व्याकरणमहाभाष्य खण्ड 54

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१/४३) तिलादिभ्यः खञ् च ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२/४३) तिलादिभ्यः खञ् च इति वक्तव्यम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३/४३) तिल्यम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-४/४३) तैलीनम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-५/४३) किमर्थम् इदम् उच्यते न यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-६/४३) न सिध्यति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-७/४३) किम् कारणम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-८/४३) उमाभङ्गयोः अधान्यत्वात् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-९/४३) धान्यानाम् भवने क्षेत्रे खञ् इति उच्यते ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१०/४३) न च उमाभङ्गे धान्ये ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-११/४३) चमेषु यत् पठ्यते तत् धान्यम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१२/४३) न च एते तत्र पठ्येते ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१३/४३) तत् तर्हि खञ्ग्रहणम् कर्तव्यम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१४/४३) न कर्तव्यम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१५/४३) प्रकृतम् अनुवर्तते ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१६/४३) क्व प्रकृतम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१७/४३) धान्यानाम् भवने क्षेत्रे खञ् इति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१८/४३) यदि तत् अनुवर्तते व्रीहिशालयोः ढक् यवयवकषष्टिकात् यत् इति खञ् च इति खञ् अपि प्राप्नोति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-१९/४३) सम्बन्धम् अनुवर्तिष्यते ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२०/४३) धान्यानाम् भवने क्षेत्रे खञ् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२१/४३) व्रीहिशालयोः ढक् भवति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२२/४३) धान्यानाम् भवने क्षेत्रे खञ् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२३/४३) यवयवकषष्टिकात् यत् भवति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२४/४३) धान्यानाम् भवने क्षेत्रे खञ् भवति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२५/४३) विभाषा तिलमाषोमाभङ्गणुभ्यः ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२६/४३) भवनेक्षेत्रेग्रहणम् अनुवर्तते ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२७/४३) धान्यानाम् इति निवृत्तम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२८/४३) अथ वा मण्डूकप्लुतयः अधिकाराः ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-२९/४३) यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३०/४३) अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३१/४३) अन्यस्य प्रत्ययस्य वचनात् चकारस्य च अनुकर्षणार्थस्य अकरणात् प्रकृतस्य खञः ढग्यतौ बाधकौ भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३२/४३) अथ वा एतत् ज्ञापयति अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३३/४३) किम् तर्हि ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३४/४३) यत्नात् भवन्ति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३५/४३) अथ वा यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३६/४३) ननु च उक्तम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३७/४३) न सिध्यति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३८/४३) किम् कारणम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-३९/४३) उमाभङ्गयोः अधान्यत्वात् इति ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-४०/४३) न एषः दोषः ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-४१/४३) धिनोतेः धान्यम् ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-४२/४३) एते च अपि धिनुतः ।

(पा-५,२.४; अकि-२,३७२.२-२१; रो-४,१०३-१०५; भा-४३/४३) अथ वा शणसप्तदशानि धान्यानि ।

(पा-५,२.६; अकि-२,३७२.२३-३७३.२; रो-४,१०५; भा-१/४) सम्मुख इति किम् निपात्यते ।

(पा-५,२.६; अकि-२,३७२.२३-३७३.२; रो-४,१०५; भा-२/४) सम्मुख इति समस्य अन्तलोपः ।

(पा-५,२.६; अकि-२,३७२.२३-३७३.२; रो-४,१०५; भा-३/४) सम्मुख इति समस्य अन्तलोपः निपात्यते ।

(पा-५,२.६; अकि-२,३७२.२३-३७३.२; रो-४,१०५; भा-४/४) सममुखस्य दर्शनः सम्मुखीनः ।

(पा-५,२.९; अकि-२,३७३.४-६; रो-४,१०५-१०६; भा-१/६) अयानयम् नेयः इति उच्यते ।

(पा-५,२.९; अकि-२,३७३.४-६; रो-४,१०५-१०६; भा-२/६) तत्र न ज्ञायते कः अयः कः अनयः इति ।

(पा-५,२.९; अकि-२,३७३.४-६; रो-४,१०५-१०६; भा-३/६) अयः प्रदक्षिणम् ।

(पा-५,२.९; अकि-२,३७३.४-६; रो-४,१०५-१०६; भा-४/६) अनयः प्रसव्यम् ।

(पा-५,२.९; अकि-२,३७३.४-६; रो-४,१०५-१०६; भा-५/६) प्रदक्षिणप्रसव्यगमिनाम् शाराणाम् यस्मिन् परैः पदानाम् असमावेशः सः अयानयः ।

(पा-५,२.९; अकि-२,३७३.४-६; रो-४,१०५-१०६; भा-६/६) अयानयम् नेयः अयानयीनः शारः ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-१/१२) परोवर इति किम् निपात्यते ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-२/१२) परोवर इति परसोत्ववचनम् ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-३/१२) परोवर इति परस्य ओत्वम् निपात्यते ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-४/१२) यदि एवम् परस्यौत्ववचनम् इति प्राप्नोति ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-५/१२) शकन्धुन्यायेन निर्देशः ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-६/१२) अथ वा न एवम् विज्ञायते परस्य ओत्वम् निपात्यते इति ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-७/१२) कथम् तर्हि ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-८/१२) परस्य शब्दरूपस्य आदेः उत्वम् निपात्यते इति ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-९/१२) परान् च अवरान् च अनुभवति परोवरीणः ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-१०/१२) अथ परम्पर इति किम् निपात्यते ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-११/१२) परपरतराणाम् परम्परभावः । परपरतराणाम् परम्परभावः निपात्यते ।

(पा-५,२.१०; अकि-२,३७३.८-१५; रो-४,१०६-१०७; भा-१२/१२) परान् च परतरान् च अनुभवति परम्परीणः ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-१/१४) इह समांसमीना गौः सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-२/१४) समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-३/१४) समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् भविष्यति ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-४/१४) यत् अयम् यलोपम् शास्ति तत् ज्ञापयति आचार्यः न अत्र लुक् भवति इति ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-५/१४) समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुग्वचनम् ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-६/१४) समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुक् वक्तव्यः ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-७/१४) सिद्धम् तु पूर्वपदस्य यलोपवचनात् ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-८/१४) सिद्धम् एतत् ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-९/१४) कथम् ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-१०/१४) पूर्वपदस्य यलोपः वक्तव्यः ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-११/१४) अनुत्पत्तौ उत्तरपदस्य च वावचनम् ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-१२/१४) अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपः वा वक्तव्यः ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-१३/१४) समाम् समाम् विजायते ।

(पा-५,२.१२; अकि-२,३७३.१७-३७४.९; रो-४,१०७-१०८; भा-१४/१४) समायाम् समायाम् विजायते इति ।

(पा-५,२.१४; अकि-२,३७४.११-१४; रो-४,१०८; भा-१/४) आगवीनः इति किम् निपात्यते ।

(पा-५,२.१४; अकि-२,३७४.११-१४; रो-४,१०८; भा-२/४) गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः ।

(पा-५,२.१४; अकि-२,३७४.११-१४; रो-४,१०८; भा-३/४) गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः निपात्यते ।

(पा-५,२.१४; अकि-२,३७४.११-१४; रो-४,१०८; भा-४/४) अ तस्य गोः प्रतिदानात् कर्मकारी आगवीनः कर्मकरः ।

(पा-५,२.२०; अकि-२,३७४.१६-१८; रो-४,१०९; भा-१/५) किम् यः शालायाम् अधृष्टः सः शालीनः कूपे वा यत् अकार्यम् तत् कौपीनम् ।

(पा-५,२.२०; अकि-२,३७४.१६-१८; रो-४,१०९; भा-२/५) न इति आह ।

(पा-५,२.२०; अकि-२,३७४.१६-१८; रो-४,१०९; भा-३/५) उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-५,२.२०; अकि-२,३७४.१६-१८; रो-४,१०९; भा-४/५) शालाप्रवेशनम् अर्हति अधृष्टः सः शालीनः ।

(पा-५,२.२०; अकि-२,३७४.१६-१८; रो-४,१०९; भा-५/५) कूपावतरणम् अर्हति अकार्यम् तत् कौपीनम् ।

(पा-५,२.२१; अकि-२,३७४.२०-२१; रो-४,१०९-११०; भा-१/५) व्रातेन जीवति इति उच्यते ।

(पा-५,२.२१; अकि-२,३७४.२०-२१; रो-४,१०९-११०; भा-२/५) किम् व्रातम् नाम ।

(पा-५,२.२१; अकि-२,३७४.२०-२१; रो-४,१०९-११०; भा-३/५) नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः ।

(पा-५,२.२१; अकि-२,३७४.२०-२१; रो-४,१०९-११०; भा-४/५) तेषाम् कर्म व्रातम् ।

(पा-५,२.२१; अकि-२,३७४.२०-२१; रो-४,१०९-११०; भा-५/५) व्रातकर्मणा जीवति इति व्रातीनः ।

(पा-५,२.२३; अकि-२,३७५.२-६; रो-४,११०; भा-१/७) हैयङ्गवीनम् इति किम् निपात्यते ।

(पा-५,२.२३; अकि-२,३७५.२-६; रो-४,११०; भा-२/७) ह्योगोदोहस्य हियङ्ग्वादेशः सञ्ज्ञायाम् तस्य विकारे ।

(पा-५,२.२३; अकि-२,३७५.२-६; रो-४,११०; भा-३/७) ह्योगोदोहस्य हियङ्ग्वादेशः निपात्यते सञ्ज्ञायाम् विषये तस्य विकारे इति एतस्मिन् अर्थे ।

(पा-५,२.२३; अकि-२,३७५.२-६; रो-४,११०; भा-४/७) ह्योगोदोहस्य विकारः हैयङ्गवीनम् घृतम् ।

(पा-५,२.२३; अकि-२,३७५.२-६; रो-४,११०; भा-५/७) सञ्ज्ञायाम् इति किमर्थम् ।

(पा-५,२.२३; अकि-२,३७५.२-६; रो-४,११०; भा-६/७) ह्योगोदोहस्य विकारः उदश्वित् ।

(पा-५,२.२३; अकि-२,३७५.२-६; रो-४,११०; भा-७/७) अत्र मा भूत् इति ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-१/९) इह नाना इति सहार्थः गम्येत ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-२/९) द्वौ हि प्रतिषेधौ प्रकृतम् अर्थम् गमयतः ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-३/९) न न सः सह एव इति ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-४/९) न एषः दोषः ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-५/९) न अयम् प्रत्ययार्थः ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-६/९) किम् तर्हि प्रकृतिविशेषणम् एतत् ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-७/९) वि नञ् इति एताभ्याम् असहवाचिभ्याम् नानाञौ भवतः ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-८/९) कस्मिन् अर्थे ।

(पा-५,२.२७; अकि-२,३७५.१५-१७; रो-४,१११; भा-९/९) स्वाऋथे ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१/२३) कस्मिन् अर्थे शालजादयः भवन्ति ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-२/२३) न सह इति वर्तते ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-३/२३) भवेत् सिद्धम् विशाले शृङ्गे विशङ्कटे शृङ्गे इति ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-४/२३) इह खलु सङ्कटम् इति सङ्गतार्थः गम्यते ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-५/२३) प्रकटम् इति प्रगरार्थः गम्यते ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-६/२३) उत्कटम् इति उद्गतार्थः गम्यते ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-७/२३) एवम् तर्हि साधने शालजादयः भवन्ति ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-८/२३) किम् वक्तव्यम् एतत् ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-९/२३) न हि ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१०/२३) कथम् अनुच्यमानम् गंस्यते ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-११/२३) उपसर्गेभ्यः इमे विधीयन्ते ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१२/२३) उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाचै शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१३/२३) यत्र हि न प्रयुज्यते ससाधनम् तत्र क्रियाम् आहुः ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१४/२३) ते एते उपसर्गेभ्यः विधीयमानाः ससाधनायाम् क्रियायाम् भविष्यन्ति ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१५/२३) एवम् अपि भवेत् सिद्धम् विशाले शृङ्गे इति ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१६/२३) इदम् तु न सिध्यति ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१७/२३) विशालः ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१८/२३) विशङ्कटः इति ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-१९/२३) एतत् अपि सिद्धम् ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-२०/२३) कथम् ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-२१/२३) अकारः मत्वर्थीयः ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-२२/२३) विशाले अस्य स्तः विशालः ।

(पा-५,२.२८; अकि-२,३७५.१९-३७६.६; रो-४,१११-११२; भा-२३/२३) विशङ्कटे अस्य स्तः विशङ्कटः इति ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१/४४) कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि उपसङ्ख्यानम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२/४४) कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि अभिधेये उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३/४४) अलाबूकटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-४/४४) तिलकटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-५/४४) उमाकटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-६/४४) भङ्गायाः च ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-७/४४) भङ्गायाः च इति वक्तव्यम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-८/४४) भङ्गाकटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-९/४४) गोष्ठादयः स्थानादिषु पशुनामादिभ्यः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१०/४४) गोष्ठादयः प्रत्ययाः स्थानादिषु अर्थेषु पशुनामादिभ्यः वक्तव्याः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-११/४४) गोगोष्ठम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१२/४४) अविगोष्ठम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१३/४४) कटच् च वक्तव्यः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१४/४४) अविकटः उष्ट्रकटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१५/४४) पटच् च वक्तव्यः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१६/४४) अविपटः उष्ट्रपटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१७/४४) गोयुगशब्दः च प्रत्ययः वक्तव्यः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१८/४४) उष्ट्रगोयुगम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-१९/४४) खरगोयुगम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२०/४४) तैलशब्दः च प्रत्ययः वक्तव्यः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२१/४४) इङ्गुदतैलम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२२/४४) सर्षपतैलम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२३/४४) शाकटशब्दः च प्रत्ययः वक्तव्यः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२४/४४) इक्षुशाकटम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२५/४४) मूलशाकटम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२६/४४) शाकिनशब्दः च प्रत्ययः वक्तव्यः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२७/४४) इक्षुशाकिनम् मूलशाकिनम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२८/४४) उपमानात् वा सिद्धम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-२९/४४) उपमानात् वा सिद्धम् एतत् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३०/४४) गवाम् स्थानम् गोष्ठम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३१/४४) यथा गवम् तद्वत् उष्ट्राणाम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३२/४४) कटच् वक्तव्यः इति ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३३/४४) यथा नानाद्रव्याणाम् सङ्घातः कटः एवम् अवयः संहताः अविकटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३४/४४) पटत् च वक्तयः इति ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३५/४४) यथा पटः प्रस्तीर्णः एवम् अवयः प्रस्तीर्णाः अविपटः ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३६/४४) गोयुगशब्दः च प्रत्ययः वक्तव्यः इति ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३७/४४) गोः युगम् गोयुगम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३८/४४) यथा गोः तद्वत् उष्ट्रस्य ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-३९/४४) उष्ट्रगोयुगम् ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-४०/४४) तैलशब्दः च प्रत्ययः वक्तव्यः इति ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-४१/४४) प्रकृत्यन्तरम् तैलशब्दः विकारे वर्तते ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-४२/४४) एवम् च कृत्वा तिलतैलम् इति अपि सिद्धम् भवति ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-४३/४४) शाकटशब्दः च प्रत्ययः वक्तव्यः एव ।

(पा-५,२.२९; अकि-२,३७६.८-३७७.४; रो-४,११२-११४; भा-४४/४४) शाकिनशब्दः च प्रत्ययः वक्तव्यः एव ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-१/१६) इनच्पिटच्काः प्रत्ययाः वक्तव्याः चिकचिचिक् इति एते च प्रकृत्यादेशाः वक्तव्याः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-२/१६) चिकिनः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-३/१६) चिपिटः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-४/१६) चिक्कः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-५/१६) क्लिन्नस्य चिल्पिल् लः च अस्य चक्षुषी ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-६/१६) क्लिन्नस्य चिल् पिल् इति एतौ प्रकृत्यादेशौ वक्तव्यौ लः च प्रत्ययः अस्य चक्षुषी इति एतस्मिन् अर्थे ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-७/१६) क्लिन्ने अस्य चक्षुषी चिल्लः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-८/१६) पिल्लः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-९/१६) चुल् च वक्तव्यः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-१०/१६) चुल्लः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-११/१६) यदि अस्य इति उच्यते चिल्ले चक्षुषी पिल्ले चक्षुषी इति न सिध्यति ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-१२/१६) तस्मान् न अर्थः अस्य ग्रहणे ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-१३/१६) कथम् चिल्लः पिल्लः इति ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-१४/१६) अकारः मत्वर्थीयः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-१५/१६) चिल्ले अस्य स्तः चिल्लः ।

(पा-५,२.३३; अकि-२,३७७.६-१४; रो-४,११५; भा-१६/१६) पिल्ले अस्य स्तः पिल्लः इति ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१/५४) प्रमाणे इति किमयम् प्रत्ययार्थः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२/५४) प्रमाणम् प्रत्ययार्थः न । प्रमाणे इति न अयम् प्रत्ययार्थः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३/५४) क्व तर्हि प्रत्ययाः भवन्ति ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४/५४) तद्वति ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-५/५४) कुतः एतत् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-६/५४) अस्य इति वर्तनात् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-७/५४) अस्य इति वर्तते ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-८/५४) क्व प्रकृतम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-९/५४) तद् अस्य सञ्जातम् तारकादिभ्यः इतच् इति ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१०/५४) प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-११/५४) ऊरुद्वयसम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१२/५४) ऊरुदघ्नम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१३/५४) प्रमाणे लः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१४/५४) प्रमाणे लः वक्तव्यः ॒ शमः , दिष्टिः , वितस्तिः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१५/५४) द्विगोः नित्यम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१६/५४) द्विगोः नित्यम् लः वक्तव्यः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१७/५४) द्विशतम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१८/५४) त्रिशतम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-१९/५४) द्विदिष्टिः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२०/५४) त्रिदिष्टिः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२१/५४) द्विवितस्तिः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२२/५४) त्रिवितस्तिः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२३/५४) किमर्थम् इदम् उच्यते ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२४/५४) संशये श्राविणम् वक्ष्यति यस्य अस्यम् पुरस्तात् अपकर्षः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२५/५४) डट् स्तोमे ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२६/५४) डट् स्तोमे वक्तव्यः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२७/५४) पञ्चदशः स्तोमः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२८/५४) शच्शनोः डिनिः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-२९/५४) शच्शनोः डिनिः वक्तव्यः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३०/५४) त्रिंशिनः मासाः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३१/५४) पञ्चदशिनः अर्धमासाः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३२/५४) विंशतेः च इति वक्तव्यम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३३/५४) विंशिनः अङ्गिरसः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३४/५४) प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३५/५४) मात्रच् वक्तव्यः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३६/५४) शममात्रम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३७/५४) दिष्टिमात्रम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३८/५४) वितस्तिमात्रम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-३९/५४) कुडवमात्रम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४०/५४) पञ्चमात्राः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४१/५४) दशमात्राः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४२/५४) वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४३/५४) वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् वक्तव्यौ ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४४/५४) तावत् एव तावद्द्वयसम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४५/५४) तावन्मात्रम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४६/५४) यावत् एव यावद्द्वयसम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४७/५४) यावन्मात्रम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४८/५४) [प्रमाणम् प्रत्ययार्थः न तद्वति अस्य इति वर्तनात् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-४९/५४) प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-५०/५४) प्रमाणे लः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-५१/५४) द्विगोः नित्यम् ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-५२/५४) डट् स्तोमे ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-५३/५४) शच्शनोः डिनिः ।

(पा-५,२.३७; अकि-२,३३७.१६-३७८.१७; रो-४,११५-११८; भा-५४/५४) प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये (ऋ ईV.११८)]

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-१/९) किमर्थम् परिमाणे इति उच्यते न प्रमाणे इति वर्तते ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-२/९) एवम् तर्हि सिद्धे सति यत् परिमाणग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत् प्रमाणम् अन्यत् परिमाणम् इति ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-३/९) डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-४/९) न एतत् ज्ञापकसाध्यम् अन्यत् प्रमाणम् अन्यत् परिमाणम् इति ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-५/९) उक्तः अत्र विशेषः ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-६/९) मात्राद्यप्रतिघाताय ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-७/९) एवम् च कृत्वा मात्रादीनाम् प्रतिघातः न भवति ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-८/९) भावः सिद्धः च डावतोः ।

(पा-५,२.३९.१; अकि-२,३७८.१९-३७९.१; रो-४,११८-११९; भा-९/९) डावत्वन्तात् मात्रजादीनाम् भावः सिद्धः भवति ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-१/१०) वतुप्प्रकरणे युष्मदस्मद्भ्याम् छन्दसि सादृशे उपसङ्ख्यानम् ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-२/१०) वतुप्प्रकरणे युष्मदस्मद्भ्याम् छन्दसि सादृशे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-३/१०) न त्वावान् अन्यः दिव्यः न पर्थिवः न जातः न जनिष्यते ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-४/१०) त्ववतः पुरूवसो ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-५/१०) यज्ञम् विप्रस्य मवतः ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-६/१०) त्वत्सदृशस्य ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-७/१०) मत्सदृशस्य इति ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-८/१०) [डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-९/१०) मात्राद्यप्रतिघाताय ।

(पा-५,२.३९.२; अकि-२,३७९.२-५; रो-४, ११९-१२०; भा-१०/१०) भावः सिद्धः च डावतोः (ऋ ईV.१२०)]

(पा-५,२.४०; अकि-२,३७९.७-१०; रो-४,१२०; भा-१/६) केन विहितस्य किमिदम्भ्याम् वतुपः वः घत्वम् उच्यते ।

(पा-५,२.४०; अकि-२,३७९.७-१०; रो-४,१२०; भा-२/६) एतत् एव ज्ञापयति आचार्यः भवति किमिदम्भ्याम् वतुप् इति यत् अयम् किमिदम्भ्याम् उत्तरस्य वतुपः वः घत्वम् शास्ति ।

(पा-५,२.४०; अकि-२,३७९.७-१०; रो-४,१२०; भा-३/६) अथ वा योगविभागः करिष्यते ।

(पा-५,२.४०; अकि-२,३७९.७-१०; रो-४,१२०; भा-४/६) किमिदम्भ्याम् वतुप् भवति ।

(पा-५,२.४०; अकि-२,३७९.७-१०; रो-४,१२०; भा-५/६) ततः वः घः इति ।

(पा-५,२.४०; अकि-२,३७९.७-१०; रो-४,१२०; भा-६/६) वः च अस्य घः भवति इति ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-१/१०) बहुषु इति वक्तव्यम् ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-२/१०) इह मा भूत् ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-३/१०) कियान् ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-४/१०) कियन्तौ ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-५/१०) तत् तर्हि वक्तव्यम् ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-६/१०) न वक्तव्यम् ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-७/१०) किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-८/१०) द्व्येकयोः पुनः निर्ज्ञातम् ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-९/१०) निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न भवति ।

(पा-५,२.४१; अकि-२,३७९.१२-१५; रो-४,१२०-१२१; भा-१०/१०) परिप्रश्नाभावात् किम् एव तावत् न अस्ति कुतः प्रत्ययः ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१/२१) इह कस्मात् न भवति ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-२/२१) बहवः अवयवाः अस्याः सङ्ख्यायाः इति ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-३/२१) अवयवे या सङ्ख्या इति उच्यते ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-४/२१) न च का चित् सङ्ख्या अस्ति यस्याः बहुशब्दः अवयवः स्यात् ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-५/२१) ननु च इयम् अस्ति सङ्ख्या इति एव ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-६/२१) न एषा सङ्ख्या ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-७/२१) सञ्ज्ञा एषा ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-८/२१) अवयवविधाने अवयविनि प्रत्ययः ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-९/२१) अवयवविधाने अवयविनि प्रत्ययः भवति इति वक्तव्यम् ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१०/२१) इह मा भूत् ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-११/२१) पञ्च अवयवाः ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१२/२१) दश अवयवाः इति ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१३/२१) अथ अवयविनि इति उच्यमाने अवयवस्वामिनि कस्मात् न भवति ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१४/२१) पञ्च पश्ववयवाः देवदत्तस्य इति ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१५/२१) अवयवशब्दः अयम् गुणशब्दः अस्य इति च वर्तते ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१६/२१) तेन यम् प्रति अवयवः गुणः तस्मिन् अवयविनि प्रत्ययेन भवितव्यम् ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१७/२१) कम् च प्रति अवयवः गुणः ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१८/२१) समुदायम् ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-१९/२१) यदि एवम् अवयविनि इति अपि न वक्तव्यम् ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-२०/२१) अवयवेषु कस्मात् न भवति ।

(पा-५,२.४२; अकि-२,३७९.१७-३८०.४; रो-४,१२१-१२२; भा-२१/२१) अस्य इति वर्तते ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-१/११) किमर्थम् उदात्तः इति उच्यते ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-२/११) उदात्तः यथा स्यात् ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-३/११) न एतत् अस्ति प्रयोजनम् ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-४/११) प्रत्ययस्वरेण अपि एषः स्वरः सिद्धः ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-५/११) न सिध्यति ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-६/११) चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् प्रसज्येत ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-७/११) अथ उदात्तः इति उच्यमाने कुतः एतत् आदेः उदात्तत्वम् भविष्यति न पुनः अन्तस्य इति ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-८/११) उदात्तवचनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भविष्यति ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-९/११) कस्य च अप्राप्तः ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-१०/११) आदेः ।

(पा-५,२.४४; अकि-२,३८०.६-१२; रो-४,१२२-१२३; भा-११/११) अन्तस्य पुनः चित्स्वरेण एव सिद्धम् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१/२६) इह कस्मात् न भवति ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२/२६) एकादश माषाः अधिकाः अस्मिन् कार्षापणशते इति ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-३/२६) अधिके समानजातौ ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-४/२६) समानजातौ अधिके इष्यते ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-५/२६) अथ इह कस्मात् न भवति ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-६/२६) एकादश कार्षापणाः अधिकाः अस्याम् कार्षापणत्रिंसति इति ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-७/२६) इष्टम् शतसहस्रयोः ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-८/२६) शतसहस्रयोः अधिके इष्यते ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-९/२६) अथ एकादशम् शतसहस्रम् इति कस्य आधिक्ये भवितव्यम् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१०/२६) यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यः मतः मम ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-११/२६) यदि तावत् शतानि सङ्ख्यायन्ते शताधिक्ये भवितव्यम् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१२/२६) अथ सहस्राणि सङ्ख्यायन्ते सहस्राधिक्ये भवितव्यम् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१३/२६) डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१४/२६) डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१५/२६) अगमकः निर्देशः अनिर्देशः ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१६/२६) न हि एकादशानाम् शतम् अधिकरणम् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१७/२६) सिद्धम् तु पञ्चमीनिर्देशात् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१८/२६) सिद्धम् एतत् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-१९/२६) कथम् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२०/२६) पञ्चमीनिर्देशात् ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२१/२६) पञ्चमीनिर्देशः कर्तव्यः ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२२/२६) तत् अस्मात् अधिकम् इति ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२३/२६) सः तर्हि पञ्चमीनिर्देशः कर्तव्यः ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२४/२६) न कर्तव्यः ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२५/२६) यदि अपि तावत् व्यापके वैषयिके वा अधिकरणे सम्भवः न अस्ति औपश्लेषिकम् अधिकरणम् विज्ञास्यते ।

(पा-५,२.४५; अकि-२,३८०.१२-३८१.५; रो-४,१२३-१२५; भा-२६/२६) एकादश कार्षापणाः उपश्लिष्टाः अस्मिन् शते एकादशम् शतम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१/२०) किमर्थम् शद्ग्रहणे अन्तग्रहणम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-२/२०) शद्ग्रहणे अन्तग्रहणम् प्रत्ययग्रहणे यस्मात् सः तदादेः अधिकार्थम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-३/२०) शद्ग्रहणे अन्तग्रहणम् क्रियते ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-४/२०) प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् भवति इति इह न प्राप्नोति ॒ एकत्रिंशम् शतम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-५/२०) इष्यते च अत्र अपि स्यात् इति ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-६/२०) तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तग्रहणम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-७/२०) एवमर्थम् इदम् उच्यते ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-८/२०) अस्ति प्रयोजनम् एतत् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-९/२०) किम् तर्हि इति ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१०/२०) सङ्ख्याग्रहणम् च ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-११/२०) सङ्ख्याग्रहणम् च कर्तव्यम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१२/२०) इह मा भूत् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१३/२०) गोत्रिंशत् अधिकर्म् अस्मिन् शते इति ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१४/२०) विंशतेः च ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१५/२०) विंशतेः च अन्तग्रहणम् कर्तव्यम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१६/२०) इह अपि यथा स्यात् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१७/२०) एकविंशम् शतम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१८/२०) चकारात् सङ्ख्याग्रहणम् च कर्तव्यम् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-१९/२०) इह मा भूत् ।

(पा-५,२.४६; अकि-२,३८१.७-१६; रो-४,१२५-१२६; भा-२०/२०) गोविंशतिः अधिकम् अस्मिन् शते इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१/४७) निमाने गुणिनि ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२/४७) निमाने गुणिनि इति वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३/४७) किम् प्रयोजनम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४/४७) गुणेषु मा भूत् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-५/४७) भूयसः ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-६/४७) भूयसः इति च वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-७/४७) किम् प्रयोजनम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-८/४७) भूयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः यथा स्यात् अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः मा भूत् इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-९/४७) एकः अन्यतरः ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१०/४७) एकः चेत् अन्यतरः भवति इति वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-११/४७) इह मा भूत् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१२/४७) द्वौ यवानाम् त्रयः उदश्वितः इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१३/४७) समानानाम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१४/४७) समानानाम् च इति वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१५/४७) इह मा भूत् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१६/४७) एकः यवानाम् अध्यर्धः उदश्वितः इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१७/४७) तत् तर्हि बहु वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१८/४७) न वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-१९/४७) यत् तावत् उच्यते ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२०/४७) गुणिनि इति वक्तव्यम् इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२१/४७) न वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२२/४७) गुणेषु कस्मात् न भवति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२३/४७) अस्य इति वर्तते ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२४/४७) यत् उक्तम् भूयसः इति वक्तव्यम् इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२५/४७) न वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२६/४७) अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः कस्मात् न भवति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२७/४७) अनभिधानात् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२८/४७) यत् उक्तम् एकः चेत् अन्यतरः भवति इति वक्तव्यम् इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-२९/४७) न वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३०/४७) कस्मात् न भवति द्वौ यवानाम् त्रयः उदश्वितः इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३१/४७) तन्त्रम् विभक्तिनिर्देशः ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३२/४७) यत् अपि उच्यते समानानाम् च इति वक्तव्यम् इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३३/४७) न वक्तव्यम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३४/४७) कस्मात् न भवति एकः यवानाम् अध्यर्धः उदश्वितः इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३५/४७) अनभिधानात् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३६/४७) निमेये च अपि दृश्यते ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३७/४७) निमेये च अपि प्रत्ययः दृश्यते ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३८/४७) द्विमयाः यवाः ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-३९/४७) त्रिमयाः ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४०/४७) किम् पुनः इह निमानम् किम् निमेयम् यावता उभयम् त्यज्यते ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४१/४७) सत्यम् एवम् एतत् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४२/४७) क्व चित् तु का चित् प्रसृततरा गतिः भवति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४३/४७) तत् यथा ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४४/४७) समाने त्यागे धान्यम् विक्रीणिते यवान् विक्रीणीते इति उच्यते ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४५/४७) न कः चित् आह कार्षापणम् विक्रीणिते इति ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४६/४७) अथ वा येन अधिगम्यते तत् निमानम् ।

(पा-५,२.४७; अकि-२,३८१.१८-३८२.१६; रो-४,१२६-१२९; भा-४७/४७) यत् अधिमयते तत् निमेयम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१/५०) तस्य पूरणे इति अतिप्रसङ्गः ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२/५०) तस्य पूरणे इति अतिप्रसङ्गः भवति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३/५०) इह अपि प्रप्नोति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४/५०) पञ्चानाम् उष्ट्रिकाणाम् पूरणः घटः ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-५/५०) सिद्धम् तु सङ्ख्यापूरणे इति वचनात् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-६/५०) सिद्धम् एतत् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-७/५०) कथम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-८/५०) सङ्ख्यापूरणे इति वक्तव्यम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-९/५०) एवम् अपि घटे प्राप्नोति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१०/५०) सङ्ख्येयम् हि असौ अद्भिः पूरयति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-११/५०) सङ्ख्यापूरणे इति ब्रूमः न सङ्ख्येयपूरणे इति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१२/५०) यस्य वा भावात् अन्यसङ्ख्यात्वम् तत्र ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१३/५०) अथ वा यस्य भावात् अन्या सङ्ख्या प्रवर्तते तत्र इति वक्तव्यम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१४/५०) एवम् अपि द्वितीये अध्याये अष्टमः इति प्राप्नोति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१५/५०) सर्वेषाम् हि तेषाम् भावात् सङ्ख्या प्रवर्तते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१६/५०) चरमोपजाते पूर्वस्मिन् च अनपगते इति वक्तव्यम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१७/५०) एवम् अपि एकादशीद्वादश्यौ सौविष्टकृती ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१८/५०) इदम् द्वितीयम् इदम् तृतीयम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-१९/५०) दश दशमानि इति न सिध्यति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२०/५०) सूत्रम् च भिद्यते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२१/५०) यथान्यासम् एव अस्तु ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२२/५०) ननु च उक्तम् तस्य पूरणे इति अतिप्रसङ्गः इति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२३/५०) परिहृतम् एतत् सिद्धम् सङ्ख्यापूरणे इति वचनात् इति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२४/५०) तत् तर्हि सङ्ख्याग्रहणम् कर्तव्यम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२५/५०) न कर्तव्यम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२६/५०) प्रकृतम् अनुवर्तते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२७/५०) क्व प्रकृतम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२८/५०) सङ्ख्यायाः गुणस्य निमाने मयट् इति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-२९/५०) एवम् तर्हि न इयम् वृत्तिः उपालभ्यते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३०/५०) किम् तर्हि ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३१/५०) वृत्तिस्थानम् उपालभ्यते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३२/५०) वृत्तिः एव अत्र न प्राप्नोति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३३/५०) किम् कारणम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३४/५०) प्रत्ययार्थाभावात् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३५/५०) न एषः दोषः ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३६/५०) वचनात् स्वाऋथिकः भविष्यति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३७/५०) अथ वा पूर्वस्याः सङ्ख्यायाः परापेक्षायाः उत्पत्तिः वक्तव्या उत्तरा च साङ्ख्या आदेशः वक्तव्यः ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३८/५०) अथ वा न्यूने अयम् कृत्स्नशब्दः द्रष्टव्यः ॒ चतुर्षु पञ्चशब्दः ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-३९/५०) अथ वा सर्वे एव द्व्यादयः अन्योन्यम् अपेक्षन्ते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४०/५०) यदि एवम् द्वितीये अध्याये अष्टमः इति प्राप्नोति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४१/५०) भवति एव ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४२/५०) प्रकृत्यर्थात् बहिः सर्वा वृत्तिः प्रायेण लक्ष्यते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४३/५०) पूरणे स्यात् कथम् वृत्तिः ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४४/५०) वचनात् इति लक्ष्यताम् ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४५/५०) तस्याः पूर्वा तु या सङ्ख्या तस्याः [ऋ तस्याम् ] भवतु तद्धितः ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४६/५०) आदेशः च ओत्तरा सङ्ख्या तथा न्याय्या भविष्यति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४७/५०) न्यूने वा कृत्स्नशब्दः अयम् पूर्वस्याम् उत्तराम् यदि सामर्थ्यम् च तया तस्याः तथा न्याय्या भविष्यति ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४८/५०) अन्योन्यम् वा व्यपाश्रित्य सर्वस्मिन् द्व्यादयः यदि प्रवर्तन्ते तथा न्याय्या वृत्तिः भवति पूरणे ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-४९/५०) बहूनाम् वाचिका सङ्ख्या पूरणः च एकः इष्यते ।

(पा-५,२.४८; अकि-२,३८२.१८-३८३.२२; रो-४,१२९-१३३; भा-५०/५०) अन्यत्वात् उभयोः न्याय्या वार्क्षी शाखा निदर्शनम् ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१/२१) मडादिषु यस्य आदिः तन्निर्देर्देशः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-२/२१) मडादिषु यस्य आदिः क्रियते तन्निर्देर्देशः कर्तव्यः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-३/२१) अस्य आदिः भवति इति वक्तव्यम् ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-४/२१) अकिर्यमाणे हि प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-५/२१) तत्र कः दोषः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-६/२१) प्रत्ययान्तरे हि स्वरे दोषः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-७/२१) प्रत्ययान्तरे हि सति स्वरे दोषः स्यात् ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-८/२१) विंशतितमः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-९/२१) एषः स्वरः प्रसज्येत ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१०/२१) विंशतितमः इति च इष्यते ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-११/२१) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१२/२१) न कर्तव्यः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१३/२१) प्रकृतम् डड्ग्रहणम् अनुवर्तते ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१४/२१) क्व प्रकृतम् ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१५/२१) तस्य पूरणे डट् इति ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१६/२१) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च अर्थः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१७/२१) नान्तात् इति पञ्चमी डट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१८/२१) तस्मात् इति उत्तरस्य इति ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-१९/२१) प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-२०/२१) न अयम् प्रत्ययविधिः ।

(पा-५,२.४९; अकि-२,३८३.२४-३८४.७; रो-४,१३३-१३४; भा-२१/२१) विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(पा-५,२.५१.१; अकि-२,३८४.९-१०; रो-४,१३४; भा-१/४) चतुरः छयतौ आद्यक्षरलोपः च ।

(पा-५,२.५१.१; अकि-२,३८४.९-१०; रो-४,१३४; भा-२/४) चतुरः छयतौ वक्तव्यौ आद्यक्षरलोपः च वक्तव्यः ।

(पा-५,२.५१.१; अकि-२,३८४.९-१०; रो-४,१३४; भा-३/४) तुरीयम् ।

(पा-५,२.५१.१; अकि-२,३८४.९-१०; रो-४,१३४; भा-४/४) तुर्यम् ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-१/१२) अथ किमर्थम् थट्थुकौ पृथक् क्रियेते न सर्वम् थट् एव स्यात् थुक् एव वा ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-२/१२) थट्थुकोः पृथक्करणम् पदान्तविधिप्रतिषेधाऋथम् ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-३/१२) थट्थुकोः पृथक्करणम् क्रियते पदान्तविधिप्रतिषेधाऋथम् ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-४/१२) पदान्तविध्यर्थम् पदान्तप्रतिषेधाऋथम् च ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-५/१२) पदान्तविध्यर्थम् तावत् ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-६/१२) पर्णमयानि पञ्चथानि भवन्ति ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-७/१२) रथः सप्तथः ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-८/१२) पदन्तस्य इति नलोपः यथा स्यात् ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-९/१२) पदान्तप्रतिषेधाऋथम् ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-१०/१२) षष्ठः ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-११/१२) पदान्तस्य इति जश्त्वम् मा भूत् ।

(पा-५,२.५१.२; अकि-२,३८४.११-१७; रो-४,१३४-१३५; भा-१२/१२) इह चतुर्थः इति पदान्तस्य इति विसर्जनीयः मा भूत् इति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१/३४) बहुकतिपयवतूनाम् लिङ्गविशिष्टात् उत्पत्तिः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२/३४) बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः वक्तव्या ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-३/३४) इह अपि यथा स्यात् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-४/३४) बह्वीनाम् पूरणी बहुतिथी ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-५/३४) कतिपयानाम् पूरणी कतिपयथी ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-६/३४) तावतीनाम् पूरणी तावतिथी ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-७/३४) बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः सिद्धा ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-८/३४) कथम् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-९/३४) प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१०/३४) पुंवद्वचनम् च । पुंवद्भावः च वक्तव्यः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-११/३४) बह्वीनाम् पूरणी बहुतिथी ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१२/३४) किमर्थम् न भस्य अढे तद्धिते पुंवत् भवति इति सिद्धम् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१३/३४) भस्य इति उच्यते ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१४/३४) यजादौ च भम् भवति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१५/३४) न च अत्र यजादिम् पश्यामः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१६/३४) किम् कारणम् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१७/३४) तिथुका व्यविहितत्वात् न प्राप्नोति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१८/३४) इदम् इह सम्प्रधार्यम् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-१९/३४) तिथुक् क्रियताम् पुंवद्भावः इति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२०/३४) किम् अत्र कर्तव्यम् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२१/३४) परत्वात् पुंवद्भावः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२२/३४) नित्यः तिथुक् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२३/३४) कृते अपि पुंवद्भावे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२४/३४) तिथुक् अपि अनित्यः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२५/३४) अन्यस्य कृते पुंवद्भावे प्राप्नोति अन्यस्य अकृते ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२६/३४) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२७/३४) अन्तरङ्गः तर्हि तिथुक् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२८/३४) का अन्तरङ्गता ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-२९/३४) उत्पत्तिसन्नियोगेन तिथुक् उच्यते उत्पन्ने प्रत्यय्ते प्रकृतिप्रत्ययौ आश्रित्य पुंवद्भावः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-३०/३४) पुंवद्भावः अपि अन्तरङ्गः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-३१/३४) कथम् ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-३२/३४) उक्तम् एतत् सिद्धः च प्रत्ययविधौ इति ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-३३/३४) उभयोः अन्तरङ्गयोः परत्वात् पुंवद्भावः ।

(पा-५,२.५२; अकि-२,३८४.१९-३८५.१३; रो-४,१३५-१३६; भा-३४/३४) पुंवद्भावे कृते पुनःप्रसङ्गविज्ञानात् तिथुक् सिद्धः ॒ बहुतिथी ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-१/१६) असङ्ख्यादेः इति किमर्थम् ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-२/१६) इह मा भूत् ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-३/१६) एकषष्टः ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-४/१६) द्विषष्टः ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-५/१६) असङ्ख्यादेः इति शक्यम् अवक्तुम् ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-६/१६) कस्मात् न भवति एकषष्टः ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-७/१६) द्विषष्टः इति ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-८/१६) षष्टिशब्दात् प्रत्ययः विधीयते ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-९/१६) कः प्रसङ्गः यत् एकषष्टिशब्दात् स्यात् ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-१०/१६) न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-११/१६) तदन्तविधिना प्राप्नोति ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-१२/१६) ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-१३/१६) एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-१४/१६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-१५/१६) एकविंशतितमः ।

(पा-५,२.५८; अकि-२,३८५.१५-२०; रो-४,१३६-१३७; भा-१६/१६) एतत् सिद्धम् भवति ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१/३४) छप्रकरणे अनेकपदात् अपि ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२/३४) छप्रकरणे अनेकपदात् अपि इति वक्तव्यम् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-३/३४) इह अपि यथा स्यात् ॒ अस्यवामीयम् , कयाशुभीयम् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-४/३४) किम् पुनः कारणम् न सिध्यति ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-५/३४) अप्रातिपदिकत्वात् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-६/३४) सिद्धम् तु प्रातिपदिकविज्ञानात् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-७/३४) सिद्धम् एतत् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-८/३४) कथम् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-९/३४) प्रातिपदिकविज्ञानात् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१०/३४) कथम् प्रातिपदिकविज्ञानम् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-११/३४) स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१२/३४) स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा भवति इति ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१३/३४) एवम् यः असौ आम्नाये अस्यवामशब्दः पठ्यते सः अस्य पदार्थः ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१४/३४) किम् पुनः अन्ये आम्नायशब्दाः अन्ये इमे ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१५/३४) ओम् इति आह ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१६/३४) कुतः एतत् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१७/३४) आम्नायशब्दानाम् अन्यभाव्यम् स्वरवर्णानुपूर्वीदेशकालनियतत्वात् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१८/३४) स्वरः नियतः आम्नाये अस्यवामशब्दस्य ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-१९/३४) वर्णानुपूर्वी खलु अपि आम्नाये नियता अस्यवामशब्दस्य ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२०/३४) देशः खलु अपि आम्नाये नियतः ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२१/३४) श्मशाने न अध्येयम् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२२/३४) चतुष्पथे न अध्येयम् इति ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२३/३४) कालः खलु अपि आम्नाये नियतः ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२४/३४) न अमावास्यायाम् न चतुर्दशायाम् इति ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२५/३४) पदैकदेशसुबलोपदर्शनात् च ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२६/३४) पदैकदेशः खलु अपि आम्नाये दृश्यते ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२७/३४) अस्यवामीयम् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२८/३४) ननु च एषः सुब्लोपः स्यात् ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-२९/३४) सुबलोपदर्शनात् च ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-३०/३४) सुबलोपः खलु अपि दृश्यते ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-३१/३४) अस्यवामीयम् इति ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-३२/३४) यदि तर्हि अन्ये आम्नायशब्दाः अन्ये इमे मत्वर्थः न उपपद्यते ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-३३/३४) अस्यवामशब्दः अस्मिन् अस्ति इति ।

(पा-५,२.५९; अकि-२,३८५.२२-३८६.१४; रो-४,१३७-१४०; भा-३४/३४) न सञ्ज्ञा सञ्ज्ञिनम् व्यभिचरति ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-१/८) अध्यायानुवाकाभ्याम् वा लुक् ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-२/८) अध्यायानुवाकाभ्याम् वा लुक् वक्तव्यः ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-३/८) स्तम्भः ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-४/८) स्तम्भीयः ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-५/८) गर्दभाण्डः ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-६/८) गर्दभाण्डीयः ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-७/८) अनुकः ।

(पा-५,२.६०; अकि-२,३८६.१६-१८; रो-४,१४०; भा-८/८) अनुकीयः ।