व्याकरणमहाभाष्य खण्ड 67

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१/६३) किमर्थम् इदम् उच्यते ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२/६३) बहुव्रीहिस्वरम् शास्ति समासान्तविधेः सुकृत् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३/६३) सुकृत् आचार्यः समासान्तोदात्तत्वे प्राप्ते बहुव्रीहिस्वरम् अपवादम् शास्ति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४/६३) न एतत् अस्ति प्रयोजनम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५/६३) नञ्सुभ्याम् नियमार्थम् तु ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-६/६३) नञ्सुभ्याम् इति एतत् नियमार्थम् भविष्यति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-७/६३) नञ्सुभ्याम् एव बहुव्रीहेः अन्तः उदात्तः भवति न अन्यस्य इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-८/६३) एवम् अपि कुतत् एतत् पूर्वपदप्रकृतिस्वरत्वम् भविष्यति न पुनः परस्य इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-९/६३) परस्य शितिशासनात् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१०/६३) शितेः नित्याबह्वच् इति एतत् नियमार्थम् भविष्यति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-११/६३) शितेः एव न अन्यतः इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१२/६३) यत् तावत् उच्यते नञ्सुभ्याम् नियमार्थम् इति क्षेपे विधिः नञः असिद्धः ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१३/६३) उदराश्वेषुषु क्षेपे इति एतस्मिन् प्राप्ते ततः एतत् उच्यते ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१४/६३) यत् अपि उच्यते परस्य शितिशासनात् इति परस्य नियमः भवेत् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१५/६३) परस्य एषः नियमः स्यात् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१६/६३) शितेः नित्याबह्वच् इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१७/६३) यदि पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधते चप्रियः वाप्रियः , अत्र अपि प्राप्नोति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१८/६३) अन्तः चवाप्रिये सम्भवात् । अन्तोदात्तत्वम् चवाप्रिये सिद्धम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-१९/६३) कुतः ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२०/६३) सम्भवात् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२१/६३) असति खलु अपि सम्भवे बाधनम् भवति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२२/६३) अस्ति च सम्भवः यत् उभयम् स्यात् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२३/६३) सति अपि सम्भवे बाधनम् भवति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२४/६३) तत् यथा ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२५/६३) दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२६/६३) एवम् इह अपि सति अपि सम्भवे पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधिष्यते ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२७/६३) एवम् तर्हि प्रकृतात् विधेः । बहुव्रीहौ प्र्कृत्या पूर्वपदम् प्रकृतिस्वरम् भवति इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२८/६३) किम् च प्रकृतम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-२९/६३) उदात्तः इति च वर्तते ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३०/६३) एवम् अपि कार्यप्रियः , हार्यप्रियः , अत्र न प्राप्नोति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३१/६३) स्वरिते अपि उदात्तः अस्ति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३२/६३) अथ वा स्वरितग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३३/६३) क्व प्रकृतम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३४/६३) तित् स्वरितम् इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३५/६३) बहुव्रीहौ ऋते सिद्धम् । अन्तरेण अपि बहुव्रीहिग्रहणम् सिद्धम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३६/६३) तत्पुरुषे कस्मात् न भवति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३७/६३) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः इति एतत् नियमार्थम् भविष्यति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३८/६३) द्विगौ तर्हि कस्मात् न भवति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-३९/६३) इगन्ते द्विगौ इति एतत् नियमार्थम् भविष्यति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४०/६३) द्वन्द्वे तर्हि प्राप्नोति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४१/६३) राजन्यबहुवचनद्वन्द्वे अन्धकवृष्णिषु इति एतत् नियमार्थम् भविष्यति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४२/६३) अव्ययीभावे तर्हि प्राप्नोति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४३/६३) परिप्रत्युपापाः वर्ज्यमानाहोरात्रावयवेषु इति एतत् नियमार्थम् भविष्यति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४४/६३) एवम् अपि कुतः एतत् एवम् नियमः भविष्यति एतेषाम् एव तत्पुरुषादिषु इति न पुनः एवम् नियमः स्यात् एतेषाम् तत्पुरुषादिषु एव इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४५/६३) इष्टतः च अवधारणम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४६/६३) इष्टतः च अवधारणम् भविष्यति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४७/६३) एतेषाम् तर्हि बहुव्रीहेः च पर्यायः प्राप्नोति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४८/६३) द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते । यत् अयम् द्वित्रिभ्याम् पाद्दन्मूर्धसु बहुव्रीहौ दिष्टिवितस्योः च इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-४९/६३) उदात्ते ज्ञापकम् तु एतत् । उदात्ते एतत् ज्ञापकम् स्यात् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५०/६३) स्वरितेन समाविशेत् । स्वरितेन समावेशः प्राप्नोति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५१/६३) स्वरिते अपि उदात्तः अस्ति ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५२/६३) बहुव्रीहिस्वरम् शास्ति समासान्तविधेः सुकृत् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५३/६३) नञ्सुभ्याम् नियमार्थम् तु ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५४/६३) परस्य शितिशासनात् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५५/६३) क्षेपे विधिः नञः असिद्धः ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५६/६३) परस्य नियमः भवेत् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५७/६३) अन्तः चवाप्रिये सम्भवात् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५८/६३) प्रकृतात् विधेः ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-५९/६३) बहुव्रीहौ ऋते सिद्धम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-६०/६३) इष्टतः च अवधारणम् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-६१/६३) द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-६२/६३) उदात्ते ज्ञापकम् तु एतत् ।

(पा-६,२.१; अकि-३,१२१.२-१२३.३; रो-४,५३८-५४२; भा-६३/६३) स्वरितेन समाविशेत् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१/२९) तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२/२९) तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः वक्तव्यः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-३/२९) परमम् कारकम् परमकारकम् परमेन कारकेण परमकारकेण , परमे कारके परमकारके ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-४/२९) सिद्धम् तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणात् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-५/२९) सिद्धम् एतत् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-६/२९) कथम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-७/२९) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः द्वितीयातृतीयासप्तमीसमासः तस्य ग्रहणम् लक्षणोक्तः च अयम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-८/२९) अव्यये परिगणनम् कर्तव्यम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-९/२९) अव्यये नञ्कुनिपातानाम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१०/२९) अव्यये नञ्कुनिपातानाम् इति वक्तव्यम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-११/२९) नञ् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१२/२९) अब्राह्मणः , अवृषलः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१३/२९) नञ् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१४/२९) कु ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१५/२९) कुब्राह्मणः , कुवृषलः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१६/२९) कु ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१७/२९) निपात ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१८/२९) निष्कौशाम्बिः , निर्वाराणसिः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-१९/२९) क्व मा भूत् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२०/२९) स्नात्वाकालकः , पीत्वास्थिरकः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२१/२९) क्त्वायाम् वा प्रतिषेधः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२२/२९) क्त्वायाम् वा प्रतिषेधः वक्तव्यः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२३/२९) स्नात्वाकालकः , पीत्वास्थिरकः ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२४/२९) उभयम् न वक्तव्यम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२५/२९) निपातनात् सिद्धम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२६/२९) निपातनात् एतत् सिद्धम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२७/२९) किम् निपातनम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२८/२९) अवश्यम् अत्र समासार्थम् ल्यबभावार्थम् च निपातनम् कर्तव्यम् ।

(पा-६,२.२; अकि-३,१२३.५-२१; रो-४,५४२-५४३; भा-२९/२९) तेन एव यत्नेन स्वरः भविष्यति ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१/२०) सदृशग्रहणम् अनर्थकम् तृतीयासमासवचनात् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-२/२०) सदृशग्रहणम् अनर्थकम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-३/२०) किम् कारणम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-४/२०) तृतीयासमासवचनात् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-५/२०) सदृशशब्देन तृतीयासमासः उच्यते ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-६/२०) तत्र तृतीयापूर्वपदम् प्रकृतिस्वरम् भवति इति एव सिद्धम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-७/२०) षष्ठ्यर्थम् तर्हि इदम् वक्तव्यम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-८/२०) पितुः सदृशः पितृसदृशः इति ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-९/२०) षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१०/२०) षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनम् अनर्थकम् स्यात् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-११/२०) किम् कारणम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१२/२०) इह अस्माभिः त्रैशब्द्यम् साध्यम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१३/२०) पित्रा सदृशः पितुः सदृशः पितृसदृशः इति ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१४/२०) तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरेण समासः भविष्यति अविरविकन्यायेन ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१५/२०) तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति , आविकम् इति एवम् पितुः सदृशः इति विगृह्य पितृसदृशः इति भविष्यति पित्रा सदृशः इति विगृह्य वाक्यम् एव ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१६/२०) अवश्यम् तृतीयासमासः वक्तव्यः यत्र षष्ठ्यर्थः न अस्ति तदर्थम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१७/२०) भोजनसदृशः , अधययनसदृशः इति ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१८/२०) यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-१९/२०) इदम् अपि अवश्यम् वक्तव्यम् यत्र षष्ठी श्रूयते तदर्थम् ।

(पा-६,२.११; अकि-३,१२३.२३-१२४.१२; रो-४,५४४; भा-२०/२०) दास्याःसदृशः , वृषल्याःसदृशः इति ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-१/११) इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम् ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-२/११) इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-३/११) पञ्चारत्न्यः , दशारतन्यः ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-४/११) यण्गुणयोः कृतयोः इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-५/११) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-६/११) न वा वक्तव्यम् ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-७/११) किम् कारणम् ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-८/११) बहिरङ्गलक्षणत्वात् ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-९/११) बहिरङ्गौ यण्गुणौ ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-१०/११) अन्तरङ्गः स्वरः ।

(पा-६,२.२९; अकि-३,१२४.१४-१९; रो-४,५४५; भा-११/११) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-१/१४) परिप्रत्युपापेभ्यः वनम् समासे विप्रतिषेधेन ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-२/१४) परिप्रत्युपापेभ्यः वनम् समासे इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-३/१४) परिप्रत्युपापाः वर्ज्यमानाहोरातावयवेषु इति अस्य अवकाशः परित्रिगर्तम्, परिसौवीरम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-४/१४) वनम् समासे इति अस्य अवकाशः प्रवणे यष्टव्यम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-५/१४) इह उभयम् प्राप्नोति परिवनम् अपवनम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-६/१४) वनम् समासे इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-७/१४) न वा वनस्यान्दोदात्तत्ववचनम् तदपवादनिवृत्त्यर्थम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-८/१४) न वा अर्थः विप्रतिषेधेन ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-९/१४) किम् कारणम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-१०/१४) वनस्यान्दोदात्तत्ववचनम् तदपवादनिवृत्त्यर्थम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-११/१४) सिद्धम् अत्र अन्तोदात्तत्वम् उत्सर्गेण एव ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-१२/१४) तस्य पुनर्वचने एतत् प्रयोजनम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-१३/१४) ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

(पा-६,२.३३; अकि-३,१२४.२१-१२५.८; रो-४,५४५-५४६; भा-१४/१४) सः यथा एव तदपवादम् अव्ययस्वरम् बाधते एवम् इदम् अपि बाधिष्यते ।

(पा-६,२.३६; अकि-३,१२५.१०-१६; रो-४,५४६-५४७; भा-१/७) आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः ।

(पा-६,२.३६; अकि-३,१२५.१०-१६; रो-४,५४६-५४७; भा-२/७) आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः भवति ।

(पा-६,२.३६; अकि-३,१२५.१०-१६; रो-४,५४६-५४७; भा-३/७) आपिशलपाणिनीयव्याडीयगौतमीयाः ।

(पा-६,२.३६; अकि-३,१२५.१०-१६; रो-४,५४६-५४७; भा-४/७) एकम् पदम् वर्जयित्वा सर्वाणि पूर्वपदानि ।

(पा-६,२.३६; अकि-३,१२५.१०-१६; रो-४,५४६-५४७; भा-५/७) तत्र न ज्ञायते कस्य पूर्वपदस्य प्रकृतिस्वरेण भवितव्यम् इति ।

(पा-६,२.३६; अकि-३,१२५.१०-१६; रो-४,५४६-५४७; भा-६/७) लोकविज्ञानात् सिद्धम् ।

(पा-६,२.३६; अकि-३,१२५.१०-१६; रो-४,५४६-५४७; भा-७/७) तत् यथा लोके , अमीषाम् ब्राह्मणानाम् पूर्वम् आनय इति यः सर्वपूर्वः सः आनीयते एवम् इह अपि यत् सर्वपूर्वपदम् तस्य प्रकृतिस्वरत्वम् भविष्यति ।

(पा-६,२.३८; अकि-३,१२५.१९-२१; रो-४,५४७; भा-१/४) किमर्थम् महतः प्रवृद्धशब्दे उत्तरपदे पूर्वपदप्रकृतिस्वरत्वम् उच्यते न कर्मधारये अनिष्ठा इति एव सिद्धम् ।

(पा-६,२.३८; अकि-३,१२५.१९-२१; रो-४,५४७; भा-२/४) न सिध्यति ।

(पा-६,२.३८; अकि-३,१२५.१९-२१; रो-४,५४७; भा-३/४) किम् कारणम् ।

(पा-६,२.३८; अकि-३,१२५.१९-२१; रो-४,५४७; भा-४/४) श्रेण्यादिसमासे एवत् तत् इह मा भूत् , महानिरष्टः दक्षिणा दीयते ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१/१८) कुरुवृज्योः गार्हपते ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-२/१८) कुरुवृज्योः गार्हपते इति वक्तव्यम् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-३/१८) कुरुगार्हपतम् , वृजिगाऋहपतम् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-४/१८) कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः दासीभारादीनाम् इति वक्तव्यम् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-५/१८) इह अपि यथा स्यात् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-६/१८) देवहूतिः , देवनीतिः , वसुनीतिः , ओषधिः , चन्द्रमाः ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-७/१८) तत् तर्हि वक्तव्यम् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-८/१८) न वक्तव्यम् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-९/१८) योगविभागः करिष्यते ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१०/१८) कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः इति ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-११/१८) ततः दासीभाराणाम् च इति ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१२/१८) तत्र बहुवचननिर्देशात् दासीभारादीनाम् इति विज्ञास्यते ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१३/१८) पण्यकम्बलः सञ्ज्ञायाम् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१४/१८) पण्यकम्बलः सञ्ज्ञायाम् इति वक्तव्यम् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१५/१८) यः पणितव्यः कम्बलः पण्यकम्बलः एव असौ भवति ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१६/१८) अपरः आह ॒ पण्यकम्बलः एव यथा स्यात् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१७/१८) क्व मा भूत् ।

(पा-६,२.४२; अकि-३,१२६.३-१४; रो-४,५४७-५४९; भा-१८/१८) पण्यगवः , पण्यहस्ती ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-१/९) अहीने इति किमर्थम् ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-२/९) कान्तारातीतः , योजनातीतः ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-३/९) अहीने द्वितीया अनुपसर्गे ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-४/९) अहीने द्वितीया अनुपसर्गे इति वक्तव्यम् ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-५/९) इह मा भूत् ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-६/९) सुखप्राप्तः , दुःखप्राप्तः ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-७/९) तत् तर्हि वक्तव्यम् ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-८/९) यदि अपि एतत् उच्यते अथ वा एतर्हि अहीनग्रहणम् न करिष्यते ।

(पा-६,२.४७; अकि-३,१२६.१६-२०; रो-४,५४९; भा-९/९) इह अपि कान्तारातीतः , योजनातीतः इति अनुपसर्गे इति एव सिद्धम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१/६१) अनन्तरः इति किमर्थम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२/६१) इह मा भूत् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३/६१) अभ्युद्धृतम् , उपसमाहृतम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४/६१) गतेः अनन्तरग्रहणम् अनर्थकम् गतिः गतौ अनुदात्तवचनात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५/६१) गतेः अनन्तरग्रहणम् अनर्थकम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-६/६१) किम् कारणम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-७/६१) गतिः गतौ अनुदात्तवचनात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-८/६१) गतौ परतः गतेः अनुदात्तत्वम् उच्यते ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-९/६१) तत् बाधकम् भविष्यति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१०/६१) तत्र यस्य अप्रकृतिस्वरत्वम् तस्मात् अन्तोदात्तप्रसङ्गः. तत्र यस्य गतेः अप्रकृतिस्वरत्वम् तस्मात् अन्तोदात्तत्वम् प्राप्नोति अन्तः थाथघञ्क्ताजबित्रकाणाम् इति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-११/६१) प्रकृतिस्वरवचनात् हि अननोदात्तत्वम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१२/६१) प्रकृतिस्वरवचनसामर्थ्यात् हि अन्तोदात्तत्वम् न भविष्यति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१३/६१) यदि हि स्यात् प्रकृतिस्वरवचनम् इदानीम् किमर्थम् स्यात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१४/६१) प्रकृतिस्वरवचनम् किमर्थम् इति चेत् एकगत्यर्थम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१५/६१) प्रकृतिस्वरवचनम् किमर्थम् इति चेत् एकगत्यर्थम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१६/६१) यत्र एकः गतिः तदर्थम् एतत् स्यात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१७/६१) प्रकृतम् , प्रहृतम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१८/६१) एवमर्थम् एव तर्हि अनन्तग्रहणम् कर्तव्यम् अत्र यथा स्यात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-१९/६१) क्रियमाणे अपि वै अनन्तग्रहणे अत्र न सिध्यति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२०/६१) किम् कारणम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२१/६१) गतिः अनन्तरः पूर्वपदम् प्रकृतिस्वरम् भवति इति उच्यते ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२२/६१) यः च अत्र गतिः अनन्तरः न असौ पूर्वपदम् यः च पूर्वपदम् न असौ अनन्तरः ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२३/६१) अपूर्वपदार्थम् तर्हि इदम् वक्तव्यम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२४/६१) अपूर्वपदस्य अपि गतेः प्रकृतिस्वरत्वम् यथा स्यात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२५/६१) अपूर्वपदार्थम् इति चेत् कारके अतिप्रसङ्गः ।अपूर्वपदार्थम् इति चेत् कारके अतिप्रसङ्गः भवति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२६/६१) आगतः , दूरादागतः ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२७/६१) सः यथा एव गतिपूर्वपदस्य भवति एवम् कारकपूर्वपदस्य अपि प्राप्नोति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२८/६१) सिद्धम् तु गतेः अन्तोदात्ताप्रसङ्गात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-२९/६१) सिद्धम् एतत् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३०/६१) कथम् ।यत् तत् गतेः अन्तोदात्ताप्रसङ्गात् अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् गतेः न प्रसङ्क्तव्यम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३१/६१) किम् कृतम् भवति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३२/६१) कृत्स्वरापवादः अयम् भवति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३३/६१) तत्र गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् , प्रहृतम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३४/६१) अन्तः थाथघञ्क्ताजबित्रकाणाम् इति अस्य अवकाशः , दूराद्गतः , दूराद्यातः ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३५/६१) इह उभयम् प्राप्नोति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३६/६१) आगतः , दूरादागतः ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३७/६१) अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३८/६१) अवश्यम् गतेः तत् प्रसङ्क्तव्यम् भेदः प्रभेदः इति एवमर्थम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-३९/६१) एवम् तर्हि योगविभागः करिष्यते ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४०/६१) अन्तः थाथघञ्क्ताजबित्रकाणाम् इति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४१/६१) ततः क्तः ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४२/६१) क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४३/६१) अत्र कारकोपपदग्रहणम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४४/६१) अनुवर्तते गतिग्रहणम् निवृत्तम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४५/६१) अथ वा उपरिष्टाद् योगविभागः करिष्यते ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४६/६१) इदम् अस्ति सूपमानात् क्तः , सञ्ज्ञायाम् अनाचितादीनाम् , प्रवृद्धादीनाम् च इति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४७/६१) ततः वक्ष्यामि कारकात् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४८/६१) कारकात् च क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-४९/६१) ततः दत्तश्रुतयोः एव आशिषि कारकात् इति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५०/६१) एवम् च कृत्वा न अर्थः अनन्तग्रहणेन ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५१/६१) कथम् अभ्युद्धृतम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५२/६१) उत् हरतिक्रियम् विशिनष्टि ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५३/६१) उदा विशिष्टम् अभिः विशिनष्टि ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५४/६१) । तत्र गतिः अनन्तरः इति च प्राप्नोति गतिः गतौ इति च ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५५/६१) गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् प्रहृतम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५६/६१) गतिः गतौ इति अस्य अवकाशः अभि उत् हरति , उप सम् आ दधाति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५७/६१) इह उभयम् प्राप्नोति , अभ्युद्धृतम् , उपसमाहृतम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५८/६१) गतिः गतौ इति एतत् भवति विप्रतिषेधेन ।एवम् तर्हि सिद्धे सति यत् अनन्तरग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-५९/६१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-६०/६१) अवतप्तेनकुलस्थितम् ते एतत् , उदकेविशीर्णम् ते एतत् ।

(पा-६,२.४९; अकि-३,१२६.२२-१२८.१४; रो-४,५५०-५५५; भा-६१/६१) सगतिकेन सनकुलेन समासः सिद्धः भवति ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१/२१) कृद्ग्रहणम् किमर्थम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-२/२१) यथा तकारादिग्रह्णम् कृद्विशेषणम् विज्ञायेत ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-३/२१) तकारादौ निति कृति इति ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-४/२१) अथ अक्रियमाणे कृद्ग्रहणे कस्य तकारादिग्रह्णम् विशेषणम् स्यात् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-५/२१) उत्तरपदविशेषणम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-६/२१) तत्र कः दोषः ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-७/२१) इह एव स्यात् प्रतरिता प्रतरितुम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-८/२१) इह न स्यात् प्रकर्ता प्रकर्तुम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-९/२१) तादौ निति कृद्ग्रहणानर्थक्यम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१०/२१) तादौ निति कृद्ग्रहणम् अनर्थकम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-११/२१) क्रियमाणे अपि कृद्ग्रहणे अनिष्टम् शक्यम् विज्ञातुम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१२/२१) तकारादौ उत्तरपदे निति कृति इति ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१३/२१) अक्रियमाणे च इष्टम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१४/२१) नित् यः तकारादिः तदन्ते उत्तरपदे इति ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१५/२१) यावता क्रियमाणे अपि अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् अक्रियमाणे एव इष्टम् विज्ञास्यामः ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१६/२१) कृदुपदेशे वा ताद्यर्थम् इडर्थम् ।कृदुपदेशे तर्हि ताद्यर्थम् इडर्थम् कृद्ग्रहणम् कर्तव्यम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१७/२१) कृदुपदेशे यः तकारादिः इति एवम् यथा विज्ञायेत ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१८/२१) किम् प्रयोजनम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-१९/२१) इडर्थम् ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-२०/२१) इडादौ अपि सिद्धम् भवति ।

(पा-६,२.५०; अकि-३,१२८.१६-१२९.२; रो-४,५५५-५५६; भा-२१/२१) प्रलविता प्रलवितुम् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१/३७) अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२/३७) अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावः प्राप्नोति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३/३७) प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-४/३७) अनिगन्तवचनम् इदानीम् किमर्थम् स्यात् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-५/३७) अनिगन्तवचनम् किमर्थम् इति चेत् अयणादिष्टार्थम् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-६/३७) अयणादिष्टार्थम् एतत् स्यात् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-७/३७) यदा यणादेशः न ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-८/३७) कदा च यणादेशः न ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-९/३७) यादा शाकलम् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१०/३७) उक्तम् वा ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-११/३७) किम् उक्तम् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१२/३७) समासे शाकलम् न भवति इति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१३/३७) यत्र तर्हि अञ्चतेः अकारः लुप्यते ॒ प्रतीचः प्रतीइचा ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१४/३७) चुस्वरः तत्र बाधकः भविष्यति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१५/३७) अयम् एव इष्यते ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१६/३७) वक्ष्यति हि एतत् ॒ चोः अनिगन्तः अञ्चतौ वप्रत्यये इति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१७/३७) यत् तर्हि न्यध्योः प्रकृतिस्वरम् शास्ति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१८/३७) एषः हि यणादिष्टार्थः आरम्भः ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-१९/३७) एतत् अपि अयणादिष्टार्थम् एव स्यात् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२०/३७) यदा यणादेशः न ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२१/३७) कदा च यणादेशः न ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२२/३७) यादा शाकलम् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२३/३७) उक्तम् वा ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२४/३७) किम् उक्तम् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२५/३७) समासे शाकलम् न भवति इति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२६/३७) यत्र तर्हि अञ्चतेः अकारः लुप्यते ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२७/३७) अधीचः अधीचा ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२८/३७) चुस्वरः तत्र बाधकः भविष्यति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-२९/३७) अयम् एव इष्यते ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३०/३७) वक्ष्यति हे एतत् चोः अनिगन्तः अञ्चतौ वप्रत्यये इति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३१/३७) यत् तर्हि नेः एव प्रकृतिस्वरम् शास्ति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३२/३७) एषः हि यणादिष्टार्थः आरम्भः ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३३/३७) एतत् अपि अयणादिष्टार्थम् एव स्यात् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३४/३७) कथम् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३५/३७) अकृते यणादेश पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितोः यणः स्वरितः वा अनुदात्तस्य इति एषः स्वरः सिद्धः भवति ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३६/३७) न्यङ् ।

(पा-६,२.५२.१; अकि-३,१२९.४-२१; रो-४,५५६-५५७; भा-३७/३७) तस्मात् सुष्ठु उच्यते अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः इति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१/६७) चोः अनिगन्तः अञ्चतौ वप्रत्यये ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२/६७) चुस्वरात् अनिगन्तः अञ्चतौ वप्रत्यये इति एषः स्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३/६७) चुस्वरस्य अवकाशः दधीचः पश्य ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४/६७) दधीचा दधीचे ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५/६७) अनिगन्तः अञ्चतौ वप्रत्यये इति अस्य अवकाशः पराङ् पराञ्चौ पराञ्चः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६/६७) इह उभयम् प्राप्नोति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-७/६७) अवाचा , अवाचे ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-८/६७) अवकाशः इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-९/६७) न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् इतरथा हि सर्वापवादः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१०/६७) न वा एतत् विप्रतिषेधेन अपि सिध्यति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-११/६७) कथम् तर्हि सिध्यति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१२/६७) चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१३/६७) चुर्स्वरः पूर्वपदप्रकृतिस्वरभाविनः प्रतिषेध्यः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१४/६७) इतरथा हि सर्वापवादः चुस्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१५/६७) अक्रियमाणे हि प्रतिषेधे सर्वापवादः अयम् चुस्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१६/६७) कथम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१७/६७) प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१८/६७) अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-१९/६७) उदात्तनिवृत्तिस्वरस्य चुस्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२०/६७) सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् अनिगन्तस्वरम् अपि बाधेत ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२१/६७) यदि तावत् सङ्ख्यातः साम्यम् अयम् अपि चतुर्थः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२२/६७) समासान्तोदात्तत्वस्य अपवादः अव्ययस्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२३/६७) अव्ययस्वरस्य कृत्स्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२४/६७) कृत्स्वरस्य अयम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२५/६७) उभयोः चतुर्थयोः युक्तः विप्रतिषेधः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२६/६७) सतिशिष्टः तर्हि चुस्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२७/६७) कथम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२८/६७) चौ इति उच्यते ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-२९/६७) यत्र अस्य एतत् रूपम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३०/६७) अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३१/६७) तस्मात् सुष्थु उच्यते न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् इतरथा हि सर्वापवादः इति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३२/६७) विभक्तीषत्स्वरात् कृत्स्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३३/६७) विभक्तिस्वरात् ईषत्स्वरात् च कृत्स्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३४/६७) विभक्तिस्वरस्य अवकाशः अक्षशौण्डः , स्त्रीशौण्डः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३५/६७) कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३६/६७) इह उभयम् प्राप्नोति पूर्वाह्णेस्फोटकाः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३७/६७) कृत्स्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३८/६७) ईषत्स्वरस्य अवकाशः , ईषत्कडारः , ईषत्पिङ्गलः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-३९/६७) कृत्स्वरस्य सः एव ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४०/६७) इह उभयम् प्राप्नोति , ईषद्भेदः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४१/६७) कृत्स्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४२/६७) चित्स्वरात् हारिस्वरः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४३/६७) चित्स्वरात् हारिस्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४४/६७) चित्स्वरस्य अवकाशः , चलनः , चोपनः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४५/६७) हारिस्वरस्य अवकाशः , याज्ञिकाश्वः , वैयाकरणहसी ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४६/६७) इह उभयम् प्राप्नोति , पितृगवः, मातृगवः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४७/६७) हारिस्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४८/६७) कृत्स्वरात् च ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-४९/६७) कृत्स्वरात् च हारिस्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५०/६७) कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५१/६७) हारिस्वरस्य सः एव ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५२/६७) इह उभयम् प्राप्नोति , अक्षहृतः , वाडवहृतः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५३/६७) हारिस्वरः भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५४/६७) न वा हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकतव्स्य ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५५/६७) न वा अर्थः विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५६/६७) किम् कारणम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५७/६७) हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकत्वस्य ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५८/६७) यत् अयम् अहरणे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न कृत्स्वरः हारिस्वरम् बाधते इति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-५९/६७) न एतत् अस्ति ज्ञापकम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६०/६७) अनः भावकर्मवचनः इति एतस्मिन् प्राप्ते तत एतत् उच्यते ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६१/६७) यदि एवम् साधीयः ज्ञापकम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६२/६७) कृत्स्वरस्य अपवादः अनः भावकर्मवचनः इति ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६३/६७) बाधकम् किल बाधते किम् पुनः तम् ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६४/६७) युक्तस्वरः च कृत्स्वरात् भवति विप्रतिषेधेन ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६५/६७) युक्तस्वरस्य अवकाशः , गोवल्लवः , अश्ववल्लवः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६६/६७) कृत्स्वरस्य सः एव. इह उभयम् प्राप्नोति , गोसङ्ख्यः , पशूसङ्ख्यः , अश्वसङ्ख्यः ।

(पा-६,२.५२.२; अकि-३,१२९.२२-१३१.१४; रो-४,५५७-५६१; भा-६७/६७) युक्तस्वरः भवति विप्रतिषेधेन ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१/२२) उपमानम् इति किमर्थम् ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-२/२२) शब्दार्थप्रकृतौ एव इति इयति उच्यमाने पूर्वेण अतिप्रसक्तम् इति कृत्वा नियमः अयम् विज्ञायेत ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-३/२२) तत्र कः दोषः ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-४/२२) इह न स्यात् ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-५/२२) पुष्फारी फलहारी ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-६/२२) उपमानग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-७/२२) अथ शब्दार्थग्रहणम् किमर्थम् ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-८/२२) उपमानम् प्रकृतौ एव इति इयति उच्यमाने इह अपि प्रसज्येत ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-९/२२) वृकवञ्ची वृकप्रेक्षी ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१०/२२) शब्दाऋथग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-११/२२) अथ प्रकृतिग्रहणम् किमर्थम् ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१२/२२) शब्दार्थप्रकृतिः एव यः नित्यम् तत्र यथा स्यात् ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१३/२२) इह मा भूत् ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१४/२२) कोकिलभिव्याहारी ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१५/२२) अथ एवकारः किमर्थः ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१६/२२) नियमार्थः ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१७/२२) न एतत् अस्ति प्रयोजनम् ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१८/२२) सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमाऋथः भविष्यति ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-१९/२२) इष्टतः अवधारणार्थः तर्हि ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-२०/२२) यथा एवम् विज्ञायेते ॒ उपमानम् शब्दार्थप्रकृतौ एव इति ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-२१/२२) मा एवम् विज्ञायीत ॒ उपमानम् एव शब्दार्थप्रकृतौ इति ।

(पा-६,२.८०; अकि-३,१३१.१६-२५; रो-४,५६१-५६२; भा-२२/२२) शब्दार्थप्रकृतौ हि उपमानम् च अनुपमानम् च आद्युदात्तम् इष्यते ॒ साध्वध्याई विलम्बाध्यायी ।

(पा-६,२.८२; अकि-३,१३२.२-६; रो-४,५६२; भा-१/७) जे दीर्घात् बह्वचः ।

(पा-६,२.८२; अकि-३,१३२.२-६; रो-४,५६२; भा-२/७) जे दीर्घान्तस्य आदिः उदात्तः भवति इति एतस्मात् अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.८२; अकि-३,१३२.२-६; रो-४,५६२; भा-३/७) जे दीर्घान्तस्य आदिः उदात्तः भवति इति अस्य अवकाशः कुटीजः , शमीजः ।

(पा-६,२.८२; अकि-३,१३२.२-६; रो-४,५६२; भा-४/७) अन्य्तात् पूर्वम् बह्वचः इति अस्य अवकाशः उपसरजः , मन्दुरजः ।

(पा-६,२.८२; अकि-३,१३२.२-६; रो-४,५६२; भा-५/७) इह उभयम् प्राप्नोति ।

(पा-६,२.८२; अकि-३,१३२.२-६; रो-४,५६२; भा-६/७) आमलकीजः , बलभीजः ।

(पा-६,२.८२; अकि-३,१३२.२-६; रो-४,५६२; भा-७/७) अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.९१; अकि-३,१३२.८-१०; रो-४,५६२; भा-१/३) आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम् ।

(पा-६,२.९१; अकि-३,१३२.८-१०; रो-४,५६२; भा-२/३) आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,२.९१; अकि-३,१३२.८-१०; रो-४,५६२; भा-३/३) दिवोदासाय गायत वध्र्यश्वाय दाशुषे ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-१/१४) सर्वग्रहणम् किमर्थम् ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-२/१४) गुणात् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत परमशुक्लः , परमक्षृण इति ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-३/१४) सर्वग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-४/१४) अथ गुणग्रहणम् किमर्थम् ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-५/१४) सर्वम् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत सर्वसौवर्णः सर्वराजतः इति ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-६/१४) गुणग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-७/१४) अथ कार्त्स्न्यग्रहणम् किमर्थम् ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-८/१४) सर्वम् गुणे इति इयति उच्यमाने इह अपि प्रसज्येत सर्वेषाम् श्वेतः सर्वश्वेतः इति ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-९/१४) कथम् च अत्र समासः ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-१०/१४) षष्ठीसुबन्तेन समस्यते इति ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-११/१४) गुणेन न इति प्रतिषेधः प्राप्नोति ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-१२/१४) गुणात् तरेण समासः तरलोपः च ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-१३/१४) गुणात् तरेण समासः तरलोपः च वक्तव्यः ।

(पा-६,२.९२-९३; अकि-३,१३२.१३-२१; रो-४,५६२-५६३; भा-१४/१४) सर्वेषाम् श्वेततरः सर्वश्वेतः ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-१/१०) अयुक्तः अयम् निर्देशः ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-२/१०) न हि उत्तरपदम् नाम वृद्धिः अस्ति ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-३/१०) कथम् तर्हि निर्देशः कर्तव्यः ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-४/१०) वृद्धिमति उत्तरपदे इति ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-५/१०) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-६/१०) न कर्तव्यः ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-७/१०) न एवम् विज्ञायते ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-८/१०) उत्तरपदम् वृद्धिः उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-९/१०) कथम् तर्हि ।

(पा-६,२.१०५; अकि-३,१३३.२-५; रो-४,५६३-५६४; भा-१०/१०) उत्तरपदस्य वृद्धिः अस्मिन् सः अयम् उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-१/८) बहुव्रीहौ विश्वस्य अन्तोदात्तात् सञ्ज्ञायाम् मित्राजिनयोः अन्तः ।बहुव्रीहौ विश्वस्य अन्तोदात्तात् सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-२/८) बहुव्रीहौ विश्वम् सञ्ज्ञायाम् इति अस्य अवकाशः , विश्वदेवः , विश्वयशाः ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-३/८) सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति अस्य अवकाशः कुलमित्रम् , कुलाजिनम् ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-४/८) इह उभयम् प्राप्नोति विश्वमित्रः , विश्वाजिनः ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-५/८) सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-६/८) अन्तोदात्तप्रकरणे मरुद्वृधादीनाम् छन्दसि उपसङ्ख्यानम् ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-७/८) अन्तोदात्तप्रकरणे मरुद्वृधादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,२.१०६; अकि-३,१३३.७-१४; रो-४,५६४; भा-८/८) मरुद्वृधः सुवयाः उपतस्थे ।

(पा-६,२.१०७-१०८; अकि-३,१३३.१६-२०; रो-४,५६४; भा-१/६) उदरादिभ्यः नञ्सुभ्याम् ।

(पा-६,२.१०७-१०८; अकि-३,१३३.१६-२०; रो-४,५६४; भा-२/६) उदराश्वेषुषु क्षेपे इति एतस्मात् नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.१०७-१०८; अकि-३,१३३.१६-२०; रो-४,५६४; भा-३/६) उदराश्वेषुषु क्षेपे इति अस्य अवकाशः कुण्डोदरः , घटोदरः ।

(पा-६,२.१०७-१०८; अकि-३,१३३.१६-२०; रो-४,५६४; भा-४/६) नञ्सुभ्याम् इति अस्य अवकाशः अयवः , अतिलः , अमाषः , सुयवः , सुतिलः , सुमाषः ।

(पा-६,२.१०७-१०८; अकि-३,१३३.१६-२०; रो-४,५६४; भा-५/६) इह उभयम् प्राप्नोति , अनुदरः , सूदरः ।

(पा-६,२.१०७-१०८; अकि-३,१३३.१६-२०; रो-४,५६४; भा-६/६) नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-१/८) सोः मनसोः कपि ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-२/८) सोः मनसी अलोमोषसी इति एतस्मात् कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-३/८) सोः मनसी अलोमोषसी इति एतस्य अवकाशः सुशर्माणम् अधि नावम् रुहेयम् ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-४/८) सुशर्मा असि सुप्रतिष्ठानः ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-५/८) सुस्रोताः , सुपयाः , सुवर्चाः ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-६/८) कपि पूर्वम् इति अस्य अवकाशः अयवकः ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-७/८) इह उभयम् प्राप्नोति सुशर्मकः , सुस्रोतकः ।

(पा-६,२.११७; अकि-३,१३३.२२-१३४.३; रो-४,५६५; भा-८/८) कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.१२१; अकि-३,१३४.५-९; रो-४,५६५; भा-१/५) पूर्वादिभ्यः कूलादीनाम् आद्युदात्तत्वम् ।

(पा-६,२.१२१; अकि-३,१३४.५-९; रो-४,५६५; भा-२/५) पूर्वादिभ्यः कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन ।

(पा-६,२.१२१; अकि-३,१३४.५-९; रो-४,५६५; भा-३/५) परिप्रतिउपापाः वर्यजानाहोरात्रावयवेषु इति अस्य अवकाशः परित्रिगतम् , परिसौवीरम् ।

(पा-६,२.१२१; अकि-३,१३४.५-९; रो-४,५६५; भा-४/५) कूलादीनाम् आद्युदात्तत्वस्य अवकाशः , अतिकूलम् , अनुकूलम् ।

(पा-६,२.१२१; अकि-३,१३४.५-९; रो-४,५६५; भा-५/५) इह उभयम् प्राप्नोति परिकूलम् , कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-१/९) चेलराज्यादिभ्यः अव्ययम् ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-२/९) चेलराज्यादिस्वरात् अव्यययस्वरः भवति विप्रतिषेधेन ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-३/९) चेलराज्यादिस्वरस्य अवकाशः , भार्याचेलम् , पुत्रचेलम् , ब्राह्मणराज्यम् ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-४/९) अव्यययस्वरावकाशः , निष्कौशाम्बिः , निर्वाराणसिः ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-५/९) इह उभयम् प्राप्नोति कुचेलम् , कुराज्यम् ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-६/९) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-७/९) न वक्तव्यः ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-८/९) इष्टवाची परशब्दः ।

(पा-६,२.१२६, १३०; अकि-३,१३४.१२-१७; रो-४,५६५; भा-९/९) विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

(पा-६,२.१३६; अकि-३,१९-२१; रो-४,५६६; भा-१/५) कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् ।

(पा-६,२.१३६; अकि-३,१९-२१; रो-४,५६६; भा-२/५) कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् कर्तव्यम् ।

(पा-६,२.१३६; अकि-३,१९-२१; रो-४,५६६; भा-३/५) वनसमुदायवाचीचेत् कुण्डशब्दः भवति इति वक्तव्यम् ।

(पा-६,२.१३६; अकि-३,१९-२१; रो-४,५६६; भा-४/५) इह मा भूत् ।

(पा-६,२.१३६; अकि-३,१९-२१; रो-४,५६६; भा-५/५) मृत्कुण्डम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१/५२) गतिकारकोपपदात् इति किमर्थम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२/५२) इह मा भूत् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३/५२) परमम् कारकम् , परमकारकम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४/५२) गतिकारकोपपदात् इति उच्यमाने अपि तत्र प्राप्नोति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-५/५२) एतत् हि कारकम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-६/५२) इदम् तर्हि ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-७/५२) देवदत्तस्य कारकम् , देवदत्तकारकम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-८/५२) इदम् च अपि उदाहरणम् परमम् कारकम् , परमकारकम् इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-९/५२) न एतत् कारकम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१०/५२) कारकविशेषणम् एतत् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-११/५२) यावत् ब्रूयात् प्रकृष्टम् कारकम् शोभनम् कारकम् इति तावत् एतत् परमकारकम् इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१२/५२) अथ कृद्ग्रहणम् किमर्थम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१३/५२) इह मा भूत् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१४/५२) निष्कौशाम्बिः , निवाराणसिः इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१५/५२) अतः उत्तरम् पठति गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणानर्थक्यम् अन्यस्य उत्तरपदस्य अभावात् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१६/५२) गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणम् अनर्थकम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१७/५२) किम् कारणम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१८/५२) अन्यस्य उत्तरपदस्य अभावात् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-१९/५२) न हि अन्यत् गतियादिभ्यः उत्तरपदम् अस्ति अन्यत् अतः कृतः ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२०/५२) किम् कारणम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२१/५२) धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः कृतः च ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२२/५२) तत्र कृता सह समासः भवति तिङा च न भवति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२३/५२) तत्र अन्तरेण कृद्ग्रहणम् कृतः एव भविष्यति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२४/५२) ननु च इदानीम् एव उदाहृतम् निष्कौशाम्बिः , निर्वाराणसिः इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२५/५२) यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः न च निसः कौशाम्बीशब्दम् प्रति क्रियायोगः ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२६/५२) कृत्प्रकृतौ वा गतित्वात् अधिकाऋथम् कृद्ग्रहणम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२७/५२) कृत्प्रकृतौ तर्हि गतित्वात् अधिकाऋथम् कृद्ग्रहणम् कर्तव्यम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२८/५२) कृत्प्रकृतिः धातुः ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-२९/५२) धातुम् च प्रति क्रियायोगः ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३०/५२) तत्र यत्क्रियायुक्ताः तम् प्रति इति इह एव स्यात् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३१/५२) प्रणीः , उन्नीः ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३२/५२) इह न स्यात् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३३/५२) प्रणायकः , उन्नायकः ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३४/५२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३५/५२) यत्क्रियायुक्ताः इति न एवम् विज्ञायते ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३६/५२) यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३७/५२) कथम् तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३८/५२) न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-३९/५२) केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा कृदधिकस्य भविष्यति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४०/५२) ननु च ययम् तस्य एव अर्थस्य वाचकः प्रणीः इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४१/५२) एषः अपि हि कर्तृविशिष्टस्य ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४२/५२) अयम् तर्हि तस्य एव अर्थस्य वाचकः प्रभवनम् इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४३/५२) तस्मात् कृद्ग्रहणम् कर्तव्यम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४४/५२) यदि कृद्ग्रहणम् क्रियते आमन्ते स्वरः न प्राप्नोति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४५/५२) प्रपचतितराम् , प्रजल्पतितराम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४६/५२) असति पुनः कृद्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्य अतिशये तरप् उत्पद्यते तरबन्तस्य स्वार्थे आम् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४७/५२) तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४८/५२) न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-४९/५२) केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा अधिकस्य भविष्यति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-५०/५२) ननु च ययम् तस्य एव अर्थस्य वाचकः प्रभवनम् इति ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-५१/५२) एषः अपि द्रव्यविशिष्टस्य ।

(पा-६,२.१३९; अकि-३,१३५.२-१३६.६; रो-४,५६६-५७०; भा-५२/५२) कथम् कृदभिहितः भावः द्रव्यवत् भवति क्रियावत् अपि इति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१/३३) किम् समासय अन्तः उदात्तः भवति आहोस्वित् उत्तरपदस्य ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२/३३) कुतः सन्देहः ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-३/३३) उभयम् प्रकृतम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-४/३३) तत्र अन्यतरत् शक्यम् विशेषयितुम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-५/३३) कः च अत्र विशेषः ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-६/३३) अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-७/३३) अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-८/३३) इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने कपि च इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-९/३३) इदम्प्रथमकाः ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१०/३३) अस्तु तर्हि उत्तरपदस्य ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-११/३३) उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१२/३३) उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१३/३३) अनृचः , बह्वृचः ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१४/३३) अपरः आह ॒ उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१५/३३) अज्ञकः , अस्वकः ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१६/३३) कपि पूर्वम् इति अस्य अपवादः ह्रस्वान्ते अन्त्यात् पूर्वम् इति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१७/३३) तत्र ह्रस्वान्ते अन्त्यात् पूर्वः उदात्तभावी न अस्ति इति कृत्वा उत्सर्गेण अन्तोदात्तत्वम् प्राप्नोति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१८/३३) न वा कपि पूर्ववचनम् ज्ञापकम् उत्तरपदानन्तोदात्तत्वस्य ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-१९/३३) न वा एषः दोषः ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२०/३३) किम् कारणम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२१/३३) यत् अयम् कपि पूर्वम् इति आह तत् ज्ञापयति आचार्यः न उत्तरपदस्य अन्तः उदात्तत्ः भवति इति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२२/३३) प्रकरणात् च समासान्तोदात्तत्वम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२३/३३) प्रकृतम् समासग्रहणम् अनुवर्तते ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२४/३३) क्व प्रकृतम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२५/३३) चौ समासस्य इति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२६/३३) ननु च उक्तम् अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् इति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२७/३३) न एषः दोषः ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२८/३३) उत्तरपदग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-२९/३३) क्व प्रकृतम् ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-३०/३३) उत्तरपदादिः इति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-३१/३३) तत्र एवम् अभिसम्बन्धः करिष्यते ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-३२/३३) नञ्सुभ्याम् समासस्य अन्तः उदात्तः भवति ।

(पा-६,२.१४३; अकि-३,१३६.८-१३७.४; रो-४,५७१-५७३; भा-३३/३३) इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने उत्तरपदस्य इति ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-१/९) कारकात् दत्तश्रुतयोः अनाशिषि प्रतिषेधः ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-२/९) कारकात् दत्तश्रुतयोः अनाशिषि प्रतिषेधः वक्तव्यः ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-३/९) अनाहतः नदति देवदत्तः ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-४/९) सिद्धम् तु उभयनियमात् ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-५/९) सिद्धम् एतत् ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-६/९) कथम् ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-७/९) उभयनियमात् ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-८/९) उभयतः नियमः आश्रयिष्यते ।

(पा-६,२.१४८; अकि-३,१३७.६-१०; रो-४,५७३; भा-९/९) कारकात् दत्तश्रुतयोः एव आशिषि. आशिषि एव कारकात् दत्तश्रुतयोः इति ।

(पा-६,२.१६५; अकि-३,१३७.१२-१३; रो-४,५७४; भा-१/३) ऋषिप्रतिषेधः मित्रे ।

(पा-६,२.१६५; अकि-३,१३७.१२-१३; रो-४,५७४; भा-२/३) ऋषिप्रतिषेधः मित्रे वक्तव्यः ।

(पा-६,२.१६५; अकि-३,१३७.१२-१३; रो-४,५७४; भा-३/३) विश्वामित्रः ऋषिः ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१/२१) किमर्थम् बहोः नञ्वत् अतिदेशः क्रियते न नञ्सुबहुभ्यः इति एव उच्येत ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-२/२१) न एवम् शक्यम् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-३/२१) उत्तरपदभूम्नि इति वक्ष्यति ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-४/२१) तत् बहोः एव यथा स्यात् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-५/२१) नञ्सुभ्याम् मा भूत् इति ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-६/२१) न एतत् अस्ति प्रयोजनम् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-७/२१) एकयोगे अपि हि सति यस्य उत्तरपदभूमा अस्ति तस्य भविष्यति ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-८/२१) कस्य च अस्ति ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-९/२१) बहोः एव ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१०/२१) इदम् तर्हि प्रयोजनम् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-११/२१) न गुणादयः अव्यवाः इति वक्ष्यति ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१२/२१) तत् बहोः एव यथा स्यात् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१३/२१) नञ्सुभ्याम् मा भूत् इति ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१४/२१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१५/२१) एकयोगे अपि सति यस्य गुणादयः अवयवा सन्ति तस्य कस्य च सन्ति ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१६/२१) बहोः एव ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१७/२१) अतः उत्तरम् पठति बहोः नञ्वत् उत्तरपदाद्युदात्तार्थम् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१८/२१) बहोः नञ्वत् अतिदेशः क्रिअय्ते उत्तरपदाद्युदात्तार्थम् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-१९/२१) उत्तरपदस्य आद्युदात्तत्वम् यथा स्यात् ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-२०/२१) नञः जरमरमित्रमृताः ।

(पा-६,२.१७५; अकि-३,१३७.१५-१३८.४; रो-४,५७४; भा-२१/२१) अजरः , अमरः , बहुजरः , बहुमित्रः ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-१/१०) उपसर्गात् स्वाङ्गम् ध्रुवम् मुखस्य अन्तोदात्तत्वात् ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-२/१०) मुखस्य अन्तोदात्तत्वात् उपसर्गात् स्वाङ्गम् ध्रुवम् इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-३/१०) मुखान्तोदात्तत्वस्य अवकाशः गौरमुखः , श्लक्ष्णमुखः ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-४/१०) उपसर्गात् स्वाङ्गम् इति अस्य अवकाशः प्रस्फिक् , प्रोदरः ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-५/१०) इह उभयम् प्राप्नोति ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-६/१०) प्रमुखः ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-७/१०) उपसर्गात् स्वाङ्गम् इति एतत् भवति विप्रतिषेधेन ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-८/१०) कः पुनः विशेषः तेन वा सति अनेन वा ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-९/१०) सापवादकः सः विधिः अयम् पुनः निरपवादकः ।

(पा-६,२.१७७; अकि-३,१३८६-११; रो-४,५७५; भा-१०/१०) अव्ययात् तस्य प्रतिषेधः अपवादः ।

(पा-६,२.१८५-१८६; अकि-३,१३८.१४-१८; रो-४,५७६; भा-१/६) किमर्थम् इदम् उच्यते न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् ।

(पा-६,२.१८५-१८६; अकि-३,१३८.१४-१८; रो-४,५७६; भा-२/६) अभेः मुखम् अपात् च अध्रुवार्थम् ।

(पा-६,२.१८५-१८६; अकि-३,१३८.१४-१८; रो-४,५७६; भा-३/६) अध्रुवार्थः अयम् आरम्भः ।

(पा-६,२.१८५-१८६; अकि-३,१३८.१४-१८; रो-४,५७६; भा-४/६) अभुव्रीह्यर्थम् वा ।

(पा-६,२.१८५-१८६; अकि-३,१३८.१४-१८; रो-४,५७६; भा-५/६) अथ वा बहुव्रीहेः इति वर्तते ।

(पा-६,२.१८५-१८६; अकि-३,१३८.१४-१८; रो-४,५७६; भा-६/६) अभुव्रीह्यर्थः अयम् आरम्भः ।

(पा-६,२.१८७; अकि-३,१३८.२०-१३९.२; रो-४,५७६; भा-१/४) स्फिगपूतग्रहणम् किमर्थम् न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् ।

(पा-६,२.१८७; अकि-३,१३८.२०-१३९.२; रो-४,५७६; भा-२/४) स्फिगपूतग्रहणम् च ।

(पा-६,२.१८७; अकि-३,१३८.२०-१३९.२; रो-४,५७६; भा-३/४) किम् ।

(पा-६,२.१८७; अकि-३,१३८.२०-१३९.२; रो-४,५७६; भा-४/४) अध्रुवार्थम् अभुव्रीह्यर्थम् एव वा ।

(पा-६,२.१९१; अकि-३,१३९.४-६; रो-४,५७६; भा-१/३) अतेः धातुलोपे ।

(पा-६,२.१९१; अकि-३,१३९.४-६; रो-४,५७६; भा-२/३) अतेः धातुलोपे इति वक्तव्यम् ।

(पा-६,२.१९१; अकि-३,१३९.४-६; रो-४,५७६; भा-३/३) अकृत्पदे इति हि उच्यमाने इह च प्रसज्येत शोभनः गार्ग्यः अतिगार्ग्यः , इह च न स्यात् , अतिकाऋअकः, अतिपदा शक्वरी ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१/३७) किम् इदम् द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् आहोस्वित् नकारान्तग्रहणम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२/३७) कः च अत्र विशेषः ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३/३७) द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-४/३७) द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-५/३७) द्विमूर्धा त्रिमूर्धा ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-६/३७) अस्तु तर्हि नकारान्तग्रहणम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-७/३७) नकारान्ते अकारान्तस्य ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-८/३७) नकारान्ते अकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-९/३७) द्विमूर्धः , त्रिमूर्धः ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१०/३७) उदात्तलोपात् सिद्धम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-११/३७) अस्तु तर्हि नकारान्तग्रहणम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१२/३७) अन्तोदात्तत्वे कृते लोपः उदात्तनिवृत्तिस्वरेण सिद्धम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१३/३७) इदम् इह सम्प्रधार्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१४/३७) अन्तोदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१५/३७) परत्वात् लोपः ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१६/३७) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१७/३७) अन्तोदात्तत्वम् क्रियताम् समासान्तः इति किम् अत्र कर्तव्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१८/३७) परत्वात् अन्तोदात्तत्वम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-१९/३७) नित्यः समासान्तः ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२०/३७) कृते अपि अन्तोदात्तत्वे प्राप्नोति अकृते अपि ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२१/३७) अन्तोदात्तत्वम् अपि नित्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२२/३७) कृते अपि समासान्ते प्राप्नोति अकृते अपि ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२३/३७) अनित्यम् अन्तोदात्तत्वम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२४/३७) न हि कृते समासान्ते प्राप्नोति ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२५/३७) परत्वात् लोपेन भवितव्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२६/३७) यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२७/३७) न च समासान्तः एव अन्तोदात्तत्वस्य निमित्तम् हन्ति ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२८/३७) अवश्यम् लक्षणान्तरम् लोपः प्रतीक्ष्यः ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-२९/३७) उभयोः नित्ययोः परत्वात् अन्तोदात्तत्वम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३०/३७) अन्तोदात्तत्वे कृते समासान्तः , टिलोपः ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३१/३७) टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३२/३७) युक्तम् पुनः इदम् विचारयितुम् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३३/३७) नन् उ अनेन असन्दिग्धेन नकारान्तस्य ग्रहणेन भवितव्यम् यावता मूर्धसु इति उच्यते ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३४/३७) यदि हि अकारान्तस्य ग्रहणम् स्यात् मूर्धेषु इति ब्रूयात् ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३५/३७) सा एषा समासान्तार्था विचारणा ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३६/३७) एवम् तर्हि ज्ञापयति आचार्यः ।

(पा-६,२.१९७; अकि-३,१३९.८-१४०.६; रो-४,५७७-५७९; भा-३७/३७) विभाषा समासान्तः भवति इति ।

(पा-६,२.१९९; अकि-३,१४०.८-१३; रो-४,५७९-५८०; भा-१/५) अत्यल्पम् इदम् उच्यते ।

(पा-६,२.१९९; अकि-३,१४०.८-१३; रो-४,५७९-५८०; भा-२/५) परादिः च परान्तः च पूर्वान्तः च दृश्यते ।पूर्वादयः च विद्यन्ते ।

(पा-६,२.१९९; अकि-३,१४०.८-१३; रो-४,५७९-५८०; भा-३/५) व्यतयः बहुलम् स्मृतः ।

(पा-६,२.१९९; अकि-३,१४०.८-१३; रो-४,५७९-५८०; भा-४/५) अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि उपसङ्ख्यानम् ।

(पा-६,२.१९९; अकि-३,१४०.८-१३; रो-४,५७९-५८०; भा-५/५) अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ॒ त्रिचक्रेण त्रिबन्धुरेण त्रिवृता रथेन ।