व्याकरणमहाभाष्य खण्ड 66

विकिपुस्तकानि तः



(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१/२४) जसः इति किमर्थम् ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-२/२४) तिसृका ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-३/२४) तिसृभ्यः जस्ग्रहणानर्थक्यम् अन्यत्र अभावात् ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-४/२४) तिसृभ्यः जस्ग्रहणम् अनर्थकम् ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-५/२४) किम् कारणम् ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-६/२४) अन्यत्र अभावात् ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-७/२४) न हि अन्यत् तिसृशब्दात् अन्तोदात्तत्वम् प्रयोजयति अन्यत् अतः जसः ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-८/२४) किम् कारणम् ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-९/२४) बहुवचनविषयः एव तिसृशब्दः ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१०/२४) तेन एकवचनद्विवचने न स्तः ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-११/२४) शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१२/२४) अन्याः सर्वाः हलादयः विभक्तयः ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१३/२४) तत्र षट्त्रिचतुर्भ्यः हलादिः झलि उपोत्तमम् इति अनेन स्वरेण भवितव्यम् ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१४/२४) तत्र अन्तरेण जसः ग्रहणम् जसः एव भविष्यति ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१५/२४) ननु च इदानीम् एव उदाहृतम् तिसृका इति ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१६/२४) नित्स्वरः अत्र बाधकः भविष्यति ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१७/२४) न अप्राप्ते अन्यस्वरे तिसृस्वरः आरभ्यते ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१८/२४) सः यथा एव अनुदात्तौ सुप्पितौ इति एतम् स्वरम् बाधते एवम् नित्स्वरम् अपि बाधेत ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-१९/२४) न एषः दोषः ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-२०/२४) येन न अप्राप्ते तस्य बाधनम् भवति ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-२१/२४) न च अप्राप्ते अनुदात्तौ सुप्पितौ इति एतस्मिन् तिसृस्वरः आरभ्यते ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-२२/२४) नित्स्वरः पुनः प्राप्ते च अप्राप्ते च ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-२३/२४) अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् तिसृस्वरः अनुदात्तौ सुप्पितौ इति स्वरम् बाधिष्यते नित्स्वरम् न बाधिष्यते ।

(पा-६,१.१६६; अकि-३,१०४.९-२२; रो-४,५००-५०१; भा-२४/२४) उपसमस्तार्थम् एके जसः ग्रहणम् इच्छन्ति ॒ अतितिस्रौ , अतितिस्रः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१/५९) शसि स्त्रियाम् प्रतिषेधः वक्तव्यः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२/५९) चतस्रः पश्य ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३/५९) चतुरः शसि स्त्रियाम् अप्रतिषेधः आद्युदात्तनिपातनात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४/५९) चतुरः शसि स्त्रियाम् अप्रतिषेधः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५/५९) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-६/५९) शसि स्वरः कस्मात् न भवति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-७/५९) आद्युदात्तनिपातनात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-८/५९) आद्युदात्तनिपातनम् करिष्यते ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-९/५९) सः निपातनस्वरः शसि स्वरस्य बाधकः भविष्यति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१०/५९) एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-११/५९) यथा एव निपातनस्वरः शसि स्वरम् बाधते एवम् विभक्तिस्वरम् अपि बाधेत चतसृणम् इति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१२/५९) विभक्तिस्वरभावः च हलादिग्रहणात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१३/५९) विभक्तिस्वरभावः च सिद्धः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१४/५९) कुतः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१५/५९) हलादिग्रहणात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१६/५९) यत् अयम् षट्त्रिचतुर्भ्यः हलादिः इति हलादिग्रहणम् करोति तत् ज्ञापयति आचार्यः न निपातनस्वरः विभक्तिस्वरम् बाधते इति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१७/५९) कथम् कृत्वा ज्ञापकम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१८/५९) आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-१९/५९) आद्युदात्तनिपातने हि सति हलादिग्रहणम् अनर्थकम् स्यात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२०/५९) न हि अन्यत् हलादिग्रहणम् प्रयोजयति अन्यत् अतः चतसृशब्दात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२१/५९) षट्सञ्ज्ञाः तावत् न प्रयोजयन्ति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२२/५९) किम् कारणम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२३/५९) बहुवचनविषयत्वात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२४/५९) तेन द्विवचनैकवचने न स्तः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२५/५९) जश्शसी च अत्र लुप्येते ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२६/५९) अन्याः सर्वाः हलादयः विभक्तयः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२७/५९) त्रिशब्दः च अपि न प्रयोजयति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२८/५९) किम् कारणम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-२९/५९) बहुवचनविषयत्वात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३०/५९) तेन द्विवचनैकवचने न स्तः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३१/५९) असर्वनामस्थानम् इति वचनात् जसि न भविष्यति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३२/५९) शसि भवितव्यम् एकादेशे उदात्तेन उदात्तः इति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३३/५९) अन्याः सर्वाः हलादयः विभक्तयः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३४/५९) तिसृशब्दः च अपि न प्रयोजयति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३५/५९) किम् कारणम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३६/५९) बहुवचनविषयत्वात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३७/५९) तेन द्विवचनैकवचने न स्तः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३८/५९) असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-३९/५९) शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४०/५९) अन्याः सर्वाः हलादयः विभक्तयः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४१/५९) चतुःशब्दः तिसृशब्दः च अपि न प्रयोजयति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४२/५९) किम् कारणम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४३/५९) बहुवचनविषयत्वात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४४/५९) तेन द्विवचनैकवचने न स्तः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४५/५९) असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४६/५९) शसि भवितव्यम् चतुरः शसि इति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४७/५९) अन्याः सर्वाः हलादयः विभक्तयः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४८/५९) तत्र चतसृशब्दात् एकस्मात् शस् असर्वनामस्थानम् अजादिः विभक्तिः अस्ति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-४९/५९) यदि च अत्र निपातनस्वरः स्यात् हलादिग्रहणम् अनर्थकम् स्यात् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५०/५९) न एव वा पुनः अत्र शसिस्वरः प्राप्नोति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५१/५९) किम् कारणम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५२/५९) यणादेशे कृते शसः पूर्वः उदात्तभावी न अस्ति इति कृत्वा ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५३/५९) अवशिष्टस्य तर्हि प्राप्नोति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५४/५९) ऋकारेण व्यवहितत्वात् न भविष्यति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५५/५९) यणादेशे कृते न अस्ति व्यवधानम् ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५६/५९) स्थानिवद्भावात् व्यवधानम् एव ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५७/५९) प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरविधिम् प्रति न स्थानिवत् भवति इति ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५८/५९) न एषः अस्ति प्रतिषेधः ।

(पा-६,१.१६७; अकि-३,१०५.२-१०६.७; रो-४,५०२-५०४; भा-५९/५९) उक्तम् एतत् प्रतिषेधे स्वरदीर्घयलोपेषु लोपादादेशः न स्थानिवत् इति ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१/१९) सौ इति किम् इदम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-२/१९) कुतः सन्देहः ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-३/१९) समानः निर्देशः ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-४/१९) सप्तमीबहुवचनस्य ग्रहणम् ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-५/१९) कथम् ज्ञायते ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-६/१९) यत् अयम् न गोश्वन्साववर्ण इति गोशुनोः प्रतिषेधम् शास्ति ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-७/१९) कथम् कृत्वा ज्ञापकम् ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-८/१९) यदि प्रथमैकवचनस्य ग्रहणम् स्यात् गोशुनोः प्रतिषेधवचनम् अनर्थकम् स्यात् ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-९/१९) ननु च अर्थसिद्धिः एव एषा ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१०/१९) अनुगृहीताः स्मः यैः अस्माभिः प्रथमैकवचनम् आस्थाय गोशुनोः प्रतिषेधः न वक्तव्यः भवति ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-११/१९) भवेत् प्रतिषेधः न वक्तव्यः दोषाः तु भवन्ति ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१२/१९) तत्र कः दोषः ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१३/१९) स्विना खिना ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१४/१९) अन्तोदात्तत्वम् न प्राप्नोति ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१५/१९) स्विन्खिनौ न स्तः ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१६/१९) उक्तम् एतत् एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१७/१९) स्ववान् , खवान् इति एव भवितव्यम् ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१८/१९) इह तर्हि याद्भ्याम् , याभिः इति न सिध्यति ।

(पा-६,१.१६८.१; अकि-३,१०६.९-१८; रो-४,५०४-५०५; भा-१९/१९) तस्मात् सप्तमीबहुवचनस्य ग्रहणम् ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-१/१०) सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-२/१०) सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः वक्तव्यः ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-३/१०) त्वया मया ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-४/१०) सिद्धम् तु यस्मात् तृतीयादिः तस्य अभावात् सौ ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-५/१०) सिद्धम् एतत् ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-६/१०) कथम् ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-७/१०) यस्मात् अत्र तृतीयादिः विभक्तिः न तत् सौ अस्ति ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-८/१०) यदि अपि एतत् सौ न अस्ति प्रकृतिः तु अस्य सौ अस्ति ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-९/१०) प्रकृतेः च अनेकाच्त्वात् ।

(पा-६,१.१६८.२; अकि-३,१०६.१९-२५; रो-४,५०५-५०६; भा-१०/१०) यदि अपि तस्य प्रकृतिः अस्ति सौ अनेकाच् तु सा भवति ।

(पा-६,१.१६९; अकि-३,१०७.२-५; रो-४,५०६; भा-१/७) उत्तरपदग्रहणम् किमर्थम् ।

(पा-६,१.१६९; अकि-३,१०७.२-५; रो-४,५०६; भा-२/७) यथा एकाज्ग्रहणम् उत्तरपदविशेषणम् विज्ञायेत ।

(पा-६,१.१६९; अकि-३,१०७.२-५; रो-४,५०६; भा-३/७) एकाचः उत्तरपदात् इति ।

(पा-६,१.१६९; अकि-३,१०७.२-५; रो-४,५०६; भा-४/७) अथ अक्रियमाणे उत्तरपदग्रहणे कस्य एकाज्ग्रहणम् विशेषणम् स्यात् ।

(पा-६,१.१६९; अकि-३,१०७.२-५; रो-४,५०६; भा-५/७) समासविशेषणम् ।

(पा-६,१.१६९; अकि-३,१०७.२-५; रो-४,५०६; भा-६/७) अस्ति च इदानीम् कः चित् एकाच् समासः यदर्थः विधिः स्यात् ।

(पा-६,१.१६९; अकि-३,१०७.२-५; रो-४,५०६; भा-७/७) अस्ति इति आह ॒ शुनः ऊर्क् ॒ श्वोर्क् , श्वोर्जा , श्वोर्जे इति ।

(पा-६,१.१७१; अकि-३,१०७.७-१०; रो-४,५०७; भा-१/७) पदादिषु निचन्तानि प्रयोजयन्ति ।

(पा-६,१.१७१; अकि-३,१०७.७-१०; रो-४,५०७; भा-२/७) अन्यानि पदादीनि उदात्तनिवृत्तिस्वरेण सिद्धानि ।

(पा-६,१.१७१; अकि-३,१०७.७-१०; रो-४,५०७; भा-३/७) ऊठि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम् । ऊठि उपधाग्रहणम् कर्तव्यम् ।

(पा-६,१.१७१; अकि-३,१०७.७-१०; रो-४,५०७; भा-४/७) किम् प्रयोजनम् ।

(पा-६,१.१७१; अकि-३,१०७.७-१०; रो-४,५०७; भा-५/७) अन्त्यप्रतिषेधार्थम् ।

(पा-६,१.१७१; अकि-३,१०७.७-१०; रो-४,५०७; भा-६/७) अन्त्यस्य मा भूत् ।

(पा-६,१.१७१; अकि-३,१०७.७-१०; रो-४,५०७; भा-७/७) अक्षद्युवा , अक्षद्युवे ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१/२१) दीर्घग्रहणम् किमर्थम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-२/२१) अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-३/२१) दीर्घात् इति शक्यम् अकर्तुम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-४/२१) कस्मात् न भवति अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत इति ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-५/२१) षट्स्वरः बाधकः भविष्यति ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-६/२१) न अप्राप्ते षट्स्वरे अष्टनः स्वरः आरभ्यते ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-७/२१) सः यथा एव दीर्घात् बाधते एवम् ह्रस्वात् अपि बाधेत ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-८/२१) न दीर्घात् षट्स्वरः प्राप्नोति ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-९/२१) किम् कारणम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१०/२१) आते कृते षट्सञ्ज्ञाभावात् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-११/२१) अतः उत्तरम् पठति अष्टनः दीर्घग्रहणम् षट्सञ्ज्ञाज्ञापकम् आकारान्तस्य नुडर्थम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१२/२१) अष्टनः दीर्घग्रहणम् क्रियते ज्ञापकार्थम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१३/२१) किम् ज्ञाप्यम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१४/२१) एतत् ज्ञापयति आचार्यः भवति आत्वे कृते षट्सञ्ज्ञा इति ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१५/२१) किम् एतस्य ज्ञपने प्रयोजनम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१६/२१) आकारान्तस्य नुडर्थम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१७/२१) आकारान्तस्य नुड् सिद्धः भवति ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१८/२१) अष्टानाम् इति ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-१९/२१) ननु च नित्यम् आत्वम् ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-२०/२१) एतत् एव ज्ञापयति विभाषा आत्वम् इति यत् अयम् दीर्घग्रहणम् करोति ।

(पा-६,१.१७२; अकि-३,१०७.१३-२२; रो-४,५०७-५०८; भा-२१/२१) इतरथा हि अष्टनः इति एव ब्रूयात् ।

(पा-६,१.१७३; अकि-३,२-४; रो-४,५०८; भा-१/३) नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम् ।

(पा-६,१.१७३; अकि-३,२-४; रो-४,५०८; भा-२/३) नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.१७३; अकि-३,२-४; रो-४,५०८; भा-३/३) बृहती महती बृहता महता ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१/२१) हल्पूर्वात् इति किमर्थम् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-२/२१) अग्नये वायवे ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-३/२१) उदात्तयणि हल्ग्रहणम् नकारान्तार्थम् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-४/२१) उदात्तयणि हल्ग्रहणम् कर्तव्यम् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-५/२१) किम् प्रयोजनम् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-६/२१) नकारान्तार्थम् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-७/२१) नकारान्तात् अपि यथा स्यात् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-८/२१) वाक्पत्नी चित्पत्नी ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-९/२१) हल्पूर्वग्रहणानर्थक्यम् च समुदायादेशत्वात् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१०/२१) हल्पूर्वग्रहणम् च अनर्थकम् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-११/२१) किम् काऋअणम् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१२/२१) समुदायादेशत्वात् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१३/२१) समुदायः अत्र आदेशः ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१४/२१) स्वरितत्वे च अवचनात् ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१५/२१) स्वरितत्वे च हल्पूर्वग्रहणस्य अवचनात् मन्यामहे हल्पूर्वग्रहणम् अनर्थकम् इति ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१६/२१) यत् तावत् उच्यते उदात्तयणि हल्ग्रहणम् नकारान्तार्थम् इति क्रियते न्यासे एव ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१७/२१) द्विनकारकः निर्देशः ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१८/२१) उदात्तयणः हल्पूर्वात् न ऊङ्धात्वोः इति ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-१९/२१) यत् अपि उच्यते हल्पूर्वग्रहणानर्थक्यम् च समुदायादेशत्वात् इति ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-२०/२१) अयम् अस्ति केवलः आदेशः ।

(पा-६,१.१७४; अकि-३,१०८.६-१६; रो-४,५०९-५१०; भा-२१/२१) बहुतितवा ।

(पा-६,१.१७६; अकि-३,१०८.१८-२१; रो-४,५१०; भा-१/६) मतुबुदात्तत्वे रेग्रहणम् ।

(पा-६,१.१७६; अकि-३,१०८.१८-२१; रो-४,५१०; भा-२/६) मतुबुदात्तत्वे रेग्रहणम् कर्तव्यम् ।

(पा-६,१.१७६; अकि-३,१०८.१८-२१; रो-४,५१०; भा-३/६) आ रेवान् एतु नः विशः ।

(पा-६,१.१७६; अकि-३,१०८.१८-२१; रो-४,५१०; भा-४/६) त्रिप्रतिषेधः च ।

(पा-६,१.१७६; अकि-३,१०८.१८-२१; रो-४,५१०; भा-५/६) त्रेः च प्रतिषेधः वक्तव्यः ।

(पा-६,१.१७६; अकि-३,१०८.१८-२१; रो-४,५१०; भा-६/६) त्रिवतीः याज्यानुवाक्याः भवन्ति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१/४४) इह कस्मात् न भवति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२/४४) किशोरीणाम् , कुमारीणाम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३/४४) ह्रस्वात् इति वर्तते ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-४/४४) इह अपि तर्हि न प्राप्नोति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-५/४४) अग्नीनाम् , वायूनाम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-६/४४) किम् कारणम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-७/४४) दीर्घत्वे कृते ह्रस्वाभावात् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-८/४४) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-९/४४) दीर्घत्वम् क्रियताम् स्वरः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१०/४४) परत्वात् दीर्घत्वम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-११/४४) एवम् तर्हि नाम्स्वरे मतौ ह्रस्वग्रहणम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१२/४४) नाम्स्वरे मतौ ह्रस्वग्रहणम् कर्तव्यम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१३/४४) मतौ ह्रस्वान्तात् इति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१४/४४) तत् तर्हि वक्तव्यम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१५/४४) न वक्तव्यम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१६/४४) आह अयम् ह्रस्वान्तात् न च नामि ह्रस्वान्तः अस्ति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१७/४४) तत्र भूतपूर्वगतिः विज्ञास्यते ॒ ह्रस्वान्तम् यत् भूतपूर्वम् इति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१८/४४) साम्प्रतिकाभावे भूतपूर्वगतिः विज्ञायते अयम् च अस्ति साम्प्रतिकः ॒ तिसृणाम् , चतसृणाम् इति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-१९/४४) न एतत् अस्ति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२०/४४) षट्त्रिचतुर्भ्यः हलादिः इति अनेन स्वरेण भवितव्यम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२१/४४) तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२२/४४) एवम् तर्हि योगविभागः करिष्यते ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२३/४४) षट्त्रिचतुर्भ्यः नाम् उदात्तः भवति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२४/४४) ततः हलादिः ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२५/४४) हलादिः च विभक्तिः उदात्ता भवति षट्त्रिचतुर्भ्यः इति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२६/४४) इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२७/४४) ननु च अत्र अपि नृ च अन्यतरस्याम् इति एषः स्वरः बाधकः भविष्यति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२८/४४) न सिध्यति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-२९/४४) न सिध्यति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३०/४४) किम् कारणम् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३१/४४) झल्ग्रहणम् तत्र अनुवर्तते ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३२/४४) किम् पुनः कारणम् झल्ग्रहणम् तत्र अनुवर्तते ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३३/४४) इह मा भूत् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३४/४४) न्रा न्रे ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३५/४४) उदात्तयणः हल्पूर्वात् इति एषः स्वरः अत्र स्वरः बाधकः भविष्यति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३६/४४) इदम् तर्हि नरि ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३७/४४) न एकम् उदाहरम् ह्रस्वग्रहणम् प्रयोजयति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३८/४४) यदि एतावत् प्रयोजनम् स्यात् नाम् इति एव ब्रूयात् ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-३९/४४) तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-४०/४४) ह्रस्वान्तम् यत् भूतपूर्वम् इति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-४१/४४) अथ वा न एवम् विज्ञायते ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-४२/४४) नाम् स्वरौ मतौ ह्रस्वग्रहणम् कर्तव्यम् इति ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-४३/४४) कथम् तर्हि ।

(पा-६,१.१७७; अकि-३,१०९.२-२१; रो-४,५१०-५१२; भा-४४/४४) नाम्स्वरे मतौ ह्रस्वात् इति वर्तते इति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१/२१) सौ इति किम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-२/२१) कुतः सन्देहः ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-३/२१) समानः निर्देशः ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-४/२१) पुरस्तात् एषः निर्णयः सप्तमीबहुवचनस्य ग्रहणम् इति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-५/२१) इह अपि तत् एव भवितुम् अर्हति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-६/२१) यदि सप्तमीबहुवचनस्य ग्रहणम् ताभ्याम् ब्राह्मणाभ्याम् , याभ्याम् ब्राह्मणाभ्याम् अत्र न प्राप्नोति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-७/२१) विधिः अपि अत्र न सिध्यति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-८/२१) किम् कारणम् ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-९/२१) न हि एतत् भवति यत् सौ रूपम् ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१०/२१) इदम् तर्हि तेभ्यः ब्राह्मणेभ्यः , येभ्यः ब्राह्मणेभ्यः ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-११/२१) विधिः च सिद्द्धः भवति प्रतिषेधः तु न प्राप्नोति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१२/२१) अस्ति पुनः किम् चित् सति इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१३/२१) अस्ति इति आह ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१४/२१) इह याभ्यः ब्राह्मणीभ्यः , ताभ्यः ब्राह्मणीभ्यः इति विधिः च सिद्द्धः भवति प्रतिषेधः च ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१५/२१) अस्ति तर्हि प्रथमैकवचनस्य ग्रहणम् ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१६/२१) यदि प्रथमैकवचनस्य ग्रहणम् तेन इति स्वरः पुंसि न सिध्यति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१७/२१) न च अवश्यम् पुंसि एव स्त्रियाम् पुंसि नपुंसके च ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१८/२१) तेन ब्राह्मणेन तया ब्राह्मण्या तेन कुण्डेन इति ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-१९/२१) सप्तमीबहुवचनस्य ग्रहणे अपि एषः दोषः ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-२०/२१) तस्मात् उभाभ्याम् एव प्रतिषेधे यत्ततदोः च ग्रहणम् कर्तव्यम् ।

(पा-६,१.१८२; अकि-३,१०९.२३-११०.११; रो-४,५१२-५१३; भा-२१/२१) न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः यत्तदोः च इति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१/२४) तिति प्रत्ययग्रहणम् ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-२/२४) तिति प्रत्ययग्रहणम् कर्तव्यम् ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-३/२४) इह मा भूत् ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-४/२४) ऋ̄तः इत् धातोः ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-५/२४) किरति , गिरति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-६/२४) तत् तर्हि वक्तव्यम् ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-७/२४) न वक्तव्यम् ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-८/२४) न एषः तकारः ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-९/२४) कः तर्हि ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१०/२४) दकारः ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-११/२४) यदि दकारः आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१२/२४) भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१३/२४) यदि भाव्यमानेन सवर्णानाम् ग्रहणम् न इति उच्यते अदसः असेः दात् उ दः मः , अमूभ्याम् इति अत्र न प्राप्नोति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१४/२४) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति उकारेण भाव्यमानेन सवर्णानाम् ग्रहणम् इति यत् अयम् दिवः उत् इति उकारम् तपरम् करोति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१५/२४) एवमर्थम् एव तर्हि प्रत्ययग्रहणम् कर्तव्यम् अत्र मा भूत् इति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१६/२४) न एषः तकाहरः ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१७/२४) कः तर्हि ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१८/२४) दकारः ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-१९/२४) यदि दकारः न ज्ञापकम् भवति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-२०/२४) एवम् तर्हि तपरः तत्कालस्य इति दकारः अपि चर्त्वभूतः निर्दिश्यते ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-२१/२४) यदि एवम् चर्त्वस्य असिद्धत्वात् हशि च इति उत्त्वम् प्राप्नोति ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-२२/२४) सौत्रः निर्देशः ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-२३/२४) अथ वा असंहितया निर्देशः करिष्यते ।

(पा-६,१.१८५; अकि-३,१३-२४; रो-४,५१४-५१५; भा-२४/२४) अणुदित् सवर्णस्य च अप्रत्ययः , त्तपरः तत्कालस्य इति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१/२४) अदुपदेशात् इति किम् इदम् विज्ञायते ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-२/२४) अकारः यः उपदेशः इति आहोस्वित् अकारान्तम् यत् उपदेशः इति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-३/२४) किम् च अतः ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-४/२४) यदि विज्ञायते अकारः यः उपदेशः इति हतः , हथः इति अत्र अपि प्राप्नोति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-५/२४) अथ विज्ञायते अकारान्तम् यत् उपदेशः इति न दोषः भवति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-६/२४) ननु च अकारान्तम् यत् उपदेशः इति विज्ञायमाने अपि अत्र अपि प्राप्नोति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-७/२४) एतत् अपि हि व्यपदेशिवद्भावेन अकारान्तम् भवति उपदेशे ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-८/२४) अर्थवता व्यपदेशिवद्भावः ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-९/२४) यदि तर्हि अकारान्तम् यत् उपदेशः इति विज्ञायते मा हि धुक्षाताम् , मा हि धुषाथाम् अत्र अपि प्राप्नोति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१०/२४) अस्तु ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-११/२४) अनुदात्तत्वे कृते लोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१२/२४) न सिध्यति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१३/२४) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१४/२४) अद्नुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१५/२४) परत्वात् लोपः ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१६/२४) एवम् तर्हि इदम् अद्य लसार्वधादुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१७/२४) न च अपवादविषये उत्सर्गः अभिनिविशते ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१८/२४) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-१९/२४) प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः अभिनिविशते ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-२०/२४) तत् न तावत् अत्र कदा चित् प्रत्ययस्वरः भवति ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-२१/२४) अपवादविषयम् लसार्वधातुकानुदात्तत्वम् प्रतीक्षते ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-२२/२४) तत्र आनुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-२३/२४) परत्वात् लोपः ।

(पा-६,१.१८६.१; अकि-३,१११.३-१६; रो-४,५१५-५१७; भा-२४/२४) यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्ते अनुदात्ते उदात्तः लुप्यते ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-१/११) तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-२/११) तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः कर्तव्यः ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-३/११) लसार्वधातुके इति वक्तव्यम् ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-४/११) किम् प्रयोजनम् ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-५/११) अभ्यस्तसिजर्थः ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-६/११) अभ्यस्तानाम् आदिः उदात्तः भवति लसार्वधातुके ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-७/११) सिजन्तस्य आदिः उदात्तः भवति लसार्वधातुके ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-८/११) लसार्वधातुकम् इति उच्यमाने तस्य एव आद्युदात्तत्वम् स्यात् ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-९/११) यदि सप्तमीनिर्देशः क्रियते तास्यादीनाम् एव अनुदात्तत्वम् प्राप्नोति ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-१०/११) न एषः दोषः ।

(पा-६,१.१८६.२; अकि-३,१११.१७-२३; रो-४,५१७; भा-११/११) तासियादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१/६५) चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् विप्रतिषेधेन ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२/६५) चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३/६५) चित्स्वरस्य अवकाशः चलनः , चोपनः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४/६५) तास्यादिभ्यः अनुदात्तत्वस्य अवकाशः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५/६५) आस्ते शेते ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-६/६५) इह उभयम् प्राप्नोति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-७/६५) आसीनः , शयानः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-८/६५) तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-९/६५) न एषः युक्तः विप्रतिषेधः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१०/६५) किम् कारणम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-११/६५) द्विकार्ययोगः हि विप्रतिषेधः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१२/६५) न च अत्र एकः द्विकार्ययुक्तः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१३/६५) आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१४/६५) न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१५/६५) किम् तर्हि. असम्भवः अपि ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१६/६५) ननु च अत्र अपि अस्ति सम्भवः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१७/६५) आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् इति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१८/६५) अस्ति च सम्भवः यत् उभयम् स्यात् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-१९/६५) न एषः अस्ति सम्भवः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२०/६५) वक्ष्यति एतत् स्वरविधौ सङ्घातः कार्यी भवति इति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२१/६५) मुकः च उपसङ्ख्यानम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२२/६५) मुकः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२३/६५) पचमानः , यजमानः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२४/६५) मुका व्यवहितत्वात् अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वम् न प्राप्नोति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२५/६५) ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२६/६५) न सिध्यति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२७/६५) अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२८/६५) सः असौ सङ्घातभक्तः अशक्यः मुक् अदुपदेशग्रहणेन ग्रहीतुम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-२९/६५) अथ अयम् अद्भक्तः स्यात् गृह्येत अयम् अदुपदेशग्रहणेन ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३०/६५) बाढम् गृह्येत ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३१/६५) अद्भक्तः तर्हि भविष्यति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३२/६५) तत् कथम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३३/६५) वक्ष्यति एतस्य परिहारम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३४/६५) इतः च उपसङ्ख्यानम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३५/६५) इतः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३६/६५) इद्भिः च व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३७/६५) पचतः , पठतः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३८/६५) इतः च अनेकान्तत्वात् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-३९/६५) अनेकान्ताः अनुबन्धाः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४०/६५) यदि अनेकान्ताः अनुबन्धाः अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४१/६५) अत्तः , जुहुतः इति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४२/६५) अदुपदेशात् इति अनुदात्तत्वम् प्राप्नोति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४३/६५) तत्र अदिप्रभृतिजुहोत्यादिभ्यः अप्रतिषेधः स्थान्यादेशाभावात् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४४/६५) तत्र अदिप्रभृतिभ्यः जुहोत्यादिभ्यः अप्रतिषेधः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४५/६५) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४६/६५) अनुदात्तत्वम् कस्मात् न भवति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४७/६५) स्थान्यादेशाभावात् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४८/६५) न एव अत्र स्थानिनम् न एव आदेशम् पश्यामः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-४९/६५) अनुदात्तङिद्ग्रहणात् वा ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५०/६५) अथ वा यत् अयम् अनुदात्तङिद्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न लुप्तविकरणेभ्यः अनुदात्तत्वम् भवति इति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५१/६५) न एतत् अस्ति ज्ञापकम् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५२/६५) श्ननर्थम् एतत् स्यात् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५३/६५) विन्दाते , खिन्दाते ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५४/६५) यत् तर्हि ङिद्ग्रहणम् करोति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५५/६५) न हि श्नम्विकरणः ङित् भवति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५६/६५) ङितः अनुदात्तत्वे विकरणेभ्यः प्रतिषेधः वक्तव्यः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५७/६५) चिनुतः , सुनुतः , लुनीतः , पुनीतः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५८/६५) ङितः इति अनुदात्तत्वम् प्राप्नोति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-५९/६५) ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः सर्वस्य उपदेशविशेषणत्वात् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-६०/६५) ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-६१/६५) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-६२/६५) अनुदात्तत्वम् कस्मात् न भवति ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-६३/६५) सर्वस्य उपदेशविशेषणत्वात् ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-६४/६५) सर्वम् उपदेशग्रहणेन विशेषयिष्यामः ।

(पा-६,१.१८६.३; अकि-३,१११.२४-११३.८; रो-४,५१८-५२०; भा-६५/६५) उपदेशे अनुदात्तेतः , उपदेशे ङितः , उपदेशे अकारान्तात् ।

(पा-६,१.१८७; अकि-३,११३.१०-१२; रो-४,५२०-५२१; भा-१/५) सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम् ।

(पा-६,१.१८७; अकि-३,११३.१०-१२; रो-४,५२०-५२१; भा-२/५) सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.१८७; अकि-३,११३.१०-१२; रो-४,५२०-५२१; भा-३/५) मा हि कर्षम् , मा हि कार्षम् ।

(पा-६,१.१८७; अकि-३,११३.१०-१२; रो-४,५२०-५२१; भा-४/५) अनिटः इति किमर्थम् ।

(पा-६,१.१८७; अकि-३,११३.१०-१२; रो-४,५२०-५२१; भा-५/५) मा हि लविषम् ।

(पा-६,१.१८८; अकि-३,११३.१४-१७; रो-४,५२१; भा-१/७) स्वपादीनाम् वावचनात् अभ्यस्तस्वरः विप्रतिषेधेन ।

(पा-६,१.१८८; अकि-३,११३.१४-१७; रो-४,५२१; भा-२/७) स्वपादीनाम् वावचनात् अभ्यस्तस्वरः भवति विप्रतिषेधेन ।

(पा-६,१.१८८; अकि-३,११३.१४-१७; रो-४,५२१; भा-३/७) स्वपादीनाम् वावचनस्य अवकाशः स्वपन्ति श्वसन्ति ।

(पा-६,१.१८८; अकि-३,११३.१४-१७; रो-४,५२१; भा-४/७) अभ्यस्तस्वरस्य अवकाशः ददति , दधति ।

(पा-६,१.१८८; अकि-३,११३.१४-१७; रो-४,५२१; भा-५/७) इह उभयम् प्राप्नोति ।

(पा-६,१.१८८; अकि-३,११३.१४-१७; रो-४,५२१; भा-६/७) जग्रति ।

(पा-६,१.१८८; अकि-३,११३.१४-१७; रो-४,५२१; भा-७/७) अभ्यस्तस्वरः भवति विप्रतिषेधेन ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-१/८) अनुदात्ते च इति बहुव्रीहिनिर्देशः लोपयणादेशार्थम् ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-२/८) अनुदात्ते च इति बहुव्रीहिनिर्देशः कर्तव्यः ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-३/८) अविद्यमानोदात्ते इति वक्तव्यम् ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-४/८) किम् प्रयोजनम् ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-५/८) लोपयणादेशार्थम् ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-६/८) लोपयणादेशयोः कृतयोः आद्युदात्तत्वम् यथा स्यात् ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-७/८) मा हि दधात् ।

(पा-६,१.१९०; अकि-३,११३.१९-२२; रो-४,५२१; भा-८/८) दधाति अत्र ।

(पा-६,१.१९१.१; अकि-३,११४.२-३; रो-४,५२२; भा-१/३) सर्वस्वरः अनच्कस्य ।

(पा-६,१.१९१.१; अकि-३,११४.२-३; रो-४,५२२; भा-२/३) सर्वस्वरः अनच्कस्य इति वक्तव्यम् ।

(पा-६,१.१९१.१; अकि-३,११४.२-३; रो-४,५२२; भा-३/३) इह मा भूत् सर्वके ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१/४१) भ्यादिग्रहणम् किमर्थम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२/४१) इह मा भूत् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३/४१) ददाति दधाति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-४/४१) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-५/४१) अभ्यस्तस्वरः अत्र बाधकः भविष्यति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-६/४१) अन्ततः उभयम् स्यात् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-७/४१) अनवकाशाः खलु अपि विधयः बाधकाः भवन्ति सावकाशः च अभ्यस्तस्वरः ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-८/४१) कः अवकाशः ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-९/४१) मिमीते ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१०/४१) अथ प्रत्ययग्रहणम् किमर्थम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-११/४१) प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१२/४१) आटः पूर्वस्य मा भूत् इति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१३/४१) बिभयानि ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१४/४१) न च एव अस्ति विशेषः प्रत्ययात् वा पूर्वस्य उदात्तत्वे सति आटः वा ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१५/४१) अपि च पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१६/४१) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१७/४१) प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१८/४१) आटः एव मा भूत् इति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-१९/४१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२०/४१) पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२१/४१) एवम् तर्हि सिद्धे सति यत् प्रत्ययग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सङ्घातः कार्यी भवति इति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२२/४१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२३/४१) चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् विप्रतिषेधेन इति उक्तम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२४/४१) तत् उपपन्नम् भवति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२५/४१) अथ पूर्वग्रहणम् किमर्थम् न तस्मिन् इति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२६/४१) एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सप्तम्यः तदन्तसप्तम्यः भवन्ति इति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२७/४१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२८/४१) उपोत्तमम् रिति रिदन्तस्य ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-२९/४१) चङि अन्यतरस्याम् चङन्तस्य ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३०/४१) यदि एतत् ज्ञाप्यते चतुरः शसि इति शसन्तस्य अपि प्राप्नोति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३१/४१) शस्ग्रहणसामर्थ्यात् न भविष्यति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३२/४१) इतरथा हि तत्र एव अयम् ब्रूयात् ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः चतुर्भ्यः च इति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३३/४१) अथ पिद्ग्रहणम् किमर्थम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३४/४१) इह मा भूत् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३५/४१) जाग्रति. न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३६/४१) भवति एव अत्र पूर्वेण ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३७/४१) इदम् तर्हि प्रयोजनम् दरिद्रति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३८/४१) आकारेण व्यवहितत्वात् न भविष्यति ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-३९/४१) लोपे कृते न अस्ति व्यवधानम् ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-४०/४१) स्थानिवद्भावाद् व्यवधानम् एव ।

(पा-६,१.१९१.२; अकि-३,११४.६-११५.२; रो-४,५२२-५२५; भा-४१/४१) प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरसन्धिम् प्रति न स्थानिवत् इति ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१/३६) यकि रपरे उपसङ्ख्यानम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२/३६) यकि रपरे उपसङ्ख्यानम्कर्तव्यम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३/३६) स्तीर्यते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-४/३६) उपदेशवचनात् सिद्धम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-५/३६) उपदेशे इति वक्तव्यम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-६/३६) उपदेशवचने जनादीनाम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-७/३६) उपदेशवचने जनादीनाम् स्वरः न सिध्यति ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-८/३६) जयते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-९/३६) जायते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१०/३६) योगविभागात् सिद्धम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-११/३६) योगविभागः करिष्यते ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१२/३६) अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१३/३६) चीयते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१४/३६) चियते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१५/३६) जयते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१६/३६) जायते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१७/३६) ततः उपदेशे ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१८/३६) उपदेशे च अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-१९/३६) स्तीर्यते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२०/३६) स्तीर्यते स्वयम् एव ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२१/३६) तत् तर्हि उपदेशग्रहणम् कर्तव्यम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२२/३६) न हि अन्तरेण उपदेशग्रहणम् योगाङ्गम् जायते ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२३/३६) न कर्तव्यम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२४/३६) प्रकृतम् अनुवर्तते ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२५/३६) क्व प्रकृतम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२६/३६) तास्यनुदात्तेन्ङिददुपदेशात् लसार्वधातुकम् अनुदात्तम् अह्न्विङोः इति ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२७/३६) ननु च उक्तम् उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२८/३६) न एषः दोषः ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-२९/३६) न एवम् विज्ञायते उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३०/३६) कथम् तर्हि ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३१/३६) जनादीनाम् अपि आत्त्वे उपदेशवचनम् कर्तव्यम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३२/३६) तत् तर्हि तत्र उपदेशग्रहणम् कर्तव्यम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३३/३६) न कर्तव्यम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३४/३६) प्रकृतम् अनुवर्तते ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३५/३६) क्व प्रकृतम् ।

(पा-६,१.१९५; अकि-३,११५.४-२१; रो-४,५२५-५२६; भा-३६/३६) अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः झलि क्ङिति इति ।

(पा-६,१.१९६; अकि-३,११५.२३-११६.१; रो-४,५२६; भा-१/५) सेड्ग्रहणम् किमर्थम् न थलि इट् अन्तः वा इति उच्येत ।

(पा-६,१.१९६; अकि-३,११५.२३-११६.१; रो-४,५२६; भा-२/५) इट् अन्तः वा इति उच्यमाने इह अपि प्रसज्येत पपक्थ ।

(पा-६,१.१९६; अकि-३,११५.२३-११६.१; रो-४,५२६; भा-३/५) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.१९६; अकि-३,११५.२३-११६.१; रो-४,५२६; भा-४/५) अचः इति वर्तते ।

(पा-६,१.१९६; अकि-३,११५.२३-११६.१; रो-४,५२६; भा-५/५) इदम् तर्हि प्रयोजनम् ययाथ इति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१/२१) किमर्थम् इदम् उच्यते न ञ्निति आदिः नित्यम् इति एव सिद्धम् ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-२/२१) ञ्निति इति उच्यते न च अत्र ञ्नितम् पश्यामः ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-३/२१) प्रत्ययलक्षणेन ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-४/२१) न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-५/२१) अङ्गाधिकारोक्तस्य सः प्रतिषेधः न लुमता अङ्गस्य इति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-६/२१) अतः उत्तरम् पठति उपमानस्य आद्युदात्तवचनम् ज्ञापकम् अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-७/२१) उपमानस्य आद्युदात्तवचनम् ज्ञापकार्थम् क्रियते ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-८/२१) किम् ज्ञाप्यते ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-९/२१) एतत् ज्ञापयति आचार्यः अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणम् न भवति इति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१०/२१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-११/२१) गर्गः , वत्सः , बिदः , उर्वाः , उष्ट्रग्रीवः , वामरज्जुः ॒ ञ्निति इति आद्युदात्तत्वम् मा भूत् इति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१२/२१) इह च ॒ अत्रयः इति ॒ तद्धितस्य कितः इति अन्तोदात्तत्वम् न भवति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१३/२१) यदि अनुबन्धलक्षणे इति उच्यते पथिप्रियः , मथिप्रियः इति ॒ पथिमथोः सर्वनामस्थाने इति आद्युदात्तत्वम् प्राप्नोति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१४/२१) एवम् तर्हि आचार्यः ज्ञापयति स्वरे प्रत्ययलक्षणम् न भवति इति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१५/२१) एवम् अपि सर्पिः आगच्छ , सप्त आगच्छत इति ॒ आमन्त्रितस्य च इति आद्युदात्तत्वम् न प्राप्नोति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१६/२१) इह च ॒ म हि दताम् , म हि धताम् ॒ आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१७/२१) एवम् तर्हि ज्ञापयति आचार्यः सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणम् न भवति इति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१८/२१) एवम् अपि सर्वस्तोमः , सर्वपृष्ठः ॒ सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-१९/२१) अस्तु तर्हि अनुबन्धलक्षणे इति एव ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-२०/२१) कथम् पथिप्रियः , मथिप्रियः ।

(पा-६,१.२०४; अकि-३,११६.३-२१; रो-४,५२७-५२८; भा-२१/२१) वक्तव्यम् एव एतत् ॒ पथिमथोः सर्वनामस्थाने लुकि लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१/३२) निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२/३२) निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः वक्तव्यः ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-३/३२) दत्ताभ्याम् , गुप्ताभ्याम् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-४/३२) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-५/३२) न वा वक्तव्यम् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-६/३२) किम् कारणम् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-७/३२) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-८/३२) बहिरङ्गः अत्र दीर्घः , अन्तरङ्गः स्वरः ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-९/३२) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१०/३२) अन्तरेण प्रतिषेधम् अन्तरेण च एताम् परिभाषाम् सिद्धम् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-११/३२) कथम् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१२/३२) न एवम् विज्ञायते न चेत् आकारान्ता निष्ठा इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१३/३२) कथम् तर्हि ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१४/३२) न चेत् आकारात् परा निष्ठा इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१५/३२) यदि एवम् निर्देशः च एव न उपपद्यते ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१६/३२) न हि एषा आकारात् परा पञ्चमी युक्ता ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१७/३२) इह च प्राप्नोति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१८/३२) आप्तः , राद्धः इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-१९/३२) एवम् तर्हि न चेत् अवर्णात् परा निष्ठा इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२०/३२) भवेत् निर्देशः उपपन्नः ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२१/३२) इह तु प्राप्नोति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२२/३२) आप्तः , राद्धः इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२३/३२) इह च न प्राप्नोति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२४/३२) यतः , रतः ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२५/३२) एवम् तर्हि विहितविशेषणम् अकारग्रहणम् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२६/३२) न चेत् अकारारान्तात् विहिता निष्ठा इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२७/३२) एवम् अपि दत्तः , अत्र न प्राप्नोति इह च प्राप्नोति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२८/३२) आप्तः , राद्धः इति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-२९/३२) एवम् तर्हि कार्यिविशेषणम् अकारग्रहणम् ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-३०/३२) न चेत् आकारारः कार्यी भवति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-३१/३२) एवम् अपि अद्य अष्टः , कदा अष्टः , अत्र न प्राप्नोति ।

(पा-६,१.२०५; अकि-३,११६.२३-११७.१२; रो-४,५२९-५३०; भा-३२/३२) तस्मात् सुष्ठु उच्यते निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः , न वा बहिरङ्गलक्षणत्वात् इति ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-१/१३) किम् निपात्यते ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-२/१३) आशिते कर्तरि निपातनम् उपधादीर्हत्वम् आद्युदात्तत्वम् च ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-३/१३) आशितः इति क्तः कर्तरि निपात्यते उपधादीर्हत्वम् ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-४/१३) आशितवान् आशितः ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-५/१३) आद्युदात्तत्वम् च निपात्यते ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-६/१३) आद्युदात्तत्वम् अनिपात्यम् ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-७/१३) अधिकारात् सिद्धम् ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-८/१३) उपधादीर्हत्वम् अनिपात्यम् ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-९/१३) आङ्पूर्वस्य प्रयोगः ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-१०/१३) यदि एवम् अवग्रहः प्राप्नोति ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-११/१३) न लक्षणेन पदकाराः अनुवर्त्याः ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-१२/१३) पद्कारैः नाम लक्षणम् अनुवर्त्यम् ।

(पा-६,१.२०७; अकि-३,११७.१४-१९; रो-४,५३०; भा-१३/१३) यथालक्षणम् पदम् कर्तव्यम् ।

(पा-६,१.२०८, २१५; अकि-३,११७.२२-११८.३; रो-४,५३१; भा-१/७) किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

(पा-६,१.२०८, २१५; अकि-३,११७.२२-११८.३; रो-४,५३१; भा-२/७) कथम् च प्राप्ते कथम् वा अप्राप्ते ।

(पा-६,१.२०८, २१५; अकि-३,११७.२२-११८.३; रो-४,५३१; भा-३/७) यदि सञ्ज्ञायाम् उपमानम् , निष्ठा च द्व्यच् अनात् इति नित्ये प्राप्ते आरम्भः तत प्राप्ते अन्यत्र वा अप्राप्ते ।

(पा-६,१.२०८, २१५; अकि-३,११७.२२-११८.३; रो-४,५३१; भा-४/७) वेणुरिक्तयोः अप्राप्ते ।

(पा-६,१.२०८, २१५; अकि-३,११७.२२-११८.३; रो-४,५३१; भा-५/७) वेणुरिक्तयोः अप्राप्ते विभाषा प्राप्ते नित्यः विधिः ।

(पा-६,१.२०८, २१५; अकि-३,११७.२२-११८.३; रो-४,५३१; भा-६/७) वेणुः इव वेणुः ।

(पा-६,१.२०८, २१५; अकि-३,११७.२२-११८.३; रो-४,५३१; भा-७/७) रिक्तः नाम कः चित् ।

(पा-६,१.२१७; अकि-३,११८.५-८; रो-४, ५३१; भा-१/७) उपोत्तमग्रहणम् किमर्थन् न रिति पूर्वम् इति एव उच्येत ।

(पा-६,१.२१७; अकि-३,११८.५-८; रो-४, ५३१; भा-२/७) तत्र अयम् अपि अर्थः ।

(पा-६,१.२१७; अकि-३,११८.५-८; रो-४, ५३१; भा-३/७) मतोः पूर्वम् आत् सञ्ज्ञायाम् स्त्रियाम् इति अत्र पूर्वग्रहणम् न कर्तव्यम् भवति ।

(पा-६,१.२१७; अकि-३,११८.५-८; रो-४, ५३१; भा-४/७) एवम् तर्हि उपोत्तमग्रहणम् उत्तरार्थम् ।

(पा-६,१.२१७; अकि-३,११८.५-८; रो-४, ५३१; भा-५/७) चङि अन्यतरस्याम् उपोत्तमम् इति एव ।

(पा-६,१.२१७; अकि-३,११८.५-८; रो-४, ५३१; भा-६/७) इह मा भूत् ।

(पा-६,१.२१७; अकि-३,११८.५-८; रो-४, ५३१; भा-७/७) मा हि स्म दधत् ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-१/९) किमर्थम् इदम् उच्यते न वत्याः इति एव उच्यते ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-२/९) वत्याः इति इयति उच्यमाने राजवती , अत्र अपि प्रसज्येत ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-३/९) अथ अवत्याः इति उच्यमाने कस्मात् एव अत्र न भवति ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-४/९) असिद्धः नलोपः ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-५/९) तस्य असिद्धत्वात् न एषः अवतीशब्दः ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-६/९) कः तर्हि ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-७/९) अन्वतीशब्दः ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-८/९) यथा एव तर्हि नलोपस्य असिद्धत्वात् न अवतीशब्दः एवम् वत्वस्य अपि असिद्धत्वात् न अवतीशब्दः ।

(पा-६,१.२२०-२२१; अकि-३,११८.११-१५; रो-४,५३२; भा-९/९) आश्रयात् सिद्धत्वम् स्यात् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१/४०) चोः अतद्धिते ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२/४०) चुस्वरः अतद्धिते इति वक्तव्यम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३/४०) इह मा भूत् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-४/४०) दाधीचः , माधूचः इति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-५/४०) तत् तर्हि वक्तव्यम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-६/४०) न वक्तव्यम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-७/४०) प्रत्ययस्वरः अत्र बाधकः भविष्यति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-८/४०) स्थानान्तरप्राप्तः चुस्वरः ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-९/४०) प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१०/४०) अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-११/४०) उदात्तनिवृत्तिस्वरस्य चुस्वरः ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१२/४०) सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१३/४०) न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१४/४०) किम् कारणम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१५/४०) न गोश्वन्साववर्ण इति प्रतिषेधात् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१६/४०) न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१७/४०) कस्य तर्हि ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१८/४०) तृतीयादिस्वरस्य ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-१९/४०) यत्र तर्हि तृतीयादिस्वरः न अस्ति दधीचः पश्य इति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२०/४०) एवम् तर्हि न तृतीयादिलक्षणस्य प्रतिषेधम् षिष्मः ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२१/४०) किम् तर्हि ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२२/४०) येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२३/४०) यदि विभक्तिस्वरस्य प्रतिषेधः वृक्षवान् , प्लक्षवान् अत्र न प्राप्नोति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२४/४०) मतुब्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२५/४०) क्व प्रकृतम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२६/४०) ह्रस्वनुड्भ्याम् मतुप् इति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२७/४०) यदि तत् अनुवर्तते वेतस्वान् इति अत्र प्राप्नोति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२८/४०) मतुब्ग्रहणम् अनुवर्तते ड्मतुप् च एषः ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-२९/४०) यदि तरि मतुब्ग्रहणे ड्मतुपः ग्रहणम् न भवति वेतस्वान् इति अत्र वत्वम् न प्राप्नोति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३०/४०) सामान्यग्रहणम् वत्वे इह पुनः विशिष्टस्य ग्रहणम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३१/४०) यत्र तर्हि विभक्तिः न अस्ति दधीची इति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३२/४०) यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३३/४०) न एवम् शक्यम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३४/४०) इह अपि प्रसज्येत कुमारी इति ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३५/४०) सतिशिष्टः खलु अपि चुस्वरः ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३६/४०) कथम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३७/४०) चौ इति उच्यते ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३८/४०) यत्र अस्य एतत् रूपम् ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-३९/४०) अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च ।

(पा-६,१.२२२; अकि-३,११८.१७-११९.१४; रो-४,५३२-५३४; भा-४०/४०) तस्मात् सुष्थु उच्यते चोः अतद्धिते इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१/४४) समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२/४४) समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् ॒ राजदृषत्, ब्राह्मणसमित् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३/४४) हल्स्वरप्राप्तौ वा व्यञ्जनम् अविद्यमानवत् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-४/४४) अथ वा हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-५/४४) किमर्थम् इदम् उभयम् उच्यते न हल्स्वरप्राप्तौ अविद्यमानवत् इति एव उच्यते स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति वा ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-६/४४) द्विर्बद्धम् सुबद्धम् भवति इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-७/४४) यदि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति उच्यते दधि , उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितत्वम् न प्राप्नोति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-८/४४) उदात्तात् च स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-९/४४) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१०/४४) प्रयोजनम् लिदाद्युदात्तान्तोदात्त्विधयः ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-११/४४) लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति इह एव स्यात् ॒ भौरिकिविधम् , भौलिकिविधम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१२/४४) चिकीर्षकः , जिहीर्षकः इति अत्र न स्यात् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१३/४४) ञ्निति आदिः नित्यम् इति इह एव स्यात् ॒ अहिचुम्बुकायनिः , आग्निवेश्यः ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१४/४४) गार्ग्यः , कृतिः इति अत्र न स्यात् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१५/४४) धातोः अन्तः उदात्तः भवति इति इह एव स्यात् ऊर्णोति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१६/४४) पचति इति अत्र न स्यात् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१७/४४) इदम् तावत् यत् उच्यते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति कथम् हि हलः नाम स्वरप्राप्तिः स्यात् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१८/४४) तत् च अपि ब्रुवता उदात्तात् च स्वरविधौ इति वक्तव्यम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-१९/४४) तथा अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२०/४४) यदि पुनः स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्येत ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२१/४४) अथ स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्यमाने अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् किम् सिद्धम् भवति व्यञ्जनादेः व्यञ्जनान्तात् च ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२२/४४) बाढम् सिद्धम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२३/४४) कथम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२४/४४) स्वरविधिः इति सर्वविभक्त्यन्तः समासः ॒ स्वरेण विधिः स्वरविधिः , स्वरस्य विधिः स्वरविधिः इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२५/४४) न एवम् शक्यम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२६/४४) इह हि दोषः स्यात् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२७/४४) उदश्वित्वान् घोषः , विद्युत्वान् बलाहकः इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२८/४४) ह्रस्वनुड्भ्याम् मतुप् इति एषः स्वरः प्रसज्येत ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-२९/४४) अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३०/४४) ननु च उक्तम् कथम् हि हलः नाम स्वरप्राप्तिः स्यात् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३१/४४) उच्चैः उदात्तः , नीचैः अनुदात्तः इति अत्र षष्ठीनिर्दिष्टम् अज्ग्रहणम् निवृत्तम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३२/४४) तस्मिन् निवृत्ते हलः अपि स्वरप्राप्तिः भवति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३३/४४) यत् अपि उच्यते उदात्तात् च स्वरविधौ इति वक्तव्यम् इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३४/४४) न वक्तव्यम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३५/४४) न इदम् पारिभाषिकस्य अनुदात्तस्य ग्रहणम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३६/४४) किम् तर्हि ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३७/४४) अन्वर्थग्रहणम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३८/४४) अविद्यमानोदात्तम् अनुदात्तम् ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-३९/४४) तस्य स्वरितः इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-४०/४४) यत् अपि उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति इति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-४१/४४) आचार्यप्रवृत्तिः ज्ञापयति सिद्धम् तत् भवति व्यञ्जनादेः व्यञ्जनान्तात् च इति यत् अयम् न उत्तरपदे अनुदात्तादौ इति उक्त्वा अपृथिवीरुद्रल्क्पूषमन्थिषु इति प्रतिषेधम् शास्ति ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-४२/४४) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-४३/४४) न कर्तव्या ।

(पा-६,१.२२३; अकि-३,११९.१६-१२०.२४; रो-४,५३४-५३७; भा-४४/४४) आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा यत् अयम् यतः अनावः इति नावः प्रतिषेधम् शास्ति ।