४९/७३) किम् प्रयोजनम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५०/७३) खारशताद्यर्थम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५१/७३) खारशतिकः राशिः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५२/७३) खारसहस्त्रिकः राशिः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५३/७३) अयम् तर्हि दोषः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५४/७३) इह वचने हि लुक्प्रसङ्गः इति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५५/७३) न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् इति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५६/७३) किम् तर्हि ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५७/७३) यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५८/७३) क्व च क्रियमाणे न दोषः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-५९/७३) परम् अर्हात् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६०/७३) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६१/७३) न कर्तव्यम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६२/७३) कालात् इति एव सिद्धम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६३/७३) ननु च उक्तम् न इमे कालशब्दाः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६४/७३) किम् तर्हि ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६५/७३) सङ्ख्याशब्दाः इति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६६/७३) ननु च उक्तम् इमे अपि कालशब्दाः ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६७/७३) कथम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६८/७३) सङ्ख्या सङ्ख्येये वर्तते ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-६९/७३) ननु च उक्तम् यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति इति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-७०/७३) उक्तम् वा ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-७१/७३) किम् उक्तम् ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-७२/७३) अनभिधानात् इति ।

(पा-५,१.५७-५८.१; अकि-२,३५२.१८-३५४.६; रो-४,४३-४६; भा-७३/७३) अनभिधानात् रमणीयादिषु उत्पत्तिः न भविष्यति ।

(पा-५,१.५७-५८.२; अकि-२,३५४.७-९; रो-४,४६; भा-१/६) स्तोमे डविधिः पञ्चदशाद्यर्थः ।

(पा-५,१.५७-५८.२; अकि-२,३५४.७-९; रो-४,४६; भा-२/६) स्तोमे डः विधेयः ।

(पा-५,१.५७-५८.२; अकि-२,३५४.७-९; रो-४,४६; भा-३/६) किम् प्रयोजनम् ।

(पा-५,१.५७-५८.२; अकि-२,३५४.७-९; रो-४,४६; भा-४/६) पञ्चदशाद्यर्थः ।

(पा-५,१.५७-५८.२; अकि-२,३५४.७-९; रो-४,४६; भा-५/६) पञ्चदशः स्तोमः ।

(पा-५,१.५७-५८.२; अकि-२,३५४.७-९; रो-४,४६; भा-६/६) सप्तदशः स्तोमः इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१/११६) इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाः निपात्यन्ते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२/११६) तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थः इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३/११६) तत्र वक्तव्यम् इयम् प्रकृतिः अयम् प्रत्ययः अयम् प्रत्ययार्थः इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४/११६) इमे ब्रूमः द्विशब्दात् अयम् दशदर्थाभिदाहिनः स्वार्थे शतिच्प्रत्ययः निपात्यते विन्भावः च ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५/११६) द्वौ दशतौ विंशतिः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६/११६) विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७/११६) विंशत्यादयः दशात् चेत् समासः न उपपद्यते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८/११६) विंशतिगवम् इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९/११६) किम् कारणम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०/११६) द्रव्यम् अनभिहितम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-११/११६) तस्य अनभिहितत्वात् षष्ठी प्राप्नोति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१२/११६) षष्ठ्यन्तम् च समासे पूर्वम् निपतति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१३/११६) तत्र गोविंशतिः इति प्राप्नोति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१४/११६) न च एवम् भवितव्यम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१५/११६) भवितव्यम् च विंशतिगवम् तु न सिध्यति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१६/११६) इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासः न प्राप्नोति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१७/११६) वचनम् च विधेयम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१८/११६) विंशतिः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१९/११६) द्वित्वात् दशतोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२०/११६) एवम् तर्हि परिमाणिनि विंशत्यादयः भविष्यन्ति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२१/११६) परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२२/११६) परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययः विधेयः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२३/११६) विंशकः सङ्घः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२४/११६) षष्ठीवचनविधिः च ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२५/११६) षष्ठी च विधेया ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२६/११६) गवाम् विंशतिः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२७/११६) द्रव्यम् अभिहितम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२८/११६) तस्य अभिहितत्वात् षष्ठी न प्राप्नोति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-२९/११६) एकवचनम् च विधेयम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३०/११६) विंशतिः गावः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३१/११६) गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३२/११६) अनारम्भः वा प्रातिपदिकविज्ञानात् यथा सहस्रादिषु ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३३/११६) अनारम्भः वा पुनः विंशत्यादीनाम् न्याय्यः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३४/११६) कथम् सिध्यति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३५/११६) प्रातिपदिकविज्ञानात् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३६/११६) कथम् प्रातिपदिकविज्ञानम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३७/११६) विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि यथा सहस्रादिषु ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३८/११६) तत् यथा सहस्रम् अयुतम् अर्बुदम् इति न च अनुगमः क्रियते भवति च अभिधानम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-३९/११६) यथा सहस्रादिषु इति उच्यते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४०/११६) अथ सहस्रादिषु अपि कथम् भवितव्यम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४१/११६) सहस्रम् गवाम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४२/११६) सहस्रम् गावः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४३/११६) सहस्रगवम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४४/११६) गोसहस्रम् इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४५/११६) यावता अत्र अपि सन्देहः न असूया कर्तव्या यत्र अनुगमः क्रियते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४६/११६) ननु च उक्तम् विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४७/११६) परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४८/११६) षष्ठीवचनविधिः च इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-४९/११६) न एषः दोषः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५०/११६) समुदाये विंशत्यादयः भविष्यन्ति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५१/११६) किम् वक्तव्यम् एतत् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५२/११६) न हि ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५३/११६) कथम् अनुच्यमानम् गंस्यते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५४/११६) सङ्घः इति वर्तते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५५/११६) सङ्घः समूहः समुदायः इति अनर्थान्तरम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५६/११६) ते एते विंशत्यादयः समुदाये सन्तः भाववचनाः भवन्ति भाववचनाः सन्तः गुणवचनाः भवन्ति गुणवचनाः सन्तः अविशिष्टाः भवन्ति अन्यैः गुणवचनैः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५७/११६) अन्येषु च गुणवचनेषु कदा चित् गुणः गुणिविशेषकः भवति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५८/११६) तत् यथा शुक्लः पटः इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-५९/११६) कदा चित् गुणिना गुणः व्यपदिश्यते ॒ पटस्य शुक्लः इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६०/११६) तत् यदा तावत् उच्यते विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः इति सामानाधिकरण्यम् तदा गुणगुणिनोः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६१/११६) वचनपरिहारः तिष्ठतु तावत् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६२/११६) परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् इति संहनने वृत्तः संहनने वर्तिष्यते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६३/११६) सङ्ख्यासंहनने वृत्तः द्रव्यसंहनने वर्तिष्यते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६४/११६) अथ षष्ठी तदा गुणिना गुणः विशेष्यते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६५/११६) वचनपरिहारः उभयोः अपि ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६६/११६) यदि तर्हि इमे विंशत्यादयः गुणवचनाः स्युः सधर्मभिः अन्यैः गुणवचनैः भवितव्यम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६७/११६) अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६८/११६) तत् यथा ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-६९/११६) शुक्लम् वस्त्रम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७०/११६) शुक्ला शाटी ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७१/११६) शुक्लः कम्बलः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७२/११६) शुक्लौ कम्बलौ ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७३/११६) शुक्लाः कम्बलाः इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७४/११६) यत् असौ द्रव्यम् श्रितः गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७५/११६) विंशत्यादयः पुनः न अनुवर्तन्ते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७६/११६) अन्ये अपि वै गुणवचनाः न अवश्यम् द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७७/११६) तत् यथा ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७८/११६) गावः धनम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-७९/११६) पुत्रा अपत्यम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८०/११६) इन्द्राग्नी देवता ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८१/११६) विश्वेदेवाः देवता ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८२/११६) यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्यै इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८३/११६) अथ अत्र अननुवृत्तौ हेतुः शक्यः वक्तुम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८४/११६) बाढम् शक्यः वक्तुम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८५/११६) कामम् तर्हि उच्यताम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८६/११६) इह कदा चित् गुणः प्राधान्येन विवक्षितः भवति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८७/११६) तत् यथा ॒ पञ्च उडुपशतानि तीर्णानि ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८८/११६) पञ्च फलकशतानि तीर्णानि ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-८९/११६) अश्वैः युद्धम् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९०/११६) असिभिः युद्धम् इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९१/११६) न च असयः युध्यन्ते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९२/११६) असिगुणाः पुरुषाः युध्यन्ते गुणः तु खलु प्राधान्येन विवक्षितः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९३/११६) इह तावत् गावः धनम् इति धिनोतेः धनम् एकः गुणः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९४/११६) सः प्राधान्येन विवक्षितः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९५/११६) पुत्राः अपत्यम् इति अपतनात् अपत्यम् एकः गुणः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९६/११६) सः प्राधान्येन विवक्षितः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९७/११६) इन्द्राग्नी देवता ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९८/११६) विश्वेदेवाः देवता इति दिवेः ऐश्वर्यकर्मणः देवः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-९९/११६) तस्मात् स्वार्थे तल् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१००/११६) एकः गुणः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०१/११६) सः प्राधान्येन विवक्षितः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०२/११६) यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति दक्षेः वृद्धिकर्मणः दक्षिणा एकः गुणः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०३/११६) सः प्राधान्येन विवक्षितः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०४/११६) तस्य एकत्वात् एकवचनम् भविष्यति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०५/११६) विंशत्यादिषु च अपि एकः गुणः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०६/११६) सः प्राधान्येन विवक्षितः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०७/११६) तस्य एकत्वात् एकवचनम् भविष्यति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०८/११६) अयम् तर्हि विंशत्यादिषु भाववचनेषु दोषः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१०९/११६) गोविंशतिः आनीयताम् इति भावानयने चोदिते द्रव्याननम् न प्राप्नोति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-११०/११६) न एषः दोषः ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-१११/११६) इदम् तावत् अयम् प्रष्टव्यः ॒ अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणलम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-११२/११६) असम्भवात् ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-११३/११६) आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-११४/११६) इदम् अपि एवञ्जातीयकम् एव ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-११५/११६) असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति ।

(पा-५,१.५९; अकि-२,३५५.२-३५७.८; रो-४,४६-५६; भा-११६/११६) अथ वा अव्यतिरेकात् ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१/२०) छेदादिपथिभ्यः विग्रहदर्शनात् नित्यग्रहणानर्थक्यम् ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-२/२०) छेदादिपथिभ्यः नित्यग्रहणम् अनर्थकम् ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-३/२०) किम् कारणम् ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-४/२०) विग्रहदर्शनात् ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-५/२०) विग्रहः दृश्यते ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-६/२०) छेदम् अर्हति ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-७/२०) पन्थानम् गच्छति इति ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-८/२०) विकारार्थम् तर्हि इदम् नित्यग्रहणम् क्रियते ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-९/२०) विकारेण विग्रहः मा भूत् इति ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१०/२०) विरागविरङ्गम् च ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-११/२०) पन्थः ण नित्यम् इति ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१२/२०) विकारार्थम् इति चेत् अकङादिभिः तुल्यम् ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१३/२०) विकारार्थम् इति चेत् अकङादिभिः तुल्यम् एतत् ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१४/२०) यथा अकङादिभिः विकारैः विग्रहः न भवति एवम् आभ्याम् अपि न भविष्यति ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१५/२०) किम् पुनः इह अकर्तव्यम् नित्यग्रहणम् क्रियते आहोस्वित् अन्यत्र कर्तव्यम् न क्रियते ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१६/२०) इह अकर्तव्यम् क्रियते ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१७/२०) एषः एव न्यायः यत् उत सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१८/२०) तत् यथा ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-१९/२०) देवदत्तयज्ञदत्ताभ्याम् इदम् कर्तव्यम् इति ।

(पा-५,१.६४, ७६; अकि-२,३५७.११-२०; रो-४,५६-५८; भा-२०/२०) देवदत्तापाये यज्ञदत्तः अपि न करोति ।

(पा-५,१.७१; अकि-२,३५७.२२-२४; रो-४,५८; भा-१/३) यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् । यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.७१; अकि-२,३५७.२२-२४; रो-४,५८; भा-२/३) य्जञकर्म अर्हति यज्ञियः देशः ।

(पा-५,१.७१; अकि-२,३५७.२२-२४; रो-४,५८; भा-३/३) ऋत्विक्कर्म अर्हति आर्त्विजीनम् ब्राह्मणकुलम् इति ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१/१७) तत् वर्तयति इति अनिर्देशः तत्र अदर्शनात् ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-२/१७) तत् वर्तयति इति अनिर्देशः ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-३/१७) अगमकः निर्देशः अनिर्देशः ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-४/१७) पारायणम् कः वर्तयति ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-५/१७) यः परस्य करोति ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-६/१७) तुरायणम् कः वर्तयति ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-७/१७) यः चरुपुरोडाशान् निर्वपति ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-८/१७) तत्र अदर्शनात् ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-९/१७) न च तत्र प्रत्ययः दृश्यते ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१०/१७) इङ्यज्योः च दर्शनात् ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-११/१७) इङ्यज्योः च प्रत्ययः दृश्यते ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१२/१७) यः पारायणम् अधीते सः पारायणिकः इति उच्यते ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१३/१७) यः तुरायणेन यजते सः तौरायणिकः इति उच्यते ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१४/१७) यः च एव अधीते यः परस्य करोति उभौ तौ वर्तयतः ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१५/१७) यः च यजते यः च यः चरुपुरोडाशान् निर्वपति उभौ तौ वर्तयतः ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१६/१७) उभयत्र कस्मात् न भवति ।

(पा-५,१.७२; अकि-२,३५८.२-१०; रो-४,५८-५९; भा-१७/१७) अनभिधानात् ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-१/८) योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-२/८) योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-३/८) क्रोशशतम् गच्छति इति क्रौशशतिकः ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-४/८) योजनशतम् गच्छति इति यौजनशतिकः इति ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-५/८) ततः अभिगमनम् अर्हति इति च ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-६/८) ततः अभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-७/८) क्रोशशतात् अभिगमनम् अर्हति क्रौशशतिकः भिक्षुः ।

(पा-५,१.७४; अकि-२,३५८.१२-१८; रो-४,५९; भा-८/८) योजनशतात् अभिगमनम् अर्हति यौजनशतिकः गुरुः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१/२५) आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-२/२५) आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-३/२५) वारिपथेन गच्छति वारिपथिकः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-४/२५) वारिपथेन आहृतम् वारिपथिकम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-५/२५) वारि ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-६/२५) जङ्गल ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-७/२५) जङ्गलपथेन गच्छति जाङ्गलपथिकः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-८/२५) जङ्गलपथेन आहृतम् जाङ्गलपथिकम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-९/२५) जङ्गल ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१०/२५) स्थल ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-११/२५) स्थलपथेन गच्छति स्थालपथिकः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१२/२५) स्थलपथेन आहृतम् स्थालपथिकम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१३/२५) स्थल ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१४/२५) कान्तार ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१५/२५) कान्तारपथेन गच्छति कान्तारपथिकः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१६/२५) कान्तारपथेन आहृतम् कान्तारपथिकम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१७/२५) अजपथशङ्कुपथाभ्याम् च ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१८/२५) अजपथशङ्कुपथाभ्याम् च इति वक्तव्यम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-१९/२५) अजपथेन गच्छति आजपथिकः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-२०/२५) अजपथेन आहृतम् आजपथिकम्. शङ्कुपथेन गच्छति शाङ्कुपथिकः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-२१/२५) शङ्कुपथेन आहृतम् शाङ्कुपथिकम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-२२/२५) मधुकमरिचयोः अण् स्थलात् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-२३/२५) मधुकमरिचयोः अण् स्थलात् वक्तव्यः ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-२४/२५) स्थालपथम् मधुकम् ।

(पा-५,१.७७; अकि-२,३५८.२०-३५९.१०; रो-४,६०; भा-२५/२५) स्थालपथम् मरिचम् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-१/१६) अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः तत्र अदर्शनात् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-२/१६) अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-३/१६) किम् कारणम् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-४/१६) तत्र अदर्शनात् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-५/१६) न हि असौ मासम् अधीष्यते ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-६/१६) किम् तर्हि मुहूर्तम् अधीष्टः मासम् तत् कर्म करोति ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-७/१६) सिद्धम् तु चतुर्थीनिर्देशात् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-८/१६) सिद्धम् एतत् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-९/१६) कथम् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-१०/१६) चतुर्थीनिर्देशात् ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-११/१६) चतुर्थीनिर्देशः कर्तव्यः ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-१२/१६) तस्मै अधीष्टः इति ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-१३/१६) सः तर्हि चतुर्थीनिर्देशः कर्तव्यः ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-१४/१६) न कर्तव्यः ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-१५/१६) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-५,१.८०; अकि-२,१२-१८; रो-४,६०-६१; भा-१६/१६) मासार्थः मुहूर्तः मासः ।

(पा-५,१.८४; अकि-२,३५९.२०-२२; रो-४,६१-६२; भा-१/४) अवयसि ठन् च इति अनन्तरस्य अनुकर्षः ।

(पा-५,१.८४; अकि-२,३५९.२०-२२; रो-४,६१-६२; भा-२/४) अवयसि ठन् च इति अनन्तरस्य अनुकर्षः द्रष्टव्यः ।

(पा-५,१.८४; अकि-२,३५९.२०-२२; रो-४,६१-६२; भा-३/४) द्वेष्यम् विजानीयात् ॒ यप् अपि अनुवर्तते इति ।

(पा-५,१.८४; अकि-२,३५९.२०-२२; रो-४,६१-६२; भा-४/४) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ अवयसि ठन् च इति अनन्तरस्य अनुकर्षः इति ।

(पा-५,१.९०; अकि-२,३६०.२-६; रो-४,६२; भा-१/७) षष्टिके सञ्ज्ञाग्रहणम् ।

(पा-५,१.९०; अकि-२,३६०.२-६; रो-४,६२; भा-२/७) षष्टिके सञ्ज्ञाग्रहणम् कर्तव्यम् ।

(पा-५,१.९०; अकि-२,३६०.२-६; रो-४,६२; भा-३/७) मुद्गाः अपि हि षष्टिरात्रेणे पच्यन्ते ।

(पा-५,१.९०; अकि-२,३६०.२-६; रो-४,६२; भा-४/७) तत्र मा भूत् इति ।

(पा-५,१.९०; अकि-२,३६०.२-६; रो-४,६२; भा-५/७) उक्तम् वा ।

(पा-५,१.९०; अकि-२,३६०.२-६; रो-४,६२; भा-६/७) किम् उक्तम् ।

(पा-५,१.९०; अकि-२,३६०.२-६; रो-४,६२; भा-७/७) अनभिधानात् इति ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१/३३) तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२/३३) तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-३/३३) महानाम्नीनाम् ब्रह्मचर्यम् माहानाम्निकम् ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-४/३३) आदित्यव्रतिकम् ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-५/३३) तत् चरति इति च ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-६/३३) तत् चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-७/३३) महानाम्नीः चरति माहानाम्निकः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-८/३३) आदित्यव्रतिकः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-९/३३) न एषः युक्तः निर्देशः तत् चरति इति ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१०/३३) महानाम्न्यः नाम ऋचः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-११/३३) न च ताः चर्यन्ते ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१२/३३) व्रतम् तासाम् चर्यते ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१३/३३) न एषः दोषः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१४/३३) साहचर्यात् ताच्छब्यम् भविष्यति ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१५/३३) महानाम्नीसहचरितम् व्रतम् महानाम्न्यः व्रतम् इति ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१६/३३) अवान्तरदीक्षादिभ्यः डिनिः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१७/३३) अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१८/३३) अवान्तरदीक्षी ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-१९/३३) तिलव्रती ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२०/३३) अष्टाचत्वारिंशतः ड्वुन् च ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२१/३३) अष्टाचत्वारिंशतः ड्वुन् च डिनिः च वक्तव्यः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२२/३३) अष्टाचत्वारिंशकः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२३/३३) अष्टाचत्वारिंशी ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२४/३३) चातुर्मास्यानाम् यलोपः च ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२५/३३) चातुर्मास्यानाम् यलोपः च ड्वुन् च डिनिः च वक्तव्यः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२६/३३) चातुर्मासिकः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२७/३३) चातुर्मासी ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२८/३३) अथ किम् इदम् चातुर्मास्यानाम् इति ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-२९/३३) चतुर्मासात् ण्यः यज्ञे तत्र भवे ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-३०/३३) चतुर्मासात् ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिन् अर्थे ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-३१/३३) चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-३२/३३) सञ्ज्ञायाम् अण् । सञ्ज्ञायाम् अण् वक्तव्यः ।

(पा-५,१.९४; अकि-२,३६०.८-३६१.५; रो-४,६२-६४); भा-३३/३३) चतुर्षु मासेषु भवा चातुर्मासी पौणमासी

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-१/१२) आख्याग्रहणम् किमर्थम्. तस्य दक्षिणा यज्ञेभ्यः इति इयति उच्यमाने ये एते सञ्ज्ञीभूतकाः यज्ञाः ततः उतपत्तिः स्यात् ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-२/१२) अग्निष्टोमिक्यः ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-३/१२) राजसूयिकः ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-४/१२) वाजपेयिक्यः ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-५/१२) यत्र वा यज्ञशब्दः अस्ति ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-६/१२) नावयज्ञिक्यः ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-७/१२) पाकयज्ञिक्यः ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-८/१२) इह न स्यात् ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-९/१२) पाञ्चौदनिक्यः ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-१०/१२) दाशौदनिक्यः ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-११/१२) आख्याग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-५,१.९५; अकि-२,३६१.७-१२; रो-४,६४; भा-१२/१२) ये च सञ्ज्ञीभूतकाः यत्र च यज्ञशब्दः अस्ति यत्र च न अस्ति तदाख्यामात्रात् सिच्छम् भवति ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-१/१६) कार्यग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् । कार्यग्रहणम् अनर्थकम् ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-२/१६) किम् कारणम् ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-३/१६) तत्रभवेन कृतत्वात् ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-४/१६) यत् हि मासे कार्यम् मासे भवम् तत् भवति ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-५/१६) तत्र तत्र भवः इति एव सिद्धम् ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-६/१६) किम् इदम् भवान् कार्यग्रहणम् एव प्रत्याचष्टे न पुनः दीयतेग्रहणम् अपि ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-७/१६) यथा एव हि यत् मासे कार्यम् तत् मासे भवम् भवति एवम् यत् अपि मासे दीयते तत् अपि मासे भवम् भवति ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-८/१६) तत्र तत्र भवः इति एव सिद्धम् ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-९/१६) न सिध्यति ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-१०/१६) न तत् मासे दीयते ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-११/१६) किम् तर्हि मासे गते ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-१२/१६) एवम् तर्हि औपश्लेषिकम् अधिकरणम् विज्ञास्यते ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-१३/१६) एवम् तर्हि योगविभागोत्तरकालम् इदम् पठितव्यम् ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-१४/१६) तस्य दक्षिणा यज्ञाख्येभ्यः ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-१५/१६) तत्र च दीयते ।

(पा-५,१.९६; अकि-२,३६१.१४-२२; रो-४,६५-६६; भा-१६/१६) ततः कार्यम् भववत् कालात् इति ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१/२२) अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-२/२२) अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-३/२२) त्रीणि इमानि अण्ग्रहणानि ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-४/२२) व्युष्टादिभ्यः अण् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-५/२२) समयः तत् अस्य प्राप्तम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-६/२२) ऋतोः अण् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-७/२२) प्रयोजनम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-८/२२) विशाखाषाढात् अण् मन्थदण्डयोः इति ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-९/२२) तत्र न ज्ञायते कतरस्मिन् अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१०/२२) अविशेषात् सर्वत्र ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-११/२२) व्युष्टादिभ्यः अण् भवति इति उक्त्वा अग्निपदादिभ्यः च इति वक्तव्यम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१२/२२) अग्निपदे दीयते कार्यम् वा आग्निपदम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१३/२२) पैलुमूलम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१४/२२) समयः तत् अस्य प्राप्तम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१५/२२) ऋतोः अण् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१६/२२) अग्निपदादिभ्यः च इति वक्तव्यम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१७/२२) उपवस्ता प्राप्तः अस्य औपवस्त्रम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१८/२२) प्राशिता प्राप्तः अस्य प्राशित्रम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-१९/२२) प्रयोजनम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-२०/२२) विशाखाषाढात् अण् मन्थदण्डयोः ।अग्निपदादिभ्यः च इति वक्तव्यम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-२१/२२) चूडा प्रयोजनम् अस्य चौडम् ।

(पा-५,१.९७; अकि-२,३६२.२-११; रो-४,६६; भा-२२/२२) श्रद्धा प्रयोजनम् अस्य श्राद्धम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१/२१) छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्वपदात् उपसङ्ख्यानम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-२/२१) छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्र्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-३/२१) विशि ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-४/२१) गेहानुप्रवेशनीयम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-५/२१) पूरि ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-६/२१) प्रपापूरणीयम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-७/२१) पदि ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-८/२१) गोप्रपदनीयम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-९/२१) अश्वप्रपदनीयम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१०/२१) रुहि ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-११/२१) प्राशादारोहणीयम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१२/२१) स्वर्गादिभ्यः यत् ष्वर्गादिभ्यः यत् प्रत्ययः भवति ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१३/२१) स्वर्ग्यम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१४/२१) धन्यम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१५/२१) यशस्यम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१६/२१) आयुष्यम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१७/२१) पुण्याहवाचनादिभ्यः लुक् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१८/२१) पुण्याहवाचनादिभ्यः लुक् वक्तव्यः ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-१९/२१) पुण्याहवाचनम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-२०/२१) शान्तिवाचनम् ।

(पा-५,१.१११; अकि-२,३६२.१३-२१; रो-४,६६-६७; भा-२१/२१) स्वस्तिवाचनम् ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-१/११) एकागारात् निपातनानर्थक्यम् ठञ्प्रकरणात् ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-२/११) एकागारात् निपातनम् अनर्थकम् ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-३/११) किम् कारणम् ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-४/११) ठञ्प्रकरणात् ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-५/११) ठञ् प्रकृतः ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-६/११) सः अनुवर्तिष्यते ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-७/११) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-८/११) चौरे इति वक्ष्यामि इति ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-९/११) इह मा भूत् ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-१०/११) एकागारम् प्रयोजनम् अस्य भिक्षोः इति ।

(पा-५,१.११३; अकि-२,३६२.२३-३६३.२; रो-४,६७; भा-११/११) यदि एतावत् प्रयोजनम् स्यात् एकागारात् चौरे इति एव ब्रूयात् ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-१/१२) आकालात् निपातनानर्थक्यम् ठञ्प्रकरणात् ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-२/१२) आकालात् निपातनम् नर्थकम् ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-३/१२) किम् कारणम् ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-४/१२) ठञ्प्रकरणात् ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-५/१२) ठञ् प्रकृतः ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-६/१२) सः अनुवर्तिष्यते ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-७/१२) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-८/१२) एतस्मिन् विशेषे निपातनम् करिष्यामि समानकालस्य आद्यन्तविवक्षायाम् इति ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-९/१२) आकालात् ठन् च ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-१०/१२) आकालात् ठन् च वक्तव्यः ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-११/१२) आकालिकी ।

(पा-५,१.११४; अकि-२,३६३.४-९; रो-४,६८-६९; भा-१२/१२) आकालिका ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१/४६) इदम् अयुक्तम् वर्तते ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२/४६) किम् अत्र अयुक्तम् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३/४६) यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४/४६) कथम् च तृतीयासमर्थम् नाम क्रिया स्यात् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-५/४६) न एषः दोषः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-६/४६) सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-७/४६) ब्राह्मणः क्षत्रियः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-८/४६) वैश्यः शूद्रः इति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-९/४६) आतः च गुणसमुदाये एवम् हि आह ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१०/४६) तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-११/४६) तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१२/४६) तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मणे गुणन् कुर्वन्ति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१३/४६) समुदायेषु च शब्दाः वृत्ताः अवयवेषु अपि वर्तन्ते ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१४/४६) तत् यथा ॒ पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१५/४६) एवम् अयम् ब्राह्मणशब्दय समुदाये वृत्तः अवयवेषु अपि वर्तते ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१६/४६) यदि तर्हि तृतीयासमर्थम् विशेष्यते प्रत्ययार्थः अविशेषितः भवति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१७/४६) तत्र कः दोषः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१८/४६) तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-१९/४६) पुत्रेण तुल्यः स्थूलः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२०/४६) पुत्रेण तुल्यः पिङ्गलः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२१/४६) अस्तु तर्हि प्रत्ययार्थविशेषणम् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२२/४६) यत् तत् तुल्यम् क्रिया चेत् सा भवति इति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२३/४६) एवम् अपि तृतीयासमर्थम् अविशेषितम् भवति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२४/४६) तत्र कः दोषः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२५/४६) तृतीयासमर्थात् अक्रियावाचिनः क्रियातुल्ये अपि प्रत्ययः प्राप्नोति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२६/४६) न एषः दोषः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२७/४६) यत् तत् तुल्यम् क्रिया चेत् सा भवति इति उच्यते ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२८/४६) तुलया च सम्मितम् तुल्यम् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-२९/४६) यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३०/४६) अथ वा पुनः अस्तु यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति एव ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३१/४६) ननु च उक्तम् प्रत्ययार्थः अविशेषितः इति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३२/४६) तत्र कः दोषः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३३/४६) तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३४/४६) पुत्रेण तुल्यः स्थूलः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३५/४६) पुत्रेण तुल्यः पिङ्गलः इति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३६/४६) न एषः दोषः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३७/४६) यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३८/४६) तुलया च सम्मितम् तुल्यम् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-३९/४६) यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४०/४६) किम् पुनः अत्र ज्यायः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४१/४६) प्रत्ययार्थविशेषणम् एव ज्यायः ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४२/४६) कुतः एतत् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४३/४६) एवम् च एव कृत्वा आचार्येण सूत्रम् पठितम् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४४/४६) वतिना सामानाधिकरण्यम् कृतम् ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४५/४६) अपि च वतेः अव्ययेषु पाठः न कर्तव्यः भवति ।

(पा-५,१.११५; अकि-२,३६३.११-३६४.१०; रो-४,६९-७५; भा-४६/४६) क्रियायाम् अयम् भवन् लिङ्गसङ्ख्याभ्यम् न योक्ष्यते ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-१/१०) किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-२/१०) न सिध्यति ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-३/१०) तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-४/१०) न च का चिद् इवशब्देन योगे तृतीया विधीयते ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-५/१०) ननु च सपतमी अपि न विधीयते ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-६/१०) एवम् तर्हि सिद्धे सति यत् इवशब्देन योगे सप्तमीसमर्थात् वतिम् शास्ति तत् ज्ञापयति आचार्यः भवति इवशब्देन योगे सप्तमी इति ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-७/१०) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-८/१०) देवेषु इव नाम ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-९/१०) ब्राह्मणेषु इव नाम ।

(पा-५,१.११६; अकि-२,३६५.१२-१७; रो-४,७५-७७; भा-१०/१०) एषः प्रयोगः उपपन्नः भवति ।

(पा-५,१.११७; अकि-२,३६४.१९-२२; रो-४,७७-७९; भा-१/६) किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् ।

(पा-५,१.११७; अकि-२,३६४.१९-२२; रो-४,७७-७९; भा-२/६) न सिध्यति ।

(पा-५,१.११७; अकि-२,३६४.१९-२२; रो-४,७७-७९; भा-३/६) तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते ।

(पा-५,१.११७; अकि-२,३६४.१९-२२; रो-४,७७-७९; भा-४/६) इह पुनः द्वितीयासमर्थात् आत्मार्हायाम् क्रियायाम् अर्हतिकर्तरि निश्चितबलाधाने प्रत्ययः उत्पाद्यते ।

(पा-५,१.११७; अकि-२,३६४.१९-२२; रो-४,७७-७९; भा-५/६) ब्राह्मणवत् भवान् वर्तते ।

(पा-५,१.११७; अकि-२,३६४.१९-२२; रो-४,७७-७९; भा-६/६) एतत् वृत्तम् ब्राह्मणः अर्हति इति ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-१/१५) अर्थग्रहणम् किमर्थम् ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-२/१५) न उपसर्गात् छन्दसि धातवु इति एव उच्येत ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-३/१५) धातुः वै शब्दः ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-४/१५) शब्दे कार्यस्य असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-५/१५) कः पुनः धात्वर्थः ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-६/१५) क्रिया ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-७/१५) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-८/१५) उत्तरपदलोपः यथा विज्ञायेत ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-९/१५) धातुकृतः अर्थः धात्वर्थः इति ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-१०/१५) कः पुनः धातुकृतः अर्थः ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-११/१५) साधनम् ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-१२/१५) किम् प्रयोजनम् ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-१३/१५) साधने अयम् भवन् लिङ्गसङ्ख्याभ्यम् योक्ष्यते ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-१४/१५) उद्गतानि उद्वतः ।

(पा-५,१.११८.१; अकि-२,३६५.२-६; रो-४,७९; भा-१५/१५) निगतानि निवतः इति ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-१/११) स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-२/११) स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-३/११) स्त्रीवत् ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-४/११) पुंवत् इति ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-५/११) किम् पुनः कारणम् न सिध्यति ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-६/११) इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-७/११) तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-८/११) न एषः दोषः ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-९/११) आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-१०/११) एवम् अपि स्त्रीवत् इति न सिध्यति ।

(पा-५,१.११८.२; अकि-२,३६५.७-१२; रो-४,८०; भा-११/११) योपापेक्षम् ज्ञापकम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१/२५) स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-२/२५) स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-३/२५) स्त्रीभावः स्त्रीत्वम् स्त्रीता ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-४/२५) किम् पुनः कारणम् न सिध्यति ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-५/२५) इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-६/२५) तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-७/२५) वावचनम् च ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-८/२५) वावचनम् च कर्तव्यम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-९/२५) किम् प्रयोजनम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१०/२५) नञ्स्नञौ अपि यथा स्याताम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-११/२५) स्त्रीभावः स्त्रैणम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१२/२५) पुम्म्भावः पौंस्नम् इति ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१३/२५) अपवादसमावेशात् वा सिद्धम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१४/२५) अपवादसमावेशात् वा सिद्धम् एतत् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१५/२५) तत् यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवम् आभ्याम् अपि भविष्यति ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१६/२५) न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१७/२५) किम् तर्हि आ च त्वात् इति एतस्मात् यत्नात् इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१८/२५) न च एतौ अत्र अभ्यन्तरौ ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-१९/२५) एतौ अपि अत्र अभ्यन्तरौ ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-२०/२५) कथम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-२१/२५) अपवादसदेशाः अपवादाः भवन्ति इति ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-२२/२५) एतत् च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-२३/२५) अपि च कुतः एतत् एतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्याताम् परौ वा ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-२४/२५) एवम् तर्हि वक्ष्यति आ च त्वात् इति अत्र चकारकरणस्य प्रयोजनम् ।

(पा-५,१.११९.१; अकि-२,३६५.१४-३६६.६; रो-४,८१-८२; भा-२५/२५) नञ्स्नञ्भ्याम् अपि समावेशः भवति इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१/१००) तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२/१००) तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३/१००) इह अपि प्राप्नोति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४/१००) अभिप्रायः देवदत्तस्य मोदकेषु भोजने ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५/१००) ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६/१००) सिद्धम् तु यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७/१००) सिद्धम् एतत् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८/१००) कथम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९/१००) यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१०/१००) न च अभिप्रायादीनाम् भावात् द्रव्ये देवदत्तशब्दः वर्तते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-११/१००) किम् पुनः द्रव्यम् के पुनः गुणाः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१२/१००) शब्दस्पर्शरूपरसगन्धाः गुणाः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१३/१००) ततः अन्यत् द्रव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१४/१००) किम् पुनः अन्यत् शब्दादिभ्यः द्रव्यम् आहोस्वित् अनन्यत् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१५/१००) गुणस्य अयम् भावात् द्रव्ये शब्दनिवेशम् कुर्वन् ख्यापयति अन्यत् शब्दादिभ्यः द्रव्यम् इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१६/१००) अनन्यत् शब्दादिभ्यः द्रव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१७/१००) न हि अन्यत् उपलभ्यते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१८/१००) पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत् शब्दादिभ्यः उपलभ्यते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१९/१००) अन्यत् शब्दादिभ्यः द्रव्यम् तत् तु अनुमानगम्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२०/१००) तत् यथा ओषधिवनस्पतीनाम् वृद्धिह्रासौ ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२१/१००) ज्योतिषाम् गतिः इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२२/१००) कः असौ अनुमानः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२३/१००) इह समाने वर्ष्मणि परिणाहे च अन्यत् तुलाग्रम् भवति लोहस्य अन्यत् कार्पासानाम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२४/१००) यत्कृतः विशेषः तत् द्रव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२५/१००) तथा कः चित् स्पृशन् एव छिनत्ति कः चित् लम्बमानः अपि न छिनत्ति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२६/१००) यत्कृतः विशेषः तत् द्रव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२७/१००) कः चित् एकेन एव प्रहारेण व्यपवर्गम् करोति कः चित् द्वाभ्याम् अपि अन् करोति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२८/१००) यत्कृतः विशेषः तत् द्रव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-२९/१००) अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वम् न विहन्यते तत् द्रव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३०/१००) किम् पुनः तत्त्वम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३१/१००) तद्भावः तत्त्वम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३२/१००) तत् यथा आमलकादीनाम् फलानाम् रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३३/१००) आमलकम् बदरम् इति एव भवति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३४/१००) अन्वर्थम् खलु अपि निर्वचनम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३५/१००) गुणसन्द्रावः द्रव्यम् इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३६/१००) यदि तर्हि षष्ठीसमर्थात् गुणे प्रत्ययाः उतप्द्यन्ते किम् इयता सूत्रेण ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३७/१००) एतावत् वक्तव्यम् ॒ षष्ठीसमर्थात् गुणे इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३८/१००) षष्ठीसमर्थात् गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-३९/१००) न एषः दोषः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४०/१००) गुणशब्दः अयम् बह्वर्थः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४१/१००) अस्ति एव समेषु अवयवेषु वर्तते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४२/१००) तत् यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४३/१००) अस्ति द्रव्यपदार्थकः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४४/१००) तत् यथा गुणवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४५/१००) अस्ति अप्राधान्ये वर्तते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४६/१००) तत् यथा यः यत्र अप्रधानम् भवति सः आह गुणभूताः वयम् अत्र इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४७/१००) अस्ति आचारे वर्तते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४८/१००) तत् यथा गुणवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् आचारम् करोति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-४९/१००) अस्ति संस्कारे वर्तते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५०/१००) तत् यथा संस्कृतम् अन्नम् गुणवत् इति उच्यते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५१/१००) अथ वा सर्वत्र एव अयम् गुणशब्दः समेषु अवयवेषु वर्तते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५२/१००) तत् यथा द्विगुणम् अध्ययनम् त्रिगुणम् अध्ययनम् इति उच्यते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५३/१००) चर्चागुणान् क्रमगुणान् च अपेक्ष्य भवति न संहितागुणान् चर्चागुणान् च ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५४/१००) यदि एवम् गुणवत् अन्नम् इति गुणशब्दः न उपपद्यते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५५/१००) न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५६/१००) न अवश्यम् वर्ष्मतः परिमाणतः एव वा साम्यम् भवति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५७/१००) किम् तर्हि युक्तितः अपि ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५८/१००) आतः च युक्तितः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-५९/१००) यः हि मुद्गप्रस्थे लवणप्रस्थम् प्रक्षिपेत् न अदः युक्तम् स्यात् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६०/१००) यदि तावत् अदेः अन्नम् न अदः अत्तव्यम् स्यात् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६१/१००) अथ अनितेः अन्नम् न अदः जग्द्व्हा प्राण्यात् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६२/१००) शुक्लादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६३/१००) शुक्लत्वम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६४/१००) शुक्लता इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६५/१००) किम् पुनः कारणम् शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६६/१००) वृक्षत्वम् वृक्षता इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६७/१००) अस्ति अत्र विशेषः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६८/१००) उभयवचनाः हि एते द्रव्यम् च आहुः गुणम् च ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-६९/१००) यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७०/१००) इमे अपि तर्हि उभयवचनाः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७१/१००) कथम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७२/१००) आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् भवति इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७३/१००) यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७४/१००) डित्थादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७५/१००) डित्थत्वम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७६/१००) डित्थता ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७७/१००) डाम्भिट्टत्वम् इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७८/१००) अत्र अपि कः चित् प्राथमकल्पिकः डित्थः डाम्भिट्टः च ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-७९/१००) तेन कृताम् क्रियाम् गुणम् वा यः कः चित् करोति सः उच्यते डित्थत्वम् ते एतत् डाम्भिट्टत्वम् ते एतत् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८०/१००) एवम् डित्थाः कुर्वन्ति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८१/१००) एवम् डाम्भिट्टाः कुर्वन्ति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८२/१००) यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात् वृत्तिः न प्राप्नोति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८३/१००) न एषः दोषः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८४/१००) यथा एव तस्य काथञ्चित्कः प्रयोगः एवम् वृत्तिः अपि भविष्यति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८५/१००) यत् वा सर्वे भावाः स्वेन भावेन भवन्ति सः तेषाम् भावः तदभिधाने ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८६/१००) किम् एभिः त्रिभिः भावग्रहणैः क्रियते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८७/१००) एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्याम् अर्थः ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८८/१००) यत् वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-८९/१००) सः तेषाम् अर्थः इति तदभिधाने वा त्वतलौ भवतः इति वक्तव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९०/१००) न एवम् अन्यत्र भवति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९१/१००) न हि तेन रक्तम् रागात् इति अत्र शब्देन रक्ते प्रत्ययाः उत्पद्यन्ते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९२/१००) शब्दे असम्भवात् अर्थेन रक्ते प्रत्ययाः भविष्यन्ति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९३/१००) तत् तर्हि अन्यतरत् कर्तव्यम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९४/१००) सूत्रम् च भिद्यते ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९५/१००) यथान्यासम् एव अस्तु ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९६/१००) ननु च उक्तम् तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९७/१००) उक्तम् वा ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९८/१००) किम् उक्तम् ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-९९/१००) अनभिधानात् इति ।

(पा-५,१.११९.२; अकि-२,३६६.४-३६८.४; रो-४,८३-९३; भा-१००/१००) अनभिधानात् अभिप्रायादिषु उतपत्तिः न भविष्यति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१/५९) त्वतल्भ्याम् नञ्समासः पूर्वविप्रतिषिद्धम् त्वतलोः स्वरसिद्ध्यर्थम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२/५९) त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३/५९) किम् प्रयोजनम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४/५९) त्वतलोः स्वरसिद्ध्यर्थम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५/५९) त्वतलोः स्वरसिद्धिः यथा स्यात् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-६/५९) त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-७/५९) ब्राह्मणत्वम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-८/५९) ब्राह्म्णता ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-९/५९) नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१०/५९) अब्राह्मणः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-११/५९) अवृषलः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१२/५९) उभयवचने उभयम् प्राप्नोति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१३/५९) अब्राह्मणत्वम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१४/५९) अब्राह्मणता ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१५/५९) नञ्समासः भवति पूर्वविप्रतिष्धेन ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१६/५९) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१७/५९) न वक्तव्यः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१८/५९) न अत्र त्वतलौ प्राप्नुतः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-१९/५९) किम् कारणम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२०/५९) असामर्थ्यात् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२१/५९) कथम् असामर्थ्यम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२२/५९) सापेक्षम् असमर्थम् भवति इति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२३/५९) यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२४/५९) नञ्समासः अपि तर्हि न प्राप्नोति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२५/५९) किम् कारणम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२६/५९) असामर्थ्यात् एव ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२७/५९) कथम् असामर्थ्यम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२८/५९) सापेक्षम् असमर्थम् भवति इति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-२९/५९) यावता ब्राह्मणशब्दः भावम् अपेक्षते ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३०/५९) प्रधानम् तदा ब्राह्मणशब्दः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३१/५९) भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३२/५९) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३३/५९) नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३४/५९) तत्र व्यवस्थार्थम् इदम् वक्तव्यम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३५/५९) वा छन्दसि ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३६/५९) वा छन्दसि नञ्समासः वक्तव्यः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३७/५९) निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३८/५९) अयोनित्वाय ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-३९/५९) अशिथिलत्वाय ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४०/५९) अगोताम् अनपत्यताम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४१/५९) भवेत् इदम् युक्तम् उदाहरणम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४२/५९) अयोनित्वाय ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४३/५९) अशिथिलत्वाय इति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४४/५९) इदम् तु अयुक्तम् अपशुताम् इति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४५/५९) न हि असौ समासभावम् आशास्ते ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४६/५९) किम् तर्हि ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४७/५९) उत्तरपदाभावम् आशास्ते ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४८/५९) न पशोः भावः इति ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-४९/५९) नञ्समासात् अन्यः भाववचनः ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५०/५९) नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५१/५९) किम् प्रयोजनम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५२/५९) स्वरोत्तरपदवृद्ध्यर्थम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५३/५९) स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५४/५९) स्वरार्थम् तावत् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५५/५९) अप्रथिमा ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५६/५९) अम्रदिमा ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५७/५९) उत्तरपदवृद्ध्यर्थम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५८/५९) अशौक्ल्यम् ।

(पा-५,१.११९.३; अकि-२,३६८.५-३६९.२; रो-४,९३-९५; भा-५९/५९) अकार्ष्ण्यम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१/२४) किमर्थः चकारः ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-२/२४) अनुकर्षणार्थः ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-३/२४) त्वतलौ अनुकृष्येते ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-४/२४) न एतत् अस्ति प्रयोजनम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-५/२४) प्रकृतौ त्वतलौ अनुवर्तिष्येते ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-६/२४) अतः उत्तरम् पठति ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-७/२४) आ च त्वात् इति चकारकरणम् अपवादसमावेशार्थम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-८/२४) आ च त्वात् इति चकारकरणम् क्रियते अपवादसमावेशार्थम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-९/२४) इमनिच्प्रभृतिभिः अपवादैः समावेशः यथा स्यात् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१०/२४) न एतत् अस्ति प्रयोजनम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-११/२४) आ त्वात् इति एवम् इमनिच्प्रभृतिभिः अपवादैः समावेशः भविष्यति ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१२/२४) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१३/२४) आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यतः च उच्येते ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१४/२४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१५/२४) आ त्वात् इति एव याः प्रकृतयः ताभ्यः त्वतलौ भविष्यतः यतः च उच्येते ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१६/२४) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१७/२४) आ त्वात् ये अर्थाः तत्र त्वतलौ यथा स्याताम् यत्र च उच्येते ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१८/२४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-१९/२४) आ त्वात् इति एव आ त्वात् ये अर्थाः तत्र त्वतलौ भविष्यतः यत्र च उच्येते ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-२०/२४) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-२१/२४) आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यस्याः च प्रकृतेः अतस्मिन् विशेषे अन्यः प्रत्ययः उत्पद्यते ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-२२/२४) किम् कृतम् भवति ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-२३/२४) स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् चोदितम् ।

(पा-५,१.१२०; अकि-२,३६९.४-१६; रो-४,९५-९७; भा-२४/२४) तत् न वक्तव्यम् भवति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१/२७) कस्य अयम् प्रतिषेधः ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२/२७) त्वतलोः इति आह ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-३/२७) न एतत् असि प्रयोजनम् ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-४/२७) इष्येते नञ्पूर्वात् तत्पुरुषात् त्वतलौ ॒ अब्राह्मणत्वम् अब्राह्मणता इति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-५/२७) अतः उत्तरम् पठति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-६/२७) न नञ्पूर्वात् इति उत्तरस्य प्रतिषेधः ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-७/२७) न नञ्पूर्वात् इति उत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-८/२७) न एतत् अस्ति प्रयोजनम् ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-९/२७) परिगणिताभ्यः प्रकृतिभ्यः उत्तरः भावप्रत्ययः विधीयते ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१०/२७) न च तत्र का चित् नञ्पूर्वा प्रकृतिः गृह्यते ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-११/२७) तदन्तविधिना प्राप्नोति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१२/२७) ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१३/२७) यत्र तर्हि तदन्तविधिः अस्ति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१४/२७) पत्यन्तपुरोहितादिभ्यः यक् इति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१५/२७) यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अपत्यन्तात् यक् भवति नञ्पूर्वात् तत्पुरुषात् इति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१६/२७) एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः नञ्पूर्वात् बहुव्रीहेः भवति इति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१७/२७) न इष्यते ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१८/२७) त्वतलौ एव इष्येते ॒ अविद्यमानाः पृथवः अस्य अपृथुः , अपृथोः भावः अपृथुत्वम् अपृथुता इति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-१९/२७) एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः अन्यपूर्वात् तत्पुरुषात् भवति इति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२०/२७) न इष्यते ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२१/२७) त्वतलौ एव इष्येते ॒ परमः पृथुः परमपृथुः , परमपृथोः भावः परमपृथुत्वम् परमपृथुता ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२२/२७) एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः सापेक्षात् भवति इति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२३/२७) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२४/२७) नञ्समासात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति उक्तम् ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२५/२७) तत् उपपन्नम् भवति ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२६/२७) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,१.१२१; अकि-२,३६९.१९-३७०.१२; रो-४,९७-१००; भा-२७/२७) आचार्यप्रवृत्तिः ज्ञापयति सर्वे एते तद्धिताः सापेक्षात् भवन्ति इति यत् अयम् नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थाः तद्धिताः इति आह ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-१/१४) वावचनम् किमर्थम् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-२/१४) वाक्यम् अपि यथा स्यात् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-३/१४) न एतत् अस्ति प्रयोजनम् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-४/१४) प्रकृटा महाविभाषा ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-५/१४) तया वाक्यम् अपि भविष्यति ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-६/१४) इदम् तर्हि प्रयोजनम् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-७/१४) त्वतलौ अपि यथा स्याताम् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-८/१४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-९/१४) आ च त्वात् इति एतस्मात् यत्नात् त्वतलौ अपि भविष्यतः ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-१०/१४) अतः उत्तरम् पठति ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-११/१४) पृथ्वादिभ्यः वावचनम् अण्समावेशार्थम् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-१२/१४) पृथ्वादिभ्यः वावचनम् क्रियते अण्समावेशः यथा स्यात् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-१३/१४) पार्थवम् ।

(पा-५,१.१२२; अकि-२,३७०.१४-१९; रो-४,१००-१०१; भा-१४/१४) प्रथिमा ।

(पा-५,१.१२४; अकि-२,३७०.२१-३७१.२; रो-४,१०१; भा-१/१) ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् । ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् । चातुर्वर्ण्यम् । चातुर्वैद्यम् । चातुराश्रम्यम् । अर्हतः नुम् च । अर्हतः नुम् च ष्यञ् च वक्तव्यः । अर्हतः भावः आर्हन्त्यम् आर्हती ।

(पा-५,१.१२५; अकि-२,३७१.४-६; रो-४,१०११०२; भा-१/७) किम् इदम् नलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् ।

(पा-५,१.१२५; अकि-२,३७१.४-६; रो-४,१०११०२; भा-२/७) किम् च अतः ।

(पा-५,१.१२५; अकि-२,३७१.४-६; रो-४,१०११०२; भा-३/७) यदि वर्णग्रहणम् स्तेयम् ।

(पा-५,१.१२५; अकि-२,३७१.४-६; रो-४,१०११०२; भा-४/७) नलोपे कृते अयादेशः प्राप्नोति ।

(पा-५,१.१२५; अकि-२,३७१.४-६; रो-४,१०११०२; भा-५/७) अथ सङ्घातग्रहणम् अन्त्यस्य लोपः कस्मात् न भवति ।

(पा-५,१.१२५; अकि-२,३७१.४-६; रो-४,१०११०२; भा-६/७) सिद्धः अन्त्यस्य लोपः यस्य इति एव ।

(पा-५,१.१२५; अकि-२,३७१.४-६; रो-४,१०११०२; भा-७/७) तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति ।

(पा-५,१.१३०; अकि-२,३७१.८-१०; रो-४,१०२; भा-१/३) अण्प्रकरणे श्रोत्रियस्य ।

(पा-५,१.१३०; अकि-२,३७१.८-१०; रो-४,१०२; भा-२/३) अण्प्रकरणे श्रोत्रियस्य उपसङ्ख्यानम् कर्तव्यम् घलोपः च ।

(पा-५,१.१३०; अकि-२,३७१.८-१०; रो-४,१०२; भा-३/३) श्रोत्रियस्य भावः श्रौत्रम् ।