व्याकरणमहाभाष्य खण्ड 55

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-१/९) धनहिरण्यात् कामाभिधाने ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-२/९) धनहिरण्यात् कामाभिधाने इति वक्तव्यम् ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-३/९) षष्थ्यर्थे हि अनिष्टप्रसङ्गः ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-४/९) षष्थ्यर्थे हि सति अनिष्टः प्राप्नोति ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-५/९) धने कामः अस्य इति ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-६/९) तत् तर्हि वक्तव्यम् ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-७/९) न वक्तव्यम् ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-८/९) कस्मात् न भवति धने कामः अस्य इति ।

(पा-५,२.६५; अकि-२,३८६.२०-३८७.३; रो-४,१४०-१४१; भा-९/९) अनभिधानात् ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-१/८) किम् यः शीतम् करोति सः शीतकः यः वा उष्णम् करोति स उष्णकः ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-२/८) किम् च अतः ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-३/८) तुषारे आदित्ये च प्राप्नोति ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-४/८) एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-५/८) शीतम् इव शीतम् ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-६/८) उष्णम् इव उष्णम् ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-७/८) यः आशु कर्तव्यान् अर्थान् चिरेण करोति सः उच्यते शीतकः इति ।

(पा-५,२.७२; अकि-२,३८७.५-८; रो-४,१४१; भा-८/८) यः पुनः आशु कर्तव्यान् अर्थान् आशु एव करोति सः उच्यते उष्णकः इति ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-१/९) अधिकम् इति किम् निपात्यते ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-२/९) अद्यारूढस्य उत्तरपदलोपः च कन् च प्रत्ययः ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-३/९) अध्यारूढम् अधिकम् इति ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-४/९) भवेत् सिद्धम् अध्यारूढः द्रोणः खार्याम् अधिकः द्रोणः खार्याम् इति ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-५/९) इदम् तु न सिध्यति ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-६/९) अध्यारूढा द्रोणेन खारी ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-७/९) अधिका द्रोणेन खारी इति ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-८/९) गत्यर्थानाम् हि क्तः कर्तरि विधीयते ।

(पा-५,२.७३; अकि-२,३८७.१०-१३; रो-४,१४१-१४२; भा-९/९) गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते ।

(पा-५,२.७५; अकि-२,३८७.१५-१७; रो-४,१४२); भा-१/६) किम् यः पार्श्वेन अन्विच्छति सः पार्व्श्वकः ।

(पा-५,२.७५; अकि-२,३८७.१५-१७; रो-४,१४२); भा-२/६) किम् च अतः ।

(पा-५,२.७५; अकि-२,३८७.१५-१७; रो-४,१४२); भा-३/६) राजपुरुषे प्राप्नोति ।

(पा-५,२.७५; अकि-२,३८७.१५-१७; रो-४,१४२); भा-४/६) एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-५,२.७५; अकि-२,३८७.१५-१७; रो-४,१४२); भा-५/६) पार्श्वम् इव पार्श्वम् ।

(पा-५,२.७५; अकि-२,३८७.१५-१७; रो-४,१४२); भा-६/६) यः ऋजुना उपायेन अन्वेष्टव्यान् अर्थान् अनृजुना उपायेन अन्विच्छति सः उच्यते पार्श्वकः इति ।

(पा-५,२.७६; अकि-२,३८७.१९-३८८.२; रो-४,१४२; भा-१/६) किम् यः अयःशुलेन अन्विच्छति सः आयःशूलिकः ।

(पा-५,२.७६; अकि-२,३८७.१९-३८८.२; रो-४,१४२; भा-२/६) किम् च अतः ।

(पा-५,२.७६; अकि-२,३८७.१९-३८८.२; रो-४,१४२; भा-३/६) शिवभागवते प्राप्नोति ।

(पा-५,२.७६; अकि-२,३८७.१९-३८८.२; रो-४,१४२; भा-४/६) एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-५,२.७६; अकि-२,३८७.१९-३८८.२; रो-४,१४२; भा-५/६) अयःशुलम् इव अयःशुलम् ।

(पा-५,२.७६; अकि-२,३८७.१९-३८८.२; रो-४,१४२; भा-६/६) यः मृदुना उपायेन अन्वेष्टव्यान् अर्थान् रभसेन उपायेन अन्विच्छति सः उच्यते आयःशूलिकः इति ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-१/९) तावतिथम् ग्रहणम् इति लुक् वावचनानर्थक्यम् विभाषाप्रकरणात् ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-२/९) तावतिथम् ग्रहणम् इति लुक् वावचनम् अनर्थकम् ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-३/९) किम् कारणम् ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-४/९) विभाषाप्रकरणात् ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-५/९) प्रकृता महाविभाषा ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-६/९) तया एतत् सिद्धम् ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-७/९) तावतिथेन गृह्णाति इति लुक् च ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-८/९) तावतिथेन गृह्णाति इति उपसङ्ख्यानम् कर्तव्य लुक् च वक्तव्यः ।

(पा-५,२.७७; अकि-२,३८८.४-८; रो-४,१४३; भा-९/९) षष्थेन गृह्णाति षट्कः ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-१/१६) शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-२/१६) शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-३/१६) अगमकः निर्देशः अनिर्देशः ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-४/१६) न हि तस्य शृङ्खलबन्धनम् ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-५/१६) शृङ्खलवत्या असौ रज्ज्वा बध्यते ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-६/१६) सिद्धम् तु तद्वन्निर्देशात् लुक् च ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-७/१६) सिद्धम् एतत् ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-८/१६) कथम् ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-९/१६) तद्वन्निर्देशः कर्तव्यः लुक् च वक्तव्यः ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-१०/१६) शृङ्खलवत् बन्धनम् इति ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-११/१६) सः तर्हि तद्वन्निर्देशः कर्तव्यः ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-१२/१६) न कर्तव्यः ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-१३/१६) इह यत् न अन्तरेण यस्य प्रवृत्तिः भवति तत् तस्य निमित्तत्वाय कल्पते ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-१४/१६) न च अन्तरेण शृङ्खलम् बन्धनम् प्रवर्तते ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-१५/१६) अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।

(पा-५,२.७९; अकि-२,३८८.१०-१७; रो-४,१४३-१४४; भा-१६/१६) शृङ्खलसहचरितम् बन्धनम् श्र्ङ्खलम् बन्धनम् इति ।

(पा-५,२.८२; अकि-२,३८८.१९-२०; रो-४,१४४; भा-१/३) प्राये सञ्ज्ञायाम् वटकेभ्यः इनिः ।

(पा-५,२.८२; अकि-२,३८८.१९-२०; रो-४,१४४; भा-२/३) प्राये सञ्ज्ञायाम् वटकेभ्यः इनिः वक्तव्यः ।

(पा-५,२.८२; अकि-२,३८८.१९-२०; रो-४,१४४; भा-३/३) वटकिनी पौर्णमासी ।

(पा-५,२.८४; अकि-२,३८९.२-७; रो-४, १४४-१४५; भा-१/६) किम् निपात्यते ।

(पा-५,२.८४; अकि-२,३८९.२-७; रो-४, १४४-१४५; भा-२/६) श्रोत्रियन् छन्दः अधीते इति वाक्यार्थे पदवचनम् ।

(पा-५,२.८४; अकि-२,३८९.२-७; रो-४, १४४-१४५; भा-३/६) छन्दः अधीते इति अस्य वाक्यस्य अर्थे श्रोत्रियन् इति एतत् पदम् निपात्यते ।

(पा-५,२.८४; अकि-२,३८९.२-७; रो-४, १४४-१४५; भा-४/६) छन्दसः वा श्र्तोत्रभावः तत् अधीते इति घन् च ।

(पा-५,२.८४; अकि-२,३८९.२-७; रो-४, १४४-१४५; भा-५/६) छन्दसः वा श्र्तोत्रभावः निपात्यते तत् अधीते इति एतस्मिन् अर्थे घन् च प्रत्ययः ।

(पा-५,२.८४; अकि-२,३८९.२-७; रो-४, १४४-१४५; भा-६/६) छन्दः अधीते शृओत्रियः ।

(पा-५,२.८५; अकि-२,३८९.९-१२; रो-४,१४५; भा-१/६) इनिठनोः समानकालग्रहणम् ।

(पा-५,२.८५; अकि-२,३८९.९-१२; रो-४,१४५; भा-२/६) इनिठनोः समानकालग्रहणम् कर्तव्यम् ।

(पा-५,२.८५; अकि-२,३८९.९-१२; रो-४,१४५; भा-३/६) अद्य भुक्ते श्रः श्राद्धिकः इति मा भूत् ।

(पा-५,२.८५; अकि-२,३८९.९-१२; रो-४,१४५; भा-४/६) उक्तम् वा ।

(पा-५,२.८५; अकि-२,३८९.९-१२; रो-४,१४५; भा-५/६) किम् उक्तम् ।

(पा-५,२.८५; अकि-२,३८९.९-१२; रो-४,१४५; भा-६/६) अनभिधानात् इति ।

(पा-५,२.९१; अकि-२,३८९.१४-१६; रो-४,१४५-१४६; भा-१/४) सञ्ज्ञायाम् इति किमर्थम् ।

(पा-५,२.९१; अकि-२,३८९.१४-१६; रो-४,१४५-१४६; भा-२/४) त्रिभिः साक्षात् दृष्टम् भवति यः च ददाति यस्मै च दीयते यः च उपद्रष्टा ।

(पा-५,२.९१; अकि-२,३८९.१४-१६; रो-४,१४५-१४६; भा-३/४) तत्र सर्वत्र प्रत्ययः प्राप्नोति ।

(पा-५,२.९१; अकि-२,३८९.१४-१६; रो-४,१४५-१४६; भा-४/४) सञ्ज्ञाग्रहणसामर्थ्यात् धनिकान्तेवासिनोः न भवति ।

(पा-५,२.९२; अकि-२,३८९.१८-३९०.६; रो-४,१४६-१४७; भा-१/६) किम् निपात्यते ।

(पा-५,२.९२; अकि-२,३८९.१८-३९०.६; रो-४,१४६-१४७; भा-२/६) क्षेत्रियः श्रोत्रियवत् । क्षेत्रियः श्रोत्रियवत् निपात्यते ।

(पा-५,२.९२; अकि-२,३८९.१८-३९०.६; रो-४,१४६-१४७; भा-३/६) परक्षेत्रे चिकित्स्यः इति एतस्य वाक्यस्य अर्थे क्षेत्रियच् इति एतत् पदम् निपात्यते ।

(पा-५,२.९२; अकि-२,३८९.१८-३९०.६; रो-४,१४६-१४७; भा-४/६) परक्षेत्रात् वा तत्र चिकित्स्यः इति परलोपः घच् च ।

(पा-५,२.९२; अकि-२,३८९.१८-३९०.६; रो-४,१४६-१४७; भा-५/६) परक्षेत्रात् वा तत्र चिकित्स्यः इति एतस्मिन् अर्थे परलोपः निपात्यते घच् च ।

(पा-५,२.९२; अकि-२,३८९.१८-३९०.६; रो-४,१४६-१४७; भा-६/६) परक्षेत्रे चिकित्स्यः क्षेत्रियः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१/४३) किमर्थम् इमौ अर्थौ उभौ निर्दिश्येते ॒ अस्य अस्मिन् इति न यत् यस्य भवति तस्मिन् अपि तत् भवति यत् च यस्मिन् भवति तत् तस्य अपि भवति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२/४३) न एतयोः आवश्यकः समावेशः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३/४३) भवन्ति हि देवदत्तस्य गावः न च ताः तस्मिन् आधृताः भवन्ति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-४/४३) भवन्ति च पर्वते वृक्षाः न च ते तस्य भवन्ति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-५/४३) अथ अस्तिग्रहणम् किमर्थम् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-६/४३) सत्तायाम् अर्थे प्रत्ययः यथा स्यात् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-७/४३) न एतत् अस्ति प्रयोजनम् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-८/४३) न सत्ताम् पदार्थः व्यभिचरति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-९/४३) इदम् तर्हि प्रयोजनम् ॒ सम्प्रतिसत्तायाम् यथा स्यात् , भूतभविष्यत्सत्तायाम् मा भूत् ॒ गावः अस्य आसन् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१०/४३) गावः अस्य भवितारः इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-११/४३) न तर्हि इदानीम् इदम् भवति ॒ गोमान् आसीत् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१२/४३) गोमान् भविता इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१३/४३) भवति न तु एतस्मिन् वाक्ये ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१४/४३) यदि एतस्मिन् वाक्ये स्यात् यथा इह अस्तेः प्रयोगः न भवति गोमान् यवमान् इति एवम् इह अपि न स्यात् ॒ गोमान् आसीत् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१५/४३) गोमान् भविता इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१६/४३) सति अपि अस्तेः प्रयोगे यथा इह बहुवचनम् श्रूयते गावः अस्य आसन् गावः अस्य भवितारः एवम् इह अपि स्यात् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१७/४३) गोमान् आसीत् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१८/४३) गोमान् भविता इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-१९/४३) का तर्हि इयम् वाचोयुक्तिः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२०/४३) गोमान् आसीत् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२१/४३) गोमान् भविता इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२२/४३) एषा एषा वाचोयुक्तिः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२३/४३) न एषा गवाम् सत्ता कथ्यते ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२४/४३) किम् तर्हि ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२५/४३) गोमत्सत्ता एषा कथ्यते ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२६/४३) अस्ति अत्र वर्तमानकालः अस्तिः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२७/४३) कथम् तर्हि भूतभविष्यत्सत्ता गम्यते ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२८/४३) धातुसम्बन्धे प्रत्ययाः इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-२९/४३) इदम् तर्हि प्रयोजनम् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३०/४३) अस्तियुक्तात् यथा स्यात् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३१/४३) अनन्तरादियुक्तात् मा भूत् इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३२/४३) गावः अस्य अनन्तराः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३३/४३) गावः अस्य समीपे इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३४/४३) अथ क्रियमाणे अपि अस्त्रिग्रहणे इह कस्मात् न भवति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३५/४३) गावः अस्य सन्ति अनन्तराः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३६/४३) गावः अस्य सन्ति समीपे इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३७/४३) असामर्थ्यात् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३८/४३) कथम् असामर्थ्यम् ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-३९/४३) सापेक्षम् असर्मर्थम् भवति इति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-४०/४३) यथा एव तर्हि क्रियमाणे अस्त्रिग्रहणे असामर्थ्यात् अनन्तरादिषु न भवन्ति एवम् अक्रियमाणे अपि न भविष्यति ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-४१/४३) अस्ति अत्र विशेषः ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-४२/४३) क्रियमाणे अस्त्रिग्रहणे न अन्तरेण तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते ।

(पा-५,२.९४.१; अकि-२,३९१.२-२३; रो-४,१४७-१५३; भा-४३/४३) अक्रियमाणे पुनः अस्त्रिग्रहणे अन्तरेण अपि तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१/५६) अथ इह कस्मात् न भवति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२/५६) चित्रगुः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३/५६) शबलगुः इति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४/५६) बहुव्रीह्युक्तत्वात् मत्वर्थस्य ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५/५६) अथ इह कस्मात् न भवति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-६/५६) चित्राः गावः अस्य सन्ति इति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-७/५६) कुतः कस्मात् न भवति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-८/५६) किम् अवयवात् आहोस्वित् समुदायात् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-९/५६) अवयवात् कस्मात् न भवति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१०/५६) असामर्थ्यात् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-११/५६) कथम् असामर्थ्यम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१२/५६) सापेक्षम् असर्मर्थम् भवति इति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१३/५६) समुदायात् तर्हि कस्मात् न भवति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१४/५६) अप्रातिपदिकत्वात् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१५/५६) ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१६/५६) तत् यथा सुप् सुपा इति वर्तमाने अन्यस्य च अन्यस्य च समासः भवति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१७/५६) सत्यम् एवम् एतत् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१८/५६) आकृतिः तु प्रत्येकम् परिसमाप्यते ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-१९/५६) यावति एतत् परिसमाप्यते ङ्याप्प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२०/५६) अवयवे च एतत् परिसमाप्यते न समुदाये ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२१/५६) अथ इह कस्मात् न भवति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२२/५६) पञ्च गावः अस्य सन्ति पञ्चगुः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२३/५६) दशगुः इति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२४/५६) प्रत्येकम् असामर्थ्यात् समुदायात् अप्रातिपदिकत्वात् समासात् समासेन उक्तत्वात् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२५/५६) न एतत् सारम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२६/५६) उक्ते अपि हि प्रत्ययार्थे उत्पद्यते द्विगोः तद्धितः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२७/५६) तत् यथा द्वैमातुरः पाञ्चनापितिः इति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२८/५६) न एषः द्विगुः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-२९/५६) कः तर्हि ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३०/५६) बहुव्रीहिः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३१/५६) अपवादत्वात् द्विगुः प्राप्नोति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३२/५६) अन्तरङ्गत्वात् बहुव्रीहिः भविष्यति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३३/५६) का अन्तरङ्गता ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३४/५६) अन्यपदार्थे बहुव्रीहिः वर्तते विशिष्टे अन्यपदार्थे तद्धितार्थे द्विगुः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३५/५६) तस्मिन् च अस्य तद्धिते अस्तिग्रहणम् क्रियते ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३६/५६) यदि तर्हि अतिप्रसङ्गाः सन्ति बहुव्रीहौ अपि अस्तिग्रहणम् कर्तव्यम् अस्तियुक्तात् यथा स्यात् अनन्तरादियुक्तात् मा भूत् इति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३७/५६) अथ न सन्ति तद्धितविधौ अपि न अर्थः अस्तिग्रहणेन ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३८/५६) सत्यम् एवम् एतत् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-३९/५६) क्रियते तु इदानीम् तद्धितविधौ अस्तिग्रहणम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४०/५६) तत् वै क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४१/५६) अस्तिमान् इति मतुप् यथा स्यात् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४२/५६) किम् च कारणम् न स्यात् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४३/५६) अप्रातिपदिकत्वात् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४४/५६) न एषः दोषः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४५/५६) अव्ययम् एषः अस्तिशब्दः ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४६/५६) न एष अस्तेः लट् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४७/५६) कथम् अव्ययत्वम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४८/५६) विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-४९/५६) निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५०/५६) एवम् अपि न सिध्यति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५१/५६) किम् कारणम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५२/५६) अस्तिसामानाधिकरण्ये मतुप् विधीयते ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५३/५६) न च अस्तेः अस्तिना सामानाधिकरण्यम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५४/५६) तत् एतत् क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५५/५६) तस्मात् द्विगोः तद्धितस्य प्रतिषेधः वक्तव्यः यदि तत् न अस्ति सर्वत्र मत्वर्थे प्रतिषेधः इति ।

(पा-५,२.९४.२; अकि-२,३९१.२४-३९२.१९; रो-४,१५३-१५६; भा-५६/५६) सति हि तस्मिन् तेन एव सिद्धम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१/३२) अथ मत्वर्थीयात् मत्वर्थीयेन भवितव्यम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२/३२) न भवितव्यम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-३/३२) किम् कारणम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-४/३२) अर्थगत्यर्थः शब्दप्रयोगः ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-५/३२) अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-६/३२) तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-७/३२) किम् कारणम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-८/३२) उक्तार्थानाम् अप्रयोगः इति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-९/३२) न तर्हि इदानीम् इदम् भवति ॒ दण्डिमती शाला ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१०/३२) हस्तिमती उपपत्यका इति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-११/३२) भवति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१२/३२) अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१३/३२) षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१४/३२) अथ मत्वन्तात् मतुपा भवितव्यम् ॒ गोमन्तः अस्य सन्ति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१५/३२) यवमन्तः अस्य सन्ति इति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१६/३२) न भवितव्यम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१७/३२) किम् काऋअणम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१८/३२) यस्य गोमन्तः सन्ति गावः अपि तस्य सन्ति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-१९/३२) तत्र उक्तः गोभिः अभिसम्बन्धे प्रत्ययः इति कृत्वा तद्धितः न भविष्यति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२०/३२) न तर्हि इदानीम् इदम् भवति ॒ दण्डिमती शाला ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२१/३२) हस्तिमती उपपत्यका इति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२२/३२) भवति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२३/३२) अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२४/३२) षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२५/३२) इह अपि सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२६/३२) अन्यथाजातीयकः खलु अपि गोभिः अभिसम्बन्धे प्रत्ययः अन्यथाजातीयकः तद्वता ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२७/३२) येन एव खलु अपि हेतुना एतत् वाक्यम् भवति गोमन्तः अस्य सन्ति , यवमन्तः अस्य सन्ति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२८/३२) तस्मात् मत्वर्थीयात् मतुबादेः प्रतिषेधः वक्तव्यः ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-२९/३२) तम् च अपि ब्रुवता समान्वृत्तौ सरूपः इति वक्तव्यम् ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-३०/३२) भवति हि दण्डिमती शाला हस्तिमती उपपत्यका इति ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-३१/३२) शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थीयः सरूपः प्रत्ययः न इष्टः ।

(पा-५,२.९४.३; अकि-२,३९२.२०-३९३.१०; रो-४,१५६-१५९; भा-३२/३२) सनन्तात् न सन् इष्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१/५०) किम् पुनः इमे मतुप्प्रभृतयः सन्मात्रे भवन्ति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२/५०) एवम् भवितुम् अर्हति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३/५०) मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४/५०) मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः भवति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-५/५०) इह अपि प्राप्नोति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-६/५०) व्रीहिः अस्य ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-७/५०) यवः अस्य इति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-८/५०) तस्मात् भूमादिग्रहणम् कर्तव्यम् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-९/५०) के पुनः भूमादयः ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१०/५०) भूमनिन्दाप्रशंसासु नित्ययोगे अतिशायने संसर्गे अस्तिविवक्षायाम् भवन्ति मतुबादयः ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-११/५०) भूम्नि ॒ गोमान् यवमान् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१२/५०) निन्दायाम् ॒ ककुदावर्ती सङ्खादकी ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१३/५०) प्रशंसयाम् ॒ रूपवान् वर्णवान् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१४/५०) नित्ययोगे ॒ क्षीरिणः वृक्षाः , कण्टकिनः वृक्षाः इति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१५/५०) अतिशायने ॒ उदरिणी कन्या ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१६/५०) संसर्गे ॒ दण्डी छत्री ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१७/५०) तत् तर्हि भूमादिग्रहणम् कर्तव्यम् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१८/५०) न कर्तव्यम् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-१९/५०) कस्मात् न भवति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२०/५०) व्रीहिः अस्य ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२१/५०) यवः अस्य इति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२२/५०) उक्तम् वा. किम् उक्तम् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२३/५०) अनभिधानात् इति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२४/५०) इतिकरणः खलु अपि क्रियते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२५/५०) ततः चेत् विवक्षा ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२६/५०) भूमादियुक्तस्य एव च विवक्षा ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२७/५०) गोमान् यवमान् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२८/५०) भूमादियुक्तस्य एव सत्ता कथ्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-२९/५०) न हि कस्य चित् यवः न अस्ति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३०/५०) सङ्खादकी ककुदावर्तिनी ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३१/५०) निन्दाउक्तस्य एव सत्ता कथ्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३२/५०) न हि कः चित् न सङ्खादकी ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३३/५०) रूपवान् वर्णवान् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३४/५०) प्रशंसायुक्तस्य एव सत्ता कथ्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३५/५०) न हि कस्य चित् रूपम् न अस्ति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३६/५०) क्षीरिणः वृक्षाः ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३७/५०) कण्टकिनः वृक्षाः इति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३८/५०) नित्ययुक्तस्य एव सत्ता कथ्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-३९/५०) न हि कस्य चित् क्षिरम् न अस्ति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४०/५०) उदरिणी कन्या इति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४१/५०) अतिशायनयुक्तस्य एव सत्ता कथ्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४२/५०) न हि कस्य चित् उदरम् न अस्ति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४३/५०) दण्डी छत्री ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४४/५०) संसर्गयुक्तस्य एव सत्ता कथ्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४५/५०) न हि कस्य चित् दण्डः न अस्ति ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४६/५०) यावतीभिः खलु अपि गोभिः वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४७/५०) कस्य चित् तिसृभिः कल्पन्ते कस्य चित् शतेन अपि न प्रकल्पन्ते ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४८/५०) सन्मात्रे च ऋषिदर्शनात् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-४९/५०) सन्मात्रे च पुनः ऋषिः दर्शयति मतुपम् ।

(पा-५,२.९४.४; अकि-२,३९३.११-३९४.६; रो-४,१५९-१६१; भा-५०/५०) यवमतीभिः अद्भिः यूपम् प्रोक्षति इति ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-१/१६) गुणवचनेभ्यः मतुपः लुक् ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-२/१६) गुणवचनेभ्यः मतुपः लुक् वक्तव्यः ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-३/१६) शुक्लः कृष्णः इति ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-४/१६) अव्यतिरेकात् सिद्धम् ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-५/१६) न गुणः गुणिनम् व्यभिचरति इति ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-६/१६) अव्यतिरेकात् सिद्धम् इति चेत् दृष्टः व्यतिरेकः ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-७/१६) दृश्यते व्यतिरेकः ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-८/१६) तत् यथ पटस्य शुक्लः इति ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-९/१६) तथा च लिङ्गवचनसिद्धिः ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-१०/१६) एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-११/१६) शुक्लम् वस्त्रम् ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-१२/१६) शुक्ला शाटी ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-१३/१६) शुक्लः कम्बलः ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-१४/१६) शुक्लौ कम्बलौ ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-१५/१६) शुक्लाः कम्बलाः इति ।

(पा-५,२.९४.५; अकि-२,३९४.७-१५; रो-४,१६१-१६२; भा-१६/१६) यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-१/१०) किमर्थम् इदम् उच्यते न तत् अस्य अस्ति अस्मिन् इति एव मतुप् सिद्धः ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-२/१०) रसादिभ्यः पुनर्वचनम् अन्यनिर्वृत्त्यर्थम् ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-३/१०) रसादिभ्यः पुनर्वचनम् क्रियते अन्येषाम् मत्वर्थीयानाम् प्रतिषेधार्थम् ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-४/१०) मतुप् एव यथा स्यात् ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-५/१०) ये अन्ये मत्वर्थीयाः प्राप्नुवन्ति ते मा भूवन् इति ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-६/१०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-७/१०) दृश्यन्ते हि अन्ये रसादिभ्यः मत्वर्थीयाः ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-८/१०) रसिकः नटः ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-९/१०) उर्वशी वै रूपिणी अप्सरसाम् ।

(पा-५,२.९५; अकि-२,३९४.१७-२२; रो-४,१६२-१६३; भा-१०/१०) स्पर्शिकः वायुः इति ।

(पा-५,२.९६; अकि-२,३९५.२-४; रो-४,१६३; भा-१/६) इह कस्मात् न भवति ॒ चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति ।

(पा-५,२.९६; अकि-२,३९५.२-४; रो-४,१६३; भा-२/६) प्राण्यङ्गात् इति वक्तव्यम् ।

(पा-५,२.९६; अकि-२,३९५.२-४; रो-४,१६३; भा-३/६) तत् तर्हि वक्तव्यम् ।

(पा-५,२.९६; अकि-२,३९५.२-४; रो-४,१६३; भा-४/६) न वक्तव्यम् ।

(पा-५,२.९६; अकि-२,३९५.२-४; रो-४,१६३; भा-५/६) कस्मात् न भवति ॒ चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति ।

(पा-५,२.९६; अकि-२,३९५.२-४; रो-४,१६३; भा-६/६) अनभिधानात् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१/३३) सिध्मादिषु यानि अकारान्तानि तेभ्यः लचा मुक्ते इनिठनौ प्रप्नुतः इनिठनौ च न इष्येते ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२/३३) लच् अन्यतरस्याम् इति समुच्चयः ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-३/३३) लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-४/३३) लच् च मतुप् च ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-५/३३) कथम् पुनः एतत् ज्ञायते लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा इति ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-६/३३) पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-७/३३) यत् अयम् पिच्छादिभ्यः तुन्दादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-८/३३) यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-९/३३) तुन्दादीनि अपि पिच्छादिषु एव पठेत् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१०/३३) न एतत् अस्ति ज्ञापकम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-११/३३) अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१२/३३) किम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१३/३३) तुन्दादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१४/३३) यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१५/३३) ज्ञापकार्थः एव ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१६/३३) अपरः आह ॒ पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१७/३३) यत् अयम् तुन्दादिभ्यः पिच्छादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१८/३३) यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-१९/३३) पिच्छादीनि अपि तुन्दादिषु एव पठेत् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२०/३३) न एतत् अस्ति ज्ञापकम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२१/३३) अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२२/३३) किम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२३/३३) पिच्छादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२४/३३) यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२५/३३) ज्ञापकार्थः एव ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२६/३३) वस्य च पुनर्वचनम् सर्वविभाषार्थम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२७/३३) वस्य खलु अपि पुनर्वचनम् क्रियते सर्वविभाषार्थम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२८/३३) केशात् वः अन्यतरस्याम् इति ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-२९/३३) एतत् एव ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-३०/३३) द्युद्रुभ्याम् नित्यार्थम् एके अन्यतरस्याङ्ग्रहणम् इच्छन्ति ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-३१/३३) कथम् ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-३२/३३) विभाषामध्ये अयम् योगः क्रियते ।

(पा-५,२.९७; अकि-२,३९५.६-३९६.५; रो-४,१६३-१६५; भा-३३/३३) विभाषामध्ये ये विधयः नित्याः ते भवन्ति इति ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-१/९) नप्रकरणे दद्र्वाः ह्रस्वत्वम् च ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-२/९) नप्रकरणे दद्र्वाः उपसङ्ख्यानम् कर्तव्यम् ह्रस्वत्वम् च नप्रकरणे दद्र्वाः ह्रस्वत्वम् च वक्तव्यम् ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-३/९) दद्रुणः ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-४/९) अत्यल्पम् इदम् उच्यते ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-५/९) शाकीपलालीदद्रूणाम् ह्रस्वत्वम् च इति वक्तव्यम् ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-६/९) शाकिनम् , पलालिनम् , दद्रुणम् ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-७/९) विष्वक् इति उत्तरपदलोपः च अकृतसन्धेः ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-८/९) विष्वक् इति उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च अकृतसन्धेः वक्तव्यः ।

(पा-५,२.१००; अकि-२,३९६.७-१३; रो-४,१६५; भा-९/९) विष्वक् गतानि अस्य विषुणः ।

(पा-५,२.१०१; अकि-२,३९६.१५-१६; रो-४,१६६; भा-१/३) वृत्तेः च ।

(पा-५,२.१०१; अकि-२,३९६.१५-१६; रो-४,१६६; भा-२/३) वृत्तेः च इति वक्तव्यम् ।

(पा-५,२.१०१; अकि-२,३९६.१५-१६; रो-४,१६६; भा-३/३) वार्त्तम् ।

(पा-५,२.१०२-१०३.१; अकि-२,३९६.१९-२२; रो-४,१६६; भा-१/५) किमर्थम् तपःशब्दात् विन् विधीयते न असन्तात् इति एव सिद्धम् ।

(पा-५,२.१०२-१०३.१; अकि-२,३९६.१९-२२; रो-४,१६६; भा-२/५) तपसः विन्वचनम् अण्विधानात् ।

(पा-५,२.१०२-१०३.१; अकि-२,३९६.१९-२२; रो-४,१६६; भा-३/५) तपसः विन्वचनम् क्रियते ।

(पा-५,२.१०२-१०३.१; अकि-२,३९६.१९-२२; रो-४,१६६; भा-४/५) तपःशब्दात् अन् विधीयते ।

(पा-५,२.१०२-१०३.१; अकि-२,३९६.१९-२२; रो-४,१६६; भा-५/५) सः विशेषविहितः सामान्य्विहितम् विनम् बाधेत ।

(पा-५,२.१०२-१०३.२; अकि-२,३९७.१-३; रो-४,१६७; भा-१/७) अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् ।

(पा-५,२.१०२-१०३.२; अकि-२,३९७.१-३; रो-४,१६७; भा-२/७) अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,२.१०२-१०३.२; अकि-२,३९७.१-३; रो-४,१६७; भा-३/७) ज्यौत्स्नः ।

(पा-५,२.१०२-१०३.२; अकि-२,३९७.१-३; रो-४,१६७; भा-४/७) तामिस्रः ।

(पा-५,२.१०२-१०३.२; अकि-२,३९७.१-३; रो-४,१६७; भा-५/७) कौण्डलः ।

(पा-५,२.१०२-१०३.२; अकि-२,३९७.१-३; रो-४,१६७; भा-६/७) कौतपः ।

(पा-५,२.१०२-१०३.२; अकि-२,३९७.१-३; रो-४,१६७; भा-७/७) वैपादिकः ।

(पा-५,२.१०७.१; अकि-२,३९७.५-७; रो-४,१६७; भा-१/६) अयम् मधुशब्दः अस्ति एव द्रव्यपदार्थकः अस्ति रसवाची ।

(पा-५,२.१०७.१; अकि-२,३९७.५-७; रो-४,१६७; भा-२/६) आतः च रसवाची अपि ।

(पा-५,२.१०७.१; अकि-२,३९७.५-७; रो-४,१६७; भा-३/६) मधुनि एव हि मधु इदम् मधुरम् इति प्रसज्यते ।

(पा-५,२.१०७.१; अकि-२,३९७.५-७; रो-४,१६७; भा-४/६) तत् यः रसवाची तस्य इदम् ग्रहणम् ।

(पा-५,२.१०७.१; अकि-२,३९७.५-७; रो-४,१६७; भा-५/६) यदि हि द्रव्यपदार्थकस्य ग्रहणम् स्यात् इह अपि प्रसज्येत ।

(पा-५,२.१०७.१; अकि-२,३९७.५-७; रो-४,१६७; भा-६/६) मधु अस्मिन् घटे अस्ति ।

(पा-५,२.१०७.२; अकि-२,३९७.८-१०; रो-४,१६७-१६८; भा-१/६) रप्रकरणे खमुख्कुञ्जेभ्यः उपसङ्ख्यानम् ।

(पा-५,२.१०७.२; अकि-२,३९७.८-१०; रो-४,१६७-१६८; भा-२/६) खरः ।

(पा-५,२.१०७.२; अकि-२,३९७.८-१०; रो-४,१६७-१६८; भा-३/६) मुखरः ।

(पा-५,२.१०७.२; अकि-२,३९७.८-१०; रो-४,१६७-१६८; भा-४/६) कुञ्जरः ।

(पा-५,२.१०७.२; अकि-२,३९७.८-१०; रो-४,१६७-१६८; भा-५/६) नगात् च इति वक्तव्यम् ।

(पा-५,२.१०७.२; अकि-२,३९७.८-१०; रो-४,१६७-१६८; भा-६/६) नगरम् ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१/१८) वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-२/१८) वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् वक्तव्यम् ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-३/१८) मणिवः ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-४/१८) हिरण्यवः ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-५/१८) छन्दसि ईवनिपौ च ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-६/१८) छन्दसि ईवनिपौ च वक्तव्यौ वः च मतुप् च ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-७/१८) रथीः अभूत् मुद्गलनी गविष्टौ ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-८/१८) सुमङ्गलीः इयम् वधुः ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-९/१८) ऋतवानम् ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१०/१८) मघवानम् ईमहे ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-११/१८) उत् वा च उद्वती च ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१२/१८) मेधारथाभ्याम् इरनिरचौ ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१३/१८) मेधारथाभ्याम् इरनिरचौ वक्तव्यौ ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१४/१८) मेधिरः ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१५/१८) रथिरः ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१६/१८) अपरः आह ॒ वाप्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम् ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१७/१८) बिम्बावम् ।

(पा-५,२.१०९; अकि-२,३९७.१२-२०; रो-४,१६८-१६९; भा-१८/१८) कुररावम् इष्टकावम् ।

(पा-५,२.११२; अकि-२,३९७.२२-२४; रो-४,१६९; भा-१/५) वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते ।

(पा-५,२.११२; अकि-२,३९७.२२-२४; रो-४,१६९; भा-२/५) वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते इति वक्तव्यम् ।

(पा-५,२.११२; अकि-२,३९७.२२-२४; रो-४,१६९; भा-३/५) भ्रातृवलः ।

(पा-५,२.११२; अकि-२,३९७.२२-२४; रो-४,१६९; भा-४/५) पुत्रवलः ।

(पा-५,२.११२; अकि-२,३९७.२२-२४; रो-४,१६९; भा-५/५) उत्सङ्गवलः ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१/१९) इनिठनोः एकाक्षरात् प्रतिषेधः ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-२/१९) इनिठनोः एकाक्षरात् प्रतिषेधः वक्तव्यः ॒ स्ववान् , खवान् ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-३/१९) अत्यल्पम् इदम् उच्यते ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-४/१९) एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-५/१९) एकाक्षरात् ॒ स्ववान् , खवान् ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-६/१९) कृतः ॒ कारकवान् , हारकवान् ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-७/१९) जातेः ॒ वृक्षवान् , प्लक्षवान् , व्याघ्रवान् , सिंहवान् ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-८/१९) सप्तम्याम् च न तौ ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-९/१९) दण्डाः अस्याम् शालायाम् सन्ति इति ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१०/१९) यदि कृतः न इति उच्यते कार्यी कार्यिकः इति न सिध्यति ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-११/१९) तथा च यदि जातेः न इति उच्यते तुण्डली तुण्डलिकः इति न सिध्यति ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१२/१९) एवम् तर्हि न अयम् समुच्चयः कृतः च जातेः च इति ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१३/१९) किम् तर्हि ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१४/१९) जातिविशेषणम् कृद्ग्रहणम् ॒ कृत् या जातिः इति ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१५/१९) कथम् कारकवान् , हारकवान् ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१६/१९) अनभिधानात् न भविष्यति ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१७/१९) यदि एवम् न अर्थः अनेन ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१८/१९) कथम् स्ववान् , वृक्षवान् , सिंहवान् , व्याघ्रवान् दण्डाः अस्याम् शालायाम् सन्ति इति ।

(पा-५,२.११५; अकि-२,३९८.२-११; रो-४,१६९-१७०; भा-१९/१९) अनभिधानात् न भविष्यति ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-१/१०) शिखादिभ्यः इनिः वक्तव्यः इकन् यवखदादिषु ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-२/१०) किम् प्रयोजनम् ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-३/१०) नियमार्थम् ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-४/१०) इनिः एव शिखादिभ्यः इकन् एव यव्खदादिभ्यः ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-५/१०) शिखायवखदादिभ्यः नियमस्य अवचनम् निवर्तकत्वात् ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-६/१०) शिखायवखदादिभ्यः नियमस्य अवचनम् ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-७/१०) किम् कारणम् ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-८/१०) निवर्तकत्वात् ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-९/१०) किम् निवर्तकम् ।

(पा-५,२.११६; अकि-२,३९८.१३-१७; रो-४,१७०; भा-१०/१०) अनभिधानम् ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-१/१५) नित्यग्रहणम् किमर्थम् ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-२/१५) विभाषा मा भूत् ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-३/१५) न एतत् अस्ति प्रयोजनम् ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-४/१५) पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-५/१५) एवम् तर्हि सिद्धे सति यत् नित्यग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् एतस्मात् योगात् विभाषा इति अनुवर्तते ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-६/१५) अथ अतः इति अनुवर्तते उताहो न ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-७/१५) किम् च अतः ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-८/१५) यदि अनुवर्तते एकगविकः न सिध्यति ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-९/१५) समासान्ते कृते भविष्यति ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-१०/१५) एवम् अपि गौशकटिकः न सिध्यति ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-११/१५) अथ निवृत्तम् इह अपि प्राप्नोति ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-१२/१५) गोविंशतिः अस्य अस्ति इति ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-१३/१५) निवृत्तम् ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-१४/१५) कस्मात् न भवति ॒ गोविंशतिः अस्य अस्ति इति ।

(पा-५,२.११८; अकि-२,३९८.१९-३९९.२; रो-४,१७०-१७१; भा-१५/१५) अनभिधानात् न भविष्यति ।

(पा-५,२.१२०; अकि-२,३९९.४; रो-४,१७१; भा-१/३) यप्प्रकरणे अन्येभ्यः अपि दृश्यते ।

(पा-५,२.१२०; अकि-२,३९९.४; रो-४,१७१; भा-२/३) यप्प्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम्. हिम्याः पर्वताः ।

(पा-५,२.१२०; अकि-२,३९९.४; रो-४,१७१; भा-३/३) गुण्याः ब्राह्मणाः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१/४८) छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२/४८) छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च इति वक्तव्यम् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३/४८) अष्ट्रावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४/४८) मेखलावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-५/४८) द्वयावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-६/४८) उभयावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-७/४८) रुजावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-८/४८) हृदयावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-९/४८) मर्मणः च इति वक्तव्यम् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१०/४८) ममावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-११/४८) सर्वत्र आमयस्य ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१२/४८) सर्वत्र आमयस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१३/४८) आमयावी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१४/४८) शृङ्गवृन्दाभ्याम् आरकन् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१५/४८) शृङ्गवृन्दाभ्याम् आरकन् वक्तव्यः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१६/४८) शृङ्गारकः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१७/४८) वृदारकः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१८/४८) फलबर्हाभ्याम् इनच् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-१९/४८) फलबर्हाभ्याम् इनच् वक्तव्यः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२०/४८) फलिनः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२१/४८) बर्हिणः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२२/४८) हृदयात् चालुः अन्यतरस्याम् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२३/४८) हृदयात् चालुः वक्तव्यः अन्यतरस्याम् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२४/४८) हृदयालुः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२५/४८) हृदयी ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२६/४८) हृदयिकः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२७/४८) हृदयवान् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२८/४८) शीतोष्णतृप्रेभ्यः तत् न सहते ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-२९/४८) शीतोष्णतृप्रेभ्यः तत् न सहते इति चालुः वक्तव्यः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३०/४८) शीतालुः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३१/४८) उष्णालुः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३२/४८) तृप्रालुः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३३/४८) हिमात् चेलुः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३४/४८) हिमात् चेलुः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३५/४८) हिमेलुः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३६/४८) बलात् च ऊलः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३७/४८) बलात् च ऊलः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३८/४८) बलूलः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-३९/४८) वातात् समूहे च ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४०/४८) वातात् समूहे च तत् न सहते इति एतस्मिन् अर्थे ऊलः वक्तव्यः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४१/४८) वातूलः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४२/४८) पर्वमरुद्भ्याम् तप् ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४३/४८) पर्वमरुद्भ्याम् तप् वक्तव्यः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४४/४८) पर्वतः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४५/४८) मरुत्तः ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४६/४८) ददातिवृत्तम् वा ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४७/४८) ददातिवृत्तम् वा पुनः एतत् भविष्यति ।

(पा-५,२.१२२; अकि-२,३९९.७-४००.८; रो-४,१७१-१७२; भा-४८/४८) मरुद्भिः दत्तः मरुत्तः ।

(पा-५,२.१२५; अकि-२,४००.१०-११; रो-४,१७३; भा-१/५) कुत्सिते इति वक्तव्यम् ।

(पा-५,२.१२५; अकि-२,४००.१०-११; रो-४,१७३; भा-२/५) यः हि सम्यक् बहु भाषते वाग्मी इति एव सः भवति ।

(पा-५,२.१२५; अकि-२,४००.१०-११; रो-४,१७३; भा-३/५) तत् तर्हि वक्तव्यम् ।

(पा-५,२.१२५; अकि-२,४००.१०-११; रो-४,१७३; भा-४/५) न वक्तव्यम् ।

(पा-५,२.१२५; अकि-२,४००.१०-११; रो-४,१७३; भा-५/५) नानायोगकरणसामर्थ्यात् न भविष्यति ।

(पा-५,२.१२६; अकि-२,४००.१३-१४; रो-४,१७३; भा-१/६) इह कस्मात् न भवति ।

(पा-५,२.१२६; अकि-२,४००.१३-१४; रो-४,१७३; भा-२/६) स्वम् अस्य अस्ति इति ।

(पा-५,२.१२६; अकि-२,४००.१३-१४; रो-४,१७३; भा-३/६) न एषः दोषः ।

(पा-५,२.१२६; अकि-२,४००.१३-१४; रो-४,१७३; भा-४/६) न अयम् प्रत्ययार्थः ।

(पा-५,२.१२६; अकि-२,४००.१३-१४; रो-४,१७३; भा-५/६) किम् तर्हि प्रकृतिविशेषणम् एतत् ।

(पा-५,२.१२६; अकि-२,४००.१३-१४; रो-४,१७३; भा-६/६) स्वामिन् ऐश्वर्ये निपात्यते इति ।

(पा-५,२.१२९; अकि-२,४००.१६; रो-४,१७४; भा-१/२) पिशाचात् च इति वक्तव्यम् ।

(पा-५,२.१२९; अकि-२,४००.१६; रो-४,१७४; भा-२/२) पिशाचकी वैश्रवणः ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१/३२) इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२/३२) इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-३/३२) बाहुबली ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-४/३२) ऊरुबली ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-५/३२) सर्वादेः च ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-६/३२) सर्वादेः च इनिः वक्तव्यः ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-७/३२) सर्वधनी ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-८/३२) सर्वबीजी ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-९/३२) सर्वकेशी ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१०/३२) अर्थात् च असन्निहिते ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-११/३२) अर्थात् च असन्निहिते इनिः वक्तव्यः ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१२/३२) अर्थी ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१३/३२) असन्निहिते इति किमर्थम् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१४/३२) अर्थवान् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१५/३२) तदन्तात् च ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१६/३२) तदन्तात् च इति वक्तव्यम् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१७/३२) धान्यार्थी ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१८/३२) हिरण्यार्थी ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-१९/३२) किमर्थम् तदन्तात् इति उच्यते न तदन्तविधिना सिद्धम् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२०/३२) ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२१/३२) एवर्म् तर्हि इनन्तेन सह समासः भविष्यति ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२२/३२) धान्येन अर्थी धान्यार्थी ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२३/३२) सः हि समासः न प्राप्नोति ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२४/३२) यदि पुनः अयम् अर्थयतेः णिनिः स्यात् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२५/३२) एवम् अपि क्रियाम् एव कुर्वाणे स्यात् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२६/३२) तूष्णीम् अपि आसीनः यः तत्समर्थानि आचरति सः अभिप्रायेण गम्यते अर्थ्यम् अनेन इति ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२७/३२) एवम् तर्हि अयम् अर्थशब्दः अस्ति एव द्रव्यपदार्थकः ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२८/३२) तत् यथा अर्थवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-२९/३२) अस्ति क्रियापदार्थकः भावसाधनः ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-३०/३२) अर्थनम् अर्थः इति ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-३१/३२) तत् यः क्रियापदार्थकः तस्य इदम् ग्रहणम् ।

(पा-५,२.१३५; अकि-२,४००.१८-४०१.१०; रो-४,१७४-१७६; भा-३२/३२) एवम् च कृत्वा अर्थिकप्रत्यर्थिकौ अपि सिद्धौ भवतः ।