व्याकरणमहाभाष्य खण्ड 65
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-१/८) आङः अनर्थकस्य ।
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-२/८) आङः अनर्थकस्य इति वक्तव्यम् ।
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-३/८) इह मा भूत् ।
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-४/८) इन्द्रः बाहुभ्याम् आतरत् ।
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-५/८) तत् तर्हि वक्तव्यम् ।
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-६/८) न वक्तव्यम् ।
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-७/८) बहुलग्रहणात् न भविष्यति ।
(पा-६,१.१२६; अकि-३,८९.२-५; रो-४,४६६; भा-८/८) आङः अनुनासिकः छन्दसि बहुलम् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१/२६) किमर्थः चकारः ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२/२६) प्रकृत्या इति एतत् अनुकृष्यते ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-३/२६) किम् प्रयोजनम् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-४/२६) स्वरसन्धिः मा भूत् इति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-५/२६) न एतत् अस्ति प्रयोजनम् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-६/२६) ह्रस्ववचनसार्मर्थ्यात् न भविष्यति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-७/२६) भवेत् दीर्घाणाम् ह्रस्ववचनसार्मर्थ्यात् स्वरसन्धिः न स्यात् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-८/२६) ह्रस्वानाम् तु खलु स्वरसन्धिः प्राप्नोति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-९/२६) ह्रस्वानाम् अपि ह्रस्ववचनसामर्थ्यान् स्वरसन्धिः न भविष्यति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१०/२६) न ह्रस्वानाम् ह्रस्वाः प्राप्नुवन्ति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-११/२६) न हि भुक्तवान् पुनः भुङ्क्ते ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१२/२६) न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१३/२६) ननु च पुनःप्रवृत्तिः अपि दृष्टा ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१४/२६) भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१५/२६) सामर्थ्यात् तत्र पुनःप्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१६/२६) ह्रस्वाणाम् पुनः ह्रस्ववचने न किम् चित् प्रयोजनम् अस्ति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१७/२६) अकृतकारि खलु अपि शास्त्रम् अग्निवत् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१८/२६) तत् यथा अग्निः यद् अदग्धम् तत् दहति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-१९/२६) ह्रस्वाणाम् अपि ह्रस्ववचने एतत् प्रयोजनम् स्वरसन्धिः मा भूत् इति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२०/२६) कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२१/२६) तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षयति ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२२/२६) इदम् तर्हि प्रयोजनम् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२३/२६) प्लुतप्रगृह्याः अनुकृष्यन्ते ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२४/२६) इकः असवर्णे शाकल्यस्य ह्रस्वः च प्लुतप्र्गृह्याः च प्रकृत्या ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२५/२६) नित्यग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् ।
(पा-६,१.१२७.१; अकि-३,८९.७-१९; रो-४,४६७-४६८; भा-२६/२६) अन्यतरत् शक्यम् अकर्तुम् ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-१/१४) सिन्नित्यसमासयोः शाकलप्रतिषेधः ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-२/१४) सिन्नित्यसमासयोः शाकलप्रतिषेधः वक्तव्यः ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-३/१४) अयम् ते योनिः ऋत्वियः ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-४/१४) प्रजाम् विन्दाम ऋत्वियाम् ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-५/१४) वैयाकरणः , सौवश्वः ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-६/१४) नित्यग्रहणेन न अर्थः ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-७/१४) सित्समासयोः शाकलम् न भवति इति एव ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-८/१४) इदम् अपि सिद्धम् भवति ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-९/१४) वाप्याम् आस्वः , वाप्यश्वः , नद्याम् आतिः , नद्यातिः ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-१०/१४) ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-११/१४) ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् द्रष्टव्यम् ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-१२/१४) ईष अक्षः ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-१३/१४) क ईम् अरे पिशङ्गिल ।
(पा-६,१.१२७.२; अकि-३,८९.२०-९०.३; रो-४,४६८; भा-१४/१४) यथा अङ्गदः ।
(पा-६,१.१२८.१; अकि-३,९०.५-९; रो-४,४६९; भा-१/६) किमर्थम् इदम् उच्यते ।
(पा-६,१.१२८.१; अकि-३,९०.५-९; रो-४,४६९; भा-२/६) ऋति अकः सवर्णार्थम् ।
(पा-६,१.१२८.१; अकि-३,९०.५-९; रो-४,४६९; भा-३/६) सवर्णार्थः अयम् आरम्भः ।
(पा-६,१.१२८.१; अकि-३,९०.५-९; रो-४,४६९; भा-४/६) होतृ ऋश्यः ।
(पा-६,१.१२८.१; अकि-३,९०.५-९; रो-४,४६९; भा-५/६) अनिगन्तार्थम् च ।
(पा-६,१.१२८.१; अकि-३,९०.५-९; रो-४,४६९; भा-६/६) खट्व ऋश्यः , माल ऋश्यः ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-१/१३) ऋति ह्रस्वात् उपसर्गात् वृद्धिः विप्रतिषेधेन । ऋति ह्रस्वः भवति इति एतस्मात् उपसर्गात् वृद्धिः भवति विप्रतिषेधेन ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-२/१३) ऋति ह्रस्वः भवति इति एतस्य अवकाशः खट्व ऋश्यः , माल ऋश्यः ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-३/१३) उपसर्गात् वृद्धेः अवकाशः ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-४/१३) विभाषा ह्रस्वत्वम् ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-५/१३) यदा न ह्रस्वत्वम् तदा अवकाशः ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-६/१३) ह्रस्वप्रसङ्गे उभयम् प्राप्नोति ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-७/१३) उपार्ध्नोति , प्रार्ध्नोति ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-८/१३) उपसर्गात् वृद्धिः भवति विप्रतिषेधेन ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-९/१३) सः तर्हि प्रतिषेधः वक्तव्यः ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-१०/१३) न वक्तव्यः ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-११/१३) उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-१२/१३) उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् ।
(पा-६,१.१२८.२; अकि-३,९०.१०-१६; रो-४,४६९; भा-१३/१३) अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१/१८) उपस्थिते इति उच्यते ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-२/१८) किम् इदम् उपस्थितम् नाम ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-३/१८) अनार्षः इतिकरणः ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-४/१८) सुश्लोका३ इति सुश्लोकेति ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-५/१८) अथ वद्वचनम् किमर्थम् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-६/१८) वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-७/१८) वद्वचनम् क्रियते प्लुतकार्यप्रतिषेधार्थम् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-८/१८) प्लुतकार्यम् प्रतिषिध्यते ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-९/१८) त्रिमात्रता न प्रतिषिध्यते ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१०/१८) किम् च इदानीम् त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-११/१८) प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१२/१८) प्लुतप्रतिषेधे हि सति प्रगृह्यस्य अपि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१३/१८) अग्नी३ इति , वायू३ इति ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१४/१८) किम् च इदानीम् तस्याः अपि त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१५/१८) न भवितव्यम् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१६/१८) किम् कारणम् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१७/१८) अन्येन विहितत्वात् ।
(पा-६,१.१२९; अकि-३,९०.१८-९१.८; रो-४,४६९-४७०; भा-१८/१८) अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभावः उच्यते प्रगृह्यः प्रकृत्या इति ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-१/११) किमर्थम् इदम् उच्यते ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-२/११) ई३ चाक्रवर्मणस्य इति अनुपस्थितार्थम् ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-३/११) अनुपस्थितार्थः अयम् आरम्भः ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-४/११) चिनु हि३ इदम् ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-५/११) चिनु हीदम् ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-६/११) सुनु हि३ इदम् ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-७/११) सुनु हीदम् ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-८/११) ईकारग्रहणेन न अर्थः ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-९/११) अविशेषेण चाक्रवर्मणस्य आचार्यस्य अप्लुतवत् भवति इति एव ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-१०/११) इदम् अपि सिद्धम् भवति ।
(पा-६,१.१३०; अकि-३,९१.१०-१४; रो-४,४७०; भा-११/११) वश३ इयम् , वशेयम् ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-१/८) किमर्थः तकारः ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-२/८) तपरः तत्कालस्य इति तत्कलः यथा स्यात् ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-३/८) न एतत् अस्ति प्रयोजनम् ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-४/८) आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः भविष्यति ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-५/८) न सिध्यति ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-६/८) ऊठि कृते आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-७/८) तदर्थम् तपरः कृतः ।
(पा-६,१.१३१; अकि-३,९१.१६-२०; रो-४,४७१; भा-८/८) एवमर्थः तपरः क्रियते ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१/९०) कात्पूर्वग्रहणम् किमर्थम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२/९०) कात् पूर्वः यथा स्यात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३/९०) संस्कर्ता , संस्कर्तुम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४/९०) न एतत् अस्ति प्रयोजनम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५/९०) सुट् इति आदिलिङ्गः अयम् करोतिः च ककारादिः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६/९०) तत्र अन्तरेण कात्पूर्वग्रहणम् कात् पूर्वः एव भविष्यति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७/९०) अतः उत्तरम् पठति सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८/९०) सुटि कात्पूर्ववचनम् क्रियते अककारादौ कात्पूर्वः यथा स्यात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-९/९०) सञ्चस्करतुः , सञ्चस्करुः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१०/९०) सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि तत् सिद्धम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-११/९०) सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि कात्पूर्वग्रहणम् सिद्धम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१२/९०) कथम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१३/९०) द्विर्वचनात् सुट् विप्रतिषेधेन ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१४/९०) द्विर्वचनम् क्रियताम् सुट् इति सुट् भविष्यति विप्रतिषेधेन ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१५/९०) तत्र द्विर्वचनम् भवति इति अस्य अवकाशः बिभिदतुः , बिभिदुः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१६/९०) सुटः अवकाशः संस्कर्ता , संस्कर्तुम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१७/९०) इह उभयम् प्राप्नोति सञ्चस्करतुः , सञ्चस्करुः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१८/९०) सुट् भवति विप्रतिषेधेन ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-१९/९०) द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२०/९०) द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरस्य अकृतः सुट् इति पुनः सुट् स्यात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२१/९०) द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः इति चेत् द्विर्वचनम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२२/९०) सुटि कृते शब्दान्तरस्य अकृतम् द्विर्वचनम् इति पुनः द्विर्वचनम् प्राप्नोति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२३/९०) तथा च अनवस्था ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२४/९०) पुनः सुट् पुनः द्विर्वचनम् इति चक्रकम् अनवस्था प्रसज्येत ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२५/९०) न अस्ति चक्रकप्रसङ्गः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२६/९०) न हि अनवस्थाकारिणा शास्त्रेण भवितव्यम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२७/९०) शास्त्रतः हि नाम व्यवस्थात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२८/९०) तत्र सुटि कृते द्विर्वचनम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-२९/९०) द्विर्वचनेन अवस्थानम् भविष्यति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३०/९०) अड्व्यवाये उपसङ्ख्यानम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३१/९०) अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३२/९०) समस्करोत् , समस्कार्षीत् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३३/९०) अभ्यासव्यवाये च ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३४/९०) अभ्यासव्यवाये च उपसङ्ख्यानम् कर्तव्यम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३५/९०) सञ्चस्करतुः , सञ्चस्करुः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३६/९०) किम् उच्यते अभ्यासव्यवाये इति यदा इदानीम् एव उक्तम् द्विर्वचनात् सुट् विप्रतिषेधेन इति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३७/९०) अविप्रतिषेधः वा बहिरङ्गलक्षणत्वात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३८/९०) अविप्रतिषेधः वा पुनः सुटः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-३९/९०) किम् कारणम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४०/९०) बहिरङ्गलक्षणत्वात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४१/९०) बहिरङ्गलक्षणः सुट् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४२/९०) अन्तरङ्गम् द्विर्वचनम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४३/९०) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४४/९०) एवमर्थम् एव तर्हि कात्पूर्वग्रहणम् कर्तव्यम् कात् पूर्वः यथा स्यात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४५/९०) क्रियमाणे अपि वै कात्पूर्वग्रहणे अत्र न सिध्यति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४६/९०) न हि अयम् कात्पूर्वग्रहणेन शक्यः मध्ये प्रवेशयितुम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४७/९०) किम् कारणम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४८/९०) आदिलिङ्गः अयम् क्रियते करोतिः च ककारादिः दृष्टः च ल्पुनः आतिदेशिकः करोतिः अककारादिः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-४९/९०) पाक्षिकः अयम् दोषः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५०/९०) कतरस्मिन् पक्षे ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५१/९०) सुड्विधौ द्वैतम् भवति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५२/९०) अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रक्ल्̥प्त्यर्थम् स्यात् विशेषेण वा विधिः इति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५३/९०) द्विर्वचनविधौ च अपि द्वैतम् भवति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५४/९०) स्थाने द्विर्वचनम् स्यात् द्विः प्रयोगः वा द्विर्वचनम् इति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५५/९०) तत् यदा द्विः प्रयोगः द्विर्वचनम् अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणम् देशप्रक्ल्̥प्त्यर्थम् तदा एषः दोषः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५६/९०) यदा हि स्थाने द्विर्वचनम् तदा यदि अविशेषेण विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रक्ल्̥प्त्यर्थम् अथ अपि विशेषविधिः न तदा दोषः भवति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५७/९०) द्विःप्रयोगे च अपि द्विर्वचने न दोषः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५८/९०) सम्परिभ्याम् इति न एषा पञ्चमी ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-५९/९०) का तर्हि ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६०/९०) तृतीया ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६१/९०) सम्परिभ्याम् उपसृष्टस्य इति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६२/९०) व्यवहितः च अपि उपसृष्टः भवति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६३/९०) उपदेशिवद्वचनम् च ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६४/९०) उपदेशिवद्भावः च वक्तव्यः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६५/९०) किम् प्रयोजनम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६६/९०) लिटिगुणचङिदीर्घप्रतिषेधार्थम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६७/९०) लिटि गुणार्थम् चङि दीर्घप्रतिषेधार्थम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६८/९०) लिटि गुणार्थम् तावत् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-६९/९०) सञ्चस्करतुः , सञ्चस्करुः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७०/९०) चङि दीर्घप्रतिषेधार्थम् च ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७१/९०) समचिस्करत् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७२/९०) लिटि गुणार्थेन तावत् न अर्थः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७३/९०) वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधाग्रहणम् कृञर्थम् इति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७४/९०) चङि दीर्घप्रतिषेधेन अपि न अर्थः ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७५/९०) पदम् इति इयम् भगवतः कृत्रिमा सञ्ज्ञा ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७६/९०) युक्तम् इह द्रष्टव्यम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७७/९०) किम् अन्तरङ्गम् किम् बहिरङ्गम् इति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७८/९०) धातूपसर्गयोः कार्यम् यत् तत् अन्तरङ्गम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-७९/९०) कुतः एतत् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८०/९०) पूर्वम् हि धातुः उपसर्गेण युज्यते पश्चात् साधनेन ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८१/९०) न एतत् सारम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८२/९०) पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८३/९०) साधनम् हि क्रियाम् निर्वर्तयति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८४/९०) ताम् उपसर्गः विशिनष्ति ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८५/९०) अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यम् कर्तूम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८६/९०) सत्यम् एवम् एतत् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८७/९०) यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरम् कृत्वा धातुः साधनेन युज्यते ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८८/९०) अवश्यम् च एतत् एवम् विज्ञेयम् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-८९/९०) यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति तस्य आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् ।
(पा-६,१.१३५.१; अकि-३,९१.२२-९४.२; रो-४,४७१-४७८; भा-९०/९०) एवम् कृत्वा सुट् सर्वतः अन्तरङ्गतरकः भवति कात्पूर्वग्रहणम् च अपि शक्यम् अकर्तुम् ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१/३३) यदि पुनः अयम् सुट् कात् पूर्वान्तः क्रियेत ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२/३३) कात् पूर्वान्तः इति चेत् रुविधिप्रतिषेधः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-३/३३) कात् पूर्वान्तः इति चेत् कः चित् विधेयः कः चित् पतिषेध्यः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-४/३३) संस्कर्ता ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-५/३३) समः विधेयः सुटः प्रतिषेध्यः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-६/३३) समः तावत् न विधेयः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-७/३३) वक्ष्यति एतत् सम्पुङ्कानाम् सत्वम् रुविधौ हि अनिष्टप्रसङ्गः इति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-८/३३) सुटः च अपि न प्रतिषेध्यः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-९/३३) समः सुटि इति द्विसकारकः निर्देशः ॒ सुटि सकारादौ इति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१०/३३) अथ वा पदादिः करिय्ष्यते ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-११/३३) परादौ इड्ग्रहणप्रसङ्गः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१२/३३) यदि परादिः इड्गुणौ प्राप्नुतः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१३/३३) संस्कृषीष्ट ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१४/३३) ऋतः च संयोगादेः इति इट् प्राप्नोति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१५/३३) संस्क्रियते ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१६/३३) गुणः अर्तिसंयोगाद्योः इति गुणः प्राप्नोति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१७/३३) एवम् तर्हि अभक्तः करिष्यते ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१८/३३) अभक्ते स्वरः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-१९/३३) यदि अभक्तः स्वरः न सिध्यति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२०/३३) संस्करोति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२१/३३) तिङ् अतिङः इति निघातः न प्राप्नोति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२२/३३) ननु च सुट् एव अतिङ् ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२३/३३) न सुटः परस्य निघातेन भवितव्यम् ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२४/३३) किम् कारणम् ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२५/३३) नञिवयुक्तम् अन्यसदृशाधिकरणे ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२६/३३) तथा हि अर्थगतिः ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२७/३३) नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२८/३३) तथा हि अर्थः गम्यते ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-२९/३३) तत् यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् क्षत्रियम् आनयति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-३०/३३) न असौ लोष्टम् आनीया कृती भवति ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-३१/३३) एवम् इह अपि अतिङ् इति प्रतिषेधात् अन्यस्मात् अतिङ्सदृशात् कार्यम् विज्ञायते ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-३२/३३) किम् च अन्यत् अतिङ् तिङ्सदृशम् ।
(पा-६,१.१३५.२; अकि-३,९४.३-२०; रो-४,४७८-४८०; भा-३३/३३) पदम् ।
(पा-६,१.१४२; अकि-३,९४.२२-२४; रो-४,४८०; भा-१/५) किरतेः हर्षजीविकाकुलायकरणेषु ।
(पा-६,१.१४२; अकि-३,९४.२२-२४; रो-४,४८०; भा-२/५) किरतेः हर्षजीविकाकुलायकरणेषु इति वक्तव्यम् ।
(पा-६,१.१४२; अकि-३,९४.२२-२४; रो-४,४८०; भा-३/५) अपस्किरते वृषभः हृष्टः ।
(पा-६,१.१४२; अकि-३,९४.२२-२४; रो-४,४८०; भा-४/५) अपस्किरते कुक्कुटः भक्षार्थी ।
(पा-६,१.१४२; अकि-३,९४.२२-२४; रो-४,४८०; भा-५/५) अपस्किरते श्वा आश्रयार्थी ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-१/१४) किम् इदम् सातत्ये इति ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-२/१४) सन्ततभावः सातत्यम् ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-३/१४) यदि एवम् सान्तत्ये इति भवितव्यम् ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-४/१४) समः हितततयोः वा लोपः ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-५/१४) समः हितततयोः वा लोपः वक्तव्यः ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-६/१४) संहितम् , सहितम् , सन्ततम् , सततम् ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-७/१४) सम्तुमुनोः कामे ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-८/१४) सम्तुमुनोः कामे लोपः वक्तव्यः ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-९/१४) सकामः , भोक्तुकामः ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-१०/१४) मनसि च इति वक्तव्यम् ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-११/१४) समनाः , भोक्तुमनाः ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-१२/१४) अवश्यमः कृत्ये ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-१३/१४) अवश्यमः कृत्ये लोपः वक्तव्यः ।
(पा-६,१.१४४; अकि-३,९५.२-९; रो-४,४८०-४८१; भा-१४/१४) अवश्यभाव्यम् ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-१/१०) इदम् अतिबहु क्रियते सेविते , असेविते , प्रमाणे इति ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-२/१०) सेवितप्रमाणयोः इति एव सिद्धम् ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-३/१०) केन इदानीम् असेविते भविष्यति ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-४/१०) नञा सेवितप्रतिषेधम् विज्ञास्यामः ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-५/१०) न एवम् शक्यम् ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-६/१०) सेवितप्रसङ्गे एव स्यात् ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-७/१०) असेविते न स्यात् ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-८/१०) असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञास्यते ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-९/१०) अविद्यमानसेविते असेविते इति ।
(पा-६,१.१४५; अकि-३,९५.११-१४; रो-४,४८१; भा-१०/१०) तस्मात् असेवितग्रहणम् कर्तव्यम् ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-१/८) विष्किरः शकुनौ विकिरः वा ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-२/८) विष्किरः शकुनौ विकिरः वा इति वक्तव्यम् ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-३/८) शकुनौ वा इति हि उच्यमाने शकुनौ वा स्यात् अन्यत्र अपि नित्यम् ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-४/८) तत् तर्हि वक्तव्यम् ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-५/८) न वक्तव्यम् ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-६/८) न वावचनेन शकुनिः अभिसम्बध्यते ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-७/८) किम् तर्हि ।
(पा-६,१.१५०; अकि-३,९५.१६-२०; रो-४,४८२; भा-८/८) निपातनम् अभिसम्बध्यते ॒ विष्किरः इति एतत् निपातनम् शकुनौ वा निपात्यते इति ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१/२४) आश्चर्यम् अद्भुते ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-२/२४) आश्चर्यम् अद्भुते इति वक्तव्यम् इह अपि यथा स्यात् ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-३/२४) आश्चर्यम् उच्चता वृक्षस्य ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-४/२४) आश्चर्यम् नीला द्यौः ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-५/२४) आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-६/२४) तत् तर्हि वक्तव्यम् ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-७/२४) न वक्तव्यम् ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-८/२४) अनित्ये इति एव सिद्धम् ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-९/२४) इह तावत् आश्चर्यम् उच्चता वृक्षस्य इति ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१०/२४) आश्चर्यग्रहणेन न वृक्षः अभिसम्बध्यते ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-११/२४) किम् तर्हि ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१२/२४) उच्चता ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१३/२४) सा च अनित्या ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१४/२४) आश्चर्यम् नीला द्यौः इति ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१५/२४) न आश्चर्यग्रहणेन द्यौः अभिसम्बध्यते ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१६/२४) किम् तर्हि ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१७/२४) नीलता ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१८/२४) सा च अनित्या ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-१९/२४) आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-२०/२४) न आश्चर्यग्रहणेन नक्षत्राणि अभिसम्बध्यन्ते ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-२१/२४) किम् तर्हि ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-२२/२४) पतनक्रिया ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-२३/२४) सा च अनित्या ।
(पा-६,१.१४७; अकि-३,९६.२-९; रो-४,४८२-४८३; भा-२४/२४) तत्र अनित्ये इति एव सिद्धम् ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-१/९) मस्करिग्रहणम् शक्यम् अकर्तुम् ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-२/९) कथम् मस्करी परिव्राजकः इति ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-३/९) इनिना एतत् मत्वर्थीयेन सिद्धम् ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-४/९) मस्करः अस्य अस्ति ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-५/९) न वै मस्करः अस्य अस्ति इति मस्करी परिव्राजकः ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-६/९) किम् तर्हि मा कृत कर्माणि ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-७/९) मा कृत कर्माणि ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-८/९) शान्तिः वः श्रेयसी इति आह ।
(पा-६,१.१५४; अकि-३,९६.११-१४; रो-४,४८३; भा-९/९) अतः मस्करी परिव्राजकः ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-१/१०) अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-२/१०) पारस्करः देशः ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-३/१०) कारस्करः वृक्षः ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-४/१०) रथस्पा नदी ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-५/१०) किष्किन्धा गुहा ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-६/१०) किष्कुः ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-७/१०) तद्बृहतोः करपत्योः चोरदेवतयोः सुट् तलोपः च ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-८/१०) तस्करः , बृहस्पतिः ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-९/१०) प्रायस्य चित्तिचित्तयोः सुट् अस्कारः वा ।
(पा-६,१.१५७; अकि-३,९६.१६-१९; रो-४,४८३-४८४; भा-१०/१०) प्रायश्चित्तिः , प्रायश्चित्तम् ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-१/११) किम् अनुदात्तानि पदानि भवन्ति एकम् पदम् वर्जयित्वा ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-२/११) न इति आह ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-३/११) पदे येषाम् उदात्तप्रसङ्गः अनुदात्ताः भवन्ति एकम् अचम् वर्जयित्वा ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-४/११) सः तर्हि तथा निर्देशः कर्तव्यः ॒ अनुदात्ताः पदे , अनुदात्ताः पदस्य इति वा ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-५/११) न कर्तव्यः ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-६/११) अनुदात्तम् पदम् एकवर्जम् इति एव सिद्धम् ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-७/११) कथम् ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-८/११) मतुब्लोपः अत्र द्रष्टव्यः ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-९/११) तत् यथा पुष्यकाः एषाम् पुष्यकाः , कालकाः एषाम् कालकाः इति ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-१०/११) अथ वा अकारः मत्वर्थीयः ।
(पा-६,१.१५८.१; अकि-३,९७.२-६; रो-४,४८४-४८५; भा-११/११) तत् यथा तुन्दः , घाटः इति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१/२८) किमर्थम् पुनः इदम् उच्यते ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२/२८) आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक् स्वरनिवृत्त्यर्थम् एकवर्जम् पदस्वरः ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-३/२८) आगमस्य ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-४/२८) चतुरनडुहोः आम् उदात्तः ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-५/२८) चत्वारः , अनड्वाहः ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-६/२८) विकारस्य ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-७/२८) अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-८/२८) अस्थ्ना , दध्ना ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-९/२८) प्रकृतेः ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१०/२८) गोपायति , धूपायति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-११/२८) प्रत्ययस्य च ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१२/२८) कर्तव्यम् , तैत्तिरीयः ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१३/२८) एतेषाम् पदे युगपत् स्वरः प्राप्नोति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१४/२८) इष्यते च एकस्य स्यात् इति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१५/२८) तत् च अन्तरेण यत्नम् न सिध्यति इति अनुदात्तम् पदम् एकवर्जम् ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१६/२८) एवमर्थम् इदम् उच्यते ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१७/२८) न एतत् अस्ति प्रयोजनम् ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१८/२८) यौगपद्यम् तवै सिद्धम् ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-१९/२८) यत् अयम् तवै च अन्तः च युगपत् इति सिद्धे यौगपद्ये यौगपद्यम् शास्ति तत् ज्ञापयति आचार्यः न युगपत् स्वरः भवति इति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२०/२८) पर्यायः तर्हि प्राप्नोति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२१/२८) पर्यायः रिक्तशासनात् ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२२/२८) यत् अयम् रिक्ते विभाषा इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२३/२८) उदात्ते ज्ञापकम् तु एतत् ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२४/२८) एतत् उदात्ते ज्ञापकम् स्यात् ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२५/२८) स्वरितेन समाविशेत् ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२६/२८) स्वरितेन समावेशः प्राप्नोति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२७/२८) स्वरिते अपि उदात्तः अस्ति ।
(पा-६,१.१५८.२; अकि-३,९७.७-२५; रो-४,४८५-४८६; भा-२८/२८) तस्मात् न अर्थः अनेन योगेन ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१/९२) आरभ्यमाणे अपि एतस्मिन् योगे अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२/९२) अनुदात्ते विप्रतिषेधः न उपपद्यते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३/९२) पठिष्यति हि आचार्यः विप्रतिषेधम् जे दीर्घात् बह्वचः इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४/९२) सः विप्रतिषेधः न उपपद्यते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५/९२) किम् कारणम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६/९२) एकस्मिन् युगपत् सम्भवात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७/९२) असति खलु सम्भवे विप्रतिषेधः भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८/९२) कथम् सम्भवः यदा अनुदात्तम् पदम् एकवर्जम् इति उच्यते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-९/९२) तत् इह न अस्ति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१०/९२) किम् कारणम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-११/९२) न अनेन उदात्तत्वम् प्रतिषिध्यते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१२/९२) किम् तर्हि अनुदात्तत्वम् अनेन क्रियते अस्ति च सम्भवः यत् उभयोः च उदात्तत्वम् स्यात् अन्येषाम् च अनुदात्तत्वम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१३/९२) यदि पुनः अयम् अधिकारः विज्ञायेत ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१४/९२) किम् कृतम् भवति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१५/९२) अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१६/९२) जे दीर्घान्तस्य आदिः उदात्तः भवति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१७/९२) उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१८/९२) अन्त्यात् पूर्वम् बह्वचः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-१९/९२) उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२०/९२) तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२१/९२) न एवम् शक्यम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२२/९२) षाष्थिकः एकः स्वरः सङ्गृहीतः स्यात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२३/९२) ये अन्ये सप्ताध्याय्याम् स्वराः ते न सङ्गृहीताः स्युः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२४/९२) समानोदरे शयिते ओ च उदात्तः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२५/९२) अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२६/९२) सिद्धम् तु एकाननुदात्तत्वात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२७/९२) सिद्धम् एतत् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२८/९२) कथम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-२९/९२) एकाननुदात्तत्वात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३०/९२) एकाननुदात्तम् पदम् भवति इति वक्तव्यम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३१/९२) किम् इदम् अननुदात्तत्वात् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३२/९२) न उदात्तः अनुदात्तः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३३/९२) न अनुदात्तः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३४/९२) अननुदात्तः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३५/९२) एकः अननुदात्तः अस्मिन् तत् इदम् एकाननुदात्तम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३६/९२) एकाननुदात्तत्वात् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३७/९२) सिध्यति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३८/९२) सूत्रम् तर्हि भिद्यते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-३९/९२) यथान्यासम् एव अस्तु ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४०/९२) ननु च उक्तम् अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४१/९२) न एषः दोषः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४२/९२) परिभाषा इयम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४३/९२) किम् कृतम् भवति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४४/९२) कार्यकालम् हि सञ्ज्ञापरिभाषम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४५/९२) यत्र कार्यम् तत्र उपस्थितम् इदम् द्रष्टव्यम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४६/९२) जे दीर्घान्तस्य आदिः उदात्तः भवति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४७/९२) उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४८/९२) अन्त्यात् पूर्वम् बह्वचः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-४९/९२) उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५०/९२) तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५१/९२) अथ वा न इदम् पारिभाषिकानुदात्तस्य ग्रहणम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५२/९२) किम् तर्हि ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५३/९२) अन्वर्थग्रहणम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५४/९२) अविद्यमानोदात्तम् अनुदात्तम् इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५५/९२) एकवर्जम् इति च अप्रसिद्धिः सन्देहात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५६/९२) एकवर्जम् इति च अप्रसिद्धिः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५७/९२) कुतः सन्देहात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५८/९२) न ज्ञायते कः एकः वर्जयितव्यः इति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-५९/९२) सिद्धम् तु यस्मिन् अनुदात्ते उदात्तवचनानर्थक्यम् तद्वर्जम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६०/९२) सिद्धम् एतत् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६१/९२) कथम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६२/९२) यस्मिन् अनुदात्ते उदात्तवचनम् अनर्थकम् स्यात् सः एकः वर्जयितव्यः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६३/९२) प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६४/९२) प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः स्यात् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६५/९२) प्रकृतिस्वरस्य अवकाशः यत्र अनुदात्तः प्रत्ययः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६६/९२) पचति , पठति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६७/९२) प्रत्यययस्वरस्य अवकाशः यत्र अनुदात्ता प्रकृतिः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६८/९२) समत्वम् , सिमत्वम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-६९/९२) इह उभयम् प्राप्नोति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७०/९२) कर्तव्यम्, तैत्तिरीयः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७१/९२) विप्रतिषेधात् प्रत्ययस्वरः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७२/९२) विप्रतिषेधात् प्रत्ययस्वरः भविष्यति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७३/९२) न एवम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७४/९२) विप्रतिषेधे परम् कार्यम् इति उच्यते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७५/९२) न परः प्रत्ययस्वरः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७६/९२) न एषः दोषः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७७/९२) इष्टवाची परशब्दः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७८/९२) विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-७९/९२) विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादिषु चित्करणम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८०/९२) विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादयः चितः कर्तव्याः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८१/९२) पुत्रकाम्यति , गोपायति , ऋतीयते ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८२/९२) न एषः दोषः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८३/९२) प्रकृतिस्वरः अत्र बाधकः भविष्यति ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८४/९२) प्रकृतिस्वरे प्रत्ययस्वराभावः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८५/९२) प्रकृतिस्वरे प्रत्ययस्वरस्य अभावः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८६/९२) कर्तव्यम्, तैत्तिरीयः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८७/९२) सिद्धम् तु प्रकृतिस्वरबलीयस्त्वात् प्रत्ययस्वरभावः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८८/९२) सिद्धम् एतत् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-८९/९२) कथम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-९०/९२) प्रकृतिस्वरात् बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-९१/९२) कथम् ।
(पा-६,१.१५८.३; अकि-३,९८.१-९९.२१; रो-४,४८७-४९१; भा-९२/९२) प्रकृतिस्वरात् प्रत्ययस्वरः बलीयान् भवति ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१/५०) सतिशिष्टस्वरबलीयस्त्वम् च ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२/५०) सतिशिष्टस्वरः बलीयान् भवति इति वक्तव्यम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३/५०) तत् च अनेकप्रत्ययसमासार्थम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४/५०) तत् च अवश्यम् सतिशिष्टस्वरबलीयस्त्वम् वक्तव्यम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-५/५०) किम् प्रयोजनम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-६/५०) अनेकप्रत्ययार्थम् अनेकसमासार्थम् च ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-७/५०) अनेकप्रत्ययार्थम् तावत् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-८/५०) औपगवः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-९/५०) प्रकृतिस्वरम् अण्स्वरः बाधते ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१०/५०) औपगवत्वम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-११/५०) त्वस्वरः अण्स्वरम् बाधते ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१२/५०) औपगवत्वकम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१३/५०) त्वस्वरम् कस्वरः बाधते ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१४/५०) अनेकसमासार्थम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१५/५०) राजपुरुषः , राजपुरुषपुत्रः , राजपुरुषपुत्रपुरुषः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१६/५०) यदि सतिशिष्टस्वरबलीयस्त्वम् उच्यते स्यादिस्वरः सार्वधातुकस्वरम् बाधेत ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१७/५०) सुनुतः , चिनुतः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१८/५०) स्यादिस्वराप्रसङ्गः च तासेः परस्य अनुदात्तवचनात् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-१९/५०) स्यादिस्वरस्य च अप्रसङ्गः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२०/५०) कुतः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२१/५०) तासेः परस्य अनुदात्तवचनात् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२२/५०) यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः सतिशिष्टः अपि विकरणस्वरः लसार्वधातुकस्वरम् न बाधते ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२३/५०) शास्त्रपरविप्रतिषेधानियमात् वा शब्दविप्रतिषेधात् सिद्धम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२४/५०) अथ वा शास्त्रपरविप्रतिषेधे न सर्वम् इष्टम् सङ्गृहीतम् भवति इति कृत्वा शब्दविप्रतिषेधः विज्ञास्यते ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२५/५०) यदि शब्दविप्रतिषेधः भवति काम्यादयः चितः कर्तव्याः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२६/५०) पुत्रकाम्यति , गोपायति , ऋतीयते ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२७/५०) शब्दविप्रतिषेधः नाम भवति यत्र उभयोः युगपत्प्रसङ्गः न च काम्यादिषु युगपत्प्रसङ्गः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२८/५०) विभक्तिस्वरात् नञ्स्वरः बलीयान् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-२९/५०) विभक्तिस्वरात् नञ्स्वरः बलीयान् इति वक्तव्यम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३०/५०) विभक्तिस्वरस्य अवकाशः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३१/५०) तिस्रः तिष्ठन्ति ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३२/५०) नञ्स्वरस्य अवकाशः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३३/५०) अब्राह्मणः , अवृषलः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३४/५०) इह उभयम् प्राप्नोति ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३५/५०) अतिस्रः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३६/५०) नञ्स्वरः भवति ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३७/५०) विभक्तिनिमित्तस्वरात् च ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३८/५०) विभक्तिनिमित्तस्वरात् च नञ्स्वरः बलीयान् इति वक्तव्यम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-३९/५०) विभक्तिनिमित्तस्वरस्य अवकाशः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४०/५०) चत्वारः , अनड्वाहः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४१/५०) नञ्स्वरस्य सः एव ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४२/५०) इह उभयम् प्राप्नोति ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४३/५०) अचत्वारः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४४/५०) अननड्वाहः ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४५/५०) यत् च उपपदम् कृति नञ् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४६/५०) यत् च उपपदम् कृति नञ् तस्य स्वरः बलीयान् इति वक्तव्यम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४७/५०) अकरणिः हि ते वृषल ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४८/५०) सहनिर्दिष्टस्य च ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-४९/५०) सहनिर्दिष्टस्य च नञः स्वरः बलीयान् इति वक्तव्यम् ।
(पा-६,१.१५८.४; अकि-३,९९.२२-१०१.४; रो-४,४९१-४९३; भा-५०/५०) अव्यथी ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-१/१२) किमर्थम् कृषतेः विकृतस्य ग्रहणम् क्रियते न कृषात्वतः इति एव उच्येत ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-२/१२) यस्य कृषेः विकरणे एतत् रूपम् तस्य यथा स्यात् ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-३/१२) इह मा भूत् ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-४/१२) हलस्य कर्षः इति ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-५/१२) अथ किमर्थम् मतुपा निर्देशः क्रियते न कर्षात् इति एव उच्येत ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-६/१२) कर्षात् इति इयति उच्यमाने यत्र एव आकारात् अनन्तरः घञ् अस्ति तत्र एव स्यात् ॒ दायः , धायः ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-७/१२) इह न स्यात् ॒ पाकः , पाठः ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-८/१२) न क्व चित् आकारात् अनन्तरः घञ् अस्ति ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-९/१२) इह अपि दायः , धायः इति युका व्यवधानम् ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-१०/१२) एवम् अपि विहितविषेषनम् आकारग्रहणम् विज्ञायेत ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-११/१२) आकारात् यः विहितः इति ।
(पा-६,१.१५९; अकि-३,१०१.६-१२; रो-४,४९४; भा-१२/१२) मतुब्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१/२०) अनुदात्तस्य इति किमर्थम् ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-२/२०) प्रासङ्गम् वहति प्रासङ्ग्यः ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-३/२०) उदात्तलोपे स्वरितोदात्तयोः अभावात् अनुदात्तग्रहणानर्थक्यम् ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-४/२०) उदात्तलोपे स्वरितोदात्तयोः अभावात् अनुदात्तग्रहणम् अनर्थकम् ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-५/२०) ह हि कः चित् उदात्तः उदात्ते स्वरिते वा लुप्यते ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-६/२०) सर्वः अनुदात्ते एव ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-७/२०) नन् च अयम् उदात्तः स्वरिते लुप्यते ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-८/२०) प्रासङ्गम् वहति प्रासङ्ग्यः इति ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-९/२०) एषः अपि निघाते कृते अनुदात्ते एव लुप्यते ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१०/२०) इदम् इह सम्प्रधार्यम् ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-११/२०) निघातः क्रियताम् लोपः इति ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१२/२०) किम् अत्र कर्तव्यम् ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१३/२०) परत्वात् लोपः ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१४/२०) एवम् तर्हि अयम् अद्य निघातस्वरः सर्वस्वराणाम् अपवादः ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१५/२०) न च अपवादविषये उत्सर्गः भिनिविशते ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१६/२०) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१७/२०) प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१८/२०) तत् न तावत् अत्र कदा चित् थाथादिस्वरः भवति ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-१९/२०) अपवादम् निघातम् प्रतीक्षते ।
(पा-६,१.१६१.१; अकि-३,१०१.१४-१०२.२; रो-४,४९४-४९५; भा-२०/२०) तत्र निघातः क्रियताम् लोपः इति यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तः अनुदात्तः लुप्यते ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१/३३) किम् पुनः अनुदात्तस्य अन्तः उदात्तः भवति आहोस्वित् आदिः ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२/३३) कः च अत्र विशेषः ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-३/३३) अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-४/३३) अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः न सिध्यति ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-५/३३) श्नम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-६/३३) विन्दते , खिन्दते ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-७/३३) श्नम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-८/३३) क्स ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-९/३३) मा हि धुक्षाताम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१०/३३) मा हि धुक्षाथाम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-११/३३) क्स ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१२/३३) युष्मदस्मद् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१३/३३) युष्मभ्यम् , अस्मभ्यम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१४/३३) इदङ्किंलोपः ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१५/३३) इयान् , कियान् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१६/३३) अस्तु तर्हि आदिः ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१७/३३) आदिः इति चेत् इन्धीत द्वयम् इति अन्तः ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१८/३३) आदिः इति चेत् इन्धीत द्वयम् इति अन्तोदात्तत्वम् न सिध्यति ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-१९/३३) इन्धीत ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२०/३३) द्वयम् , त्रयम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२१/३३) आदौ सिद्धम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२२/३३) अस्तु तर्हि आदिः उदात्तः भवति इति ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२३/३३) ननु च उक्तम् आदिः इति चेत् इन्धीत द्वयम् इति अन्तः इति ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२४/३३) विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२५/३३) विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् लिङि न इति वक्तव्यम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२६/३३) लिङ्ग्रहणेन न अर्थः ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२७/३३) अविशेषेण इखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२८/३३) विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् न इति एव ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-२९/३३) इदम् अपि सिद्धम् भवति ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-३०/३३) विन्दते , खिन्दते ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-३१/३३) अयचि कथम् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-३२/३३) अयचि चित्करणात् ।
(पा-६,१.१६१.२; अकि-३,१०२.३-२०; रो-४,४९५-४९७; भा-३३/३३) अयचि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१/५२) किम् धातोः अन्तः उदात्तः भवति आहोस्वित् आदिः इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२/५२) कः च अत्र विशेषः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३/५२) धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४/५२) धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-५/५२) अभ्यस्तानाम् आदिः अनुदात्ते च इति वक्तव्यम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-६/५२) बग्रहणम् च कर्तव्यम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-७/५२) बान्तः च पिबिः आद्युदात्तः भवति इति वक्तव्यम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-८/५२) पिबति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-९/५२) सन् च नित् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१०/५२) सन् च नित् कर्तव्यः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-११/५२) किम् प्रयोजनम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१२/५२) चिकीर्षति जिहीर्षति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१३/५२) निति इति आद्युदात्तत्वम् यथा स्यात् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१४/५२) अस्तु तर्हि आदिः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१५/५२) आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१६/५२) आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् न सिध्यति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१७/५२) ऊर्णोति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१८/५२) ऊर्णु ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-१९/५२) प्रत्ययधातु ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२०/५२) गोपायति , धूपायति , ऋतीयते ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२१/५२) अन्तोदात्तवचनात् सिद्धम् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२२/५२) अस्तु तर्हि अन्तोदात्तः भवति इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२३/५२) ननु च उक्तम् धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२४/५२) यत् तावत् उच्यते ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२५/५२) अनुदात्ते च ग्रहणम् कर्तव्यम् इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२६/५२) क्रियते न्यासे एव ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२७/५२) अभ्यस्तानाम् आदिः अनुदात्ते च इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२८/५२) बग्रहणम् कर्तव्यम् इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-२९/५२) पिबौ निपातनात् ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३०/५२) पिबौ आद्युदात्तनिपातनम् क्रियते ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३१/५२) सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३२/५२) सन् च नित् कर्तव्यः इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३३/५२) अवश्यम् सनः विशेषणार्थः नकारः कर्तव्यः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३४/५२) क्व विशेषणार्थेन अर्थः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३५/५२) सन्यङोः इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३६/५२) सयङोः इति इयति उच्यमाने हंसः , वत्सः , अत्र अपि प्राप्नोति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३७/५२) अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३८/५२) इह अपि तर्हि न प्राप्नोति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-३९/५२) जुगुप्सते , मीमांसते इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४०/५२) अर्थवान् एषः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४१/५२) न वै कः चित् अर्थः आदिश्यते ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४२/५२) यदि अपि कः चित् अर्थः न आदिश्यते अनिर्दिष्टार्थाः स्वार्थे भवन्ति इति अन्ततः स्वार्थे भविष्यति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४३/५२) कः च अस्य स्वार्थः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४४/५२) प्रकृत्यर्थः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४५/५२) इह अपि प्राप्नोति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४६/५२) हंसः , वत्सः इति ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४७/५२) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४८/५२) सः एषः अनन्यार्थः नकारः कर्तव्यः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-४९/५२) न कर्तव्यः ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-५०/५२) क्रियते न्यासे एव ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-५१/५२) अथ वा धातोः इति वर्तते ।
(पा-६,१.१६२; अकि-३,१०२.२२-१०३.२५; रो-४,४९७-४९९; भा-५२/५२) धातोः सशब्दान्तस्य द्वे भवतः इति ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-१/१६) चितः सप्रकृतेः बह्वकजर्थम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-२/१६) चितः सप्रकृतेः इति वक्तव्यम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-३/१६) किम् प्रयोजनम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-४/१६) बह्वकजर्थम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-५/१६) बहुजर्थम् अकजर्थम् च ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-६/१६) बहुजर्थम् तावत् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-७/१६) बहुभुक्तम् , बहुकृतम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-८/१६) अकजर्थम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-९/१६) सर्वकैः , विश्वकैः , उच्चकैः , नीचकैः , सर्वके , विश्वके ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-१०/१६) तत् तर्हि वक्तव्यम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-११/१६) न वक्तव्यम् ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-१२/१६) मतुब्लोपः अत्र द्रष्टव्यः ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-१३/१६) तत् यथा पुष्यकाः एषाम् पुष्यकाः कालकाः एषाम् कालकाः इति ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-१४/१६) अथ वा अकारः मत्वर्थीयः ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-१५/१६) तत् यथा तुन्दः , घाटः इति ।
(पा-६,१.१६३; अकि-३,१०४.२-७; रो-४,५००; भा-१६/१६) पूर्वसूत्रनिर्देशः च चित्वान् चितः इति ।