व्याकरणमहाभाष्य खण्ड 56

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१/१९) विभक्तित्वे किम् प्रयोजनम् ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-२/१९) विभक्तित्वे प्रयोजनम् इत्प्रतिषेधः ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-३/१९) इदानीम् ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-४/१९) न विभक्तौ तुस्माः इति इत्प्रतिषेधः सिद्धः भवति ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-५/१९) यदि एवम् किमः अत् क्व प्रेप्स्यन् दीप्यसे क्व अर्धमासाः ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-६/१९) अत्र अपि प्राप्नोति ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-७/१९) तौ च उक्तम् ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-८/१९) किम् उक्तम् ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-९/१९) विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१०/१९) इदमः विभक्तिस्वरः च ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-११/१९) इदमः विभक्तिस्वरः च प्रयोजनम् ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१२/१९) इतः ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१३/१९) इह ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१४/१९) इदमः तृतीयादिः विभक्तिः उदात्ता भवति इति एषः स्वरः भवति ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१५/१९) त्यदादिविधयः च ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१६/१९) त्यदादिविधयः च प्रयोजनम् ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१७/१९) यतः ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१८/१९) यत्र ।

(पा-५,३.१; अकि-२,४०२.२-१३; रो-४,१७७-१७८; भा-१९/१९) विभक्तौ इति त्यदादिविधयः सिद्धाः भवन्ति ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-१/९) बहुग्रहणे सङ्ख्याग्रहणम् ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-२/९) बहुग्रहणे सङ्ख्याग्रहणम् कर्तव्यम् ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-३/९) इह मा भूत् ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-४/९) बहौ ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-५/९) बहोः इति ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-६/९) अथ किमर्थम् किमः उपसङ्ख्यानम् क्रियते न सर्वनाम्नः इति एव सिद्धम् ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-७/९) द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-८/९) द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् क्रियते ।

(पा-५,३.२; अकि-२,४०२.१५-२०; रो-४,१७८; भा-९/९) अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किमः उपसङ्ख्यानम् क्रियते ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१/२८) क्व अयम् नकारः श्रूयते ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२/२८) न क्व चित् श्रूयते ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-३/२८) लोपः अस्य भवति नलोपः प्रातिपदिकान्तस्य इति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-४/२८) यदि न क्व चित् श्रूयते किमर्थम् उच्चार्यते ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-५/२८) अनेकाल्शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-६/२८) क्रियमाणे अपि नकारे सर्वादेशः न प्राप्नोति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-७/२८) किम् कारणम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-८/२८) नलोपे कृते एकाल्त्वात् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-९/२८) इदम् इह सम्प्रधार्यम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१०/२८) नलोपः क्रियताम् सर्वादेशः इति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-११/२८) किम् अत्र कर्तव्यम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१२/२८) परत्वात् नलोपः ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१३/२८) असिद्धः नलोपः ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१४/२८) तस्य असिद्धत्वात् सर्वादेशः भवति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१५/२८) परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१६/२८) एवम् तर्हि आनुपूर्व्या सिद्धम् एतत् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१७/२८) न अकृते सर्वादेशे प्रातिपदिकसञ्ज्ञा प्राप्नोति न च अकृतायाम् प्रातिपदिकसञ्ज्ञायाम् नलोपः प्राप्नोति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१८/२८) तत् आनुपूर्व्या सिद्धम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-१९/२८) न एतत् अस्ति प्रयोजनम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२०/२८) अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण नकारम् सर्वादेशः भविष्यति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२१/२८) अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२२/२८) किम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२३/२८) ये अन्ये अकारादेशाः प्राप्नुवन्ति तद्बाधनार्थम् ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२४/२८) तत् यथा मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यात् अनुस्वारादयः न भवन्ति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२५/२८) तस्मात् नकारः कर्तव्यः ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२६/२८) न कर्तव्यः ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२७/२८) क्रियते न्यासे एव ।प्रश्लिष्टनिर्देशः अयम् अ अ अ इति ।

(पा-५,३.५.१; अकि-२,४०३.२-१५; रो-४,१७८-१७९; भा-२८/२८) सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-१/१५) एतदः इति योगविभागः ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-२/१५) एतदः इति योगविभागः कर्तव्यः ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-३/१५) एतदः एत इत् इति एतौ आदेशौ भवतः ततः अन् ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-४/१५) अन् च भवति एतदः इति ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-५/१५) केन विहितेन थकारे एतदः आदेशः उच्यते ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-६/१५) एतदः च थमः उपसङ्ख्यानम् ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-७/१५) एतदः च थमः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-८/१५) एतत्प्रकारम् इत्थम् ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-९/१५) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-१०/१५) न कर्तव्यम् ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-११/१५) एतत् ज्ञापयति भवति अत्र थमुः इति यत् अयम् थकारादौ आदेशम् शास्ति ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-१२/१५) कुतः नु खलु एतज्ज्ञापकात् अत्र थमुः भविष्यति ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-१३/१५) न पुनः यः एव असौ अविशेषविहितः थकारादिः तस्मिन् आदेशः स्यात् ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-१४/१५) इदमा थकारादिम् विशेषयिष्यामः ।

(पा-५,३.५.२; अकि-२,४०३.१६-२४; रो-४,१८०; भा-१५/१५) इदमः यः थकारादिः इति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१/५९) इदम् विचार्यते ॒ इमे तसिलादयः विभक्त्यादेशः वा स्युः परे वा इति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२/५९) कथम् च आदेशः स्युः कथम् वा परे ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३/५९) यदि पञ्चम्याः सप्तम्याः इति षष्ठी तदा आदेशाः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४/५९) अथ पञ्चमी ततः परे ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५/५९) कुतः सन्देहः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-६/५९) समानः निर्देशः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-७/५९) कः च अत्र विशेषः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-८/५९) तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-९/५९) तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः वक्तव्यः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१०/५९) सुब्लुक् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-११/५९) ततस्त्यः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१२/५९) यतस्त्यः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१३/५९) तत्रत्यः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१४/५९) यत्रत्यः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१५/५९) सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१६/५९) सुब्लुक् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१७/५९) स्वर ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१८/५९) यदा ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-१९/५९) तदा ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२०/५९) अनुदात्तौ सुप्पितौ इति एषः स्वरः प्राप्नोति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२१/५९) स्वर ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२२/५९) गुण ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२३/५९) कस्मात् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२४/५९) कुतः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२५/५९) घेः ङिति इति गुणः प्राप्नोति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२६/५९) गुण ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२७/५९) दीर्घ ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२८/५९) तस्मिन् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-२९/५९) तर्हि ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३०/५९) अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३१/५९) दीर्घ ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३२/५९) एत्त्व. तेषु ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३३/५९) तत्र ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३४/५९) बहुवचने झलि एत् इति एत्त्वम् प्राप्नोति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३५/५९) एत्त्व ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३६/५९) औत्त्व ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३७/५९) कस्मिन् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३८/५९) कुत्र ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-३९/५९) इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४०/५९) औत्त्व ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४१/५९) स्मायादिविधिः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४२/५९) तस्मात् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४३/५९) ततः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४४/५९) तस्मिन् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४५/५९) तत्र ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४६/५९) ङसिङ्योः स्मात्स्मिनौ इत् स्मादयः प्राप्नुवन्ति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४७/५९) पञ्चमीनिर्देशात् सिद्धम् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४८/५९) सन्तु परे ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-४९/५९) यदि परे समानशब्दानाम् प्रतिषेधः वक्तव्यः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५०/५९) तस्मात् तस्यति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५१/५९) यस्मात् तस्यति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५२/५९) पञ्चम्यन्तस्य तसेः तसिल् भवति इति तसिल् प्राप्नोति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५३/५९) अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५४/५९) अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५५/५९) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५६/५९) तसिल् कस्मात् न भवति ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५७/५९) स्वार्थविज्ञानात् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५८/५९) पञ्चम्यन्तात् परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम् ।

(पा-५,३.७, १०; अकि-२,४०४.३-२३; रो-४,१८०-१८२; भा-५९/५९) न च अत्र पञ्चम्यन्तात् परः तसिः स्वार्थे वर्तते ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१/१८) किमर्थम् तसेः तसिल् उच्यते ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-२/१८) तसेः तसिल्वचनम् स्वरार्थम् ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-३/१८) तसेः तसिल्वचनम् क्रियते स्वरार्थम् ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-४/१८) लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-५/१८) ननु च अयम् तसिल् तसिम् बाधिष्यते ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-६/१८) न सिध्यति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-७/१८) परत्वात् तसिः प्राप्नोति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-८/१८) तसिलः अवकाशः ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-९/१८) ततः हीयते ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१०/१८) ततः अवरोहति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-११/१८) तसेः अवकाशः ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१२/१८) ग्रामतः आगच्छति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१३/१८) नगरतः आगच्छति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१४/१८) इह उभयम् प्राप्नोति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१५/१८) ततः आगच्छति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१६/१८) यतः आगच्छति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१७/१८) परत्वात् तसिः प्राप्नोति ।

(पा-५,३.८; अकि-२,४०५.२-८; रो-४,१८२-१८३; भा-१८/१८) तस्मात् सुष्थु उच्यते तसेः तसिल्वचनम् स्वरार्थम् इति ।

(पा-५,३.९; अकि-२,४०५.१०-१२; रो-४,१८३; भा-१/३) पर्यभिभ्याम् च इति यत् उच्यते तत् सर्वोभयार्थे द्रष्टव्यम् ।

(पा-५,३.९; अकि-२,४०५.१०-१२; रो-४,१८३; भा-२/३) यावत् सर्वतः तावत् परितः ।

(पा-५,३.९; अकि-२,४०५.१०-१२; रो-४,१८३; भा-३/३) यावत् उभयतः तावत् अभितः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१/४५) इह कस्मात् न भवति ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२/४५) सः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३/४५) तौ ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-४/४५) ते ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-५/४५) भवदादिभिः योगे इति वक्तव्यम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-६/४५) के पुनः भवदादयः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-७/४५) भवान् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-८/४५) दीर्घायुः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-९/४५) देवानाम्प्रियः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१०/४५) आयुष्मान् इति ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-११/४५) सः भवान् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१२/४५) तत्र भवान् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१३/४५) ततः भवान् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१४/४५) तम् भवन्तम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१५/४५) तत्र भवन्तम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१६/४५) ततः भवन्तम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१७/४५) तेन भवता ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१८/४५) तत्र भवता ततः भवता ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-१९/४५) तस्मै भवते ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२०/४५) तत्र भवते ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२१/४५) ततः भवते ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२२/४५) तस्मात् भवतः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२३/४५) तत्र भवतः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२४/४५) ततः भवतः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२५/४५) तस्मिन् भवति ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२६/४५) तत्र भवति ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२७/४५) ततः भवति ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२८/४५) सः दीर्घायुः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-२९/४५) तत्र दीर्घायुः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३०/४५) ततः दीर्घायुः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३१/४५) तम् दीर्घायुषम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३२/४५) तत्र दीर्घायुषम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३३/४५) ततः दीर्घायुषम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३४/४५) सः देवानाम्प्रियः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३५/४५) तत्र देवानाम्प्रियः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३६/४५) ततः देवानाम्प्रियः ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३७/४५) तम् देवानाम्प्रियम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३८/४५) तत्र देवानाम्प्रियम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-३९/४५) ततः देवानाम्प्रियम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-४०/४५) सः आयुष्मान् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-४१/४५) तत्र आयुष्मान् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-४२/४५) ततः आयुष्मान् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-४३/४५) तम् आयुष्मन्तम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-४४/४५) तत्र आयुष्मन्तम् ।

(पा-५,३.१४; अकि-२,४०५.१४-२२; रो-४,१८३; भा-४५/४५) ततः आयुष्मन्तम्

(पा-५,३.१७; अकि-२,४०६.२-३; रो-४,१८४; भा-१/३) अधुना इति किम् निपात्यते ।

(पा-५,३.१७; अकि-२,४०६.२-३; रो-४,१८४; भा-२/३) इदमः अश्भावः धुना च प्रत्ययः इदमः वा लोपः अधुना च प्रत्ययः ।

(पा-५,३.१७; अकि-२,४०६.२-३; रो-४,१८४; भा-३/३) अस्मिन् काले अधुन ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-१/९) इदानीम् ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-२/९) इदमः तृतीयादिविभक्तिः उदात्ता भवति इति एषः स्वरः प्राप्नोति ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-३/९) दानीम् इति निपातनात् स्वरसिद्धिः ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-४/९) दानीम् इति निपातनात् स्वरसिद्धिः भविष्यति ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-५/९) आद्युदात्तनिपातनम् करिष्यते ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-६/९) सः निपातनस्वरः विभक्तिस्वरस्य बाधकः भविष्यति ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-७/९) उक्तम् वा ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-८/९) किम् उक्तम् ।

(पा-५,३.१८; अकि-२,४०६.५-१०; रो-४,१८४; भा-९/९) आदौ सिद्धम् इति ।

(पा-५,३.१९; अकि-२,४०६.१२-१४; रो-४,१८४; भा-१/५) तदः दावचनम् अनर्थकम् विहितत्वात् ।

(पा-५,३.१९; अकि-२,४०६.१२-१४; रो-४,१८४; भा-२/५) तदः दावचनम् अनर्थकम् ।

(पा-५,३.१९; अकि-२,४०६.१२-१४; रो-४,१८४; भा-३/५) किम् कारणम् ।

(पा-५,३.१९; अकि-२,४०६.१२-१४; रो-४,१८४; भा-४/५) विहितत्वात् ।

(पा-५,३.१९; अकि-२,४०६.१२-१४; रो-४,१८४; भा-५/५) विहितः अत्र प्रत्ययः सर्वैकान्यकिंयत्तदः काले दा इति ।

(पा-५,३.२०; अकि-२,४०६.१६-१८; रो-४,१८४; भा-१/४) तयोः इति प्रातिपदिकनिर्देशः ।

(पा-५,३.२०; अकि-२,४०६.१६-१८; रो-४,१८४; भा-२/४) तयोः इति प्रातिपदिकनिर्देशः द्रष्टव्यः ।

(पा-५,३.२०; अकि-२,४०६.१६-१८; रो-४,१८४; भा-३/४) द्वेष्यम् विजानीयात् ॒योगयोः वा प्रत्यययोः वा इति ।

(पा-५,३.२०; अकि-२,४०६.१६-१८; रो-४,१८४; भा-४/४) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ तयोः इति प्रातिपदिकनिर्देशः इति ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१/३४) सद्यः इति किम् निपात्यते ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२/३४) समानस्य सभावः द्यः च अहनि ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-३/३४) समानस्य सभावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-४/३४) समाने अहनि सद्यः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-५/३४) परुत् परारि इति किम् निपात्यते ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-६/३४) पूर्वपूर्वतयोः परभावः उदारी च संवत्सरे ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-७/३४) पूर्वपूर्वतयोः परभावः निपात्यते उदारी च प्रत्ययौ संवत्सरे अभिधेये ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-८/३४) पूर्वस्मिन् संवत्सरे परुत् ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-९/३४) पूर्वतरे संवत्सरे परारि ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१०/३४) ऐषमः इति किम् निपात्यते ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-११/३४) इदमः समसण् ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१२/३४) इदमः समसण् प्रत्ययः निपात्यते संवत्सरे अभिधेये ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१३/३४) अस्मिन् संवत्सरे ऐषमः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१४/३४) परेद्यवि इति किम् निपात्यते ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१५/३४) परस्मात् एद्यवि अहनि ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१६/३४) परस्मात् एद्यवि प्रत्ययः निपात्यते अहनि अभिधेये ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१७/३४) परस्मिन् अहनि परेद्यवि ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१८/३४) अद्य इति किम् निपात्यते ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-१९/३४) इदमः अश्भावः द्यः च ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२०/३४) इदमः अश्भावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२१/३४) अस्मिन् अहनि अद्य ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२२/३४) पूर्वेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः अपरेद्युः अधरेद्युः उभयेद्युः उत्तरेद्युः इति किम् निपात्यते ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२३/३४) पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२४/३४) पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् प्रत्ययः निपात्यते अहनि अभिधेये ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२५/३४) पूर्वस्मिन् अहनि पूर्वेद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२६/३४) अन्यस्मिन् अहनि अन्येद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२७/३४) अन्यतरस्मिन् अहनि अन्यतरेद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२८/३४) इतरस्मिन् अहनि इतरेद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-२९/३४) अपरस्मिन् अहनि अपरेद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-३०/३४) अधरस्मिन् अहनि अधरेद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-३१/३४) उभयोः अह्नोः उभयेद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-३२/३४) उत्तरस्मिन् अहनि उत्तरेद्युः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-३३/३४) द्युः च उभयात् । उभयशब्दात् द्युः च वक्तव्यः ।

(पा-५,३.२२; अकि-२,४०७.२-४०८.२; रो-४,१८५-१८६; भा-३४/३४) तस्मात् मनुष्येभ्यः उभयद्युः ।

(पा-५,३.२७; अकि-२,४०८.५; रो-४,१८७; भा-१/४) इह कस्मात् न भवति ।

(पा-५,३.२७; अकि-२,४०८.५; रो-४,१८७; भा-२/४) पूर्वस्मिन् देशे वसति इति ।

(पा-५,३.२७; अकि-२,४०८.५; रो-४,१८७; भा-३/४) न एषः देशः ।

(पा-५,३.२७; अकि-२,४०८.५; रो-४,१८७; भा-४/४) देशविशेषणम् एतत् ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१/३५) किमर्थम् अतसुच् क्रियते न तसुच् एव क्रियते ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२/३५) तत्र अयम् अपि अर्थः ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-३/३५) स्वरार्थः चकारः न कर्तव्यः भवति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-४/३५) प्रत्ययस्वरेण एव सिद्धम् ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-५/३५) का रूपसिद्धिः ॒ दक्षिणतः ग्रामस्य ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-६/३५) उत्तरतः ग्रामस्य ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-७/३५) दक्षिणोत्तरशब्दौ अकारान्तौ ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-८/३५) तसुशब्दः प्रत्ययः ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-९/३५) भवेत् सिद्धम् यदा अकारान्तौ ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१०/३५) यतु तु खलु आकारान्तौ तदा न सिध्यति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-११/३५) तदा अपि सिद्धम् ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१२/३५) कथम् ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१३/३५) पुंवद्भावेन ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१४/३५) कथम् पुंवद्भावः ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१५/३५) तसिलादिषु आ कृत्वसुचः इति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१६/३५) न सिध्यति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१७/३५) भाषितपुंस्कस्य पुंवद्भावः न च एतौ भाषितपुंस्कौ ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१८/३५) ननु च भो दक्षिणशब्दः उत्तरशब्दः च पुंसि भाष्येते ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-१९/३५) समानायाम् आकृतौ यत् भाषितपुंस्कम् इति उच्यते आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२०/३५) दक्षिणा उत्तरा इति दिक्शब्दौ ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२१/३५) दक्षिणः उत्तरः इति व्यवस्थाशब्दौ ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२२/३५) यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२३/३५) कथम् यानि दिगपदिष्टानि कार्याणि ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२४/३५) दिशः यदा व्यवस्थाम् वक्ष्यन्ति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२५/३५) यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२६/३५) रमणीया दिक् शोभना दिक् इति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२७/३५) अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दृष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२८/३५) पुंवद्भावः तु प्राप्नोति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-२९/३५) एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-३०/३५) विशेषणार्थम् तर्हि ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-३१/३५) क्व विशेषणार्थेन अर्थः ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-३२/३५) षष्ठी अतसर्थप्रत्ययेन इति ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-३३/३५) षष्ठी तसर्थप्रत्ययेने इति उच्यमाने इह अपि स्यात् ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-३४/३५) ततः ग्रामात् ।

(पा-५,३.२८; अकि-२,४०८.७-२२; रो-४,१८८-१९०; भा-३५/३५) यतः ग्रामात् इति ।

(पा-५,३.३१; अकि-२,४०९.२-४; रो-४,१९१; भा-१/४) उपरि उपरिष्टात् इति किम् निपात्यते ।

(पा-५,३.३१; अकि-२,४०९.२-४; रो-४,१९१; भा-२/४) ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च ।

(पा-५,३.३१; अकि-२,४०९.२-४; रो-४,१९१; भा-३/४) ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च प्रत्ययौ निपात्येते ।

(पा-५,३.३१; अकि-२,४०९.२-४; रो-४,१९१; भा-४/४) उपरि उपरिष्तात् ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-१/१५) पश्चात् इति किम् निपात्यते ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-२/१५) अपरस्य पश्चभावः आतिः च प्रतययः ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-३/१५) अपरस्य पश्चभावः निपात्यते आतिः च प्रतययः ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-४/१५) पश्चात् ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-५/१५) दिक्पूर्वपदस्य च ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-६/१५) दिक्पूर्वपदस्य च अपरस्य पश्चभावः वक्तव्यः आतिः च प्रतययः ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-७/१५) दक्षिणपश्चात् ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-८/१५) उत्तरपश्चात् ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-९/१५) अर्धोत्तरपदस्य च समासे ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-१०/१५) अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावः वक्तव्यः ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-११/१५) दक्षिणपश्चार्धः ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-१२/१५) उत्तरपश्चार्धः ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-१३/१५) अर्धे च ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-१४/१५) अर्धे च परतः अपरस्य पश्चभावः वक्तव्यः ।

(पा-५,३.३२; अकि-२,४०९.६-१६; रो-४,१९१; भा-१५/१५) पश्चार्धः ।

(पा-५,३.३५; अकि-२,४०९.१८-२०; रो-४,१९१; भा-१/४) अपञ्चम्याः इति प्राक् असः ।

(पा-५,३.३५; अकि-२,४०९.१८-२०; रो-४,१९१; भा-२/४) अपञ्चम्याः इति यत् उच्यते प्राक् असः तत् द्रष्टव्यम् ।

(पा-५,३.३५; अकि-२,४०९.१८-२०; रो-४,१९१; भा-३/४) द्वेष्यम् विजानीयात् ॒ अविशेषेण उत्तरम् अपञ्चम्याः इति ।

(पा-५,३.३५; अकि-२,४०९.१८-२०; रो-४,१९१; भा-४/४) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ अपञ्चम्याः इति प्राक् असः इति ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-१/१०) किमर्थः चकारः ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-२/१०) स्वरार्थः ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-३/१०) चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-४/१०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-५/१०) एकाच् अयम् ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-६/१०) तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-७/१०) प्रत्ययस्वरेण एव सिद्धम् ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-८/१०) विशेषणार्थः तर्हि ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-९/१०) क्व विशेषणार्थेन अर्थः ।

(पा-५,३.३६; अकि-२,४१०.२-५; रो-४,१९१; भा-१०/१०) अन्यारादितरर्तेदिक्शब्दाञ्चूऊत्तरपदाजाहियुक्ते ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१/२६) विधार्थे इति उच्यते ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२/२६) कः विधार्थः नाम ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-३/२६) विधायाः अर्थः विधार्थः ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-४/२६) यदि एवम् एका गोविधा ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-५/२६) एका हस्तिविधा ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-६/२६) अत्र अपि प्राप्नोति ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-७/२६) एवम् तर्हि धाविधानम् धात्वर्थपृथग्भावे ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-८/२६) धाविधानम् धात्वर्थपृथग्भावे इति वक्तव्यम् ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-९/२६) कः पुनः धात्वर्थपृथग्भावः ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१०/२६) किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-११/२६) न इति आह ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१२/२६) कारकपृथक्त्वम् एतत् ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१३/२६) यत् तर्हि तत् काल्ये भुङ्के सायम् भुङ्क्ते इति ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१४/२६) न इति आह ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१५/२६) कालपृथक्त्वम् एतत् ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१६/२६) यत् तर्हि शीतम् भुङ्क्ते उष्णम् भुङ्क्ते इति ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१७/२६) न इति आह ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१८/२६) गुणपृथक्त्वम् एतत् ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-१९/२६) कः तर्हि धात्वर्थपृथग्भावः ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२०/२६) कारकाणाम् प्रवृत्तिविशेषः क्रिया ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२१/२६) यदि एवम् क्रियाप्रकारे अयम् भवति ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२२/२६) विधयुक्तगताः च प्रकारे भवन्ति ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२३/२६) एवंविधम् ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२४/२६) एवंयुक्तम् ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२५/२६) एवङ्गतम् ।

(पा-५,३.४२; अकि-२,४१०.७-१५; रो-४,१९२-१९३; भा-२६/२६) एवम्प्रकारम् इति ।

(पा-५,३.४४; अकि-२,४१०.१७-२०; रो-४,१९४; भा-१/७) सहभावे ध्यमुञ् ।

(पा-५,३.४४; अकि-२,४१०.१७-२०; रो-४,१९४; भा-२/७) सहभावे ध्यमुञ् वक्तव्यः ।

(पा-५,३.४४; अकि-२,४१०.१७-२०; रो-४,१९४; भा-३/७) एइकध्यम् राशिम् कुरु ।

(पा-५,३.४४; अकि-२,४१०.१७-२०; रो-४,१९४; भा-४/७) सः तर्हि वक्तव्यः ।

(पा-५,३.४४; अकि-२,४१०.१७-२०; रो-४,१९४; भा-५/७) न वक्तव्यः ।

(पा-५,३.४४; अकि-२,४१०.१७-२०; रो-४,१९४; भा-६/७) अधिकरणविचाले इति उच्यते न च सः एव अधिकरणविचालः यत् एकम् अनेकम् क्रियते ।

(पा-५,३.४४; अकि-२,४१०.१७-२०; रो-४,१९४; भा-७/७) यत् अपि अनेकम् एकम् क्रियते सः अपि अधिकरणविचालः ।

(पा-५,३.४५; अकि-२,४११.२-३; रो-४,१९४-१९५; भा-१/४) धमुञन्तात् स्वार्थे डदर्शनम् ।

(पा-५,३.४५; अकि-२,४११.२-३; रो-४,१९४-१९५; भा-२/४) धमुञन्तात् स्वार्थे डः दृश्यते सः च विधेयः ।

(पा-५,३.४५; अकि-२,४११.२-३; रो-४,१९४-१९५; भा-३/४) पथि द्वैधानि ।

(पा-५,३.४५; अकि-२,४११.२-३; रो-४,१९४-१९५; भा-४/४) संशये द्वैधानि ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-१/१०) पाशपि कुत्सितग्रहणम् ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-२/१०) पाशपि कुत्सितग्रहणम् कर्तव्यम् ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-३/१०) वैयाकरणपाशः ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-४/१०) याज्ञिकपाशः ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-५/१०) यः हि यापयितव्यः याप्यः तत्र मा भूत् इति ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-६/१०) अथ वैयाकरणः शरीरेण कृशः व्याकरणेन च शोभनः कर्तव्यः वैयाकरणपाशः इति ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-७/१०) न कर्तव्यः ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-८/१०) कथम् ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-९/१०) यस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।

(पा-५,३.४७; अकि-२,४११.५-१०; रो-४,१९५; भा-१०/१०) न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः ।

(पा-५,३.४८; अकि-२,४११.१२-१५; रो-४,१९५; भा-१/६) पूरणग्रहणम् शक्यम् अकर्तुम् ।

(पा-५,३.४८; अकि-२,४११.१२-१५; रो-४,१९५; भा-२/६) न हि अपूरणः तीयशब्दः अस्ति यत्र दोषः स्यात् ।

(पा-५,३.४८; अकि-२,४११.१२-१५; रो-४,१९५; भा-३/६) ननु च अयम् अस्ति मुखतीयः पार्श्वतीयः इति ।

(पा-५,३.४८; अकि-२,४११.१२-१५; रो-४,१९५; भा-४/६) अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् अस्य न भविष्यति ।

(पा-५,३.४८; अकि-२,४११.१२-१५; रो-४,१९५; भा-५/६) उत्तरार्थम् तर्हि पूरणग्रहणम् कर्तव्यम् ।

(पा-५,३.४८; अकि-२,४११.१२-१५; रो-४,१९५; भा-६/६) प्राक् एकादशभ्यः अच्छन्दसि इति पूरणात् यथा स्यात् ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१/३१) एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२/३१) एकात् आकिनिचि द्विबह्वर्थे प्रत्ययः विधेयः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-३/३१) एकाकिनौ ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-४/३१) एकाकिनः इति ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-५/३१) किम् पुनः कारणम् न सिध्यति ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-६/३१) एकशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-७/३१) सिद्धम् तु सङ्ख्यादेशवचनात् ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-८/३१) सिद्धम् एतत् ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-९/३१) कथम् ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१०/३१) द्विबह्वर्थायाः सङ्ख्यायाः एकशब्दः आदेशः वक्तव्यः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-११/३१) असहायस्य वा ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१२/३१) असहायस्य वा एकशब्दः आदेशः वक्तव्यः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१३/३१) असहायः एकाकी ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१४/३१) असहायौ एकाकिनौ ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१५/३१) असहायाः एकाकिनः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१६/३१) सिध्यति ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१७/३१) सूत्रम् तर्हि भिद्यते ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१८/३१) यथान्यासम् एव अस्तु ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-१९/३१) ननु च उक्तम् एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् इति ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२०/३१) न एषः दोषः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२१/३१) अयम् एकशब्दः अस्ति एव सङ्ख्यापदम् ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२२/३१) तत् यथा एकः द्वौ बहवः इति ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२३/३१) अस्ति अन्यार्थे वर्तते ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२४/३१) तत् यथा सधमादः द्युम्नः एकाः ताः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२५/३१) अन्याः इति अर्थः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२६/३१) अस्ति असहायवाची ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२७/३१) तत् यथा ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२८/३१) एकाग्नयः ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-२९/३१) एकहलानि ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-३०/३१) एकाकिभिः क्षुद्रकैः जितम् इति ।

(पा-५,३.५२; अकि-२,४११.१७-४१२.१०; रो-४,१९१९६-१९७; भा-३१/३१) तत् यः असहायवाची तस्य एषः प्रयोगः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१/८८) अतिशायने इति उच्यते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२/८८) किम् इदम् अतिशायने इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३/८८) देश्याः सूत्रनिबन्धाः क्रियन्ते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४/८८) यावत् ब्रूयात् प्रकर्षे अतिशये इति तावत् अतिशायने इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५/८८) कस्य पुनः प्रकर्षे प्रत्ययः उत्पद्यते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६/८८) ङ्याप्प्रातिपदिकात् इति वर्तते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७/८८) ङ्याप्प्रातिपदिकस्य प्रकर्षे ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८/८८) ङ्याप्प्रातिपदिकम् वै शब्दः न च शब्दस्य प्रकर्षापकर्षौ स्तः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-९/८८) शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१०/८८) कः पुनः ङ्याप्प्रातिपदिकार्थः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-११/८८) द्रव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१२/८८) न वै द्रव्यसय प्रकर्षे इष्यते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१३/८८) एवम् तर्हि गुणः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१४/८८) एवम् अपि गुणग्रहणम् कर्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१५/८८) द्रव्यम् अपि ङ्याप्प्रातिपदिकार्थः गुणः अपि ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१६/८८) तत्र कुतः एतत् गुणस्य प्रकर्षे भविष्यति न पुनः द्रव्यस्य प्रकर्षे इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१७/८८) क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१८/८८) न तर्हि इदानीम् इदम् भवति ॒ अध्वर्युः वै श्रेयान् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-१९/८८) पापीयान् प्रतिप्रस्थाता ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२०/८८) अन्धानाम् काणतमः इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२१/८८) समानगुणे एषा स्पर्धा भवति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२२/८८) अध्वर्युः वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२३/८८) पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२४/८८) अन्धानाम् काणतमः इति कणिः अयम् सौक्ष्म्ये वर्तते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२५/८८) सर्वे इमे किम् चित् पश्यन्ति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२६/८८) अयम् एषाम् काणतमः इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२७/८८) अदूरविप्रकर्षे इति वक्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२८/८८) इह मा भूत् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-२९/८८) महान् सर्षपः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३०/८८) महान् हिमवान् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३१/८८) जातेः न इति वक्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३२/८८) इह मा भूत् ॒ वृक्षः अयम् प्लक्षः अयम् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३३/८८) न तर्हि इदानीम् इदम् भवति ॒ गोतरः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३४/८८) गोतरा ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३५/८८) अश्वतरः इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३६/८८) न एषः जातेः प्रकर्षः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३७/८८) कस्य तर्हि ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३८/८८) गुणस्य ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-३९/८८) गौः अयम् शकटम् वहति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४०/८८) गोतरर्ः अयम् यः शकटम् वहति सीरम् च ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४१/८८) गौः इयम् या समाम् समाम् विजायते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४२/८८) गोतरा इयम् या समाम् समाम् विजायते स्त्रीवत्सा च ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४३/८८) अश्वः अयम् यः चत्वारि योजनानि गच्छति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४४/८८) अश्वतरः अयम् यः अष्टौ योजनानि गच्छति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४५/८८) तथा तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४६/८८) न एषः दोषः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४७/८८) यत् तावत् उच्यते गुणग्रहणम् कर्तव्यम् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४८/८८) न कर्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-४९/८८) यस्य प्रकर्षः अस्ति तस्य प्रकर्षे भविष्यति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५०/८८) गुणस्य च एव प्रकर्षः न द्रव्यस्य ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५१/८८) कथम् ज्ञायते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५२/८८) एवम् हि दृश्यते लोके ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५३/८८) इह समाने आयामे विस्तारे पटस्य अन्यः अर्घः भवति काशिकस्य अन्यः माथुरस्य ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५४/८८) गुणान्तरम् खलु अपि शिल्पिनः उत्पादयमानाः द्रव्यान्तरेण प्रक्षालयन्ति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५५/८८) अन्येन शुद्धम् धौतकम् कुर्वन्ति अन्येन शैफालिकम् अन्येन माध्यमिकम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५६/८८) यत् अपि उच्यते क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५७/८८) न कर्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५८/८८) समानगुणे एव स्पर्धा भवति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-५९/८८) नहि आढ्याभिरूपौ स्पर्धेते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६०/८८) वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६१/८८) यत् अपि उच्यते अदूरविप्रकर्षे इति वक्तव्यम् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६२/८८) न वक्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६३/८८) अदूरविप्रकर्षे एव स्पर्धा भवति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६४/८८) न हि निष्कधनः शतनिष्कधनेन स्पर्धते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६५/८८) यत् अपि उच्यते जातेः न इति वक्तव्यम् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६६/८८) न वक्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६७/८८) जननेन या प्राप्यते सा जातिः न च एतस्य अर्थस्य प्रकर्षापकर्षौ स्तः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६८/८८) यत् अपि उच्यते तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-६९/८८) न कर्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७०/८८) साधनम् वै द्रव्यम् न च द्रव्यस्य प्रकर्षापकर्षौ स्तः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७१/८८) किम् पुनः एकम् शौक्ल्यम् आहोस्वित् नाना ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७२/८८) किम् च अतः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७३/८८) यदि एकम् प्रकर्षः न उपपद्यते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७४/८८) न हि तेन एव तस्य प्रकर्षः भवति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७५/८८) अथ नाना समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७६/८८) अस्ति एकम् शौक्ल्यम् तत् तु विशेषवत् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७७/८८) किङ्कृतः विशेषः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७८/८८) अल्पत्वमहत्त्वकृतः ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-७९/८८) अथ वा पुनः अस्तु एकम् निर्विशेषम् च ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८०/८८) ननु च उक्तम् प्रकर्षः न उपपद्यते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८१/८८) न हि तेन एव तस्य प्रकर्षः भवति इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८२/८८) गुणान्तरेण प्रच्छादात् प्रकर्षः भविष्यति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८३/८८) अथ वा पुनः अस्तु नाना ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८४/८८) ननु च उक्तम् समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८५/८८) न कर्तव्यम् ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८६/८८) समानगुणे एव स्पर्धा भवति ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८७/८८) नहि आढ्याभिरूपौ स्पर्धेते ।

(पा-५,३.५५.१; अकि-२,४१३.२-४१४.१४; रो-४,१९७-२०५; भा-८८/८८) वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१/५६) किमन्तात् पुनः उत्पत्त्या भवितव्यम् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२/५६) द्वितीयान्तात् अतिशय्यमानात् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३/५६) शुक्लम् अतिशेते शुक्लतरः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४/५६) कृष्णम् अतिशेते कृष्णतरः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५/५६) यदि द्वितीयान्तात् अतिशय्यमानात् कालः अतिशेते कालीम् कालितरः इति प्राप्नोति कालतरः इति च इष्यते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-६/५६) तथा काली अतिशेते कालम् कालतरः इति प्राप्नोति कालितरा इति च इष्यते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-७/५६) तथा गार्ग्यः अतिशेते गर्गान् गर्गतरः इति प्राप्नोति गार्ग्यतरः इति च इष्यते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-८/५६) तथा गर्गाः अतिशेरते गार्ग्यम् गार्ग्यतराः इति प्राप्नोति गर्गतराः इति च इष्यते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-९/५६) एवम् तर्हि प्रथमान्तात् स्वार्थिकः भविष्यति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१०/५६) कालः अतिशेते कालतरः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-११/५६) काली अतिशेते कालितरा ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१२/५६) गार्ग्यः अतिशेते गार्ग्यतरः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१३/५६) गर्गाः अतिशेरते गर्गतराः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१४/५६) यदि प्रथमान्तात् स्वार्थिकः कुमारितरा किशोरितरा अव्यतिरिक्तम् वयः इति कृत्वा वयसि प्रथमे इति ङीप् प्राप्नोति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१५/५६) तरपा उक्तत्वात् स्त्रीप्रत्ययः न भविष्यति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१६/५६) टाप् अपि तर्हि न प्राप्नोति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१७/५६) उक्ते अपि हि भवन्ति एते टाबादयः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१८/५६) उक्तम् एतत् स्वार्थिकाः टाबादयः इति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-१९/५६) ङीप् अपि तर्हि प्राप्नोति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२०/५६) एवम् तर्हि गुणः अभिधीयते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२१/५६) एवम् अपि लिङ्गवचनानि न सिध्यन्ति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२२/५६) शुक्लतरम् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२३/५६) शुक्लतरा ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२४/५६) शुक्लतरः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२५/५६) शुक्लतरौ ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२६/५६) शुक्लतराः इति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२७/५६) आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२८/५६) गुणवचनानाम् हि शब्दानाम् आश्रयत लिङ्गवचनानि भवन्ति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-२९/५६) शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३०/५६) यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गु अस्य अपि भविष्यति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३१/५६) अथ वा क्रिया अभिधीयते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३२/५६) एवम् अपि लिङ्गवचनानि न सिध्यन्ति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३३/५६) आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३४/५६) एवम् अपि द्विवचनम् प्राप्नोति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३५/५६) यः च अतिशेते यः च अतिशय्यते उभौ तौ तस्य आश्रयौ भवतः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३६/५६) न एषः दोषः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३७/५६) कथम् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३८/५६) शेतिः अकर्मकः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-३९/५६) अकर्मकाः अपि धातवः सोपसर्गाः सकर्मकाः भवन्ति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४०/५६) कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणम् वा भवन्ति कर्तृस्थभावकः च शेतिः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४१/५६) अथ यदि एव द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः अथ अपि गुणः अभिधीयते अथ अपि क्रिया किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४२/५६) गतम् इति आह ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४३/५६) कथम् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४४/५६) यदा तावत् द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः तदा कृत्यल्युटः बहुलम् इति एवम् अत्र ल्युट् भविष्यति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४५/५६) यदा गुणः अभिधीयते तदा न्यायसिद्धम् एव ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४६/५६) यदा लपि क्रिया तदा अपि न्यायसिद्धम् एव ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४७/५६) अथ वा अतिशाययति इति अतिशायनम् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४८/५६) कः प्रयोज्यार्थः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-४९/५६) गुणाः गुणिनम् प्रयोजयन्ति गुणी वा गुणान् प्रयोजयति ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५०/५६) कः पुनः इह शेत्यर्थः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५१/५६) इह यः यत्र भवति शेते असौ तत्र ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५२/५६) गुणाः च गुणिनि शेरते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५३/५६) शेत्यर्थः कारितार्थः वा निर्देशः अयम् समीक्षितः ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५४/५६) शेत्यर्थे न अस्ति वक्तव्यम् ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५५/५६) कारितार्थे ब्रवीमि ते ।

(पा-५,३.५५.२; अकि-२,४१४.१५-४१५.१७; रो-४,२०५-२०९; भा-५६/५६) गुणी वा गुणसंयोगात् गुणः वा गुणिना यदि अभिव्यज्येत संयोगात् कारितार्थः भविष्यति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१/३३) इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वात् आतिशायिकः प्राप्नोति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२/३३) अतिशायने बहुव्रीहौ उक्तम् ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-३/३३) किम् उक्तम् ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-४/३३) पूर्व्पदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-५/३३) उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-६/३३) इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-७/३३) तत्र पूर्वम् अपेक्ष्य उत्तरे द्वे तरबन्ते ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-८/३३) तत्र द्वयोः तरबन्तयोः एकस्मात् प्रकर्षयुक्तात् शुक्लतरशब्दात् उत्पत्तिः प्राप्नोति शुक्लशब्दात् एव च इष्यते ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-९/३३) शुक्लतरस्य शुक्लभावात् प्रकृतेः प्रत्ययविज्ञानम् ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१०/३३) शुक्लतरशब्दे शुक्लशब्दः अस्ति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-११/३३) तस्मात् उत्पत्तिः भविष्यति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१२/३३) न एतत् विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१३/३३) किम् तर्हि ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१४/३३) शुक्लतरशब्दः अपि अस्ति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१५/३३) ततः उत्पत्तिः प्राप्नोति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१६/३३) तदन्तात् च स्वार्थे छन्दसि दर्शनम् श्रेष्ठमाय इति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१७/३३) तदन्तात् आतिशायिकान्तात् च स्वार्थे छन्दसि आतिशायिकः दृश्यते ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१८/३३) देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-१९/३३) एवम् तर्हि मध्यमात् शुक्लशब्दात् पूर्वपरापेक्षात् उत्पत्तिः वक्तव्या ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२०/३३) मध्यमः च शुक्लशब्दः पूर्वम् अपेक्ष्य प्रकृष्टः परम् अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२१/३३) अथ वा उत्पद्यताम् ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२२/३३) लुक् भविष्यति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२३/३३) वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लतरशब्दात् उत्पद्यमानः वाचकः स्यात् ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२४/३३) न खलु अपि बहूनाम् प्रकर्षे तरपा भवितव्यम् ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२५/३३) केन तर्हि ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२६/३३) तमपा ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२७/३३) पूर्वेण स्पर्धमानः अयम् लभते सितः ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२८/३३) परस्मिन् न्यूनताम् एति न च न्यूनः प्रवर्तते ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-२९/३३) अपेक्ष्य मध्यमः पूर्वम् आधिक्यम् लभते सितः ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-३०/३३) परस्मिन् न्यूनताम् एति यथा अमात्यः स्थिते नृपे ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-३१/३३) अस्तु वा अपि तरः तस्मात् ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-३२/३३) न अपशब्दः भविष्यति ।

(पा-५,३.५५.३; अकि-२,४१५.१८-४१६.१५; रो-४,२०९-२११; भा-३३/३३) वाचकः चेत् प्रयोक्तव्यः वाचकः चेत् प्रयुज्यताम् ।