व्याकरणमहाभाष्य खण्ड 64

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१/७७) ओतः तिङि प्रतिषेधः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२/७७) ओतः तिङि प्रतिषेधः वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३/७७) अचिनवम् , असुनवम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४/७७) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५/७७) न वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६/७७) गोग्रहणम् करिष्यते ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७/७७) आ गोतः इति वक्तव्यम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-८/७७) गोग्रहणे द्योः उपसङ्ख्यनम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-९/७७) गोग्रहणे द्योः उपसङ्ख्यनम् कर्तव्यम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१०/७७) द्यम् गच्छ ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-११/७७) समासात् च प्रतिषेधः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१२/७७) समासात् च प्रतिषेधः वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१३/७७) चित्रगुम् पश्य ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१४/७७) शबलगुम् पश्य ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१५/७७) ननु च आ ओतः इति उच्यमाने अपि समासात् प्रतिषेधः वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१६/७७) न वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१७/७७) ह्रस्वत्वे कृते न भविष्यति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१८/७७) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-१९/७७) आत्वम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२०/७७) परत्वात् आत्वम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२१/७७) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२२/७७) न वा वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२३/७७) किम् कारणम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२४/७७) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२५/७७) बहिरङ्गलक्षणम् आत्वम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२६/७७) अन्तरङ्गम् ह्रस्वत्वम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२७/७७) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२८/७७) ननु च आ गोतः इति उच्यमाने अपि समासात् प्रतिषेधः न वक्तव्यः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-२९/७७) कथम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३०/७७) ह्रस्वत्वे कृते न भविष्यति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३१/७७) स्थानिवद्भावात् प्राप्नोति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३२/७७) ननु च आ ओतः इति उच्यमाने अपि स्थानिवद्भावात् प्राप्नोति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३३/७७) न इति आह ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३४/७७) अनल्विधौ स्थानिवद्भावः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३५/७७) आ गोतः इति उच्यमाने अपि न दोषः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३६/७७) प्रतिषिध्यते अत्र स्थानिवद्भावः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३७/७७) गोः पूर्वणित्वात्वस्वरेषु स्थानिवत् न भवति इति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३८/७७) सः एव तर्हि दोषः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-३९/७७) गोग्रहणे द्योः उपसङ्ख्यनम् इति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४०/७७) सूत्रम् च भिद्यते ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४१/७७) यथान्यासम् एव अस्तु ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४२/७७) ननु च उक्तम् ओतः तिङि प्रतिषेधः इति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४३/७७) सुबधिकारात् सिद्धम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४४/७७) सुपि इति वर्तते ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४५/७७) क्व प्रकृतम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४६/७७) वा सुपि आपिशलेः इति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४७/७७) यदि अनुवर्तते इह अपि विभाषा प्राप्नोति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४८/७७) सुब्ग्रहणम् अनुवर्तते ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-४९/७७) वाग्रहणम् निवृत्तम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५०/७७) कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५१/७७) एकयोगे च एकदेशानुवृत्तिः अन्यत्र अपि ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५२/७७) एकयोग्निर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५३/७७) अन्यत्र अपि ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५४/७७) न अवश्यम् इह एव ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५५/७७) क्व अन्यत्र ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५६/७७) अलुगधिकारः प्राक् आनङः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५७/७७) उत्तरपदाहिकारः प्राक् अङ्गाधिकारः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५८/७७) एवम् अपि अमि उपसङ्ख्यानम् वृद्धिबलीयस्त्वात् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-५९/७७) अमि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६०/७७) गाम् पश्य ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६१/७७) किम् पुनः कारणम् न सिध्यति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६२/७७) वृद्धिबलीयस्त्वात् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६३/७७) परत्वात् वृद्धिः प्राप्नोति ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६४/७७) न वा अनवकाशत्वात् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६५/७७) न वा वक्तव्यम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६६/७७) किम् कारणम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६७/७७) अनवकाशत्वात् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६८/७७) अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-६९/७७) सावकाशम् आत्वम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७०/७७) कः अवकाशः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७१/७७) द्याम् गच्छ ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७२/७७) द्योः च सर्वनामस्थाने वृद्धिविधिः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७३/७७) द्योः च सर्वनामस्थाने वृद्धिः विधेया ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७४/७७) किम् प्रयोजनम् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७५/७७) यत् द्यावः इन्द्र इति दर्शनात् ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७६/७७) यत् द्यवः इन्द्र ते शतं शतम् भुमीः उत स्युः ।

(पा-६,१.९३; अकि-३,७३.१६-७५.८; रो-४,४३१-४३३; भा-७७/७७) यावता च इदानीम् द्योः अपि सर्वनामस्थाने वृद्धिः उच्यते अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१/३१) पररूपप्रकरणे तुन्वोः वि निपाते उपसङ्ख्यानम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२/३१) पररूपप्रकरणे तु , नु, इति एतयोः वकारादौ निपाते उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-३/३१) तु वै त्वै , नु वै न्वै ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-४/३१) वकारादौ इति किमर्थम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-५/३१) त्वावत् , न्वावत् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-६/३१) निपाते इति किमर्थम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-७/३१) तु वानि , नु वानि ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-८/३१) न वा निपातैकत्वात् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-९/३१) न वा कर्तव्यम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१०/३१) किम् कारणम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-११/३१) निपातैकत्वात् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१२/३१) एकः एव अयम् निपातः ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१३/३१) त्वै , न्वै ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१४/३१) एवे च अनियोगे ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१५/३१) एवे च अनियोगे पररूपम् वक्तव्यम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१६/३१) इह एव , इहेव ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१७/३१) अद्येव ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१८/३१) अनियोगे इति किमर्थम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-१९/३१) इहैव भव म स्म गाः ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२०/३१) अत्रैव त्वम् इह वयम् सुशेवाः ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२१/३१) शकन्ध्वादिषु च ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२२/३१) शकन्ध्वादिषु च पररूपम् वक्तव्यम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२३/३१) शक-अन्धुः शकन्धुः , कुल-अटा , कुलटा , सीम-अन्तः सीमन्तः ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२४/३१) केशेषु इति वक्तव्यम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२५/३१) यः हि सीम्नः अन्तः सीमान्तः सः भवति ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२६/३१) ओत्वोष्ठयोः समासे वा । ओत्वोष्ठयोः समासे वा पररूपम् वक्तव्यम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२७/३१) स्थूलौतुः , स्थूलोतुः ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२८/३१) बिम्बौष्थी , बिम्बोष्ठी ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-२९/३१) एमनादिषु छन्दसि ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-३०/३१) एमनादिषु छन्दसि पररूपम् वक्तव्यम् ।

(पा-६,१.९४; अकि-३,७५.१०-७६.५; रो-४,४३४-४३५; भा-३१/३१) अपम् त्वेमन् सादयामि अपम् तोदयन् सादयामि इति ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१/१७) किमर्थः चकारः ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-२/१७) एङि इति अनुकृष्यते ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-३/१७) किम् प्रयोजनम् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-४/१७) इह मा भूत् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-५/१७) अद्य आ ऋश्यात् , अद्यार्श्यात् , कदार्श्यात् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-६/१७) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-७/१७) अद्यर्श्यात् इति एव भवितव्यम् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-८/१७) एवम् हि सौनागाः पठन्ति ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-९/१७) चः अनर्थकः अनधिकारात् एङः ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१०/१७) उस्योमाङ्क्षु आटः प्रतिषेधः ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-११/१७) उसि पररूपे ओमाङोः च आटः प्रतिषेधः वक्तव्यः ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१२/१७) औस्रीयत् , औढीयत् , औङ्कारीयत् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१३/१७) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१४/१७) न वक्तव्यः ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१५/१७) उक्तम् आतः च इति अत्र चकारस्य प्रयोजनम् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१६/१७) वृद्धिः एव यथा स्यात् ।

(पा-६,१.९५; अकि-३,७६.८-१४; रो-४,४३५; भा-१७/१७) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-१/१३) अपदान्तात् इति किमर्थम् ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-२/१३) का , उस्रा , कोस्रा ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-३/१३) अपदान्तात् इति शक्यम् अकर्तुम् ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-४/१३) कस्मात् न भवति का , उस्रा , कोस्रा ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-५/१३) अर्थवद्ग्रहणे न अनर्थकस्य इति ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-६/१३) न एषा परिभाषा इह शक्या विज्ञातुम् ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-७/१३) इह हि दोषः स्यात् ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-८/१३) भिन्द्या-उस् , भिन्द्युः , छिन्द्या-उस्, छिन्द्युः ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-९/१३) एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-१०/१३) उत्तरार्थम् तर्हि अपदान्तग्रहणम् कर्तव्यम् ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-११/१३) अतः गुणे अपदान्तात् यथा स्यात् ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-१२/१३) इह मा भूत् ।

(पा-६,१.९६; अकि-३,७६.१६-२१; रो-४,४३६; भा-१३/१३) दण्डाग्रम् , क्षुपाग्रम् इति ।

(पा-६,१.९८; अकि-३,७७.२-३; रो-४,४३६; भा-१/५) इतौ अनेकाज्ग्रहणम् श्रदर्थम् ।

(पा-६,१.९८; अकि-३,७७.२-३; रो-४,४३६; भा-२/५) इतौ अनेकाज्ग्रहणम् कर्तव्यम् ।

(पा-६,१.९८; अकि-३,७७.२-३; रो-४,४३६; भा-३/५) किम् प्रयोजनम् ।

(पा-६,१.९८; अकि-३,७७.२-३; रो-४,४३६; भा-४/५) श्रदर्थम् ।

(पा-६,१.९८; अकि-३,७७.२-३; रो-४,४३६; भा-५/५) श्रत् इति ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-१/९) नित्यम् आम्रेडिते डाचि ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-२/९) नित्यम् आम्रेडिते डाचि पररूपम् कर्तव्यम् ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-३/९) पटपटायति ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-४/९) अकारन्तात् अनुकरणात् वा ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-५/९) अथ वा अकारान्तम् एतद् उदाहरणम् ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-६/९) भवेत् सिद्धम् यदा अकारान्तम् ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-७/९) यदा तु खलु अच्छब्दान्तम् तदा न सिध्यति ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-८/९) विचित्राः तद्धितवृत्तयः ।

(पा-६,१.९९; अकि-३,७७.५-९; रो-४,४३७; भा-९/९) न अतः तद्धितः उत्पद्यते ।

(पा-६,१.१०१; अकि-३,७७.११-४; रो-४,४३७; भा-१/६) सवर्णदीर्घत्वे ऋति ऋवावचनम् ।

(पा-६,१.१०१; अकि-३,७७.११-४; रो-४,४३७; भा-२/६) सवर्णदीर्घत्वे ऋति ऋ वा भवति इति वक्तव्यम् ।

(पा-६,१.१०१; अकि-३,७७.११-४; रो-४,४३७; भा-३/६) होतृ ऋकारः , होतृ̄कारः ।

(पा-६,१.१०१; अकि-३,७७.११-४; रो-४,४३७; भा-४/६) लृति लृवावचनम् ।

(पा-६,१.१०१; अकि-३,७७.११-४; रो-४,४३७; भा-५/६) लृति ल्̥ वा भवति इति वक्तव्यम् ।

(पा-६,१.१०१; अकि-३,७७.११-४; रो-४,४३७; भा-६/६) होतृ ल्̥कारः , होत्ल्ल्̥̄कारः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१/४०) प्रथम्योः इति उच्यते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२/४०) कयोः इह प्रथम्योः ग्रहणम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३/४०) किम् विभक्त्योः आहोस्वित् प्रत्यययोः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-४/४०) विभक्त्योः इति आह ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-५/४०) कथम् ज्ञायते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-६/४०) अचि इति वर्तते न च अजादौ प्रथमौ प्रत्ययौ स्तः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-७/४०) ननु च एवम् विज्ञायते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-८/४०) अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-९/४०) यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१०/४०) अथ वा सुपि इति वर्तते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-११/४०) अथम् किमर्थम् पूर्वसवर्णदीर्घः अमि पूर्वत्वम् च उच्यते न प्रथम्योः पूर्वसवर्णः इति एव सिद्धम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१२/४०) न सिध्यति ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१३/४०) प्रथम्योः पूर्वसवर्णः इति उच्यमाने अमि अपि दीर्घः प्राप्नोति ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१४/४०) वृक्षम् , प्लक्षम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१५/४०) न एषः दोषः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१६/४०) यत् पूर्वस्मिन् योगे दीर्घग्रहणम् तत् उत्तरत्र निवृत्तम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१७/४०) एवम् अपि इदम् इह पूर्वसवर्णग्रहणम् क्रियते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१८/४०) तेन अमि अपि पूर्वसवर्णः प्रसज्येत ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-१९/४०) वृक्षम् , प्लक्षम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२०/४०) द्विमात्रः प्राप्नोति ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२१/४०) न एषः दोषः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२२/४०) सवर्णग्रहणम् न करिष्यते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२३/४०) यदि सवर्णग्रहणम् न क्रियते कुतः व्यवस्था ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२४/४०) आन्तर्यतः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२५/४०) यदि एवम् अग्नी वायू त्रिमात्रः प्राप्नोति वृक्षम् , प्लक्षम् द्विमात्रः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२६/४०) तस्मात् सवर्णग्रहणम् कर्तव्यम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२७/४०) तस्मिन् च क्रियमाणे दीर्घग्रहणम् अनुवर्तते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२८/४०) तस्मिन् अनुवर्तमाने अमि पूर्वः इति अपि वक्तव्यम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-२९/४०) अथ किमर्थम् पृथक् उच्यते न इह एक एव उच्येत ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३०/४०) प्रथमयोः पूर्वसवर्णः अमि च इति ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३१/४०) यदि प्रथमयोः पूर्वसवर्णदीर्घः अमि च इति उच्यते तन अमि अपि दीर्घः प्रसज्येत ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३२/४०) वृक्षम् , प्लक्षम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३३/४०) न एषः दोषः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३४/४०) दीर्घग्रहणम् निवर्तयिष्यते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३५/४०) एवम् अपि पूर्वसवर्णः प्रसज्येत ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३६/४०) सवर्णग्रहणम् न करिष्यते ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३७/४०) यदि सवर्णग्रहणम् न क्रियते पूर्वस्मिन् योगे विप्रतिषिद्धम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३८/४०) यदि पूर्वः न दीर्घः अथ दीर्घः न पूर्वः ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-३९/४०) पूर्वः दीर्घः च इति विप्रतिषिद्धम् ।

(पा-६,१.१०२.१; अकि-३,७८.२-१९; रो-४,४३८-४४१; भा-४०/४०) तस्मात् उभयम् आरब्धव्यम् पृथक् च कर्तव्यम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१/१०७) प्रथमयोः इति योगविभागः सवर्णदीर्घार्थः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२/१०७) प्रथमयोः इति योगविभागः कर्तव्यः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३/१०७) प्रथमयोः एकः सवर्णदीर्घः भवति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४/१०७) ततः पूर्वसवर्णः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५/१०७) पूर्वसवर्णदीर्घः भवति एकः प्रथमयोः इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६/१०७) किमर्थः योगविभागः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७/१०७) सवर्णदीर्घत्वम् यथा स्यात् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८/१०७) एकयोगे हि जश्शहोः पररूपप्रसङ्गः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९/१०७) एकयोगे हि सति जश्शहोः पररूपम् प्रसज्येत ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०/१०७) वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-११/१०७) ननु च पूर्वसवर्णदीर्घत्वम् पररूपम् बाधिष्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१२/१०७) न उत्सहते बाधितुम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१३/१०७) किम् कारणम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१४/१०७) आद्गुणयणादेशयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् पररूपम् स्वरसन्धिषु ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१५/१०७) आद्गुणयणादेशौ उत्सर्गौ ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१६/१०७) तयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् सर्वेषाम् पररूपम् अपवादः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१७/१०७) तत् सर्वबाधकम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१८/१०७) सर्वबाधकत्वात् प्राप्नोति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१९/१०७) अथ क्रियमाणे अपि योगविभागे यावता पररूपम् अपवादः कस्मात् एव न बाधते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२०/१०७) योगविभागः अन्यशास्त्रनिवृत्तियर्थः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२१/१०७) योगविभागः अन्यशास्त्रनिवृत्तियर्थः विज्ञायते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२२/१०७) योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः । योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः भवति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२३/१०७) वृक्षम् , प्लक्षम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२४/१०७) यथा एव हि योगविभागः पररूपम् बाधते एवम् अमि पूर्वत्वम् अपि बाधेत ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२५/१०७) नकाराभावः च तस्मात् इति अनन्तरनिर्देशात् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२६/१०७) नत्वस्य च अभावः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२७/१०७) वृक्षान् , प्लक्षान् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२८/१०७) किम् कारणम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-२९/१०७) च तस्मात् इति अनन्तरनिर्देशात् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३०/१०७) तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३१/१०७) किम् पुनः कारणम् तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३२/१०७) इह मा भूत् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३३/१०७) एतान् गाः पश्य [ऋ॒ एतान् गाः चतुरः बलिवर्दान् पश्य] इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३४/१०७) अस्तु तर्हि एकयोगः एव ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३५/१०७) ननु च उक्तम् एकयोगे हि जश्शहोः पररूपप्रसङ्गः इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३६/१०७) न एषः दोषः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३७/१०७) इज्ग्रहणम् तु ज्ञापकम् पररूपाभावस्य ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३८/१०७) यत् अयम् न आत् इचि इति इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-३९/१०७) कथम् कृत्वा ज्ञापकम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४०/१०७) इज्ग्रहणस्य इदम् प्रयोजनम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४१/१०७) इह मा भूत् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४२/१०७) वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४३/१०७) यदि च जश्शसोः पररूपम् स्यात् इज्ग्रहणम् अनर्थकम् स्यात् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४४/१०७) पश्यति तु आचार्यः न जश्शसोः पररूपम् भवति इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४५/१०७) ततः इज्ग्रहणम् करोति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४६/१०७) न एतत् अस्ति ज्ञापकम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४७/१०७) उत्तरार्थम् एतत् स्यात् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४८/१०७) दीर्घात् जसि च इचि च इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-४९/१०७) यदि उत्तरार्थम् एतत् स्यात् अत्र एव अयम् इज्द्ग्रहणम् कुर्वीत ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५०/१०७) इह अपि तर्हि क्रियमाणम् यदि उत्तरार्थम् न ज्ञापकम् भवति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५१/१०७) एवम् तर्हि यदि उत्तरार्थम् एतत् स्यात् न एव अयम् इज्द्ग्रहणम् कुर्वीत न अपि जस्ग्रहणम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५२/१०७) एतावत् अयम् ब्रूयात् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५३/१०७) दीर्घात् शसि पूर्वसवर्णः भवति इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५४/१०७) तत् नियमार्थम् भविष्यति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५५/१०७) दीर्घात् शसि एव न अन्यत्र इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५६/१०७) सः अयम् एवम् लघीयसा न्यासेन सिद्धे यत् इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५७/१०७) अथ वा पुनः अस्तु योगविभागः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५८/१०७) ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-५९/१०७) न एषः दोषः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६०/१०७) अमि अपि योगविभागः करिष्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६१/१०७) अमि ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६२/१०७) अमि यत् उक्तम् तत् न भवति इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६३/१०७) ततः पूर्वः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६४/१०७) पूर्वः च भवति अमि इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६५/१०७) यत् अपि उच्यते नकाराभावः च तस्मात् इति अनन्तरनिर्देशात् इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६६/१०७) कः पुनः अर्हति तस्मात् इति अनेन अनन्तरम् योगम् प्रतिनिर्देष्टुम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६७/१०७) एवम् किल प्रतिनिर्दिश्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६८/१०७) तस्मात् पूर्वसवर्णदीर्घात् इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-६९/१०७) तत् च न ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७०/१०७) एवम् प्रतिनिर्दिश्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७१/१०७) तस्मात् अकः सवर्णात् इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७२/१०७) अथ वा तस्मात् प्रथम्योः दीर्घात् इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७३/१०७) अथ वा पुनः अस्तु अमि एकयोगः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७४/१०७) ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७५/१०७) न एषः दोषः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७६/१०७) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् योगविभागः पररूपम् बाधिष्यते अमि पूर्वत्वम् न बाधिष्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७७/१०७) यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति न अर्थः एकेन अपि योगविभागेन ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७८/१०७) पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् पररूपम् सवर्णदीर्घत्वम् बाधिष्यते प्रथमयोः पूर्वसवर्णदीर्घत्वम् न बाधिष्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-७९/१०७) अथ वा सप्तमे योगविभागः करिष्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८०/१०७) इदम् अस्ति अतः दीर्घः यञि सुपि च इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८१/१०७) ततः वक्ष्यामि बहुवचने ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८२/१०७) बहुवचने च अतः दीर्घः भवति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८३/१०७) एकारः च भवति बहुवचने झलि इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८४/१०७) इह अपि तर्हि प्राप्नोति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८५/१०७) वृषाणाम् , प्लक्षाणाम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८६/१०७) तत्र कः दोषः ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८७/१०७) दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८८/१०७) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-८९/१०७) दीर्घत्वम् क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९०/१०७) परत्वात् दीर्घत्वम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९१/१०७) नित्यम् खलु अपि दीर्घत्वम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९२/१०७) कृते अपि नुटि प्राप्नोति अकृते अपि ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९३/१०७) नित्यत्वात् परत्वात् च दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९४/१०७) एवम् तर्हि आद्ग्रहणम् इह अपि प्रकृतम् अनुवर्तते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९५/१०७) क्व प्रकृतम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९६/१०७) आत् जसेः असुक् इति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९७/१०७) तेन कृते अपि दीर्घत्वे नुट् भविष्यति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९८/१०७) इह अपि तर्हि प्राप्नोति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-९९/१०७) कीलालपाम् , शुभंयाम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१००/१०७) आतः लोपः अत्र बाधकः भविष्यति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०१/१०७) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०२/१०७) लोपः क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०३/१०७) परत्वात् नुट् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०४/१०७) एवम् तर्हि ह्रस्वनद्यापः नुट् इति अत्र आतः धातोः इति आतः लोपः सम्बन्धम् अनुवर्तिष्यते ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०५/१०७) इह अपि तर्हि प्राप्नोति ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०६/१०७) कीलालपानाम् ब्राह्मणकुलानाम् ।

(पा-६,१.१०२.२; अकि-३,७८.२०-८०.२१; रो-४,४४१-४४६; भा-१०७/१०७) नपुंसकस्य न इति अनुवर्तिष्यते ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१/२६) किम् इदम् नत्वम् पुंसाम् बहुत्वे भवति आहोस्वित् पुंशब्दात् बहुषु ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२/२६) कः च अत्र विशेषः ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-३/२६) नत्वम् पुंसाम् बहुत्वे चेत् पुंशब्दात् इष्यते स्त्रियाम् ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-४/२६) तत् न सिध्यति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-५/२६) भ्रूकुंसान् पश्य इति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-६/२६) नपुंसके तथा एव इष्टम् ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-७/२६) तत् न सिध्यति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-८/२६) षण्ढान् पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-९/२६) पण्डकान् पश्य इति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१०/२६) स्त्रीशब्दात् च प्रसज्यते । स्त्रीशब्दात् च प्राप्नोति ॒ चञ्चाः पश्य , वध्रिकाः पश्य , खरकुटीः पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-११/२६) अस्तु तर्हि पुंशब्दात् बहुषु ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१२/२६) पुंशबात् इति चेत् इष्टम् स्थूरापत्यम् न सिध्यति । स्थूरान् पश्य इति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१३/२६) कुण्डिन्याः अररकायाः ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१४/२६) अपत्यम् च न सिध्यति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१५/२६) कुण्डिनान् पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१६/२६) अररकान् पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१७/२६) पुंस्प्राधान्यात् प्रसिध्यति । पुंस्प्रधाना एते शब्दाः ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१८/२६) ततः नत्वम् भविष्यति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-१९/२६) पुंस्प्राधान्ये ते एव स्युः ये दोषाः पूर्वचोदिताः ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२०/२६) भ्रूकुंसान् पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२१/२६) षण्ढान् पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२२/२६) पण्डकान् पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२३/२६) चञ्चाः पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२४/२६) वध्रिकाः पश्य ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२५/२६) खरकुटीः पश्य इति ।

(पा-६,१.१०३; अकि-३,८०.२३-८१.१९; रो-४,४४६-४४८; भा-२६/२६) तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः तम् आस्थाय प्रतिविधेयम् दोषेषु ।

(पा-६,१.१०७; अकि-३,८१.२१-२२; रो-४,४४८; भा-१/५) वा छन्दसि इति एव ।

(पा-६,१.१०७; अकि-३,८१.२१-२२; रो-४,४४८; भा-२/५) यमीम् च यम्यम् च ।

(पा-६,१.१०७; अकि-३,८१.२१-२२; रो-४,४४८; भा-३/५) शमीम् च शम्यम् च ।

(पा-६,१.१०७; अकि-३,८१.२१-२२; रो-४,४४८; भा-४/५) गरुईम् च गौर्यम् च ।

(पा-६,१.१०७; अकि-३,८१.२१-२२; रो-४,४४८; भा-५/५) किशोरीम् च किशोर्यम् च ।

(पा-६,१.१०८.१; अकि-३,८२.२; रो-४,४४८; भा-१/३) वा छन्दसि इति एव ।

(पा-६,१.१०८.१; अकि-३,८२.२; रो-४,४४८; भा-२/३) मित्रावरुणौ यज्यमानः ।

(पा-६,१.१०८.१; अकि-३,८२.२; रो-४,४४८; भा-३/३) मित्रावरुणौ इज्यमानः ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१/२९) सम्प्रसारणात् पूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधार्थम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२/२९) सम्प्रसारणात् पूर्वत्वे समानाङ्गग्रहणम् कर्तव्यम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-३/२९) किम् प्रयोजनम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-४/२९) असमानाङ्गप्रतिषेधार्थम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-५/२९) असमानाङ्गस्य मा भूत् इति ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-६/२९) शकह्वर्थम् , परिव्यर्थम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-७/२९) सिद्धम् असम्प्रसारणात् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-८/२९) सिद्धम् एतत् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-९/२९) कथम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१०/२९) असम्प्रसारणात् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-११/२९) वाक्यस्य सम्प्रसारणसञ्ज्ञा न वर्णस्य ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१२/२९) अथ वर्णस्य सम्प्रसारणसञ्ज्ञायाम् दोषः एव ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१३/२९) वर्णस्य च सम्प्रसारणसञ्ज्ञायाम् न दोषः ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१४/२९) कथम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१५/२९) अन्यः अयम् सम्प्रसारणासम्प्रसारणयोः स्थाने एकः आदिश्यते ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१६/२९) कार्यकृतत्वात् वा ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१७/२९) अथ वा सकृत् कृतम् पूर्वत्वम् इति कृत्वा पुनः न भविष्यति ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१८/२९) तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-१९/२९) विषमः उपन्यासः ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२०/२९) युक्तम् यत् तस्य पुनः प्रवृत्तिः न भवति ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२१/२९) यः तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२२/२९) तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२३/२९) तस्मात् पूर्वोक्तः एव परिहारः सिद्धम् असम्प्रसारणात् इति ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२४/२९) यदि तर्हि न इदम् सम्प्रसारणम् हूतः इति दीर्घत्वम् न प्राप्नोति ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२५/२९) दीर्घत्वम् वचनप्रामाण्यात् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२६/२९) अनवकाशम् दीर्घत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२७/२९) तत् वचनप्रामाण्यात् भविष्यति ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२८/२९) अन्तवत्त्वात् वा ।

(पा-६,१.१०८.२; अकि-३,८२.३-२०; रो-४,४४९-४५०; भा-२९/२९) अथ वा पूर्वस्य कार्यम् प्रति अन्तवत् भवति इति दीर्घत्वम् भविष्यति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१/१०३) आटः वृद्धेः इयङ् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२/१०३) आटः वृद्धिः भवति इति एतस्मात् इयङ् भवति विप्रतिषेधेन ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३/१०३) आटः वृद्धिः भवति इति अस्य अवकाशः ऐक्षिष्ट , ऐहिष्ट ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४/१०३) इयङः अवकाशः ॒ अधीयाते , अधीयते ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५/१०३) इह उभयम् प्राप्नोति ॒ अध्यैयाताम् अध्यैयत ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६/१०३) इयङादेशः भवति विप्रतिषेधेन ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७/१०३) न एषः युक्तः विप्रतिषेधः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८/१०३) अन्तरङ्गा आटः वृद्धिः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९/१०३) का अन्तरङ्गता ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१०/१०३) वर्णौ आश्रित्य आटः वृद्धिः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-११/१०३) अङ्गस्य इयङ् आदेशः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१२/१०३) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१३/१०३) आट् क्रियताम् इयङादेशः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१४/१०३) परत्वात् इयङ् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१५/१०३) नित्यः आट् आगमः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१६/१०३) कृते अपि इयङि प्राप्नोति अकृते अपि ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१७/१०३) इयङ् अपि नित्यः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१८/१०३) कृते अपि आटि प्राप्नोति अकृते अपि ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१९/१०३) अनित्यः इयङ् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२०/१०३) न हि कृते आति प्राप्नोति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२१/१०३) किम् कारणम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२२/१०३) अन्तरङ्गा आटः वृद्धिः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२३/१०३) यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२४/१०३) न च अत्र आत् एव इयङः निमित्तम् विहन्ति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२५/१०३) अवश्यम् लक्षणान्तरम् आटः वृद्धिः प्रतीक्ष्या ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२६/१०३) उभयोः नित्ययोः परत्वात् इयङ् आदेशः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२७/१०३) आत् गुणात् सवर्णदीर्घत्वम् आङभ्यासयोः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२८/१०३) आत् गुणात् सवर्णदीर्घत्वम् भवति विप्रतिषेधेन ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-२९/१०३) क्व ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३०/१०३) आङभ्यासयोः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३१/१०३) आत् गुणस्य अवकाशः ॒ खट्वेन्द्रः , खट्वोदकम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३२/१०३) सवर्णदीर्घत्वस्य अवकाशः ॒ दण्डाग्रम् , क्षुपाग्रम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३३/१०३) इह उभयम् प्राप्नोति ॒ अद्य , आ , ऊढा ॒ अद्योढा , कदा , आ , ऊढा ॒ कदोढा , उप , इ , इजतुः ॒ उपेजतुः , उप , उ , उपतुः ॒ उपोपतुः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३४/१०३) सवर्णदीर्घत्वम् भवति विप्रतिषेधेन ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३५/१०३) अभ्यासार्थेन तावत् न अर्थः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३६/१०३) अस्तु अत्र आत् गुणः अयवौ च हलादिशेषः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३७/१०३) पुनः आत् गुणः भविष्यति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३८/१०३) भवेत् सिद्धम् उपेजतुः , उपेजतुः इति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-३९/१०३) इदम् तु न सिध्यति ॒ उपोपतुः , उपोपुः इति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४०/१०३) अत्र हि आत् गुणे कृते ओदन्तः निपातः इति प्रगृह्यसञ्ज्ञा , प्रगृह्यः प्रकृत्या इति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४१/१०३) पदान्तप्रकरणे प्र्कृतिभावः न च एषः पदान्तः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४२/१०३) पदान्तभक्तः पदान्तग्रहणेन ग्राहीष्यते ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४३/१०३) एवम् तर्हि एतत् एव अत्र न अस्ति ओदन्तः निपातः इति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४४/१०३) किम् कारणम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४५/१०३) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४६/१०३) इह अपि तर्हि अद्योढा , कदोढा इति भवेत् रूपम् सिद्धम् स्यात् । स्वरे दोषः तु ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४७/१०३) स्वरे तु दोषः भवति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४८/१०३) अद्योढा* एवम् स्वरः प्रसज्येत. अद्योढा* इति च इष्यते ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-४९/१०३) आङि पररूपवचनम् च इदानीम् अनर्थकम् स्यात् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५०/१०३) न अनर्थकम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५१/१०३) ज्ञापकार्थम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५२/१०३) किम् ज्ञाप्यम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५३/१०३) आङि पररूपवचनम् तु ज्ञापकम् अन्तरङ्गबलीयस्त्वात् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५४/१०३) एतत् ज्ञापयति आचार्यः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५५/१०३) अन्तरङ्गम् बलीयः भवति इति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५६/१०३) किम् पुनः इह अन्तरङ्गम् किम् बहिरङ्गम् यावता द्वे पदे आश्रित्य सवर्णदीर्घत्वम् भवति आत् गुणः अपि ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५७/१०३) धातूपसर्गयोः यत् कार्यम् तत् अन्तरङ्गम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५८/१०३) कुतः एतत् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-५९/१०३) पूर्वम् उपसर्गस्य धातुन योगः भवति न अद्य शब्देन ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६०/१०३) किमर्थम् तर्हि अद्यशब्दः प्रयुज्यते ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६१/१०३) अद्यशब्दय्स अपि समुदायेन योगः भवति ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६२/१०३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६३/१०३) प्रयोजनम् पूर्वसवर्णपूर्वत्वतहिलोपटेनङेय्यङिस्मिन्ङिणलौत्वम् अन्तरङ्गम् बहिरङ्गलक्षणात् वर्णविकारात् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६४/१०३) पूर्वसवर्णः प्रयोजनम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६५/१०३) अग्नी अत्र , वायू अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६६/१०३) पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः आवादेशः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६७/१०३) पूर्वसवर्णदीर्घत्वम् भवति अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६८/१०३) पूर्वत्व ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-६९/१०३) शकह्वर्थम् , परिव्यर्थम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७०/१०३) पूर्वत्वम् च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७१/१०३) पूर्वत्वम् भवति अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७२/१०३) तहिलोप ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७३/१०३) अकारि अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७४/१०३) अहारि अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७५/१०३) पच इदम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७६/१०३) तहिलोपौ च प्राप्नुतः बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७७/१०३) तहिलोपौ भवतः अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७८/१०३) टेन ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-७९/१०३) वृक्षेण अत्र , प्लक्षेण अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८०/१०३) इनादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८१/१०३) इनादेशः भवति अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८२/१०३) ङेर्य ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८३/१०३) वृक्षाय अत्र , प्लक्षाय अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८४/१०३) ङेः यादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः एङः पदान्तात् अति इति पररूपत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८५/१०३) ङेः यादेशः भवति अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८६/१०३) ङिस्मिन् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८७/१०३) यस्मिन् इदम् , तस्मिन् इदम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८८/१०३) स्मिन्भावः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-८९/१०३) स्मिन्भावः भवति अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९०/१०३) ङिणलौत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९१/१०३) अग्नौ इदम् , ययौ अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९२/१०३) ङिणलौत्वम् प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९३/१०३) औत्वम् भवति अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९४/१०३) न एतानि सन्ति प्रयोजनानि ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९५/१०३) विप्रतिषेधेन अपि एतानि सिद्धानि ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९६/१०३) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९७/१०३) वृक्षाः अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९८/१०३) प्लक्षाः अत्र ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-९९/१०३) पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः रोः अप्लुतात् अप्लुते इति उत्त्वम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१००/१०३) पूर्वसवर्णः भवति अन्तरङ्गतः ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१०१/१०३) न च अवश्यम् इदम् एव प्रयोजनम् ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१०२/१०३) आद्ये योगे बहूनि प्रयोजनानि सन्ति यदर्थम् एषा परिभाषा कर्तव्या ।

(पा-६,१.१०८.२; अकि-३,८२.२१-८४.२३; रो-४,४५०-४५५; भा-१०३/१०३) प्रतिविधेयम् दोषेषु ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-१/१०) किम् इदम् ख्यत्यात् इति ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-२/१०) सखिपत्योः विकृतग्रहणम् ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-३/१०) किम् पुनः कारणम् सखिपत्योः विकृतग्रहणम् क्रियते न सखिपतिभ्याम् इति एव उच्येत ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-४/१०) न एवम् शक्यम् ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-५/१०) गरीयान् च एव हि निर्देशः स्यात् इह च प्रसज्येत ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-६/१०) अतिसखेः आगच्छामि ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-७/१०) अतिसखेः स्वम् ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-८/१०) इह च न स्यात् ॒ सखीयतेः अप्रत्ययः सख्युः , पत्युः ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-९/१०) लुनीयतेः अप्रत्ययः ।

(पा-६,१.११२; अकि-३,८४.२५-८५.३; रो-४,४५५-४५६; भा-१०/१०) लून्युः , पून्युः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१/३९) किमर्थम् अप्लुतात् अप्लुते इति उच्यते ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२/३९) प्लुतात् परस्य प्लुते वा परतः मा भूत् इति ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३/३९) प्लुतात् परस्य सुस्रोता३ अत्र नु असि ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-४/३९) प्लुते परतः तिष्ठतु पयः आ३ग्निदत्त ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-५/३९) अतः अति इति उच्यते ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-६/३९) कः प्रसङ्गः प्लुतात् परस्य प्लुते वा परतः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-७/३९) असिद्धः प्लुतः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-८/३९) तस्य असिद्धत्वात् प्राप्नोति ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-९/३९) अथ अप्लुतात् अप्लुते इति उच्यमाने यावता असिद्धः प्लुतः कस्मात् एव अत्र न प्राप्नोति ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१०/३९) अप्लुतभाविनः अप्लुतभाविनि इति एवम् एतत् विज्ञायते ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-११/३९) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१२/३९) सिद्धः प्लुतः स्वरसन्धिषु ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१३/३९) कथम् ज्ञायते ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१४/३९) यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१५/३९) सतः हि कार्यिणः कार्येण भवितव्यम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१६/३९) अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१७/३९) अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः वक्तव्यः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१८/३९) पयो३ट् , पयो३द ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-१९/३९) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२०/३९) न वा वक्तव्यः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२१/३९) किम् कारणम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२२/३९) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२३/३९) बहिरङ्गः प्लुरः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२४/३९) अन्तरङ्गम् उत्त्वम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२५/३९) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२६/३९) इह अपि तर्हि प्राप्नोति ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२७/३९) सुस्रोता३ अत्र नु असि ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२८/३९) अन्तरङ्गः अत्र प्लुतः बहिरङ्गम् उत्त्वम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-२९/३९) क्व पुनः इह अन्तरङ्गः प्लुतः क्व वा बहिरङ्गम् उत्त्वम् उत्त्वम् वा अन्तरङ्गम् प्लुतः वा बहिरङ्गः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३०/३९) वाक्यान्तस्य वाक्यादौ अन्तरङ्गः प्लुतः बहिरङ्गम् उत्त्वम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३१/३९) समानवाक्ये पदान्तस्य पदादौ उत्त्वम् अन्तरङ्गम् बहिरङ्गः प्लुतः ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३२/३९) किम् पुनः कारणम् बहिरङ्गत्वम् उत्त्वे हेतुः व्यपदिश्यते न पुनः असिद्धत्वम् अपि ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३३/३९) यथा एव हि अयम् बहिरङ्गः एवम् असिद्धः अपि ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३४/३९) एवम् मन्यते ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३५/३९) असिद्धः प्लुतः आश्रयात् सिद्धः भवति ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३६/३९) अथ वा यस्याम् न अप्राप्तायाम् परिभाषायाम् उत्त्वम् आरभ्यते सा आश्रयात् सिद्धा स्यात् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३७/३९) कस्याम् च न अप्राप्तायाम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३८/३९) असिद्धपरिभाषायाम् ।

(पा-६,१.११३; अकि-३,८५.५-२४; रो-४,४५७-४५९; भा-३९/३९) बहिरङ्गपरिभाषायाम् पुनः प्राप्तायाम् अप्राप्तायाम् च ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१/३५) कस्य अयम् प्रतिषेधः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२/३५) नान्तःपादम् इति सर्वप्रतिषेधः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-३/३५) नान्तःपादम् इति सर्वस्य अयम् प्रतिषेधः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-४/३५) कथम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-५/३५) अचि इति वर्तते ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-६/३५) अचि यत् प्राप्नोति तस्य प्रतिषेधः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-७/३५) नान्तःपादम् इति सर्वप्रतिषेधः चेत् अतिप्रसङ्गः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-८/३५) नान्तःपादम् इति सर्वप्रतिषेधः चेत् अतिप्रसङ्गः भवति ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-९/३५) इह अपि प्राप्नोति ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१०/३५) अनु अग्निः उषसाम् अग्रम् अख्यत् , प्रति अग्निः उषसाम् अग्रम् अख्यत् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-११/३५) एवम् तर्हि अति इति वर्तते ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१२/३५) अकाराश्रयम् यत् प्राप्नोति तस्य प्रतिषेधः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१३/३५) अकाराश्रयम् इति चेत् उत्त्ववचनम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१४/३५) अकाराश्रयम् इति चेत् उत्त्वम् वक्तव्यम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१५/३५) कालः अश्वः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१६/३५) शतधारः अयम् मणिः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१७/३५) अयवोः प्रतिषेधः च ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१८/३५) अयवोः च प्रतिषेधः च वक्तव्यः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-१९/३५) सुजाते अश्वसूनृते ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२०/३५) अध्वरो अद्रिभिः सुतम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२१/३५) शुक्रम् ते अन्यत् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२२/३५) एङ्प्रकरणात् सिद्धम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२३/३५) एङः अति इति वर्तते ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२४/३५) एङः अति यत् प्राप्नोति तस्य प्रतिषेधः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२५/३५) एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२६/३५) एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः वक्तव्यः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२७/३५) अग्नेः अत्र , वायोः अत्र. अतः रोः अप्लुतात् अप्लुते एङः च इति उत्त्वम् प्राप्नोति ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२८/३५) पुनः एङ्ग्रहणात् सिद्धम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-२९/३५) पुनः एङ्ग्रहणम् कर्तव्यम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-३०/३५) तत् तर्हि कर्तव्यम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-३१/३५) न कर्तव्यम् ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-३२/३५) प्रकृतम् अनुवर्तते ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-३३/३५) ननु च उक्तम् एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः इति ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-३४/३५) न एषः दोषः ।

(पा-६,१.११५; अकि-३,८६.२-२०; रो-४,४५९-४६१; भा-३५/३५) पदान्ताभिसम्बद्धम् एङ्ग्रहणम् अनुवर्तते न च एङः पदान्तात् परः रुः अस्ति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१/४२) गोः अग्वचनम् गवाग्रे स्वरसिद्ध्यर्थम् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२/४२) गोः अक् वक्तव्यः ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३/४२) किम् प्रयोजनम् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-४/४२) गवाग्रे स्वरसिद्ध्यर्थम् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-५/४२) गवाग्रे स्वरसिद्धिः यथा स्यात् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-६/४२) गवाग्रम् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-७/४२) अवङादेशे हि स्वरे दोषः ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-८/४२) अवङादेशे हि स्वरे दोषः स्यात् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-९/४२) अन्तोदात्तस्य आन्तर्यतः अन्तोदात्तः आदेशः प्रस्ज्यते ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१०/४२) कथम् पुनः अयम् अन्तोदात्तः यदा एकाच् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-११/४२) व्यपदेशिवद्भावेन ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१२/४२) यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१३/४२) तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भवति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१४/४२) सत्यम् एवम् एतत् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१५/४२) न तु इदम् लक्षणम् अस्ति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१६/४२) प्रातिपदिकस्य आदिः उदात्तः भवति इति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१७/४२) इदम् पुनः अस्ति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१८/४२) प्रातिपदिकस्य अन्तः उदात्तः भवति इति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-१९/४२) सः असौ लक्षणेन अन्तोदात्तः ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२०/४२) तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२१/४२) यदि पुनः गमेः डो विधीयेत ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२२/४२) किम् कृतम् भवति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२३/४२) प्रत्ययाद्युदात्तत्वे कृते आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२४/४२) कथम् पुनः अयम् आद्युदात्तः यदा एकाच् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२५/४२) व्यपदेशिवद्भावेन ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२६/४२) यथा एव तर्हि व्यपदेशिवद्भावेन आद्युदात्तः एवम् अन्तोदात्तः अपि ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२७/४२) तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२८/४२) सत्यम् एवम् एतत् ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-२९/४२) न तु इदम् लक्षणम् अस्ति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३०/४२) प्रत्ययस्य अन्तः उदात्तः भवति इति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३१/४२) इदम् पुनः अस्ति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३२/४२) प्रत्ययस्य आदिः उदात्तः भवति इति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३३/४२) सः असौ लक्षणेन आद्युदात्तः ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३४/४२) तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति ।एतत् अपि आदेशे न अस्ति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३५/४२) आदेशस्य आदिः उदात्तः भवति इति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३६/४२) प्रकृतितः अनेन स्वरः लभ्यः ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३७/४२) प्रकृतिः च अस्य यथा एव आद्युदात्ता एवम् अन्तोदात्ता अपि ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३८/४२) एवम् तर्हि आद्युदात्तनिपातनम् करिष्यते ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-३९/४२) सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-४०/४२) एवम् अपि उपदेशिवद्भावः वक्तयः ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-४१/४२) यथा एव निपातनस्वरः प्रकृत्स्वरस्य बाधकः एवम् समासस्वरस्य अपि ।

(पा-६,१.१२३; अकि-३,८६.२२-८७.१८; रो-४,४६१-४६३; भा-४२/४२) गवास्थि , गवाक्षि ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-१/९) इन्द्रादौ इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-२/९) गवेन्द्रयज्ञे वीहि इति ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-३/९) तत् तर्हि वक्तव्यम् ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-४/९) न वक्तव्यम् ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-५/९) न एवम् विज्ञायते इन्द्रे अचि इति ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-६/९) कथम् तर्हि ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-७/९) अचि भवति ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-८/९) कतरस्मिन् ।

(पा-६,१.१२४; अकि-३,८७.२०-२२; रो-४,४६३; भा-९/९) इन्द्रे अचि इति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१/२७) नित्यग्रहणम् किमर्थम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२/२७) विभाषा मा भूत् इति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-३/२७) म एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-४/२७) पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-५/२७) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-६/२७) प्लुतप्रगृह्याणम् अचि प्रकृतिभावः एव यथा स्यात् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-७/२७) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-८/२७) किम् च अन्यत् प्राप्नोति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-९/२७) शाकलम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१०/२७) सिन्नित्यसमासयोः शाकलप्रतिषेधम् वक्ष्यति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-११/२७) सः न वक्तव्यः भवति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१२/२७) अथ अज्ग्रहणम् किमर्थम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१३/२७) अचि प्रकृतिभावः यथा स्यात् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१४/२७) प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् अधिकारात् सिद्धम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१५/२७) प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१६/२७) किम् कारणम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१७/२७) अधिकारात् एव सिद्धम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१८/२७) अचि इति प्रकृतम् अनुवर्तते ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-१९/२७) क्व प्रकृतम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२०/२७) इकः यण् अचि इति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२१/२७) तत् तु तस्मिन् प्रकृतिभावार्थम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२२/२७) तत् तु द्वितीयम् अज्ग्रहणम् कर्तव्यम् प्रकृतिभावार्थम् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२३/२७) तस्मिन् अचि पूर्वस्य प्रकृतिभावः यथा स्यात् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२४/२७) इह मा भूत् ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२५/२७) जानु उ अस्य रुजति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२६/२७) जानू अस्य रुजति ।

(पा-६,१.१२५.१; अकि-३,८७.२४-८८.११; रो-४,४६४-४६५; भा-२७/२७) जान्व् अस्य रुजति इति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१/१८) अथ किमर्थम् प्लुतस्य प्रकृतिभावः उच्यते ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-२/१८) स्वरसन्धिः मा भूत् इति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-३/१८) उच्यमाने अपि एतस्मिन् स्वर्सन्धिः प्राप्नोति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-४/१८) प्लुते कृते न भविष्यति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-५/१८) असिद्धः प्लुतः ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-६/१८) तस्य असिद्धत्वात् प्राप्नोति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-७/१८) प्लुतप्रकृतिभाववचनम् तु ज्ञापकम् एकादेशात् प्लुतः विप्रतिषेधेन इति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-८/१८) यत् अयम् प्लुतः प्रकृत्या इति प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः एकादेशात् प्लुतः भवति विप्रतिषेधेन इति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-९/१८) एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१०/१८) एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः भवति ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-११/१८) शालायाम् इन्द्रः शालेन्द्रः ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१२/१८) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१३/१८) न वा अतिप्रसङ्गः ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१४/१८) किम् कारणम् ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१५/१८) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१६/१८) बहिरङ्गः प्लुतः ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१७/१८) अन्तरङ्गः एकादेशः ।

(पा-६,१.१२५.२; अकि-३,८७.१२-२३; रो-४,४६५-४६६; भा-१८/१८) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।