व्याकरणमहाभाष्य खण्ड 57

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१/३१) द्विवचने इति उच्यते ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२/३१) तत्र इदम् न सिध्यति ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-३/३१) दन्तोष्ठस्य दन्ताः स्निग्धतराः ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-४/३१) पाणिपादस्य पादौ सुकुमारतरौ ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-५/३१) अस्माकम् च देवदत्तस्य च देवदत्तः अभिरूपतरः इति ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-६/३१) यदि पुनः द्व्यर्थोपपदे इति उच्येत ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-७/३१) तत्र अयम् अपि अर्थः ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-८/३१) विभज्योपपदग्रहणम् न कर्तव्यम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-९/३१) इह अपि शङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति द्व्यर्थोपपदे इति एव सिद्धम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१०/३१) न एवञ्जातीयका द्व्यर्थता शक्या विज्ञातुम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-११/३१) इह अपि प्रस्ज्येत ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१२/३१) शङ्काश्यकानाम् पाटलिपुत्रकाणाम् च पाटलिपुत्रकाः अभिरूपतमाः इति ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१३/३१) अवश्यम् खलु अपि विभज्योपपदग्रहणम् कर्तव्यम् यः हि बहूनाम् विभागः तदर्थम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१४/३१) शङ्काश्यकेभ्यः च पाटलिपुत्रकेभ्यः च माथुराः अभिरूपतराः इति ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१५/३१) तत् तर्हि द्व्यर्थोपपदे इति वक्तव्यम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१६/३१) न वक्तव्यम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१७/३१) न इदम् पारिभाषिकस्य द्विवचनस्य ग्रहणम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१८/३१) किम् तर्हि अन्वर्थग्रहणम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-१९/३१) उच्यते वचनम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२०/३१) द्वयोः अर्थयोः वचनम् द्विवचनम् इति ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२१/३१) एवम् अपि तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२२/३१) तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् वक्तव्यम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२३/३१) परुत् भवान् पटुः आसीत् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२४/३१) पटुतरः च ऐषमः इति ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२५/३१) सिद्धम् तु गुणप्रधानत्वात् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२६/३१) सिद्धम् एतत् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२७/३१) कथम् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२८/३१) गुणप्रधानत्वात् ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-२९/३१) गुणप्रधानः अयम् निर्देशः क्रियते ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-३०/३१) गुणान्तरयोगात् च अन्यत्वम् भवति ।

(पा-५,३.५७; अकि-२,४१६.१७-४१७.७; रो-४,२१२-२१५; भा-३१/३१) तत् यथा तम् एव गुणान्तरयुक्तम् वक्तारः भवन्ति अन्यः भवान् संवृत्तः इति ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-१/१०) एवकारः किमर्थः ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-२/१०) नियमार्थः ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-३/१०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-४/१०) सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-५/१०) इष्टतः अवधारणार्थः तर्हि ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-६/१०) यथा एवम् विज्ञायेत ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-७/१०) अजादी गुणवचनात् एव इति ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-८/१०) मा एवम् विज्ञायि ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-९/१०) अजादी एव गुणवचनात् इति ।

(पा-५,३.५८; अकि-२,४१७.९-१२; रो-४,२१५; भा-१०/१०) किम् च स्यात् न व्यञ्जनादी गुणवचनात् स्याताम् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१/२९) इदम् अयुक्तम् वर्तते ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२/२९) किम् अत्र अयुक्तम् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-३/२९) अजादी गुणवचनात् एव इति उक्त्वा अगुणवचनानाम् अपि अजाद्योः आदेशाः उच्यन्ते ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-४/२९) न एषः दोषः ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-५/२९) एतत् एव ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-६/२९) एवम् अपि तयोः इति वक्तव्यम् स्यात् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-७/२९) तयोः परतः इति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-८/२९) यदि पुनः अयम् विधिः विज्ञायेत ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-९/२९) न एवम् शक्यम् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१०/२९) व्यञ्जनादी हि न स्याताम् उपाधीनाम् च सङ्करः स्यात् पुनर्विधानात् अजाद्योः ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-११/२९) ननु च एते विशेषाः अनुवर्तेरन् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१२/२९) यदि अपि एते अनुवर्तेरन् व्यञ्जनादी तर्हि न स्याताम् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१३/२९) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१४/२९) ननु च उक्तम् तयोः इति वक्तव्यम् इति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१५/२९) न वक्तव्यम् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१६/२९) प्रकृतम् अजादीग्रहणम् अनुवर्तते ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१७/२९) क्व प्रकृतम् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१८/२९) अजादी गुणवचनात् एव इति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-१९/२९) तत् वै प्रथमानिर्दिष्टम् सप्तमीनिर्दिष्टेन च इह अर्थः ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२०/२९) अर्थात् विभक्तिविपरिणामः भविष्यति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२१/२९) तत् यथा ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२२/२९) उच्चानि देवदत्तस्य गृहाणि ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२३/२९) आमन्त्रयस्व एनम् ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२४/२९) देवदत्तम् इति गम्यते ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२५/२९) देवदत्तस्य गाव अश्वा हिरण्यम् इति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२६/२९) आढ्यः वैधवेयः ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२७/२९) देवदत्तः इति गम्यते ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२८/२९) पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

(पा-५,३.६०; अकि-२,४१७.१४-४१८.४; रो-४,२१५-२१७; भा-२९/२९) एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् सप्तमीनिर्दिष्टम् भविष्यति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१/४७) स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२/४७) तेन स्त्रीलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३/४७) पुन्नपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च न स्यात् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४/४७) न एषः दोषः ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-५/४७) न अयम् प्रत्ययार्थः ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-६/४७) किम् तर्हि ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-७/४७) प्रकृत्यर्थविशेषणम् एतत् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-८/४७) प्रशंसायाम् यत् प्रातिपदिकम् वर्तते तस्मात् रूपप् भवति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-९/४७) कस्मिन् अर्थे ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१०/४७) स्वार्थे इति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-११/४७) स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१२/४७) प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः अम्भाववचनम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१३/४७) प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१४/४७) पचतिरूपम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१५/४७) पचतोरूपम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१६/४७) पचन्तिरूपम् इति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१७/४७) सिद्धम् तु क्रियाप्रधानत्वात् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१८/४७) सिद्धम् एतत् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-१९/४७) कथम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२०/४७) क्रियाप्रधानत्वात् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२१/४७) क्रियाप्रधानम् आख्यातम् एका च क्रिया ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२२/४७) द्रव्यप्रधानम् नाम ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२३/४७) कथम् पुनः ज्ञयते क्रियाप्रधानम् आख्यातम् भवति द्रव्यप्रधानम् नाम इति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२४/४७) यत् क्रियाम् पृष्टः तिङा आचष्टे ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२५/४७) किम् देवदत्तः करोति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२६/४७) पचति इति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२७/४७) द्रव्यम् पृष्टः कृता आचष्टे ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२८/४७) कतरः देवदत्तः ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-२९/४७) यः कारकः हारकः इति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३०/४७) यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३१/४७) पचतः ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३२/४७) पचन्ति इति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३३/४७) न एतानि क्रियापेक्षाणि ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३४/४७) किम् तर्हि साधनापेक्षाणि ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३५/४७) इह अपि तर्हि प्राप्नुवन्ति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३६/४७) पचतिरूपम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३७/४७) पचतोरूपम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३८/४७) पचन्तिरूपम् इति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-३९/४७) तिङा उक्तत्वात् तस्य अभिसम्बन्धस्य न भविष्यति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४०/४७) एकवचनम् अपि तर्हि न प्राप्नोति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४१/४७) समयात् भविष्यति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४२/४७) द्विवचनबहुवचनानि अपि तर्हि समयात् प्राप्नुवन्ति ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४३/४७) एवम् तर्हि एकवचनम् उत्सर्गः करिष्यते ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४४/४७) तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४५/४७) एवम् अपि नपुंसकत्वम् वक्तव्यम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४६/४७) न वक्तव्यम् ।

(पा-५,३.६६.१; अकि-२,४१८.६-२५; रो-४,२१७-२२०; भा-४७/४७) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-१/१५) वृषलादिभ्यः उपसङ्ख्यानम् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-२/१५) वृषलादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-३/१५) वृषलरूपः ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-४/१५) दस्युरूपः ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-५/१५) चोररूपः इति ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-६/१५) सिद्धम् तु प्रकृत्यर्थवैशिष्ट्यवचनात् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-७/१५) सिद्धम् एतत् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-८/१५) कथम् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-९/१५) प्रकृत्यर्थस्य वैशिष्ट्ये इति वक्तव्यम् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-१०/१५) वृषलरूपः अयम् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-११/१५) अपि अयम् पलाण्डुना सुराम् पिबेत् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-१२/१५) चोररूपः अयम् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-१३/१५) अपि अयम् अक्ष्णोः अञ्जनम् हरेत् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-१४/१५) दस्युरूपः अयम् ।

(पा-५,३.६६.२; अकि-२,४१९.१-६; रो-४,२२१-२२२; भा-१५/१५) अपि अयम् धावतः लोहितम् पिबेत् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१/७४) ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२/७४) ईषदसमाप्तौ क्रियाप्रधानत्वात् लिङ्गवचनयोः अनुपपत्तिः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३/७४) पटुकल्पः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४/७४) पटुकल्पौ ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५/७४) पटुकल्पाः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६/७४) एकः अयम् अर्थः ईषदसमाप्तिः नाम ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-७/७४) तस्य एकत्वात् एकवचनम् प्राप्नोति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-८/७४) प्रकृत्यर्थविशेषणत्वाद् सिद्धम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-९/७४) सिद्धम् एतत् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१०/७४) कथम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-११/७४) न अयम् प्रत्ययार्थः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१२/७४) किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१३/७४) ईषदसमाप्तौ यत् प्रातिपदिकम् वर्तते तस्मात् कल्पबादयः भवन्ति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१४/७४) कस्मिन् अर्थे ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१५/७४) स्वार्थे इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१६/७४) स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१७/७४) प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१८/७४) प्रकृत्यर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-१९/७४) गुडकल्पा द्राक्षा ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२०/७४) तैलकल्पा प्रसन्ना ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२१/७४) पयस्कल्पा यवागूः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२२/७४) सिद्धम् तु तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२३/७४) सिद्धम् एतत् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२४/७४) कथम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२५/७४) तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२६/७४) सिध्यति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२७/७४) सूत्रम् तर्हि भिद्यते ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२८/७४) यथान्यासम् एव अस्तु ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-२९/७४) ननु च उक्तम् ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३०/७४) परिहृतम् एतत् प्रकृत्यर्थविशेषणत्वाद् सिद्धम् इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३१/७४) ननु च उक्तम् प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३२/७४) न एषः दोषः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३३/७४) आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यत् अयम् णचः स्त्रियाम् अञ् इति स्त्रीग्रहणम् करोति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३४/७४) यदि एतत् ज्ञाप्यते बहुगुडः द्राक्षा ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३५/७४) बहुतैलम् प्रसन्ना ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३६/७४) बहुपयः यवागूः इति अत्र अपि प्राप्नोति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३७/७४) न अपि अतिवर्तन्ते ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३८/७४) किम् पुनः इह उदाहरणम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-३९/७४) पटुकल्पः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४०/७४) मृदुकल्पः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४१/७४) न एतत् अस्ति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४२/७४) निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४३/७४) इदम् तर्हि ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४४/७४) गुडकल्पा द्राक्षा ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४५/७४) तैलकल्पा प्रसन्ना ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४६/७४) पयस्कल्पा यवागूः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४७/७४) द्रव्यम् अपि अनिर्ज्ञातम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४८/७४) इदम् तर्हि ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-४९/७४) कृतकल्पम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५०/७४) भुक्तकल्पम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५१/७४) पीतकल्पम् इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५२/७४) क्तान्तात् प्रत्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात् कल्पादीनाम् च असमाप्तिवचनात् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५३/७४) क्तान्तात् प्रत्ययविधानेः अनुपपत्तिः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५४/७४) किम् कारणम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५५/७४) क्तस्य भूतकाललक्षणत्वात् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५६/७४) भूतकाललक्षणः क्तः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५७/७४) कल्पादीनाम् च असमाप्तिवचनात् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५८/७४) विसमाप्तिवचनाः च कल्पादयः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-५९/७४) न च अस्ति सम्भवः यत् भूतकालः च स्यात् असमाप्तिः च इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६०/७४) सिद्धम् तु आशंसायाम् भूतवद्वचनात् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६१/७४) सिद्धम् एतत् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६२/७४) कथम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६३/७४) आशंसायाम् भूतवत् च इति एवम् अत्र क्तः भविष्यति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६४/७४) इदम् च अपि उदाहरणम् पटुकल्पः ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६५/७४) मृदुकल्पः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६६/७४) ननु च उक्तम् निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६७/७४) लोकतः व्यवहारम् दृष्ट्वा गुणस्य निर्ज्ञानम् ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६८/७४) तत् यथा पटुः अयम् ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान् साधयति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-६९/७४) पटुकल्पः अयम् इति उच्यति यः न तथा साधयति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-७०/७४) इदम् च अपि उदाहरणम् गुडकल्पा द्राक्षा ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-७१/७४) तैलकल्पा प्रसन्ना ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-७२/७४) पयस्कल्पा यवागूः इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-७३/७४) ननु च उक्तम् द्रव्यम् अपि अनिर्ज्ञातम् इति ।

(पा-५,३.६७; अकि-२,४१९.८-४२०.१७; रो-४,२२२-२२६; भा-७४/७४) लोकतः द्रव्यम् अपि निर्ज्ञातम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१/८०) विभाषाग्रहणम् किमर्थम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२/८०) विभाषा बहुच् यथा स्यात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३/८०) बहुचा मुक्ते वाक्यम् अपि यथा स्यात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४/८०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५/८०) प्रकृता महाविभाषा ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६/८०) तया वाक्यम् भविष्यति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७/८०) इदम् तर्हि प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-८/८०) कल्पादयः अपि यथा स्युः इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-९/८०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१०/८०) बहुच् उच्यते कल्पादयः अपि ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-११/८०) तत् उभयम् वचनात् भविष्यति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१२/८०) न एवम् शक्यम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१३/८०) अक्रियमाणे हि विभाषाग्रहणे अनवकाशः बहुच् कल्पादीन् बाधेत ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१४/८०) कल्पादयः अपि अनवकाशाः ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१५/८०) ते वचनात् भविष्यन्ति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१६/८०) सावकाशाः कल्पादयः ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१७/८०) कः अवकाशः ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१८/८०) तिङन्तानि अवकाशः ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-१९/८०) अथ सुब्ग्रहणम् किमर्थम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२०/८०) सुबन्तात् उत्पत्तिः यथा स्यात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२१/८०) प्रातिपदिकात् मा भूत् इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२२/८०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२३/८०) न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२४/८०) यदि एवम् इह अपि न अर्थः सुब्ग्रहणेन ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२५/८०) सुपः आत्मनः क्यच् इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२६/८०) इह अपि न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२७/८०) अयम् अस्ति विशेषः ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२८/८०) सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-२९/८०) प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३०/८०) ननु च प्रातिपदिकात् अपि उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३१/८०) कथम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३२/८०) आरभ्यते नः क्ये इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३३/८०) तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ नियमार्थम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३४/८०) तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३५/८०) इदम् तर्हि प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३६/८०) सुबन्तात् उत्पत्तिः यथा स्यात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३७/८०) तिङन्तात् मा भूत् इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३८/८०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-३९/८०) ङ्याप्प्रातिपदिकात् इति वर्तते ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४०/८०) अतः उत्तरम् पठति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४१/८०) बहुचि सुब्ग्रहणात् पूर्वत्र तिङः विधानम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४२/८०) बहुचि सुब्ग्रहणम् क्रियते पूर्वत्र तिङः विधिः यथा विज्ञायेत ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४३/८०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४४/८०) प्रकृतम् तिङ्ग्रहणम् अनुवर्तते ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४५/८०) क्व प्रकृतम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४६/८०) अतिशायने तमबिष्ठनौ ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४७/८०) तिङः च इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४८/८०) एवम् तर्हि बहुचि सुब्ग्रहणम् पूर्वत्र तिङः विधानात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-४९/८०) बहुचि सुब्ग्रहणम् क्रियते ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५०/८०) किम् कारणम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५१/८०) पूर्वत्र तिङः विधानात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५२/८०) पूर्वत्र तिङः च इति अनुवर्तते ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५३/८०) तत् इह अपि प्राप्नोति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५४/८०) ननु च तिङ्ग्रहणम् निवर्तेत ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५५/८०) अवश्यम् उत्तरार्थम् अनुवर्त्यम् अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति पचतकि जल्पतकि इति एवमर्थम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५६/८०) यदि सुब्ग्रहणम् क्रियते स्वरः न सिध्यति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५७/८०) बहुपटवः एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५८/८०) पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-५९/८०) स्वरः कथम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६०/८०) स्वरः प्रातिपदिकत्वात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६१/८०) सुब्लुकि कृते प्रातिपदिकत्वात् स्वरः भविष्यति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६२/८०) अथ तुग्रहणम् किमर्थम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६३/८०) तुग्रहणम् नित्यपूर्वार्थम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६४/८०) तुग्रहणम् क्रियते नित्यम् पूर्वः यथा स्यात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६५/८०) विभाषा मा भूत् इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६६/८०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६७/८०) न विभाषाग्रहणेन पूर्वम् अभिसम्बध्यते ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६८/८०) किम् तर्हि ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-६९/८०) बहुच् अभिसम्बध्यते ॒ विभाषा बहुच् भवति इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७०/८०) यदा च भवति तदा पूर्वः भवति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७१/८०) इदम् तर्हि प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७२/८०) प्राक् उत्पत्तेः यत् लिङ्गम् वचनम् च तत् उत्पन्ने अपि प्रत्यये यथा स्यात् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७३/८०) बहुगुडः द्राक्षा ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७४/८०) बहुतैलम् प्रसन्ना ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७५/८०) बहुपयः यवागूः इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७६/८०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७७/८०) स्वाऋथिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७८/८०) एवम् तर्हि सिद्धे सति यत् तुग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-७९/८०) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,३.६८.१; अकि-२,४२०.१९-४२२.४; रो-४,२२६-२२९; भा-८०/८०) गुडकल्पा द्राक्षा , तैलकल्पा प्रसन्ना , पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१/१८) तमादिभ्यः कल्पादयः विप्रतिषेधेन ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-२/१८) तमादिभ्यः कल्पादयः भवन्ति विप्रतिषेधेन ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-३/१८) तमादीनाम् अवकाशः प्रकर्षस्य वचनम् ईषदसमाप्तेः अवचनम् ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-४/१८) पटुतरः ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-५/१८) पटुतमः ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-६/१८) कल्पादीनाम् ईषदसमाप्तेः वचनम् प्रकर्षस्य अवचनम् ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-७/१८) पटुकल्पः ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-८/१८) मृदुकल्पः ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-९/१८) उभयवचने उभयम् प्राप्नोति ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१०/१८) पटुकल्पतरः ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-११/१८) मृदुकल्पतरः ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१२/१८) कल्पादयः भवन्ति विप्रतिषेधेन ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१३/१८) यदि एवम् ईषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेः एव च इष्यते ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१४/१८) तमादिः ईषत्प्रधानात् ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१५/१८) तमादिः ईषत्प्रधानात् अपि भवति ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१६/१८) अस्य प्रकर्षः अस्ति ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१७/१८) तस्य प्रकर्षे भविष्यति ।

(पा-५,३.६८.२; अकि-२,४२२.५-१०; रो-४,२२९-२३०; भा-१८/१८) कस्य च प्रकर्षः अस्ति. प्रकृतेः एव ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-१/१०) किम् अयम् सुबन्तस्य प्राक् टेः भवति आहोस्वित् ङ्याप्प्रातिपदिकस्य ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-२/१०) कुतः सन्देहः ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-३/१०) उभयम् प्रकृतम् ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-४/१०) अन्यतरत् शक्यम् विशेषयितुम् ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-५/१०) किम् च अतः ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-६/१०) यदि सुबन्तस्य युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति न सिध्यति ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-७/१०) अथ प्रातिपदिकस्य त्वयका मयका त्वयकि मयकि इति अत्र अपि प्राप्नोति ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-८/१०) अस्तु सुबन्तस्य ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-९/१०) कथम् युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति ।

(पा-५,३.७१-७२.१; अकि-२,४२२.१६-२१; रो-४,२३०; भा-१०/१०) अनोकारसकारभकारादौ इति वक्तव्यम् ।

(पा-५,३.७१-७२.२; अकि-२,४२२.२२-४२३.२; रो-४,२३०-२३१; भा-१/७) अकच्प्रकरणे तूष्णीमः काम् ।

(पा-५,३.७१-७२.२; अकि-२,४२२.२२-४२३.२; रो-४,२३०-२३१; भा-२/७) अकच्प्रकरणे तूष्णीमः काम् वक्तव्यः ।

(पा-५,३.७१-७२.२; अकि-२,४२२.२२-४२३.२; रो-४,२३०-२३१; भा-३/७) आसितव्यम् किल तूष्णीकाम् एतत् पश्यतः चिन्तितम् ।

(पा-५,३.७१-७२.२; अकि-२,४२२.२२-४२३.२; रो-४,२३०-२३१; भा-४/७) शीले कः मलोपः च ।

(पा-५,३.७१-७२.२; अकि-२,४२२.२२-४२३.२; रो-४,२३०-२३१; भा-५/७) शीले कः मलोपः च वक्तव्यः ।

(पा-५,३.७१-७२.२; अकि-२,४२२.२२-४२३.२; रो-४,२३०-२३१; भा-६/७) तूष्णीशीलः ।

(पा-५,३.७१-७२.२; अकि-२,४२२.२२-४२३.२; रो-४,२३०-२३१; भा-७/७) तूष्णीकः ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-१/८) इह भिनत्ति छिनत्ति इति शनमि कृते शप् प्राप्नोति ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-२/८) बहुकृतम् बहुभुक्तम् बहुपीतम् इति बहुचि कृते कल्पादयः प्राप्नुवन्ति ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-३/८) उच्चकैः नीचकैः अकचि कृते कादयः प्राप्नुवन्ति ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-४/८) ननु च श्नम्बहुजकचः अपवादाः ते बाधकाः भविष्यन्ति ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-५/८) श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-६/८) श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः वक्तव्यः ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-७/८) समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।

(पा-५,३.७१-७२.३; अकि-२,४२३.३-८; रो-४,२३१; भा-८/८) नानादेशत्वात् न प्राप्नोति ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१/३१) कविधेः तमादयः पूर्वविप्रतिषिद्धम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२/३१) कविधेः तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-३/३१) कविधेः अवकाशः कुत्सादीनाम् वचनम् प्रकर्षस्य अवचनम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-४/३१) पटुकः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-५/३१) मृदुकः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-६/३१) तमादीनाम् अवकाशः प्रकर्षस्य वचनम् कुत्सादीनाम् अवचनम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-७/३१) पटुतरः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-८/३१) पटुतमः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-९/३१) उभयवचने उभयम् प्राप्नोति ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१०/३१) पटुतरकः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-११/३१) पटुतमकः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१२/३१) तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१३/३१) कदा चित् छिन्नकतरादयः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१४/३१) कदा चित् छिन्नकतरादयः भवन्ति विप्रतिषेधेन ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१५/३१) छिन्नकतरम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१६/३१) छिन्नकतमम् । एकदेशिप्रधानः च समासः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१७/३१) एकदेशिप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१८/३१) अर्धपिप्पलिका ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-१९/३१) अर्धकोशातकिका ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२०/३१) उत्तरपदार्थप्रधानः च सञ्ज्ञायाम् कन्विध्यर्थम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२१/३१) उत्तरपदार्थप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२२/३१) किम् प्रयोजनम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२३/३१) सञ्ज्ञायाम् कन्विध्यर्थम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२४/३१) सञ्ज्ञायाम् कन् यथा स्यात् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२५/३१) नवग्रामकम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२६/३१) नवराष्ट्रकम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२७/३१) नवनगरकम् ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२८/३१) कदा चित् द्वन्द्वः ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-२९/३१) कदा चित् द्वन्द्वः कविधेः भवति पूर्वविप्रतिषेधेन ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-३०/३१) प्लक्षकन्यग्रोदकौ ।

(पा-५,३.७१-७२.४; अकि-२,४२३.९-२४; रो-४,२३१-२३२; भा-३१/३१) प्लक्षन्यग्रोधकौ इति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१/४१) इह कुत्सितकः अनुकम्पितकः इति स्वशब्देन उक्तत्वात् तस्य अर्थस्य प्रत्ययः न प्राप्नोति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२/४१) न एषः दोषः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३/४१) कुत्सितस्य अनुकम्पायाम् भविष्यति अनुकम्पितस्य कुत्सायाम् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-४/४१) अथ वा स्वार्थम् अभिधायः शब्दः निरपेक्षः द्रव्यम् आह समवेतम् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-५/४१) समवेतस्य च वचने लिङ्गम् वचनम् विभक्तिम् च ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-६/४१) अभिधाय तान् विशेषान् अपेक्षमाणः च कृत्स्नमात्मानम् प्रियकुत्सनादिषु पुनः प्रवर्तते असौ विभक्त्यन्तः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-७/४१) कथम् पुनः इदम् विज्ञायते ॒ कुत्सितादीनाम् अर्थे इति आहोस्वित् कुत्सितादिसमानाधिकरणात् इति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-८/४१) कः च अत्र विशेषः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-९/४१) कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१०/४१) कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-११/४१) पटुकम् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१२/४१) पटुका ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१३/४१) पटुकः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१४/४१) पटुकौ ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१५/४१) पटुकाः इति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१६/४१) एकः अयम् अर्थः कुत्सितम् नाम ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१७/४१) तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१८/४१) अस्ति तर्हि कुत्सितादिसमानाधिकरणात् इति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-१९/४१) कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः यथा टाबादिषु ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२०/४१) कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति यथा टाबादिषु ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२१/४१) कथम् च टाबादिषु ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२२/४१) उक्तम् तत्र स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः इति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२३/४१) एवम् इह अपि कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२४/४१) इदम् घृतकम् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२५/४१) इदम् तैलकम् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२६/४१) इदम्शब्दात् अपि प्राप्नोति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२७/४१) सिद्धम् तु येन कुत्सितादिवचनम् तद्युक्तात् स्वार्थे प्रत्ययविधानात् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२८/४१) सिद्धम् एतत् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-२९/४१) कथम् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३०/४१) येन कुत्सितादयः अर्थाः गम्यन्ते तद्युक्तात् स्वार्थे प्रत्ययः भवति इति वक्तव्यम् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३१/४१) सिध्यति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३२/४१) सूत्रम् तर्हि भिद्यते ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३३/४१) यथान्यासम् एव अस्तु ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३४/४१) ननु च उक्तम् कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः इति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३५/४१) न एषः दोषः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३६/४१) न अयम् प्रत्ययार्थः ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३७/४१) किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३८/४१) कुत्सितादिषु यत् प्रातिपदिकम् वर्तते तस्मात् कादयः भवन्ति ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-३९/४१) कस्मिन् अर्थे ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-४०/४१) स्वार्थे ।

(पा-५,३.७४.; अकि-२,४२४.२-२४; रो-४,२३२-२३७; भा-४१/४१) स्वाऋथिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१/२९) चतुर्थ्यात् ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२/२९) चतुर्थ्यात् लोपः वक्तव्यः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-३/२९) बृहस्पतिदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-४/२९) बृहस्पतिकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-५/२९) प्रजापतिदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-६/२९) प्रजापतिकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-७/२९) अनजादौ च ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-८/२९) अनजादौ च लोपः वक्तव्यः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-९/२९) देवदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१०/२९) देवकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-११/२९) यज्ञदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१२/२९) यज्ञकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१३/२९) लोपः पूर्वपदस्य च ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१४/२९) पूर्वपदस्य च लोपः वक्तव्यः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१५/२९) देवदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१६/२९) दत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१७/२९) यज्ञदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१८/२९) दत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-१९/२९) अप्रत्यये तथा एव इष्टः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२०/२९) देवदत्तः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२१/२९) दत्तः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२२/२९) यज्ञदत्तः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२३/२९) दत्तः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२४/२९) उवर्णात् लः इलस्य च ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२५/२९) उवर्णात् इलस्य च लोपः वक्तव्यः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२६/२९) भानुदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२७/२९) भानुलः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२८/२९) वसुदत्तकः ।

(पा-५,३.८३.१; अकि-२,४२५.२-१२; रो-४,२३७; भा-२९/२९) वसुलः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-१/१६) अथ ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति एव सिद्धम् ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-२/१६) ठग्ग्रहणम् उकः द्वितीयत्वे कविधानार्थम् ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-३/१६) ठग्ग्रहणम् क्रियते उकः द्वितीयत्वे कविधिः यथा स्यात् ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-४/१६) वायुदत्तकः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-५/१६) वायुकः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-६/१६) पितृदत्तकः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-७/१६) पितृकः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-८/१६) अजादिलक्षणे हि माथिकादिवत् प्रसङ्गः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-९/१६) अजादिलक्षणे हि माथिकादिवत् प्रसज्येत ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-१०/१६) तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-११/१६) द्वितीयात् अचः लोपे सन्ध्यक्षरद्वितीयत्वे तदादेः लोपवचनम् ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-१२/१६) द्वितीयात् अचः लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेः लोपः वक्तव्यः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-१३/१६) लहोडः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-१४/१६) लहिकः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-१५/१६) कहोडः ।

(पा-५,३.८३.२; अकि-२,४२५.१३-२२; रो-४,२३७-२३८; भा-१६/१६) कहिकः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१/२२) वरुणादीनाम् च तृतीयात् सः च अकृतसन्धीनाम् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-२/२२) वरुणादीनाम् च तृतीयात् लोपः उच्यते ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-३/२२) सः च अकृतसन्धीनाम् वक्तव्यः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-४/२२) सुपर्याशीर्दत्तः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-५/२२) सुपरिकः , सुपरियः , सुपरिलः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-६/२२) इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-७/२२) तत्र कः दोषः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-८/२२) जश्त्वम् न स्यात् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-९/२२) षडिके जश्त्वे उक्तम् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१०/२२) किम् उक्तम् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-११/२२) सिद्धम् अचः स्थानिवत्वात् इति ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१२/२२) यदि एवम् वाचिकादिषु पदवृत्तप्रतिषेधः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१३/२२) वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१४/२२) सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१५/२२) सिद्धम् एतत् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१६/२२) कथम् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१७/२२) एकाक्षरपूर्वपदानाम् उत्तरपदस्य लोपः वक्तव्यः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१८/२२) इह अपि तर्हि प्राप्नोति ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-१९/२२) षडङ्गुलिः ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-२०/२२) षडिकः इति ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-२१/२२) षषः ठाजादिवचनात् सिद्धम् ।

(पा-५,३.८४; अकि-२,४२६.२-१५; रो-४,२३८-२४०; भा-२२/२२) षषः ठाजादिवचनात् सिद्धम् एतत् ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-१/१०) किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यत् अल्पम् ह्रस्वम् अपि तत् भवति यत् च ह्रस्वम् अल्पम् अपि तत् भवति ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-२/१०) न एतयोः आवश्यकः समावेशः ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-३/१०) अल्पम् घृतम् ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-४/१०) अल्पम् तैलम् इति उच्यते ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-५/१०) न कः चित् आह ह्रस्वम् घृतम् ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-६/१०) ह्रस्वम् तैलम् इति ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-७/१०) तथा ह्रस्वः पटः ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-८/१०) ह्रस्वः शाटकः इति उच्यते ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-९/१०) न कः चित् आह अल्पः पटः ।

(पा-५,३.८५-८६; अकि-२,४२६.१८-२१; रो-४,३४०; भा-१०/१०) अल्पः शाटकः इति ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-१/१३) कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-२/१३) कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः वक्तव्यः ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-३/१३) कुटी ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-४/१३) कुटीरः ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-५/१३) शमी ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-६/१३) शमीरः ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-७/१३) शुण्डा ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-८/१३) शुण्डारः इति ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-९/१३) किम् पुनः कारणम् न सिध्यति ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-१०/१३) स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-११/१३) उक्तम् वा ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-१२/१३) किम् उक्तम् ।

(पा-५,३.८८; अकि-२,४२७.२-७; रो-४,२४१; भा-१३/१३) स्वाऋथिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

(पा-५,३.९१; अकि-२,४२७.९-१३; रो-४,२४१; भा-१/७) वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः ।

(पा-५,३.९१; अकि-२,४२७.९-१३; रो-४,२४१; भा-२/७) वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः वक्तव्यः ।

(पा-५,३.९१; अकि-२,४२७.९-१३; रो-४,२४१; भा-३/७) कृशः वत्सः वत्सतरः इति मा भूत् इति ।

(पा-५,३.९१; अकि-२,४२७.९-१३; रो-४,२४१; भा-४/७) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-५,३.९१; अकि-२,४२७.९-१३; रो-४,२४१; भा-५/७) न वक्तव्यः ।

(पा-५,३.९१; अकि-२,४२७.९-१३; रो-४,२४१; भा-६/७) यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् ।

(पा-५,३.९१; अकि-२,४२७.९-१३; रो-४,२४१; भा-७/७) न च कार्श्यस्य सद्भावात् द्रव्ये वत्सशब्दः ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-१/१२) किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाध्यानर्थक्यम् ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-२/१२) किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-३/१२) किम् कारणम् ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-४/१२) बहिर्धारणम् निर्धारणम् ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-५/१२) यावता द्वयोः एकस्य एव बहिर्धारणम् भवति ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-६/१२) अपरः आह ॒ बहूनाम् जतिपरिप्रश्ने डतमच् इति अत्र बहुग्रहणम् अनर्थकम् ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-७/१२) किम् कारणम् ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-८/१२) किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-९/१२) द्व्येकयोः पुनः निर्ज्ञातम् ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-१०/१२) निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-११/१२) परिप्रश्नाभावात् किम् एव न अस्ति ।

(पा-५,३.९२-९३; अकि-२,४२७.१६-४२८.४; रो-४, २४२; भा-१२/१२) कुतः प्रत्ययः ।

(पा-५,३.९४; अकि-२,४२८.६-९; रो-४,२४२-२४३; भा-१/७) प्राग्वचनम् किमर्थम् ।

(पा-५,३.९४; अकि-२,४२८.६-९; रो-४,२४२-२४३; भा-२/७) विभाषा यथा स्यात् ।

(पा-५,३.९४; अकि-२,४२८.६-९; रो-४,२४२-२४३; भा-३/७) प्राग्वचनानर्थक्यम् च विभाषाप्रकरणात् ।

(पा-५,३.९४; अकि-२,४२८.६-९; रो-४,२४२-२४३; भा-४/७) प्राग्वचनम् अनर्थकम् ।

(पा-५,३.९४; अकि-२,४२८.६-९; रो-४,२४२-२४३; भा-५/७) किम् कारणम् ।

(पा-५,३.९४; अकि-२,४२८.६-९; रो-४,२४२-२४३; भा-६/७) प्रकृता महाविभाषा ।

(पा-५,३.९४; अकि-२,४२८.६-९; रो-४,२४२-२४३; भा-७/७) तय एव सिद्धम् ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-१/१२) अवक्षेपणे कन् विधीयते कुत्सिते कः ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-२/१२) कः एतयोः अर्थयोः विशेषः ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-३/१२) अवक्षेपणम् करणम् कुत्सितम् कर्म ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-४/१२) अवक्षेपणम् वै कुत्सितम् करणम् ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-५/१२) तेन यत् कुत्य्स्यते तत् अपि कुत्सितम् भवति ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-६/१२) तत्र कुत्सितम् इति एव सिद्धम् भवति ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-७/१२) एवम् तर्हि यत् परस्य कुत्सार्थम् उपादीयते तत् इह उदाहरणम् ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-८/१२) व्याकरणकेन नाम अयम् गर्वितः ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-९/१२) याज्ञिक्येन नाम अयम् गर्वितः ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-१०/१२) यत् स्वकुत्सार्थम् कुत्सार्थम् उपादीयते तत् तत्र उदाहरणम् ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-११/१२) देवदत्तकः ।

(पा-५,३.९५; अकि-२,४२८.११-१५; रो-४,२४३; भा-१२/१२) यज्ञदत्तकः ।

(पा-५,३.९८; अकि-२,४२८.१७-२०; रो-४,२४३; भा-१/६) किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत ।

(पा-५,३.९८; अकि-२,४२८.१७-२०; रो-४,२४३; भा-२/६) लिङ्गसिद्ध्यर्थम् लुप् मनुष्ये ।

(पा-५,३.९८; अकि-२,४२८.१७-२०; रो-४,२४३; भा-३/६) लिङ्गसिद्ध्यर्थम् मनुष्ये लुप् उच्यते ।

(पा-५,३.९८; अकि-२,४२८.१७-२०; रो-४,२४३; भा-४/६) चञ्चा इव चञ्चा ।

(पा-५,३.९८; अकि-२,४२८.१७-२०; रो-४,२४३; भा-५/६) वध्रिका इव वध्रिका ।

(पा-५,३.९८; अकि-२,४२८.१७-२०; रो-४,२४३; भा-६/६) खरकुटी इव खरकुटी ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-१/९) अपण्ये इति उच्यते ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-२/९) तत्र इदम् न सिध्यति ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-३/९) शिवः ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-४/९) स्कन्दः ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-५/९) विशाखः इति ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-६/९) किम् कारणम् ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-७/९) मौर्यैः हिरण्याऋथिभिः अर्चाः प्रकल्पिताः ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-८/९) भवेत् तासु न स्यात् ।

(पा-५,३.९९; अकि-२,४२९.२-४; रो-४,२४४; भा-९/९) याः तु एताः सम्प्रतिपूजार्थाः तासु भविष्यति ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-१/९) तत् इति अनेन किम् प्रतिनिर्दिश्यते ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-२/९) छः ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-३/९) कथम् पुनः समासः नाम छविषयः स्यात् ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-४/९) एवम् तर्हि इवार्थः ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-५/९) यदि तर्हि समासः अपि इवार्थे प्रत्ययः अपि समासेनोक्तत्वात् प्रत्ययः न प्राप्नोति ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-६/९) एवम् तर्हि द्वौ इवार्थौ ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-७/९) कथम् ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-८/९) काकागमनम् इव तालपतनम् इव काकतालम् ।

(पा-५,३.१०६; अकि-२,४२९.६-९; रो-४,२४४-२४५; भा-९/९) काकतालम् इव काकतालीयम् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-१/१३) अणः गोत्रात् गोत्रवचनम् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-२/१३) अणः गोत्रात् गोत्रग्रहणम् कर्तव्यम् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-३/१३) गोत्रात् इति वक्तव्यम् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-४/१३) इह मा भूत् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-५/१३) आभिजितः मुहूर्तः ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-६/१३) आभिजितः स्थालीपाकः इति ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-७/१३) गोत्रम् इति च वक्तव्यम् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-८/१३) किम् प्रयोजनम् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-९/१३) आभिजितकः ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-१०/१३) गोत्राश्रयः वुञ् यथा स्यात् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-११/१३) गोत्रम् इति शक्यम् अकर्तुम् ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-१२/१३) कथम् आभिजितकः ।

(पा-५,३.११८; अकि-२,४२९.१२-१६; रो-४,२४५-२४६; भा-१३/१३) गोत्रात् अयम् स्वार्थिकः गोत्रम् एव भवति ।