व्याकरणमहाभाष्य खण्ड 58

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-५,४.१; अकि-२,४३०.२-४; रो-४,२४७; भा-१/६) पादशतग्रहणम् अनर्थकम् अन्यत्र अपि दर्शनात् ।

(पा-५,४.१; अकि-२,४३०.२-४; रो-४,२४७; भा-२/६) पादशतग्रहणम् अनर्थकम् ।

(पा-५,४.१; अकि-२,४३०.२-४; रो-४,२४७; भा-३/६) किम् कारणम् ।

(पा-५,४.१; अकि-२,४३०.२-४; रो-४,२४७; भा-४/६) अन्यत्र अपि दर्शनात् ।

(पा-५,४.१; अकि-२,४३०.२-४; रो-४,२४७; भा-५/६) अन्यत्र अपि हि वुन् दृश्यते ।

(पा-५,४.१; अकि-२,४३०.२-४; रो-४,२४७; भा-६/६) द्विमोदिकाम् ददाति ।

(पा-५,४.३; अकि-२,४३०.६-७; रो-४,२४७; भा-१/४) कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् ।

(पा-५,४.३; अकि-२,४३०.६-७; रो-४,२४७; भा-२/४) कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.३; अकि-२,४३०.६-७; रो-४,२४७; भा-३/४) चँचत्कः ।

(पा-५,४.३; अकि-२,४३०.६-७; रो-४,२४७; भा-४/४) बृहत्कः ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-१/१५) अनत्यन्तगतौ क्तान्तात् तमादयः पूर्वविप्रतिषिद्धम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-२/१५) अनत्यन्तगतौ क्तान्तात् तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-३/१५) अनत्यन्तगतौ क्तान्तात् कन् भवति इति अस्य अवकाशः अनत्यन्तगतेः वचनम् प्रकर्षस्य अवचनम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-४/१५) भिन्नकम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-५/१५) छिन्नकम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-६/१५) तमादीनाम् अवकाशः प्रकर्षस्य वचनम् अनत्यन्तगतेः अवचनम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-७/१५) पटुतरः ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-८/१५) पटुतमः ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-९/१५) उभयवचने उभयम् प्राप्नोति ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-१०/१५) भिन्नतरकम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-११/१५) छिन्नतरकम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-१२/१५) तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-१३/१५) तदन्तात् च स्वार्थे कन्वचनम् ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-१४/१५) तदन्तात् च स्वार्थे कन् वक्तव्यः ।

(पा-५,४.४; अकि-२,४३०.९-१६; रो-४,२४७-२४८; भा-१५/१५) भिन्नतरकम् ।

(पा-५,४.५; अकि-२,४३१.२-४; रो-४,२४८; भा-१/५) सामिवचने प्रतिषेधानर्थक्यम् प्रकृत्यभिहितत्वात् ।

(पा-५,४.५; अकि-२,४३१.२-४; रो-४,२४८; भा-२/५) सामिवचने प्रतिषेधः अनर्थकः ।

(पा-५,४.५; अकि-२,४३१.२-४; रो-४,२४८; भा-३/५) किम् कारणम् ।

(पा-५,४.५; अकि-२,४३१.२-४; रो-४,२४८; भा-४/५) प्रकृत्यभिहितत्वात् ।

(पा-५,४.५; अकि-२,४३१.२-४; रो-४,२४८; भा-५/५) प्रकृत्यभिहितः सः अर्थः इति कृत्वा कन् न भविष्यति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१/३९) अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२/३९) अध्युत्तरपदात् प्रत्ययविधेः अनुपपत्तिः ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३/३९) किम् कारणम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-४/३९) विग्रहाभावात् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-५/३९) विग्रहपूर्विका तद्धितोत्पत्तिः ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-६/३९) न च अध्युत्तरपदेन विग्रहः दृश्यते ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-७/३९) तस्मात् तत्र इदम् इति सधीनर् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-८/३९) तस्मात् तत्र इदम् इति सधीनर् प्रत्ययः वक्तव्यः ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-९/३९) राजनि इदम् राजाधीनम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१०/३९) यदि सधीनर् क्रियते सकारस्य इत्सञ्ज्ञा न प्राप्नोति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-११/३९) इह च श्र्यधीनः भ्र्वधीनः इति अङ्गस्य इति इयङुवङौ स्याताम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१२/३९) सूत्रम् च भिद्यते ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१३/३९) यथान्यासम् एव अस्तु ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१४/३९) ननु च उक्तम् अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् इति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१५/३९) न एषः दोषः ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१६/३९) अस्ति कारणम् येन अत्र विग्रहः न भवति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१७/३९) किम् कारणम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१८/३९) नित्यप्रत्ययः अयम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-१९/३९) के पुनः नित्यप्रत्ययाः ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२०/३९) तमादयः प्राक् कनः ञ्यादयः प्राक् वुनः आमादयः प्राक् मयटः बृहतीजात्यन्ताः समासान्ताः च इति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२१/३९) एवम् तर्हि न अयम् प्रत्ययविधिः उपालभ्यते ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२२/३९) किम् तर्हि ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२३/३९) प्रकृतिः उपालभ्यते ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२४/३९) अध्युत्तरपदा प्रकृतिः न अस्ति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२५/३९) किम् कारणम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२६/३९) विग्रहाभावात् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२७/३९) विग्रहपूर्विका समासवृत्तिः ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२८/३९) न च अधिना विग्रहः दृश्यते ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-२९/३९) एवम् तर्हि बहुव्रीहिः भविष्यति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३०/३९) किम् कृतम् भवति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३१/३९) भवति वै कः चित् अस्वपदविग्रहः अपि बहुव्रीहिः ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३२/३९) तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३३/३९) न एवम् शक्यम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३४/३९) इह हि महदधीनम् इति आत्त्वकपौ प्रसज्येयाताम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३५/३९) एवम् तर्हि अव्ययीभावः भविष्यति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३६/३९) एवम् अपि अधेः पूर्वनिपातः प्राप्नोति ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३७/३९) राजदन्तादिषु पाठः करिष्यते ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३८/३९) अथ वा सप्तमीसमासः अयम् ।

(पा-५,४.७; अकि-२,४३१.६-२३; रो-४,२४८-२५१; भा-३९/३९) अधिः शौण्डादिषु पठ्यते ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-१/८) दिग्ग्रहणम् किमर्थम् ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-२/८) अस्त्रियाम् इति इयति उच्यमाने प्राचीना ब्राह्मणी अवाचीना शिखा इति अत्र अपि प्रसज्येत ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-३/८) दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-४/८) अथ स्त्रीग्रहणम् किमर्थम् यावता दिक्शब्दः स्त्रीविषयः एव ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-५/८) भवति वै कः चित् दिक्शब्दः अस्त्रीविषयः अपि ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-६/८) तत् यथा प्राक् प्राचीनम् ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-७/८) प्रत्यक् प्रतीचीनम् ।

(पा-५,४.८; अकि-२,४३२.२-५; रो-४,२५१; भा-८/८) उचक् उदीचीनम् ।

(पा-५,४.१४; अकि-२,४३२.७-१०; रो-४,२५२; भा-१/५) स्त्रीग्रहणम् किमर्थम् न स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

(पा-५,४.१४; अकि-२,४३२.७-१०; रो-४,२५२; भा-२/५) एवम् तर्हि सिद्धे सति यत् स्त्रीग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि ।

(पा-५,४.१४; अकि-२,४३२.७-१०; रो-४,२५२; भा-३/५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-५,४.१४; अकि-२,४३२.७-१०; रो-४,२५२; भा-४/५) गुडकल्पा द्राक्षा ।

(पा-५,४.१४; अकि-२,४३२.७-१०; रो-४,२५२; भा-५/५) तैलकल्पा प्रसन्ना पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१/४८) सकृदादेशे अभ्यावृत्तिग्रहणम् निवर्त्यम् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२/४८) किम् प्रयोजनम् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३/४८) पुनः पुनः आवृत्तिः अभ्यावृत्तिः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४/४८) न च एकस्य पुनः पुनः आवृत्तिः भवति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-५/४८) अथ क्रियाग्रहणम् अनुवर्तते आहोस्वित् न ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-६/४८) किम् च अर्थः अनुवृत्त्या ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-७/४८) बाढम् अर्थः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-८/४८) इह मा भूत् ॒ एकः भुङ्क्ते इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-९/४८) अथ अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१०/४८) एकः पाकः इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-११/४८) पूर्वयोः च योगयोः कस्मात् न भवति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१२/४८) द्वौ पाकौ. त्रयः पाकाः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१३/४८) चत्वारः पाकाः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१४/४८) पञ्च पाकाः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१५/४८) दश पाकाः इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१६/४८) न एतत् क्रियागणनम् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१७/४८) किम् तर्हि ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१८/४८) द्रव्यगणनम् एतत् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-१९/४८) कथम् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२०/४८) कृदभिहितः भावः द्रव्यवत् भवति इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२१/४८) इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२२/४८) सकृत् भुक्त्वा ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२३/४८) सकृत् भोक्तुम् इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२४/४८) पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२५/४८) यदि खलु अपि पुनः पुनः आवृत्तिः अभ्यावृत्तिः द्विः आवृत्ते सकृत् इति स्यात् त्रिः आवृत्ते द्विः इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२६/४८) एवम् तर्हि अनुवर्तते अभ्यावृत्तिग्रहणम् न तु पुनः पुनः आवृत्तिः अभ्यावृत्तिः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२७/४८) किम् तर्हि अभिमुक्ःी प्रवृत्तिः अभ्यावृत्तिः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२८/४८) पूर्वा च परे प्रति अभिमुक्ःी परे च पूर्वाम् प्रति अभिमुख्यौ ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-२९/४८) यत् अपि उच्यते अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३०/४८) एकः पाकः इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३१/४८) पूर्वयोः च योगयोः कस्मात् न भवति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३२/४८) द्वौ पाकौ. त्रयः पाकाः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३३/४८) चत्वारः पाकाः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३४/४८) पञ्च पाकाः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३५/४८) दश पाकाः इति परिहृतम् एतत् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३६/४८) न एतत् क्रियागणनम् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३७/४८) किम् तर्हि ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३८/४८) द्रव्यगणनम् एतत् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-३९/४८) कथम् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४०/४८) कृदभिहितः भावः द्रव्यवत् भवति इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४१/४८) ननु च उक्तम् इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४२/४८) सकृत् भुक्त्वा ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४३/४८) सकृत् भोक्तुम् इति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४४/४८) पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४५/४८) न एषः दोषः ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४६/४८) क्रियागणनात् भविष्यति ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४७/४८) कथम् ।

(पा-५,४.१९; अकि-२,४३२.१२-४३३.१०; रो-४,२५२-२५६; भा-४८/४८) कृदभिहितः भावः द्रव्यवत् अपि क्रियावत् अपि भवति ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-१/९) देवतान्तात् इति उच्यते ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-२/९) तत इदम् न सिध्यति ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-३/९) पितृदेवत्यम् इति ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-४/९) किम् कारणम् ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-५/९) न हि ल्पितरः देवता ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-६/९) न एषः दोषः ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-७/९) दिवेः ऐश्वर्यकर्मणः देवः ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-८/९) तस्मात् स्वार्थे तल् ।

(पा-५,४.२४; अकि-२,४३३.१२-१४; रो-४,२५६; भा-९/९) एवम् च कृत्वा देवदेवत्यम् अपि सिद्धम् भवति ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-१/९) तलि स्त्रीलिङ्गवचनम् ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-२/९) तलि स्त्रीलिङ्गम् वक्तव्यम् ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-३/९) देवता ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-४/९) किम् पुनः कारणम् न सिध्यति ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-५/९) देवशब्दः अयम् पुंलिङ्गः स्वार्थिकः च अयम् ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-६/९) स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-७/९) उक्तम् वा ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-८/९) किम् उक्तम् ।

(पा-५,४.२७; अकि-२,४३३.१६-२०; रो-४,२५६; भा-९/९) स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१/८८) लोहितात् लिङ्गबाधनम् वा ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२/८८) लोहितात् लिङ्गबाधनम् वा इति वक्तव्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३/८८) लोहितिक ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४/८८) लोहिनिका ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५/८८) अक्षरसमूहे छन्दसः उपसङ्ख्यानम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६/८८) अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७/८८) ओ श्रावय इति चतुरक्षरम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८/८८) अस्तु श्रौषट् इति चतुरक्षरम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-९/८८) ये यजामहे इति पञ्चाक्षरम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१०/८८) यज इति द्व्यक्षरम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-११/८८) द्व्यक्षरः वषट्कारः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१२/८८) एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१३/८८) छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१४/८८) छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१५/८८) हस्तौ पृणस्व बहुविः वसव्यैः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१६/८८) अग्निरीशेवसव्यस्य ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१७/८८) अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१८/८८) उक्तम् वा ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-१९/८८) किम् उक्तम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२०/८८) स्वार्थविज्ञानात् सिद्धम् इति ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२१/८८) अपस्यः वसानाः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२२/८८) अपः वसानाः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२३/८८) स्वे ओक्ये ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२४/८८) स्वे ओके ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२५/८८) कव्यः असि हव्यसूदन ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२६/८८) कविः असि ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२७/८८) रौद्रेण अनीकेन कव्यतायै ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२८/८८) कवितयै ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-२९/८८) आमुष्यायणस्य ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३०/८८) अमुष्यपुत्रस्य ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३१/८८) क्षेम्यस्य ईशे ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३२/८८) क्षेमस्य ईशे ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३३/८८) क्षेम्यम् अध्यवस्यति ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३४/८८) क्षेमम् अध्यवस्यति ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३५/८८) आयुः वर्चस्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३६/८८) वर्चः एव वर्चस्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३७/८८) निष्केवल्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३८/८८) निष्केवलम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-३९/८८) उक्थ्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४०/८८) उक्थम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४१/८८) जन्यम् ताभिः सजन्यम् ताभिः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४२/८८) जनम् ताभिः सजनं ताभिः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४३/८८) स्तोमैः जनयामि नव्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४४/८८) नवम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४५/८८) प्र नः नव्येभिः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४६/८८) नवैः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४७/८८) ब्रह्म पूर्व्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४८/८८) पाथः पूर्व्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-४९/८८) तनुषु पूर्व्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५०/८८) पूर्वम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५१/८८) पूर्व्याहः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५२/८८) पूर्वाहः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५३/८८) पूर्व्याः विशः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५४/८८) पूर्वाः विशः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५५/८८) पूर्व्यासः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५६/८८) पूर्वासः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५७/८८) सः प्र पूर्व्यः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५८/८८) सः प्र पूर्वः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-५९/८८) अग्निम् वै पूर्व्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६०/८८) पूर्वम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६१/८८) तम् जुषस्व यविष्ठ्य ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६२/८८) यविष्ठ ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६३/८८) होत्रवाहम् यविष्ठ्यम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६४/८८) यविष्ठम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६५/८८) त्वम् ह यत् यविष्ठ्य ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६६/८८) यविष्ठ ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६७/८८) समावत् वसति समावत् गृह्णाति ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६८/८८) समम् वसति समम् गृह्णाति ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-६९/८८) समावत् देवयज्ञे हस्तौ ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७०/८८) समम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७१/८८) समावत् वीर्यावहानि ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७२/८८) समानि ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७३/८८) समावत् वीर्याणि करोति ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७४/८८) समानि ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७५/८८) उ ईवते उ लोकम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७६/८८) यः ईवते ब्रह्मणे ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७७/८८) यः इयते ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७८/८८) नवस्य नूत्नप्तनखाः च ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-७९/८८) नवस्य नू इति अयम् आदेशः वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८०/८८) नूत्नम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८१/८८) नूतनम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८२/८८) नवीनम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८३/८८) नः च पुराणे प्रात् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८४/८८) नः च पुराणे प्रात् वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८५/८८) प्रणम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८६/८८) प्रत्नम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८७/८८) प्रतनम् ।

(पा-५,४.३०; अकि-२,४३३.२२-४३५.३; रो-४,२५७-२५९; भा-८८/८८) प्रीणम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१/५१) तत् इति अनेन किम् प्रतिनिर्दिश्यते ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२/५१) वाक् एव ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३/५१) यत् एव वाचा व्यवहिर्यते तत् कर्मणा क्रियते ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४/५१) अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-५/५१) अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-६/५१) कौलालः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-७/५१) वाऋउडः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-८/५१) नैषादः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-९/५१) चाण्डालः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१०/५१) आमित्रः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-११/५१) भागरूपनामभ्यः धेयः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१२/५१) भागरूपनामभ्यः धेयः वक्तव्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१३/५१) भागधेयम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१४/५१) रूपधेयम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१५/५१) नामधेयम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१६/५१) मित्रात् छन्दसि ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१७/५१) मित्रात् छन्दसि धेयः वक्तव्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१८/५१) मित्रधेये यतस्व ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-१९/५१) अण् अमित्रात् च ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२०/५१) अण् अमित्रात् च इति वक्तव्यम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२१/५१) मैत्रः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२२/५१) आमित्रः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२३/५१) सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्न्यन्ते ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२४/५१) सान्नाय्यम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२५/५१) आनुजावरः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२६/५१) आनुषूकः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२७/५१) चातुष्प्राश्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२८/५१) राक्षोघ्नः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-२९/५१) वैयातः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३०/५१) वैकृतः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३१/५१) वारिवस्कृतः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३२/५१) आग्रायणः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३३/५१) आग्रहायणः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३४/५१) सान्तपनः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३५/५१) अग्नीध्रसाधारणात् अञ् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३६/५१) अग्नीध्रसाधारणात् अञ् वक्तव्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३७/५१) आग्नीध्रम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३८/५१) साधारणम् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-३९/५१) अयवसमरुद्भ्याम् छन्दसि ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४०/५१) अयवसमरुद्भ्याम् छन्दसि अञ् वक्तव्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४१/५१) आयवसे वर्धन्ते ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४२/५१) मारुतम् शर्धः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४३/५१) नवसूरमर्तयविष्ठेभ्यः यत् ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४४/५१) नवसूरमर्तयविष्ठेभ्यः यत् वक्तव्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४५/५१) नव्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४६/५१) सूर्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४७/५१) मर्त्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४८/५१) यविष्थ्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-४९/५१) क्षेमात् यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-५०/५१) क्षेमात् यः वक्तव्यः ।

(पा-५,४.३६; अकि-२,४३५.५-४३६.४; रो-४,२५९-२६०; भा-५१/५१) क्षेम्यः तिष्ठन् प्रतरणः सुवीरः ।

(पा-५,४.४२; अकि-२,४३६.६-९; रो-४,२६०-२६१; भा-१/७) बह्वल्पार्थात् मङ्गलवचनम् [ऋ॒ मङ्गलामङ्गलवचनम्] । बह्वल्पार्थात् मङ्गलवचनम् [मङ्गलामङ्गलवचनम् ] कर्तव्यम् ।

(पा-५,४.४२; अकि-२,४३६.६-९; रो-४,२६०-२६१; भा-२/७) बहुशः देहि ।

(पा-५,४.४२; अकि-२,४३६.६-९; रो-४,२६०-२६१; भा-३/७) अनिष्टेषु श्राद्धादिषु मा भूत् ।

(पा-५,४.४२; अकि-२,४३६.६-९; रो-४,२६०-२६१; भा-४/७) इष्टेषु प्राशित्रादिषु यथा स्यात् ।

(पा-५,४.४२; अकि-२,४३६.६-९; रो-४,२६०-२६१; भा-५/७) अल्पशः देहि ।

(पा-५,४.४२; अकि-२,४३६.६-९; रो-४,२६०-२६१; भा-६/७) इष्टेषु प्राशित्रादिषु मा भूत् ।

(पा-५,४.४२; अकि-२,४३६.६-९; रो-४,२६०-२६१; भा-७/७) अनिष्टेषु श्राद्धादिषु यथा स्यात् ।

(पा-५,४.४४; अकि-२,४३६.११-१२; रो-४, २६१; भा-१/५) तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् ।

(पा-५,४.४४; अकि-२,४३६.११-१२; रो-४, २६१; भा-२/५) तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.४४; अकि-२,४३६.११-१२; रो-४, २६१; भा-३/५) आदितः ।

(पा-५,४.४४; अकि-२,४३६.११-१२; रो-४, २६१; भा-४/५) मध्यतः ।

(पा-५,४.४४; अकि-२,४३६.११-१२; रो-४, २६१; भा-५/५) अन्ततः ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१/२१) च्विविधौ अभूततद्भावग्रहणम् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-२/२१) च्विविधौ अभूततद्भावग्रहणम् कर्तव्यम् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-३/२१) इह मा भूत् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-४/२१) सम्पद्यन्ते यवाः ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-५/२१) सम्पद्यन्ते शालयः इति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-६/२१) अथ क्रियमाणे अपि वा अभूततद्भावग्रहणे इह कस्मात् न भवति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-७/२१) सम्पद्यन्ते अस्मिन् क्षेत्र शालयः इति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-८/२१) प्रकृतिविवक्षाग्रहणम् च ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-९/२१) प्रकृतिविवक्षाग्रहणम् च कर्तव्यम् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१०/२१) समीपादिभ्यः उपसङ्ख्यानम् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-११/२१) समीपादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१२/२१) समीपी भवति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१३/२१) अभ्याशी भवति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१४/२१) अन्तिकी भवति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१५/२१) किम् पुनः कारणम् न सिध्यति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१६/२१) न हि असमीपम् समीपम् भवति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१७/२१) किम् तर्हि ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१८/२१) असमीपस्थम् समीपस्थम् भवति ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-१९/२१) तत् तर्हि वक्तव्यम् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-२०/२१) न वक्तव्यम् ।

(पा-५,४.५०; अकि-२,४३६.१४-४३७.३; रो-४,२६१-२६२; भा-२१/२१) तात्स्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१/१७) किमर्थः चकारः ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-२/१७) स्वरार्थः ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-३/१७) चितः अन्तः उदात्तत्ः भवति इति उदात्तत्वम् यथा स्यात् ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-४/१७) न एतत् अस्ति प्रयोजनम् ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-५/१७) एकाच् अयम् ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-६/१७) तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-७/१७) प्रत्ययस्वरेण एव सिद्धम् ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-८/१७) अतः उत्तरम् पठति ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-९/१७) डाचि चित्करणम् विशेषणार्थम् ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१०/१७) डाचि चित्करणम् क्रियते विशेषणार्थम् ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-११/१७) क्व विशेषणाऋथेन अर्थः ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१२/१७) लोहितादिडाज्भ्यः क्यष् इति ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१३/१७) डा इति हि उच्यमाने इडा अतः अपि प्रसज्येत ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१४/१७) अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१५/१७) इह तर्हि प्राप्नोति ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१६/१७) नाभा पृथिव्याः निहितः दविद्युतत् ।

(पा-५,४.५७; अकि-२,४३७.५-१२; रो-४,२६२-२६३; भा-१७/१७) तस्मात् चकारः कर्तव्यः ।

(पा-५,४.६७; अकि-२,४३७.१४; रो-४,२६३; भा-१/२) भद्रात् च इति वक्तव्यम् ।

(पा-५,४.६७; अकि-२,४३७.१४; रो-४,२६३; भा-२/२) भद्रा करोति ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१/७०) अन्तग्रहणम् किमर्थम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२/७०) अन्तः यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३/७०) न एअतत् अस्ति प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४/७०) प्रत्यय्परत्वेन अपि एतत् सिद्धम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६/७०) तद्ग्रहणेन ग्रहणम् यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-७/७०) कानि पुनः तद्ग्रहणस्य प्रयोजनानि ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-८/७०) प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसञ्ज्ञाः ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-९/७०) अव्ययीभावः प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१०/७०) प्रतिराजम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-११/७०) उपराजम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१२/७०) अव्ययीभावः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१३/७०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१४/७०) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१५/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१६/७०) न अव्ययीभावात् अतः अम् तु अपञ्चम्याः इति एषः विधिः यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१७/७०) अव्ययीभाव ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१८/७०) द्विगु ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-१९/७०) द्विगुसञ्ज्ञा च प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२०/७०) पञ्चगवम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२१/७०) दशगवम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२२/७०) द्विगुः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२३/७०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२४/७०) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२५/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२६/७०) द्विपुरी ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२७/७०) त्रिपुरी ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२८/७०) द्विगोः अकारान्तात् इति ईकारः यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-२९/७०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३०/७०) पुरशब्दः अयम् अकारान्तः ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३१/७०) तेन समासः भविष्यति ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३२/७०) आतः च अकारान्तः इति आह ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३३/७०) क्षेमे सुभिक्षे कृतसञ्चयानि पुराणि विनयन्ति कोपम् इति ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३४/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३५/७०) द्विधुरी त्रिधुरी ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३६/७०) द्विगोः अकारान्तात् इति ङीप् यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३७/७०) द्विगु ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३८/७०) द्वन्द्व ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-३९/७०) द्वन्द्वसञ्ज्ञा च प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४०/७०) वाक्त्वचम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४१/७०) स्रक्त्वचम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४२/७०) द्वन्द्वः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४३/७०) न एतत् अस्ति प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४४/७०) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४५/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४६/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४७/७०) कोशः च निषत् च कोशनिषदम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४८/७०) कोशनिषदिनी ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-४९/७०) द्वन्द्वोपतापगर्ह्यात् प्राणिस्थात् इनिः इति इनिः यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५०/७०) द्वन्द्व ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५१/७०) तत्पुरुष ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५२/७०) तत्पुरुषसञ्ज्ञा च प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५३/७०) परमधुरा उत्तमधुरा ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५४/७०) परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति परवल्लिङ्गता यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५५/७०) न एतत् अस्ति प्रय्जोनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५६/७०) उत्तरपदार्थप्रधानः तत्पुरुषः ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५७/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५८/७०) अर्धधुरा ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-५९/७०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६०/७०) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६१/७०) इदम् तर्हि प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६२/७०) इदम् तर्हि ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६३/७०) निर्धुरः ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६४/७०) अव्ययम् तत्पुरुषे प्रकृतिस्वरम् भवति इति एषः स्वरः यथा स्यात् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६५/७०) तत्पुरुष ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६६/७०) बहुव्रीहि ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६७/७०) बहुव्रीहिसञ्ज्ञा च प्रयोजनम् ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६८/७०) उच्चधुरः ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-६९/७०) नीचधुरः ।

(पा-५,४.६८; अकि-२,४३७.१६-४३८.२१; रो-४,२६३-२६५; भा-७०/७०) बहुव्रीहौ प्रकृत्या पूर्वपदम् भवति इति एषः स्वरः यथा स्यात् ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-१/८) इदम् विप्रतिषिद्धम् ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-२/८) कः प्रतिषेधः ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-३/८) परिगणिताभ्यः प्रकृतिभ्यः समासान्तः विधीयते न च तत्र का चित् पूजनान्ता प्रकृतिः निर्दिश्यते ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-४/८) न एतत् विप्रतिषिद्धम् ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-५/८) न एवम् विज्ञायते ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-६/८) याभ्यः प्रकृतिभ्यः समासान्तः विधीयते न चेत् ताः पूजनान्ताः भवन्ति इति ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-७/८) कथम् तर्हि ।

(पा-५,४.६९.१; अकि-२,४३८.२३-२६; रो-४,२६५; भा-८/८) न चेत् ताः पूजनात् पराः भवन्ति इति ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-१/१२) पूजायाम् स्वतिग्रहणम् ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-२/१२) पूजायाम् स्वतिग्रहणम् कर्तव्यम् ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-३/१२) सुराजा ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-४/१२) अतिराजा ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-५/१२) क्व मा भूत् ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-६/१२) परमगवः ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-७/१२) उत्तमगवः ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-८/१२) प्राग्बहुव्रीहिग्रहणम् च ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-९/१२) प्राग्बहुव्रीहिग्रहणम् च कर्तव्यम् ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-१०/१२) इह मा भूत् ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-११/१२) स्वक्षः ।

(पा-५,४.६९.२; अकि-२,४३९.१-५; रो-४,२६५; भा-१२/१२) अत्यक्षः इति ।

(पा-५,४.७०; अकि-२,४३९.७-८; रो-४,२६६; भा-१/५) क्षेपे इति किमर्थम् ।

(पा-५,४.७०; अकि-२,४३९.७-८; रो-४,२६६; भा-२/५) कस्य राजा किंराजा ।

(पा-५,४.७०; अकि-२,४३९.७-८; रो-४,२६६; भा-३/५) क्षेपे इति शक्यम् अकर्तुम् ।

(पा-५,४.७०; अकि-२,४३९.७-८; रो-४,२६६; भा-४/५) कस्मात् न भवति कस्य राजा किंराजा इति ।

(पा-५,४.७०; अकि-२,४३९.७-८; रो-४,२६६; भा-५/५) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१/१७) डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-२/१७) डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-३/१७) किम् प्रयोजनम् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-४/१७) निस्त्रिंशाद्यर्थम् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-५/१७) निस्त्रिंशानि वर्षाणि ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-६/१७) निश्चत्वारिंशानि वर्षाणि ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-७/१७) अन्यत्र अधिकलोपात् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-८/१७) अन्यत्र अधिकलोपात् इति वक्तव्यम् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-९/१७) इह मा भूत् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१०/१७) एकाधिका विंशतिः एकविंशतिः ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-११/१७) द्व्यधिका विंशतिः द्वाविंशतिः ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१२/१७) अव्ययादेः इति वक्तव्यम् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१३/१७) इह मा भूत् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१४/१७) गोत्रिंशत् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१५/१७) गोचत्वारिंशत् इति ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१६/१७) तत् तर्हि वक्तव्यम् ।

(पा-५,४.७३; अकि-२,४३९.१०-१७; रो-४,२६६; भा-१७/१७) यदि अपि एतत् उच्यते अथ वा एतर्हि अन्यत्र अधिकलोपात् इति एतत् न क्रियते ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-१/१५) अनक्षे इति कथम् इदम् विज्ञायते ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-२/१५) न चेत् अक्षधूरन्तः समासः इति आहोस्वित् न चेत् अक्षः समासार्थः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-३/१५) किम् च अतः ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-४/१५) यदि विज्ञायते न चेत् अक्षधूरन्तः समासः इति सिद्धम् अक्षस्य धूः अक्षधूः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-५/१५) इदम् तु न सिध्यति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-६/१५) दृढधूः अयम् अक्षः ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-७/१५) अस्तु तर्हि न चेत् अक्षः समासार्थः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-८/१५) सिद्धम् दृढधूः अक्षः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-९/१५) इदम् तु न सिध्यति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-१०/१५) अक्षस्य धूः अक्षधूः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-११/१५) एवम् तर्हि न एवम् विज्ञायते न चेत् अक्षधूरन्तः समासः इति न अपि न चेत् अक्षः समासार्थः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-१२/१५) कथम् तर्हि ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-१३/१५) न चेत् अक्षस्य धूः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-१४/१५) एवम् च कृत्वा न अपि न चेत् अक्षधूरन्तः समासः इति विज्ञायते न अपि न चेत् अक्षः समासार्थः इति ।

(पा-५,४.७४; अकि-२,४३९.१९-४४०.५; रो-४,२६६-२६७; भा-१५/१५) अथ च उभयोः न भवति ।

(पा-५,४.७६; अकि-२,४४०.७-८; रो-४,२६७; भा-१/६) अदर्शनात् इति उच्यते ।

(पा-५,४.७६; अकि-२,४४०.७-८; रो-४,२६७; भा-२/६) तत्र इदम् न सिध्यति ।

(पा-५,४.७६; अकि-२,४४०.७-८; रो-४,२६७; भा-३/६) कवराक्षम् ।

(पा-५,४.७६; अकि-२,४४०.७-८; रो-४,२६७; भा-४/६) अदर्शनात् इति शक्यम् अकर्तुम् ।

(पा-५,४.७६; अकि-२,४४०.७-८; रो-४,२६७; भा-५/६) कथम् ब्राह्मणक्षि क्षत्रियाक्षि ।

(पा-५,४.७६; अकि-२,४४०.७-८; रो-४,२६७; भा-६/६) अप्राण्यङ्गात् इति वक्तव्यम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१/२८) आद्याः त्रयः बहुव्रीहयः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२/२८) अद्रष्टा चतुर्णाम् अचतुरः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-३/२८) विद्रष्टा चतुर्णाम् विचतुरः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-४/२८) सुद्रष्टा चतुर्णाम् सुचतुरः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-५/२८) ततः परे एकादश द्वन्द्वाः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-६/२८) स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिव अहर्दिव ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-७/२८) ततः अव्ययीभावः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-८/२८) सह रजसा सरजसम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-९/२८) ततः तत्पुरुषः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१०/२८) निश्रितम् श्रेयः निःश्रेयसम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-११/२८) ततः षष्ठीसमासः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१२/२८) पुरुषस्य आयुः पुरुषायुषम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१३/२८) ततः द्विगू ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१४/२८) द्वे आयुषी द्व्यायुषम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१५/२८) त्रीणि आयूंषि त्र्यायुषम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१६/२८) ततः द्वन्द्वः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१७/२८) ऋक् च यजुः च र्ग्यजुषम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१८/२८) जातादयः उक्षान्ताः समानाधिकरणाः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-१९/२८) जातः उक्षा जातोक्षः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२०/२८) महान् उक्षा महोक्षः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२१/२८) वृद्धः उक्षा वृद्धोक्षः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२२/२८) ततः अव्ययीभावः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२३/२८) शुनः समीपम् उपशुनम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२४/२८) ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२५/२८) चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२६/२८) चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२७/२८) त्रिचतुराः ।

(पा-५,४.७७; अकि-२,४४०.१३-२३; रो-४,२६८; भा-२८/२८) उपचतुराः ।

(पा-५,४.७८; अकि-२,४४१.२; रो-४,२६८; भा-१/३) पल्यराजभ्याम् च इति वक्तव्यम् ।

(पा-५,४.७८; अकि-२,४४१.२; रो-४,२६८; भा-२/३) पल्यवर्चसम् ।

(पा-५,४.७८; अकि-२,४४१.२; रो-४,२६८; भा-३/३) राजवर्चसम् ।

(पा-५,४.८७; अकि-२,४४१.४-६; रो-४,२६८; भा-१/५) अहर्ग्रहणम् द्वन्द्वार्थम् ।

(पा-५,४.८७; अकि-२,४४१.४-६; रो-४,२६८; भा-२/५) अहर्ग्रहणम् द्वन्द्वार्थम् द्रष्टव्यम् ।

(पा-५,४.८७; अकि-२,४४१.४-६; रो-४,२६८; भा-३/५) किम् उच्यते द्वन्द्वार्थम् इति न पुनः तत्पुरुषार्थम् अपि स्यात् ।

(पा-५,४.८७; अकि-२,४४१.४-६; रो-४,२६८; भा-४/५) तत्पुरुषाभावात् ।

(पा-५,४.८७; अकि-२,४४१.४-६; रो-४,२६८; भा-५/५) न हि रात्र्यन्तः अहरादिः तत्पुरुषः अस्ति ।

(पा-५,४.८८; अकि-२,४४१.८-१०; रो-४,२६९; भा-१/५) अह्नः अह्नवचनानर्थक्यम् च अह्नः टखोः नियमवचनात् ।

(पा-५,४.८८; अकि-२,४४१.८-१०; रो-४,२६९; भा-२/५) अह्नः अह्नवचनम् अनर्थकम् ।

(पा-५,४.८८; अकि-२,४४१.८-१०; रो-४,२६९; भा-३/५) किम् कारणम् ।

(पा-५,४.८८; अकि-२,४४१.८-१०; रो-४,२६९; भा-४/५) अह्नः टखोः नियमवचनात् ।

(पा-५,४.८८; अकि-२,४४१.८-१०; रो-४,२६९; भा-५/५) अह्नः टखोः एव इति एतत् नियमार्थम् भविष्यति ।

(पा-५,४.१०३; अकि-२,४४१.१२-१३; रो-४,२६८; भा-१/५) अनसन्तात् नपुंसकात् छन्दसि वा इति वक्तव्यम् ।

(पा-५,४.१०३; अकि-२,४४१.१२-१३; रो-४,२६८; भा-२/५) ब्रह्मसामम् ।

(पा-५,४.१०३; अकि-२,४४१.१२-१३; रो-४,२६८; भा-३/५) ब्रह्मसाम ।

(पा-५,४.१०३; अकि-२,४४१.१२-१३; रो-४,२६८; भा-४/५) देवच्छन्दसम् ।

(पा-५,४.१०३; अकि-२,४४१.१२-१३; रो-४,२६८; भा-५/५) देवच्छन्दः ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-१/९) किमर्थम् षच् प्रत्ययान्तरम् विधीयते न टच् प्रकृतः सः अनुवर्तिष्यते ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-२/९) अतः उत्तरम् पठति ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-३/९) षचि प्रत्ययान्तरकरणम् अनन्तोदात्तार्थम् ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-४/९) षचि प्रत्ययान्तरम् क्रियते ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-५/९) किम् प्रयोजनम् ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-६/९) अनन्तोदात्तार्थम् ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-७/९) अनन्तोदात्ताः प्रयोजयन्ति ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-८/९) चक्रसक्थम् ।

(पा-५,४.११३; अकि-२,४४१.१५-४४२.३; रो-४,२६९-२७०; भा-९/९) चक्रसक्थी ।

(पा-५,४.११५; अकि-२,४४२.५-७; रो-४,२७०; भा-१/६) किमर्थम् मूर्ध्नः ष प्रत्ययान्तरम् विधीयते न षच् प्रकृतः सः अनुवर्तिष्यते ।

(पा-५,४.११५; अकि-२,४४२.५-७; रो-४,२७०; भा-२/६) मूर्ध्नः च षवचनम् ।

(पा-५,४.११५; अकि-२,४४२.५-७; रो-४,२७०; भा-३/६) किम् ।

(पा-५,४.११५; अकि-२,४४२.५-७; रो-४,२७०; भा-४/६) अनन्तोदात्तार्थम् इति एव ।

(पा-५,४.११५; अकि-२,४४२.५-७; रो-४,२७०; भा-५/६) द्विमूर्धः ।

(पा-५,४.११५; अकि-२,४४२.५-७; रो-४,२७०; भा-६/६) त्रिमूर्धः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१/२२) अपि प्रधानपूरणीग्रहणम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-२/२२) अपि प्रधानपूरणीग्रहणम् कर्तव्यम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-३/२२) प्रधानम् या पूरणी इति वक्तव्यम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-४/२२) इह मा भूत् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-५/२२) कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-६/२२) अथ इह कथम् भवितव्यम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-७/२२) कल्याणी पञ्चमी असाम् रात्रीणाम् इति ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-८/२२) कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-९/२२) रत्रयः अत्र प्रधानम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१०/२२) नेतुः नक्षत्रे उपसङ्ख्यानम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-११/२२) नेतुः नक्षत्रे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१२/२२) पुष्यनेत्राः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१३/२२) मृगनेत्राः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१४/२२) छन्दसि च ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१५/२२) छन्दसि च नेतुः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१६/२२) बृहस्पतिनेत्राः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१७/२२) सोमनेत्राः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१८/२२) मासात् भृतिप्रत्ययपूर्वपदात् ठज्विधिः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-१९/२२) मासात् भृतिप्रत्ययपूर्वपदात् ठच् विधेयः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-२०/२२) पञ्चकमासिकः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-२१/२२) षट्कमासिकः ।

(पा-५,४.११६; अकि-२,४४२.९-२०; रो-४,२७१; भा-२२/२२) दशकमासिकः ।

(पा-५,४.११८; अकि-२,४४३.२-३; रो-४,२७२; भा-१/५) खरखुराभ्याम् च नस् वक्तव्यः ।

(पा-५,४.११८; अकि-२,४४३.२-३; रो-४,२७२; भा-२/५) खरणाः ।

(पा-५,४.११८; अकि-२,४४३.२-३; रो-४,२७२; भा-३/५) खुरणाः ।

(पा-५,४.११८; अकि-२,४४३.२-३; रो-४,२७२; भा-४/५) शितिनाः अर्चनाः अहिनाः इति नैगमाः ।

(पा-५,४.११८; अकि-२,४४३.२-३; रो-४,२७२; भा-५/५) शितिनाः अर्चनाः अहिनाः ।

(पा-५,४.११९; अकि-२,४४३.५; रो-४,२७२; भा-१/२) वेः ग्रः वक्तव्यः ।

(पा-५,४.११९; अकि-२,४४३.५; रो-४,२७२; भा-२/२) विग्रः ।

(पा-५,४.१३१; अकि-२,४४३.७-८; रो-४,२७२; भा-१/३) ऊधसः अनङि स्त्रीग्रहणम् ।

(पा-५,४.१३१; अकि-२,४४३.७-८; रो-४,२७२; भा-२/३) ऊधसः अनङि स्त्रीग्रहणम् कर्तव्यम् इह मा भूत् ।

(पा-५,४.१३१; अकि-२,४४३.७-८; रो-४,२७२; भा-३/३) महोधाः पर्जन्यः इति ।

(पा-५,४.१३५; अकि-२,४४३.१०-१३; रो-४,२७२-२७३; भा-१/६) गन्धस्य इत्त्वे तदेकान्तग्रहणम् ।

(पा-५,४.१३५; अकि-२,४४३.१०-१३; रो-४,२७२-२७३; भा-२/६) गन्धस्य इत्त्वे तदेकान्तग्रहणम् कर्तव्यम् इह मा भूत् ।

(पा-५,४.१३५; अकि-२,४४३.१०-१३; रो-४,२७२-२७३; भा-३/६) शोभनाः गन्धाः अस्य सुगन्धः आपणिकः इति ।

(पा-५,४.१३५; अकि-२,४४३.१०-१३; रो-४,२७२-२७३; भा-४/६) अथ अनुलिप्ते कथम् भवितव्यम् ।

(पा-५,४.१३५; अकि-२,४४३.१०-१३; रो-४,२७२-२७३; भा-५/६) यदि तावत् यत् अनुगतम् तत् अभिसमीक्षितम् सुगन्धिः इति भवितव्यम् ।

(पा-५,४.१३५; अकि-२,४४३.१०-१३; रो-४,२७२-२७३; भा-६/६) अथ यत् प्रविशीर्णम् सुगन्धः इति भवितव्यम् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१/२९) शेषात् इति उच्यते ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२/२९) कः शेषः नाम ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-३/२९) याभ्यः प्रकृतिभ्यः समासान्तः नि विधीयते सः शेषः ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-४/२९) किमर्थम् पुनः शेषग्रहणम् क्रियते ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-५/२९) याभ्यः प्रकृतिभ्यः समासान्तः विधीयते ताभ्यः मा भूत् इति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-६/२९) न एतत् अस्ति प्रयोजनम् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-७/२९) ये प्रतिपदम् विधीयन्ते ते तत्र बाधकाः भविष्यन्ति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-८/२९) अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशाः च समासान्ताः ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-९/२९) कः अवकाशः ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१०/२९) विभाषा कप् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-११/२९) यदा न कप् सः अवकाशः ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१२/२९) कपः प्रसङ्गे उभयम् प्राप्नोति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१३/२९) परत्वात् कप् प्राप्नोति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१४/२९) तस्मात् शेषग्रहणम् कर्तव्यम् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१५/२९) किम् पुनः इदम् शेषग्रहणम् कबपेक्षम् यस्मात् बहुव्रीहेः कप् इति आहोस्वित् समासान्तापेक्षम् यस्मात् बहुव्रीहेः समासान्तः न विहितः इति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१६/२९) किम् च अतः ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१७/२९) यदि विज्ञायते कबपेक्षम् अनृचः बह्वृचः इति अत्र अपि प्राप्नोति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१८/२९) अथ समासान्तापेक्षम् अनृक्कम् बह्वृक्कम् सूक्तम् इति न सिध्यति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-१९/२९) अस्तु कबपेक्षम् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२०/२९) कथम् अनृचः बह्वृचः इति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२१/२९) विशेषे एतत् वक्तव्यम् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२२/२९) अनृचः माणवे बह्वृचः चरणशाखायाम् इति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२३/२९) इदम् तर्हि ऊधसः अनङि स्त्रीग्रहणम् चोदितम् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२४/२९) तस्मिन् क्रियमाणे अपि प्राप्नोति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२५/२९) एवम् तर्हि न एव कबपेक्षम् शेषग्रहणम् न अपि समासान्तापेक्षम् ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२६/२९) किम् तर्हि अनन्तरः यः बहुव्रीह्यधिकारः सः अपेक्ष्यते ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२७/२९) अनन्तरे बहुव्रीह्यधिकारे यस्मात् बहुव्रीहेः समासान्तः न विहितः इति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२८/२९) कथम् अनृचः बह्वृचः इति ।

(पा-५,४.१५४; अकि-२,४४३.१४-४४४.११; रो-४,२७३-२७५; भा-२९/२९) वक्तव्यम् एव अनृचः माणवे बह्वृचः चरणशाखायाम् इति ।

(पा-५,४.१५६; अकि-२,४४४.१३-१७; रो-४,२७५-२७६; भा-१/६) ईयसः उपसर्जनदीर्घत्वम् च ।

(पा-५,४.१५६; अकि-२,४४४.१३-१७; रो-४,२७५-२७६; भा-२/६) ईयसः उपसर्जनदीर्घत्वम् च वक्तव्यम् ।

(पा-५,४.१५६; अकि-२,४४४.१३-१७; रो-४,२७५-२७६; भा-३/६) बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी ।

(पा-५,४.१५६; अकि-२,४४४.१३-१७; रो-४,२७५-२७६; भा-४/६) विद्यमानश्रेयसी ।

(पा-५,४.१५६; अकि-२,४४४.१३-१७; रो-४,२७५-२७६; भा-५/६) पुंवद्वचनात् सिद्धम् ।

(पा-५,४.१५६; अकि-२,४४४.१३-१७; रो-४,२७५-२७६; भा-६/६) पुंवद्भावः अत्र भवति ईयसः बहुव्रीहौ पुंवद्वचनम् इति ।