व्याकरणमहाभाष्य खण्ड 62

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१/२५) व्योः लोपे क्वौ उपसङ्ख्यानम् ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-२/२५) व्योः लोपे क्वौ उपसङ्ख्यानम् कर्तव्यम् इह अपि यथा स्यात् ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-३/२५) कण्डूयतेः अप्रत्ययः कण्डूः इति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-४/२५) किम् पुनः कारणम् न सिध्यति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-५/२५) वलि इति उच्यते न च अत्र वलादिम् पश्यामः ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-६/२५) ननु च अयम् क्विप् एव वलादिः भवति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-७/२५) क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-८/२५) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-९/२५) क्विब्लोपः क्रियताम् यलोपः इति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१०/२५) किम् अत्र कर्तव्यम् ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-११/२५) परत्वात् क्विब्लोपः नित्यत्वात् च ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१२/२५) नित्यः खलु अपि क्विब्लोपः ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१३/२५) कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१४/२५) नित्यत्वात् परत्वात् च क्विब्लोपः ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१५/२५) क्विब्लोपे कृते वलाद्यभावात् यलोपः न प्राप्नोति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१६/२५) एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१७/२५) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१८/२५) यदि वा कानि चित् वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-१९/२५) अथ वा एवम् वक्ष्यामि ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-२०/२५) लोपः व्योः वलि ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-२१/२५) ततः वेः ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-२२/२५) व्यन्तयोः च व्योः लोपः भवति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-२३/२५) ततः अपृक्तस्य ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-२४/२५) अपृक्तस्य च लोपः भवति ।

(पा-६,१.६६.१; अकि-३,४३.२०-४४.७; रो-४,३७२-३७४; भा-२५/२५) वेः इति एव ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१/३०) वलोपाप्रसिद्धिः ऊड्भाववचनात् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२/३०) वलोपस्य अप्रसिद्धिः ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-३/३०) आस्रेमाणम् , जीरदानुः इति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-४/३०) किम् कारणम् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-५/३०) ऊड्भाववचनात् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-६/३०) च्छ्वोः शूट् अनुनासिके च इति ऊठ् प्राप्नोति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-७/३०) अतिप्रसङ्गः व्रश्चादिषु ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-८/३०) व्रश्चादिषु च अतिप्रसङ्गः भवति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-९/३०) इह अपि प्राप्नोति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१०/३०) व्रश्चनः , व्रीहिः , व्रणः इति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-११/३०) उपदेशसामर्थ्यात् सिद्धम् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१२/३०) उपदेशसामर्थ्यात् व्रश्चादिषु लोपः न भविष्यति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१३/३०) उपदेशसामर्थ्यात् सिद्धम् इति चेत् सम्प्रसारणहलादिशेषेषु सामर्थ्यम् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१४/३०) उपदेशसामर्थ्यात् सिद्धम् इति चेत् अस्ति अन्यत् उपदेशवचने प्रयोजनम् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१५/३०) सम्प्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणम् यथा स्यात् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१६/३०) (ऋ॒ वृक्णः ) वृक्णवान् , (ऋ वृश्चति ) विव्रश्चिषति इति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१७/३०) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१८/३०) न वा एतत् प्रयोजनम् अस्ति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-१९/३०) किम् कारणम् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२०/३०) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२१/३०) बहिरङ्गाः सम्प्रसारणहलादिशेषाः ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२२/३०) अन्तरङ्गः लोपः ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२३/३०) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२४/३०) अनारम्भः वा ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२५/३०) अनारम्भः वा पुनः वलोपस्य न्याय्यः ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२६/३०) कथम् आस्रेमाणम् , जीरदानुः इति ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२७/३०) आस्रेमाणम् जीरदानुः इति वर्णलोपात् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२८/३०) आस्रेमाणम् , जीरदानुः इति छान्दसात् वर्णलोपात् सिद्धम् ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-२९/३०) यथा संस्फानः गयस्फानः ।

(पा-६,१.६६.२; अकि-३,४४.८-४५.२; रो-४,३७४-३७५; भा-३०/३०) तत् यथा संस्फयनः , संस्फानः , गयस्फानः, गयस्फानः इति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१/२६) दर्विजागृव्योः प्रतिषेधः वक्तव्यः ॒ दर्विः , जागृविः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२/२६) किम् उच्यते दर्विजागृव्योः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति उच्यति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-३/२६) भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-४/२६) तत् वा कर्तव्यम् दर्विजागृव्योः वा प्रतिषेधः वक्तव्यः ।वेः लोपे दर्विजागृव्योः अप्रतिषेधः अनुनासिकपरत्वात् ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-५/२६) वेः लोपे दर्विजागृव्योः अप्रतिषेधः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-६/२६) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-७/२६) लोपः कस्मात् न भवति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-८/२६) अनुनासिकपरत्वात् ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-९/२६) अनुनासिकपरस्य विशब्दस्य ग्रहणम् न च अत्र अनुनासिकपरः विशब्दः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१०/२६) शुद्धपरः च अत्र विशब्दः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-११/२६) यदि अनुनासिकपरस्य विशब्दस्य ग्रहणम् इति उच्यते घृतस्पृक्, दलस्पृक् , अत्र न प्राप्नोति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१२/२६) न हि एतस्मात् विशब्दात् अनुनासिकम् परम् पश्यामः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१३/२६) अनुनासिकपरत्वात् इति न एवम् विज्ञायते ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१४/२६) अनुनासिकः परः अस्मात् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१५/२६) कथम् तर्हि ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१६/२६) अनुनासिकः परः अस्मिन् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१७/२६) एवम् अपि प्रियदर्वि , अत्र प्राप्नोति ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१८/२६) असिद्धः अत्र अनुनासिकः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-१९/२६) एवम् अपि धात्वन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२०/२६) इवि दिवि धिवि ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२१/२६) धात्वन्तस्य च अर्थवद्ग्रहणात् ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२२/२६) अर्थवतः विशब्दस्य ग्रहणम् ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२३/२६) न धात्वन्तः अर्थवान् ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२४/२६) वस्य वा अनुनासिकत्वात् सिद्धम् ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२५/२६) अथ वा वकारस्य एव इदम् अनुनासिकस्य ग्रहणम् ।

(पा-६,१.६७; अकि-३,४५.४-२०; रो-४,३७५-३७६; भा-२६/२६) सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१/५५) यदि पुनः अयम् अपृक्तलोपः संयोगान्तलोपः विज्ञायेत ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२/५५) किम् कृतम् भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३/५५) द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् न कर्तव्यम् भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४/५५) हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः यथा पचन् इति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-५/५५) हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-६/५५) राजा तक्षा ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-७/५५) संयोगान्तलोपस्य असिद्धत्वात् नलोपः न प्राप्नोति यथा पचन् इति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-८/५५) तत् यथा पचन्, यजन् इति अत्र संयोगान्तलोपस्य असिद्धत्वात् नलोपः न भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-९/५५) न एषः दोषः ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१०/५५) आचार्यप्रवृत्तिः ज्ञापयति सिद्धः संयोगान्तलोपः नलोपे इति यत् अयम् न ङिसम्बुद्ध्योः इति सम्बुद्धौ प्रतिषेधम् शास्ति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-११/५५) इह अपि तर्हि प्राप्नोति पचन्, यजन् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१२/५५) तुल्यजातीयस्य ज्ञापकम् भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१३/५५) कः च तुल्यजातीयः ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१४/५५) यः सम्बुद्धौ अनन्तरः ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१५/५५) वस्वादिषु दत्वम् संयोगादिलोपबलीयस्त्वात् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१६/५५) वस्वादिषु दत्वम् न सिध्यति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१७/५५) उखास्रत् , पर्णद्व्हत् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१८/५५) किम् कारणम् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-१९/५५) संयोगादिलोपबलीयस्त्वात् । संयोगान्तलोपात् संयोगादिलोपः बलीयान् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२०/५५) यथा कूटतट् इति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२१/५५) तत् यथा कूटतट् , काष्ठतट् इति अत्र संयोगान्तलोपात् संयोगादिलोपः बलीयान् भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२२/५५) ननु च दत्वे कृते न भविष्यति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२३/५५) असिद्धम् दत्वम् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२४/५५) तस्य असिद्धत्वात् प्राप्नोति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२५/५५) सिद्धकाण्डे पठितम् वस्वादिषु दत्वम् सौ दीर्घत्वे इति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२६/५५) तत्र सौ दीर्घत्वग्रहणम् न करिष्यते ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२७/५५) वस्वादिषु दत्वम् इति एव ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२८/५५) एवम् अपि अपदान्तत्वात् न प्राप्नोति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-२९/५५) अथ सौ अपि पदम् भवति राजा तक्षा नलोपे कृते विभक्तेः श्रवणम् प्राप्नोति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३०/५५) सा एषा उभयतस्पाशा रज्जुः भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३१/५५) रात्तलोपः नियमवचनात् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३२/५५) रात् तस्य लोपः वक्तव्यः ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३३/५५) अबिभः भवान् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३४/५५) अजागः भवान् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३५/५५) किम् पुनः कारणम् न सिध्यति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३६/५५) नियमवचनात् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३७/५५) रात् सस्य इति एतस्मात् नियमात् न प्राप्नोति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३८/५५) न एषः दोषः ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-३९/५५) रात् सस्य इति अत्र तकारः अपि निर्दिश्यते ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४०/५५) यदि एवम् कीर्तयतेः अप्रत्ययः कीः इति प्राप्नोति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४१/५५) कीर्त् इति च इष्यते ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४२/५५) यथालक्षणम् अप्रयुक्ते ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४३/५५) रोः उत्त्वम् च ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४४/५५) रोः उत्त्वम् च वक्तव्यम् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४५/५५) अभिनः अत्र, अच्छिनः अत्र ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४६/५५) संयोगान्तलोपस्य असिद्धत्वात् अतः अति इति उत्त्र्वम् न प्राप्नोति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४७/५५) न वा संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४८/५५) न वा वक्तव्यम् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-४९/५५) किम् कारणम् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-५०/५५) संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-५१/५५) संयोगान्तलोपः उत्त्वे सिद्धः भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-५२/५५) यथा हरिवः मेदिनम् इति । तत् यथा हरिवः मेदिनम् त्वा इति अत्र संयोगान्तलोपः उत्त्वे सिद्धः भवति ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-५३/५५) सः एव दर्हि दोषः सा एषा उभयतस्पाशा ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-५४/५५) तस्मात् अशक्यः अपृक्तलोपः संयोगान्तलोपः विज्ञातुम् ।

(पा-६,१.६८; अकि-३,४६.२-४७.१२; रो-४,३७७-३८०; भा-५५/५५) न चेत् विज्ञायते द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् कर्तव्यम् एव ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१/६६) सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२/६६) सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३/६६) हे कतरत्, हे कतमत् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४/६६) किम् उच्यते डतरादिभ्यः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति अनुवर्तते ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५/६६) अपृक्ताधिकारस्य निवृत्तत्वात् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६/६६) निवृत्तः अपृक्ताधिकारः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-७/६६) किम् डतरादिभ्यः प्रतिषेधम् वक्ष्यामि इति अपृक्ताधिकारः निवर्त्यते ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-८/६६) न इति आह ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-९/६६) तत् च अमर्थम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१०/६६) सः च अवश्यम् अपृक्ताधिकारः निवर्त्यः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-११/६६) किमर्थम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१२/६६) अमर्थम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१३/६६) अमः लोपः यथा स्यात् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१४/६६) हे कुण्ड , हे पीठ ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१५/६६) निवृत्ते अपि अपृक्ताधिकारे अमः लोपः न प्राप्नोति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१६/६६) न हि लोपः सर्वापहारी ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१७/६६) मा भूत् सर्वस्य लोपः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१८/६६) अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य लोपे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् हे कुण्ड , हे पीठ इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-१९/६६) यदि एतत् लभ्येत कृतम् स्यात् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२०/६६) तत् तु न लभ्यते ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२१/६६) किम् कारणम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२२/६६) अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य लोपः प्राप्नोति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२३/६६) अकारलोपे च सति मकारे अतः दीर्घः यञि सुपि च इति दीर्घत्वे हे कुण्डाम् , हे पीठाम् इति एतत् रूपम् प्रसज्येत ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२४/६६) एवम् तर्हि हलः लोपः सम्बुद्धिलोपः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२५/६६) तत् हल्ग्रहणम् कर्तव्यम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२६/६६) न कर्तव्यम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२७/६६) प्रकृतम् अनुवर्तते ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२८/६६) क्व प्रकृतम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-२९/६६) हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३०/६६) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३१/६६) न एषः दोषः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३२/६६) एङ् ह्रस्वात् इति एषा पञ्चमी हल् इति अस्याः प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३३/६६) एवम् अपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते हे पीठा इति एतत् रूपम् प्रसज्येत ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३४/६६) अमि पूर्वत्वम् अत्र बाधकम् भविष्यति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३५/६६) अमि इति उच्यते न च अत्र अमम् पश्यामः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३६/६६) एकदेशविकृतम् अनन्यवत् भवति इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३७/६६) अथ वा इदम् इह सम्प्रधार्यम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३८/६६) सम्बुद्धिलोपः क्रियताम् एकादेशः इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-३९/६६) किम् अत्र कर्तव्यम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४०/६६) परत्वात् एकादेशः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४१/६६) एवम् अपि एकादेशे कृते व्यपवर्गाभावात् सम्बुद्धिलोपः न प्राप्नोति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४२/६६) अन्तादिवद्भावेन व्यपवर्गः भविष्यति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४३/६६) उभयतः आश्रये न अन्तादिवत् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४४/६६) न उभयतः आश्रयः करिष्यते ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४५/६६) कथम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४६/६६) न एवम् विज्ञायते ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४७/६६) ह्रस्वात् उत्तरस्याः सम्बुद्धेः लोपः भवति इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४८/६६) कथम् तर्हि ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-४९/६६) ह्रस्वात् उत्तरस्य हलः लोपः भवति सः चेत् सम्बुद्धेः इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५०/६६) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५१/६६) न वक्तव्यः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५२/६६) उक्तम् वा ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५३/६६) किम् उक्तम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५४/६६) सिद्धम् अनुनासिकोपधत्वात् इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५५/६६) एवम् अपि दलोपः साधीयः प्राप्नोति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५६/६६) दुक्करणात् वा ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५७/६६) अथ वा दुक् डतरादीनाम् इति वक्ष्यामि ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५८/६६) डित्करणात् वा ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-५९/६६) अथ वा डित् अयम् शब्दः करिष्यते ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६०/६६) सः तर्हि डकारः कर्तव्यः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६१/६६) न कर्तव्यः ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६२/६६) क्रियते न्यासे एव ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६३/६६) द्विडकारः निर्देशः अद्ड् डतरादिभ्यः इति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६४/६६) एवम् अपि लोपः प्राप्नोति ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६५/६६) विहितविशेषणम् ह्रस्वग्रहणम् ।

(पा-६,१.६९.१; अकि-३,४७.१४-४८.२७; रो-४,३८०-३८३; भा-६६/६६) यस्मात् ह्रस्वात् सम्बुद्धिः विहिता इति ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१/२०) अपृक्तसम्बुद्धिलोपाभ्याम् लुक् ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-२/२०) अपृक्तसम्बुद्धिलोपाभ्याम् लुक् भवति विप्रतिषेधेन ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-३/२०) अपृक्तलोपस्य अवकाशः गोमान् , यवमान् ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-४/२०) लुकः अवकाशः त्रपु, जतु ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-५/२०) इह उभयम् प्राप्नोति ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-६/२०) तत् ब्राह्मणकुलम् , यत् ब्राह्मणकुलम् ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-७/२०) सम्बुद्धिलोपस्य अवकाशः हे अग्ने, हे वायो ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-८/२०) लुकः सः एव ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-९/२०) इह उभयम् प्राप्नोति ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१०/२०) हे त्रपु , हे जतु ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-११/२०) लुक् भवति विप्रतिषेधेन ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१२/२०) सः तर्हि विप्रतिषेधः वक्तव्यः ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१३/२०) न वा लोपलुकोः लुगवधारणात् यथा अनडुह्यते इति ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१४/२०) न वा अर्थः विप्रतिषेधेन ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१५/२०) किम् कारणम् ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१६/२०) लोपलुकोः लुगवधारणात् ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१७/२०) लोपलुकोः हि लुक् अवधार्यते ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१८/२०) लुक् लोपयणयवायावेकादेशेभ्यः ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-१९/२०) यथा अनडुह्यते इति ।

(पा-६,१.६९.२; अकि-३,४९.१-१०; रो-४,३८३-३८४; भा-२०/२०) तत् यथा अनड्वान् इव आचरति अनडुह्यते इति अत्र लोपलुकोः लुक् अवधार्यते एवम् इह अपि ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-१/१६) अयम् योगः शक्यः अवक्तुम् ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-२/१६) कथम् अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् इति ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-३/१६) पूर्वसवर्णेन अपि एतत् सिद्धम् ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-४/१६) न सिध्यति ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-५/१६) नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-६/१६) छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृह्णाति , महोः तृप्ता इव आसते इति एवमर्थम् ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-७/१६) तत्र पूंवद्भावेन नुमः निवृत्तिः ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-८/१६) नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-९/१६) भवेत् सिद्धम् अग्ने त्री ते वजिना त्री षधस्था इति ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-१०/१६) इदम् तु न सिध्यति त ता पिण्डानाम् इति ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-११/१६) इदम् अपि सिद्धम् ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-१२/१६) कथम् ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-१३/१६) साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिकः भविष्यति ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-१४/१६) एवम् अपि जसि गुणः प्राप्नोति ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-१५/१६) वक्ष्यति एतत् ।

(पा-६,१.७०; अकि-३,४९.१२-१९; रो-४,३८४; भा-१६/१६) जसादिषु छन्दोवावचनम् प्राक् णौ चङि उपधायाः इति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१/५५) तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२/५५) तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३/५५) आराशस्त्रि छत्रम् , धानाशष्कुलि छत्रम् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४/५५) निष्कौशाम्बि छत्रम् , निर्वाराणसि छत्रम् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-५/५५) पञ्चारत्नि छत्रम् , दशारत्नि छत्रम् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-६/५५) तुके कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-७/५५) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-८/५५) न वा एषः दोषः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-९/५५) किम् कारणम् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१०/५५) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-११/५५) बहिरङ्गलक्षणः तुक् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१२/५५) अन्तरङ्गाः एते विधयः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१३/५५) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१४/५५) इदम् तर्हि ग्रामणिपुत्रः , सेनानिपुत्रः इति ह्रस्वत्वे कृते तुक् प्राप्नोति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१५/५५) ग्रामणिपुत्रादिषु च अप्राप्तिः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१६/५५) ग्रामणिपुत्रादिषु च अप्राप्तिः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१७/५५) किम् कारणम् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१८/५५) बहिरङ्गलक्षणत्वात् एव ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-१९/५५) अथ वा परादिः करिष्यते ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२०/५५) परादौ संयोगादेः इति अतिप्रसङ्गः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२१/५५) परादौ संयोगादेः इति अतिप्रसङ्गः भवति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२२/५५) अपच्छायात् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२३/५५) वा अन्यस्य संयोगादेः इति एत्वम् प्रसज्येत ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२४/५५) विलोपवचनम् च ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२५/५५) वेः च लोपः वक्तव्यः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२६/५५) अग्निचित् , सोमसुत् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२७/५५) अपृक्तस्य इति वेः लोपः न प्राप्नोति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२८/५५) न एषः दोषः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-२९/५५) अपृक्तग्रहणम् न करिष्यते ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३०/५५) यदि न क्रियते दर्विः , जागृविः , अत्र अपि प्राप्नोति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३१/५५) अनुनासिकपरस्य विशब्दस्य ग्रहणम् शुद्धपरः च अत्र विशब्दः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३२/५५) एवम् अपि सतुक्कस्य लोपः प्राप्नोति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३३/५५) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३४/५५) इट्प्रतिषेधः च ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३५/५५) इट्प्रतिषेधः च वक्तव्यः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३६/५५) परीतत् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३७/५५) सतुक्कस्य वलादिलक्षणः इट् प्रसज्येत ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३८/५५) एवम् तर्हि अभक्तः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-३९/५५) अभक्ते स्वरः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४०/५५) यदि अभक्तः तर्हि स्वरे दोषः भवति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४१/५५) दधि छादयति , मधु छादयति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४२/५५) तिङ् अतिङः इति निघातः न प्राप्नोति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४३/५५) ननु च तुक् एव अतिङ् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४४/५५) न तुकः परस्य निघातः प्राप्नोति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४५/५५) किम् कारणम् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४६/५५) नञिवयुक्तम् अन्यसदृशाधिकरणे ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४७/५५) तथा हि अर्थगतिः ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४८/५५) नञ्युक्ते इवयुक्ते वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-४९/५५) तथा हि अर्थः गम्यते ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-५०/५५) तत् यथा ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-५१/५५) अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् एव आनयति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-५२/५५) न असौ लोष्टम् आनीय कृती भवति ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-५३/५५) एवम् इह अपि अतिङ् इति तिङ्प्रतिषेधात् अन्यस्मात् अतिङः तिङ्सदृशात् कार्यम् विज्ञास्यते ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-५४/५५) किम् च अन्यत् अतिङ् तिङ्सदृशम् ।

(पा-६,१.७१; अकि-३,४९.२१-५१.६; रो-४,३८५-३८६; भा-५५/५५) पदम् ।

(पा-६,१.७२; अकि-३,५१.८-११; रो-४,३८७-३८८; भा-१/७) अयम् योगः शक्यः अवक्तुम् ।

(पा-६,१.७२; अकि-३,५१.८-११; रो-४,३८७-३८८; भा-२/७) कथम् ।

(पा-६,१.७२; अकि-३,५१.८-११; रो-४,३८७-३८८; भा-३/७) अधिकरणम् नाम त्रिप्रकारम् व्यापकम् औपश्लेषिकम् वैषयिकम् इति ।

(पा-६,१.७२; अकि-३,५१.८-११; रो-४,३८७-३८८; भा-४/७) शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः उपश्लेषात् ।

(पा-६,१.७२; अकि-३,५१.८-११; रो-४,३८७-३८८; भा-५/७) इकः यण् अचि ।

(पा-६,१.७२; अकि-३,५१.८-११; रो-४,३८७-३८८; भा-६/७) अचि उपश्लिष्टस्य इति ।

(पा-६,१.७२; अकि-३,५१.८-११; रो-४,३८७-३८८; भा-७/७) तत्र अन्तरेण संहिताग्रहणम् संहितायाम् एव भविष्यति ।

(पा-६,१.७४; अकि-३,५१.१३-१७; रो-४,३८८; भा-१/६) अथ किमर्थम् आङ्माङोः सानुबन्धकयोः निर्देशः ।

(पा-६,१.७४; अकि-३,५१.१३-१७; रो-४,३८८; भा-२/६) आङ्माङोः सानुबन्धकनिर्देशः गतिकर्मप्रवचनीयप्रतिषेधसम्प्रत्ययार्थः ।

(पा-६,१.७४; अकि-३,५१.१३-१७; रो-४,३८८; भा-३/६) आङ्माङोः सानुबन्धकयोः निर्देशः क्रियते आङः गतिकर्मप्रवचनीयसम्प्रत्ययार्थः माङः प्रतिषेधसम्प्रत्ययार्थः ।

(पा-६,१.७४; अकि-३,५१.१३-१७; रो-४,३८८; भा-४/६) इह मा भूत् ।

(पा-६,१.७४; अकि-३,५१.१३-१७; रो-४,३८८; भा-५/६) आ छाया, आच् छाया ।

(पा-६,१.७४; अकि-३,५१.१३-१७; रो-४,३८८; भा-६/६) प्रमा छन्दः , प्रमाच् छन्दः ।

(पा-६,१.७५-७६; अकि-३,५१.२०-२२; रो-४,३८९; भा-१/४) दीर्घात् पदान्तात् वा विश्वजनादीनाम् छन्दसि ।

(पा-६,१.७५-७६; अकि-३,५१.२०-२२; रो-४,३८९; भा-२/४) दीर्घात् पदान्तात् वा इति अत्र विश्वजनादीनाम् छन्दसि उपसङ्ख्यनम् कर्तव्यम् ।

(पा-६,१.७५-७६; अकि-३,५१.२०-२२; रो-४,३८९; भा-३/४) विश्वजनस्य छत्रम् , विश्वजनस्य च्छत्रम् ।

(पा-६,१.७५-७६; अकि-३,५१.२०-२२; रो-४,३८९; भा-४/४) न छायाम् कुरवः अपराम् , नच् छायाम् कुरवः अपराम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१/४९) इग्ग्रहणम् किमर्थम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२/४९) इह मा भूत् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३/४९) अग्निचित् अत्र , सोमसुत् अत्र ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४/४९) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-५/४९) जश्त्वम् अत्र बाधकम् भविष्यति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-६/४९) जश्त्वम् न सिद्धम् यणम् अत्र पश्य । असिद्धम् अत्र जश्त्वम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-७/४९) तस्य असिद्धत्वात् यणादेशः प्राप्नोति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-८/४९) यः च अपदान्तः हल् अचः च पूर्वः ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-९/४९) यः च अपदान्तः हल् अचः च पूर्वः तस्य प्राप्नोति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१०/४९) पचति इति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-११/४९) एवम् तर्हि दीर्घस्य यण् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१२/४९) दीर्घस्य यण् आदेशम् वक्ष्यामि ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१३/४९) तत् दीर्घग्रहणम् कर्तव्यम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१४/४९) न कर्तव्यम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१५/४९) प्रकृतम् अनुवर्तते ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१६/४९) क्व प्रकृतम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१७/४९) दीर्घात् पदान्तात् वा इति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१८/४९) तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-१९/४९) अचि इति एषा सप्तमी दीर्घात् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२०/४९) भवेत् सिद्धम् कुमारी अत्र , ब्रह्मबन्ध्वर्थम् इति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२१/४९) इदम् तु न सिध्यति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२२/४९) दधि अत्र , मधु अत्र इति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२३/४९) ह्रस्वः इति प्र्तवृत्तम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२४/४९) ह्रस्वग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२५/४९) क्व प्रकृतम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२६/४९) ह्रस्व्यस्य पिति कृति तुक् इति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२७/४९) यदि तत् अनुवर्तते दीर्घात् पदान्तात् वा इति ह्रस्वात् अपि पदान्तात् विकल्पेन प्राप्नोति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२८/४९) सम्बन्धवृत्त्या ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-२९/४९) सम्बन्धम् अनुवर्तिष्यते ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३०/४९) ह्रस्व्यस्य पिति कृति तुक् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३१/४९) संहितायाम् ह्रस्व्यस्य पिति कृति तुक् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३२/४९) छे च ह्रस्व्यस्य पिति कृति तुक् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३३/४९) आङ्माङोः च ह्रस्व्यस्य पिति कृति तुक् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३४/४९) दीर्घात् पदान्तात् वा ह्रस्व्यस्य पिति कृति तुक् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३५/४९) ततः इकः यण् अचि ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३६/४९) ह्रस्व्यस्य इति वर्तते ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३७/४९) पिति कृति तुक् इति निवृत्तम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३८/४९) इह तर्हि प्राप्नोति चयनम् , चायकः , लवणम् , लावकः ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-३९/४९) अयादयः अत्र बाधकाः भविष्यन्ति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४०/४९) इह तर्हि प्राप्नोति खट्वा इन्द्रः , माला इन्द्रः , खट्वा एलका , माला एलका ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४१/४९) गुणवृद्धिबाध्यः ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४२/४९) गुणवृद्धी अत्र बाधिके भविष्यतः ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४३/४९) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४४/४९) इकः अचि यण् एव स्यात् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४५/४९) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४६/४९) किम् च अन्यत् प्राप्नोति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४७/४९) शाकलम् ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४८/४९) सिन्नित्यसमासयोः शाकलप्रतिषेधम् चोदयिष्यति ।

(पा-६,१.७७.१; अकि-३,५२.२-५३.६; रो-४,३८९-३९१; भा-४९/४९) स न वक्तव्यः भवति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१/३९) यणादेशः प्लुतपूर्वस्य च ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२/३९) यणादेशः प्लुतपूर्वस्य च इति वक्तव्यम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३/३९) अग्ना३इ* इन्द्रम् , अग्ना३य् इन्द्रम् , पटा३उ* उदकम् , पटा३व् उदकम् , अग्ना३इ* आशा , अग्ना३य् आशा , पटा३उ* आशा , पटा३व् आशा ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-४/३९) किम् पुनः कारणम् न सिध्यति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-५/३९) असिद्धः प्लुतः प्लुतविकारौ च इमौ ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-६/३९) सिद्धः प्लुतः स्वरसन्धिषु ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-७/३९) कथम् ज्ञायते ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-८/३९) यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः सिद्धः प्लुतः स्वरसन्धिषु इति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-९/३९) कथम् कृत्वा ज्ञापकम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१०/३९) सतः हि कार्यिणः कार्येण भवितव्यम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-११/३९) इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१२/३९) दीर्घत्वम् शाकलम् च मा भूत् इति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१३/३९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१४/३९) आरभ्यते प्लुतपूर्वस्य यणादेशः तयोः य्वौ अचि संहितायाम् इति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१५/३९) तत् दीर्घशाकलप्रतिषेधार्थम् भविष्यति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१६/३९) तत् न वक्तव्यम् भवति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१७/३९) ननु च तस्मिन् अपि उच्यमाने इदम् न वक्तव्यम् भवति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१८/३९) अवश्यम् इदम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-१९/३९) भो३इ इन्द्रम् , भो३य् इन्द्रम् , भो३इ इह भो३य् इह इति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२०/३९) यद् तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२१/३९) तत् न वक्तव्यम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२२/३९) तत् अपि अवश्यम् स्वरार्थम् वक्तव्यम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२३/३९) अनेन हि सति उदात्तस्वरितयोः यणः इति एषः स्वरः प्रसज्येत ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२४/३९) तेन पुनः सति असिद्धत्वात् न भविष्यति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२५/३९) यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२६/३९) इदम् न वक्तव्यम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२७/३९) ननु च उक्तम् इदम् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२८/३९) भो३इ इन्द्रम् , भो३य् इन्द्रम् , भो३इ इह भो३य् इह इति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-२९/३९) छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३०/३९) यत् तर्हि न छान्दसम् भो३य् इन्द्रम् , भो३य् इह इति साम गायति ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३१/३९) एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः क्रियते ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३२/३९) जश्त्वम् न सिद्धम् यणम् अत्र पश्य ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३३/३९) यः च अपदान्तः हल् अचः च पूर्वः ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३४/३९) दीर्घस्य यण् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३५/३९) ह्रस्वः इति प्र्तवृत्तम् ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३६/३९) सम्बन्धवृत्त्या ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३७/३९) गुणवृद्धिबाध्यः ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३८/३९) नित्ये च यः शाकलभाक्समासे तदर्थम् एतद् भगवान् चकार ।

(पा-६,१.७७.२; अकि-३,५३.७-५४.४; रो-४,३९१-३९३; भा-३९/३९) सामर्थ्ययोगात् न हि किम् चित् अस्मिन् पश्यामि शास्त्रे यत् अनर्थकम् स्यात् ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१/२४) वान्तादेशे स्थानिनिर्देशः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-२/२४) वान्तादेशे स्थानिनिर्देशः कर्तव्यः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-३/२४) ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-४/२४) सः तर्हि कर्तव्यः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-५/२४) न कर्तव्यः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-६/२४) वान्तग्रहणम् न करिष्यते ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-७/२४) एचः यि प्रत्यये अयादयः भवन्ति इति एव सिद्धम् ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-८/२४) यदि वान्तग्रहणम् न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-९/२४) क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१०/२४) क्षिज्योः एव इति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-११/२४) तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१२/२४) क्षेयम् पापम् , जेयः वृषलः इति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१३/२४) उभयतः नियमः विज्ञास्यते ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१४/२४) क्षिज्योः एव एचः तयोः च शक्यार्थे एव इति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१५/२४) इह अपि तर्हि नियमात् न प्राप्नोति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१६/२४) लव्यम् , पव्यम् , अवश्यलाव्यम् , अवश्यपाव्यम् ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१७/२४) तुल्यजातीयस्य नियमः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१८/२४) कः च तुल्यजातीयः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-१९/२४) यथाजातीयकः क्षिज्योः एच् ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-२०/२४) कथञ्जातीयकः क्षिज्योः एच् ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-२१/२४) एकारः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-२२/२४) एवम् अपि रायम् इच्छति , रैयति , अत्र अपि प्राप्नोति ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-२३/२४) रायिः छान्दसः ।

(पा-६,१.७९.१; अकि-३,५४.६-१६; रो-४,३९३-३९४; भा-२४/२४) दृष्टानुविधिः छन्दसि भवति ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-१/८) गोः यूतौ छन्दसि ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-२/८) गोः यूतौ छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-३/८) अ नः मित्रावरुणा घृतैः गव्यूतिम् उक्षतम् ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-४/८) गोयूतिम् इति एव अन्यत्र ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-५/८) अध्वपरिमाणे च ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-६/८) अध्वपरिमाणे च गोः यूतौ उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-७/८) गव्यूतिम् अध्वानम् गतः ।

(पा-६,१.७९.२; अकि-३,५४.१७-२२; रो-४, ३९४; भा-८/८) गोयूतिम् इति एव अन्यत्र ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-१/१३) एवकारः किमर्थः ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-२/१३) नियमार्थः ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-३/१३) न एतत् प्रयोजनम् ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-४/१३) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-५/१३) सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थङ् भविष्यति ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-६/१३) इष्टतः अवधारणार्थः तर्हि ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-७/१३) यथा एवम् विज्ञायेत ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-८/१३) धातोः तन्निमित्तस्य एव इति ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-९/१३) मा एवम् विज्ञायि ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-१०/१३) धातोः एव तन्निमित्तस्य इति ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-११/१३) किम् च स्यात् ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-१२/१३) अधातोः तन्निमित्तस्य न स्यात् ।

(पा-६,१.८०; अकि-३,५४.२४-५५.२; रो-४,३९४; भा-१३/१३) शङ्कव्यम् दारु , पिचव्यः कार्पासः इति ।

(पा-६,१.८२; अकि-३,५५.४-५; रो-४,३९५; भा-१/५) तत् इति अनेन किम् प्रतिनिर्दिश्यते ।

(पा-६,१.८२; अकि-३,५५.४-५; रो-४,३९५; भा-२/५) सः एव क्रीणात्यर्थः ।

(पा-६,१.८२; अकि-३,५५.४-५; रो-४,३९५; भा-३/५) इह मा भूत् ।

(पा-६,१.८२; अकि-३,५५.४-५; रो-४,३९५; भा-४/५) क्रेयम् नः धान्यम् ।

(पा-६,१.८२; अकि-३,५५.४-५; रो-४,३९५; भा-५/५) न च अस्ति क्रय्यम् इति ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-१/१४) भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-२/१४) भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-३/१४) ह्रदय्याः आपः ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-४/१४) अव् शरस्य च ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-५/१४) शरस्य च ह्रदस्य च अतः अव् वक्तयः ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-६/१४) ह्रदव्याः आपः ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-७/१४) शरव्याः वै तेजनम् ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-८/१४) शरव्यस्य पशून् अभिघातकः स्यात् ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-९/१४) शरुवृत्तात् वा सिद्धम् ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-१०/१४) शरुवृत्तात् वा सिद्धम् पुनः सिद्धम् एतत् ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-११/१४) ऋञ्जती शरुः इति अपि दृश्यते ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-१२/१४) ऋञ्जती शरुः इति अपि शरुशब्दप्रवृत्तिः दृश्यते ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-१३/१४) शरुहस्तः इति च लोके ।

(पा-६,१.८३; अकि-३,५५.७-१७; रो-४,३९५-३९६; भा-१४/१४) शरुहस्तः इति च लोके शरहस्तम् उपाचरन्ति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१/५१) एकवचनम् किमर्थम् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२/५१) एकवचनम् पृथक् आदेशप्रतिषेधार्थम् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३/५१) एकवचनम् क्रियते एकः आदेशः यथा स्यात् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४/५१) पृथक् आदेशः मा भूत् इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-५/५१) न वा द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-६/५१) न वा एतत् प्रयोजनम् अस्ति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-७/५१) किम् कारणम् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-८/५१) द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः एकः आदेशः भविष्यति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-९/५१) तत् यथा द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१०/५१) अनयोः पूलयोः कटम् कुरु ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-११/५१) अनयोः मित्पिण्डयोः घटम् कुरु इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१२/५१) न च उच्यते एकम् इति एकम् च असौ करोति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१३/५१) किम् पुनः कारणम् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१४/५१) तत् च एकवाक्यभावात् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१५/५१) एकवाक्यभावात् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१६/५१) आतः च एकवाक्यभावात् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१७/५१) व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१८/५१) ज्वरत्वरस्रिव्यविमवाम् उपधायाः च ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-१९/५१) भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२०/५१) यत् तावत् उच्यते एकवाक्यभावात् इति तत् न ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२१/५१) अर्थात् प्रकरणात् वा लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२२/५१) आतः च अर्थात् प्रकरणात् वा ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२३/५१) व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२४/५१) रदाभ्याम् निष्ठातः नः पूर्वस्य च दः ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२५/५१) उभौ साभ्यासस्य इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२६/५१) कथम् यत् तत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२७/५१) ज्वरत्वरस्रिव्यविमवाम् उपधायाः च ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२८/५१) भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-२९/५१) इह तावत् ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३०/५१) स्ताम् द्वौ ऊठौ ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३१/५१) न अस्ति दोषः ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३२/५१) सवर्णदीर्घत्वेन सिद्धम् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३३/५१) इह भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३४/५१) वक्ष्यति हि एतत् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३५/५१) भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३६/५१) यत् उच्यते अर्थात् प्रकरणात् वा इति तत् न ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३७/५१) किम् कारणम् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३८/५१) एकवाक्यभावात् एव लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-३९/५१) आतः च एकवाक्यभावात् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४०/५१) अङ्ग हि भवान् ग्राम्यम् पांसुलपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु अनयोः पूलयोः कटम् कुरु ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४१/५१) अनयोः मित्पिण्डयोः घटम् कुरु इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४२/५१) एकम् एव असौ करिष्यति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४३/५१) कथम् यत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४४/५१) रदाभ्याम् निष्ठातः नः पूर्वस्य च दः ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४५/५१) उभौ साभ्यासस्य इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४६/५१) इह तावत् रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति द्वे वाक्ये ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४७/५१) कथम् ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४८/५१) योगविभागः करिष्यते ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-४९/५१) रदाभ्याम् निष्ठातः नः ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-५०/५१) ततः पूर्वस्य च दः इति ।

(पा-६,१.८४.१; अकि-३,५६.२-५७.६; रो-४,३९६-३९८; भा-५१/५१) इह उभौ साभ्यासस्य इति उभौग्रहणसामर्थ्यात् द्वौ आदेशौ भविष्यतः ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१/५९) तत्र अवयवे शास्त्रार्थसम्प्रत्ययः यथा लोके टत्र अवयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति यथा लोके ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२/५९) तत् यथा लोके ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३/५९) वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४/५९) तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति सकृत् उपनीय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५/५९) तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति सकृत् उपस्पृश्य कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-६/५९) एवम् इह अपि खट्वेन्द्रे कृतः शास्त्रार्थः इति कृत्वा मालेन्द्रादिषु न स्यात् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-७/५९) सिद्धम् तु धर्मोपदेशने अनवयवविज्ञानात् यथा लौकिकवैदिकेषु ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-८/५९) सिद्धम् एतत् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-९/५९) कथम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१०/५९) धर्मोपदेशनम् इदम् शास्त्रम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-११/५९) धर्मोपदेशने च अस्मिन् शास्त्रे अनवयवेन शास्त्रार्थः सम्प्रतीयते यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१२/५९) लोके तावत् ॒ ब्राह्मणः न हन्तव्यः ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१३/५९) सुरा न पेया इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१४/५९) ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१५/५९) यदि च अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् च ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१६/५९) तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति पूर्ववयोमात्रम् प्रत्युत्थीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१७/५९) यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् पूर्ववयसम् प्रत्युत्थाय अन्यत्र कामचारः स्यात् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१८/५९) तथा वेदे खलु अपि ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-१९/५९) वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२०/५९) यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् सकृत् इष्ट्वा पुनः इज्या न प्रवर्तेत ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२१/५९) उभयथा इह लोके दृश्यते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२२/५९) अवयवेन अपि शास्त्रार्थसम्प्रत्ययः अनवयवेन अपि ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२३/५९) कथम् पुनः इदम् उभयम् लभ्यम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२४/५९) लभ्यम् इति आह ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२५/५९) कथम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२६/५९) इह तावत् वसन्ते ब्राह्मणः अग्नीन् आदधीत इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२७/५९) अग्न्याधानम् यज्ञमुखप्र्तिपत्त्यर्थम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२८/५९) सकृत् आधाय कृतः शास्त्रार्थः प्रतिपन्नम् यज्ञम् इति कृत्वा पुनः प्रवृत्तिः न भवति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-२९/५९) अतः अत्र अवयवेन शास्त्रार्थः सम्प्रतीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३०/५९) तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३१/५९) उपनयनम् संस्कारार्थम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३२/५९) सकृत् च असौ उपनीतः संस्कृतः भवति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३३/५९) अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३४/५९) तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३५/५९) उपस्पर्शनम् शौचार्थम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३६/५९) सकृत् च असौ उपस्पृश्य शुचिः भवति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३७/५९) अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३८/५९) इह इदानीम् ब्राह्मणः न हन्तव्यः ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-३९/५९) सुरा न पेया इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४०/५९) ब्राह्मणवधे सुरापाने च महान् दोषः उक्तः ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४१/५९) सः ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४२/५९) अतः अत्र अनवयवेन शास्त्रार्थः सम्प्रतीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४३/५९) तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४४/५९) पूर्ववयसः अप्रत्युत्थाने दोषः उक्तः प्रत्युत्थाने च गुणः ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४५/५९) कथम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४६/५९) ऊर्ध्वम् प्राणाः हि उत्क्रामन्ति यूनः स्थविरे आयति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४७/५९) प्रत्युत्थानाभाभिवादाभ्याम् पुनः तान् प्रतिपद्यते इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४८/५९) सः च प्रूर्ववयोमात्रे प्रसक्तः ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-४९/५९) अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५०/५९) तथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति इज्यायाः किम् चित् प्रयोजनम् उक्तम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५१/५९) किम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५२/५९) स्वर्गे लोके अप्सरसः एनम् जायाः भूत्वा उपशेरते इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५३/५९) तत् च द्वितीयस्याः तृतीयस्याः च इज्यायाः भवितुम् अर्हति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५४/५९) अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५५/५९) तथा शब्दस्य अपि ज्ञाने प्रयोगे प्रयोजनम् उक्तम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५६/५९) किम् ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५७/५९) एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५८/५९) यदि एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति किमर्थम् द्वितीयः तृतीयः च प्रयुज्यते ।

(पा-६,१.८४.२; अकि-३,५७.७-५८.१७; रो-४,३९९-४०२; भा-५९/५९) न वै कामानाम् तृप्तिः अस्ति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१/२३) अथ पूर्वग्रहणम् किमर्थम् ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-२/२३) पूर्वपरग्रहणम् परस्य आदेशप्रतिषेधार्थम् ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-३/२३) पूर्वपरग्रहणम् क्रियते परस्य आदेशप्रतिषेधार्थम् ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-४/२३) परस्य आदेशः मा भूत् ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-५/२३) आत् गुणः इति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-६/२३) कथम् च प्राप्नोति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-७/२३) पञ्चमीनिर्दिष्टात् हि परस्य ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-८/२३) पञ्चमीनिर्दिष्टात् हि परस्य कार्यम् उच्यते ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-९/२३) तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१०/२३) षष्ठीनिर्दिष्टार्थम् तु ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-११/२३) षष्ठीनिर्दिष्टार्थम् च पूर्वपरग्रहणम् क्रियते ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१२/२३) षष्ठीनिर्देशः यथा पकल्पेत ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१३/२३) अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१४/२३) अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१५/२३) कस्य ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१६/२३) स्थानेयोगत्वस्य ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१७/२३) न एषः दोषः ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१८/२३) आत् इति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-१९/२३) तथा च अचि इति एषा सप्तमी आत् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-२०/२३) एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः न उभे युगपत् प्रकल्पिके भवतः इति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-२१/२३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-२२/२३) यत् उक्तम् ॒ सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रक्ल्̥प्तिः तत्र उभयकार्यप्रसङ्गः इति ।

(पा-६,१.८४.३; अकि-३,५८.१८-५९.८; रो-४,४०२-४०३; भा-२३/२३) सः न दोषः भवति ।