व्याकरणमहाभाष्य खण्ड 69

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१/३२) इह कस्मात् न भवति , अमहान् महान् सम्पन्नः महद्भूतः चन्द्रमाः इति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२/३२) अन्यप्रकृतिः तु अमहान् महत्प्रकृतौ महान् महति एव । अन्यः महान् ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-३/३२) अन्यः महान् भूतप्रकृतौ वर्तते ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-४/३२) महान् महति एव ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-५/३२) तस्मात् आत्त्वम् न स्यात् । तस्मात् आत्त्वम् न भविष्यति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-६/३२) पुंवत्त्वम् तु कथम् भवेत् अत्र ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-७/३२) पुंवद्भावः अपि तर्हि न प्राप्नोति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-८/३२) अमहती महती सम्पन्ना महद्भूता ब्राह्मणी ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-९/३२) एवम् तर्हि अमहति महान् हि वृत्तः तद्वाची च अत्र भूतशब्दः अयम् ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१०/३२) अमहति हि महच्छब्दः वर्तते तद्वाची च अत्र भूतशब्दः प्रयुज्यते ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-११/३२) किंवाची ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१२/३२) महद्वाची ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१३/३२) तस्मात् सिध्यति पुंवत् । तस्मात् सिध्यति पुंवद्भावः ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१४/३२) यदि एवम् आत्त्वम् अपि प्राप्नोति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१५/३२) महद्भूतः चन्द्रमाः ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१६/३२) निवर्त्यम् आत्त्वम् तु मन्यन्ते ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१७/३२) आत्त्वम् अपि प्राप्नोति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१८/३२) न एषः दोषः ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-१९/३२) यः तु महतः प्रतिपदम् समासः उक्तः तदाश्रयम् हि आत्त्वम् कर्तव्यम् मन्यन्ते न लक्षणेन लक्षणोक्तः च अयम् । एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः समासः विहितः तस्य ग्रहणम् ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२०/३२) लक्षणोक्तः च अयम् ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२१/३२) इह अपि तर्हि न प्राप्नोति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२२/३२) महान् बाहुः अस्य महाबाहुः इति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२३/३२) शेषवचनात् तु यः असौ प्रत्यारम्भात् कृतः बहुव्रीहिः तस्मात् सिध्यति तस्मिन् ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२४/३२) यस्मात् शेषः बहुव्रीहिः इति सिद्धे अनेकम् अन्यपदार्थे इति आह तेन प्रतिपदम् भवति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२५/३२) प्रधानतः वा यतः वृत्तिः ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२६/३२) अथ वा गौणमुख्ययोः मुख्ये कार्यसम्प्रत्ययः ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२७/३२) तत् यथा गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२८/३२) कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-२९/३२) गौः तिष्ठति , गाम् आनय इति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-३०/३२) अर्थाश्रये एतत् एवम् ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-३१/३२) यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

(पा-६,३.४६.१; अकि-३,१६०.२-१६१.५; रो-४,६२२-६२७; भा-३२/३२) शब्दाश्रये च वृद्ध्यात्त्वे ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-१/१३) महदात्त्वे घासकरविशिष्टेषु उपसङ्ख्यानम् पुंवद्वचनम् च असमानाधिकरणार्थम् ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-२/१३) महदात्त्वे घासकरविशिष्टेषु उपसङ्ख्यानम् कर्तव्यम् पुंवद्भावः च असमानाधिकरणार्थः कर्तव्यः ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-३/१३) महत्याः घासः महाघासः , महत्याः करः महाकरः , महत्याः विशिष्टः महाविशिष्टः ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-४/१३) अष्टनः कपाले हविषि ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-५/१३) अष्टनः कपाले हविषि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-६/१३) अष्टाकपालम् चरुम् निर्वपेत् ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-७/१३) हविषि इति किमर्थम् ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-८/१३) अष्टकपालम् ब्राह्मणस्य ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-९/१३) गवि च युक्ते ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-१०/१३) गवि च युक्ते उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-११/१३) अष्टागवेन शकटेन ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-१२/१३) युक्ते इति किमर्थम् ।

(पा-६,३.४६.२; अकि-३,१६१.६-१५; रो-४,६२७-६२८; भा-१३/१३) अष्टगवम् ब्राह्मणस्य ।

(पा-६,३.४७; अकि-३,१६१.१७-१८; रो-४,६२९; भा-१/१) प्राक् शतात् इति वक्तव्यम् इह मा भूत् । द्विशतम् , द्विसहस्रम् , अष्तशतम् , अष्टसहस्रम् ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-१/१२) सर्वेषाङ्ग्रहणम् किमर्थम् ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-२/१२) चत्वारिंशत्प्रभृतौ सर्वेषाम् विभाषा यथा स्यात् , द्व्यष्टनोः च त्रेः च ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-३/१२) न एतत् अस्ति प्रयोजनम् ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-४/१२) प्रकृतम् द्व्यष्टन्ग्रहणमनुवर्तिष्यते ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-५/१२) यदि तत् अनुवर्तते त्रेः त्रयः द्व्यष्टनोः च इति द्व्यष्टनोः अपि द्त्रयः आदेशः प्राप्नोति ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-६/१२) न एषः दोषः ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-७/१२) मण्डूकगतयः अधिकाराः ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-८/१२) यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-९/१२) अथ वा एकयोगः करिष्यते ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-१०/१२) द्व्यष्टनः सङ्ख्ययाम् अबहुव्रीह्यशीत्योः त्रेः त्रयः ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-११/१२) ततः विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् इति ।

(पा-६,३.४८; अकि-३,१६१.२०-१६२.३; रो-४,६२९; भा-१२/१२) अथ वा उभयम् निवृत्तम् तत् अपेक्षिष्यामहे ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१/२२) यण्ग्रहणम् इदम् प्रत्ययग्रहणम् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-२/२२) तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति यदणन्ते प्राप्नोति ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-३/२२) यदण्ग्रहणे रूपग्रहणम् लेखग्रहणात् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-४/२२) यदण्ग्रहणे रूपग्रहणम् द्रष्टव्यम् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-५/२२) कुतः ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-६/२२) लेखग्रहणात् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-७/२२) यत् अयम् लेखग्रहणम् करोति तत् ज्ञापयति आचार्यः न यदणन्ते भवति इति ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-८/२२) अपरः आह ॒ अत्यल्पम् इदम् उच्यते ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-९/२२) सर्वत्र एव उत्तरपदाधिकारे प्रत्ययग्रहणे रूपग्रहणम् द्रष्टव्यम् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१०/२२) कुतः ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-११/२२) लेखग्रहणात् एव ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१२/२२) किम् प्रयोजनम् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१३/२२) कुमारी गौरितरा ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१४/२२) घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१५/२२) यदि एतत् ज्ञाप्यते खिति अनव्ययस्य इति खिति एव अनन्तरस्य अनव्ययस्य ह्रस्वत्वम् प्राप्नोति ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१६/२२) खिति अनन्तरः ह्रस्वभावी न अस्ति इति कृत्वा खिदन्ते भविष्यति ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१७/२२) ननु च अयम् अस्ति स्तनन्धयः इति ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१८/२२) अत्र अपि शपा व्यवधानम् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-१९/२२) एकादेशे कृते न अस्ति व्यवधानम् ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-२०/२२) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-२१/२२) अथ वा एतत् ज्ञापयति आचार्यः खिति अनन्तरस्य न भवति इति यत् अयम् अनव्ययस्य इति प्रतिषेधम् शास्ति ।

(पा-६,३.५०; अकि-३,१६२.५-१७; रो-४,६२९-६३१; भा-२२/२२) न हि खिति अनन्तरम् अव्ययम् अस्ति ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-१/११) पदादेशे अन्तोदात्तनिपातनम् [ऋ॒ पदोपहतार्थम्] । पदादेशे अन्तोदात्तनिपातनम् कर्तव्यम् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-२/११) किम् प्रयोजनम् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-३/११) पदोपहतार्थम् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-४/११) पादेन उपहतम् पदोपहतम् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-५/११) तृतीया कर्मणि इति प्रकृतिस्वरत्वे पूर्वपदान्तोदात्तत्वम् यथा स्यात् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-६/११) उपदेशिवद्वचनम् च स्वरसिद्ध्यर्थम् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-७/११) उपदेशिवद्भावः च वक्तव्यः ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-८/११) किम् प्रयोजनम् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-९/११) स्वरसिद्ध्यर्थम् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-१०/११) उपदेशावस्थायाम् अन्तोदात्तनिपातने कृते समासस्वरेण बाधनम् यथा स्यात् ।

(पा-६,३.५२; अकि-३,१६२.१९-१६३.४; रो-४,६३१-६३२; भा-११/११) पदाजिः , पदातिः ।

(पा-६,३.५३; अकि-३,१६३.६-७; रो-४,६३२; भा-१/३) पद्भावे इके चरतौ उपसङ्ख्यानम् ।

(पा-६,३.५३; अकि-३,१६३.६-७; रो-४,६३२; भा-२/३) पद्भावे इके चरतौ उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.५३; अकि-३,१६३.६-७; रो-४,६३२; भा-३/३) पादाभ्याम् चरति पदिकः ।

(पा-६,३.५६; अकि-३,१६३.९; रो-४,६३२; भा-१/२) निष्के च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.५६; अकि-३,१६३.९; रो-४,६३२; भा-२/२) पन्निष्केण पादनिष्केण ।

(पा-६,३.५७; अकि-३,१६३.११-१२; रो-४,६३२; भा-१/२) सञ्ज्ञायाम् उत्तरपदस्य इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-६,३.५७; अकि-३,१६३.११-१२; रो-४,६३२; भा-२/२) लोहितोदः , क्षीरोदः इति ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१/१९) एकहलादौ इति किमर्थम् ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-२/१९) उदकस्थानम् ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-३/१९) उच्यमाने अपि एतस्मिन् अत्र प्रप्नोति ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-४/१९) एतत् अपि एकहलादि ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-५/१९) किम् कारणम् ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-६/१९) एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-७/१९) एकैकवर्णवर्तिनी वाक् ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-८/१९) न द्वौ वर्णौ युगपत् उच्चारयति ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-९/१९) तत् यथा गौः इति उक्ते यावत् गकारे वाक् वर्तते तावत् न औकारे न विसर्जनीये ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१०/१९) यावत् औअकारे न तावत् गकारे न विसर्जनीये ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-११/१९) यावत् विसर्जनीये न तावत् गकारे न औकारे ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१२/१९) उच्चरितप्रध्वंसित्वात् च वर्णानाम् ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१३/१९) उच्चरितः वर्णः प्रध्वस्तः च ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१४/१९) अथ अपरः प्रयुज्यते ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१५/१९) न वर्णः वर्णस्य सहायः ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१६/१९) एवम् तर्हि एकहलादौ इति उच्यते सर्वः च एकहलादिः ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१७/१९) तत्र प्रकर्षगतिः विज्ञायते ॒ साधीयः यः एकहलादिः इति ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१८/१९) कः च साधीयः ।

(पा-६,३.५९; अकि-३,१६३.१४-१६४.२; रो-४,६३३; भा-१९/१९) यत्र एकम् हलम् उच्चार्य अच् उच्यते ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१/२०) इकः ह्रस्वत्वम् उत्तरपदमात्रे ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-२/२०) इकः ह्रस्वत्वम् उत्तरपदमात्रे वक्तव्यम् इह अपि यथा स्यात् , अलाबुकर्कन्धुदृन्भुफलम् इति ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-३/२०) किम् पुनः कारणम् न सिध्यति ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-४/२०) सर्वान्ते हि लोकविज्ञानम् ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-५/२०) लोकविज्ञानात् हि यत् एव सर्वान्तम् पदम् तस्मिन् पूर्वपदस्य ह्रस्वत्वम् स्यात् ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-६/२०) अथ वा एवम् विग्रहः करिष्यते ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-७/२०) अलाबूः च कर्कन्धूः च , अलाबुकर्कन्ध्वौ , अलाबुकर्कन्ध्वौ दृन्भूः च, अलाबुकर्कन्धुदृन्भ्वः , अलाबुकर्कन्धुदृन्भूनाम् फलम् अलाबुकर्कन्धुदृन्भुफलम् इति ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-८/२०) यदि एवम् दृन्भ्वाः पूर्वनिपातः प्राप्नोति ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-९/२०) राजदन्तादिषु पाठः करिष्यते ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१०/२०) अथ वा एवम् विग्रहः करिष्यते ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-११/२०) दृन्भ्वाः फलम् दृन्भुफलम् , कर्कन्धूः च दृन्भुफलम् च कर्कन्धुदृन्भुफलम् , अलाबूः च कर्कन्धुदृन्भुफलम् च अलाबुकर्कन्धुदृन्भुफलम् इति ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१२/२०) एवम् अपि फलेन अकृतः अभिसम्बन्धः भवति ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१३/२०) प्रत्येकम् फलशब्दः परिसमाप्यते ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१४/२०) इयङुवङव्ययप्रतिषेधः ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१५/२०) इयङुवङ्भाइनाम् अव्ययानाम् च प्रतिषेधः वक्तव्यः ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१६/२०) श्रीकुलम् , भ्रूकुलम् , काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१७/२०) अभ्रूकंसादीनाम् इति वक्तव्यम् ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१८/२०) भ्रुकुंसः , भ्रुकुटिः ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-१९/२०) अपरः आह ॒ अकारः भ्रूकंसादीनाम् इति वक्तव्यम् ।

(पा-६,३.६१; अकि-३,१६४.४-१९; रो-४,६३४-६३५; भा-२०/२०) भ्रकुंसः , भ्रकुटिः ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१/२८) तद्धिते किम् उदाहरणम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२/२८) एकत्वम् , एकता ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-३/२८) न एतत् अस्ति प्रयोजनम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-४/२८) पुंवद्भावेन अपि एतत् सिद्धम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-५/२८) कथम् पुंवद्भावः ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-६/२८) तासिलादिषु आ कृत्वसुचः ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-७/२८) इदम् तर्हि प्रयोजनम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-८/२८) एकस्याः आगतम् एकरूप्यम् , एकमयम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-९/२८) इदम् च अपि उदाहरणम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१०/२८) एकत्वम् , एकता ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-११/२८) ननु च उक्तम् पुंवद्भावेन अपि एतत् सिद्धम् इति ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१२/२८) न सिध्यति ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१३/२८) उक्तम् एतत् त्वतलोः गुणवचनस्य इति ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१४/२८) अथ उत्तरपदे किम् उदाहरणम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१५/२८) एकशाटी ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१६/२८) न एतत् अस्ति ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१७/२८) पुंवद्भावेन अपि एतत् सिद्धम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१८/२८) कथम् पुंवद्भावः ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-१९/२८) समानाधिकरणलक्षणः ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२०/२८) इदम् तर्हि प्रयोजनम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२१/२८) एकस्याः क्षीरम् एकषीरम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२२/२८) इदम् च अपि उदाहरणम् ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२३/२८) एकशाटी ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२४/२८) ननु च उक्तम् पुंवद्भावेन अपि एतत् सिद्धम् इति ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२५/२८) न सिध्यति ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२६/२८) न कोपधायाः इति प्रतिषेधः प्राप्नोति ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२७/२८) न एषः दोषः ।

(पा-६,३.६२; अकि-३,१६४.२१; रो-४,६३५-६३६; भा-२८/२८) उक्तम् एतत् कोपधप्रतिषेधे तद्धितवुग्रहणम् इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१/४७) खिति ह्रस्वाप्रसिद्धिः अनजन्तत्वात् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२/४७) खिति ह्रस्वाप्रसिद्धिः ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३/४७) कालिम्मन्या , हरिणिम्मन्या ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४/४७) किम् कारणम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-५/४७) अनजन्तत्वात् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-६/४७) मुमि कृते अनजन्तत्वात् ह्रस्वत्वम् न प्राप्नोति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-७/४७) सिद्धम् तु ह्रस्वान्तस्य मुम्वचनात् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-८/४७) सिद्धम् एतत् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-९/४७) कथम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१०/४७) ह्रस्वान्तस्य मुम् भवति इति वक्तव्यम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-११/४७) सन्नियोगात् वा ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१२/४७) अथ वा सन्नियोगः करिष्यते ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१३/४७) कः एषः यत्नः चोद्यते सन्नियोगः नाम ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१४/४७) चकारः कर्तव्यः ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१५/४७) मुम् च ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१६/४७) किम् च. यत् च अन्यत् प्राप्नोति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१७/४७) किम् च अन्यत् प्राप्नोति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१८/४७) ह्रस्वत्वम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-१९/४७) सिध्यति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२०/४७) सूत्रम् तर्हि भिद्यते ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२१/४७) यथान्यासम् एव अस्तु ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२२/४७) ननु च उक्तम् खिति ह्रस्वाप्रसिद्धिः अनजन्तत्वात् इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२३/४७) परिहृतम् एतत् सिद्धम् तु ह्रस्वान्तस्य मुम्वचनात् इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२४/४७) तत् तर्हि ह्रस्वग्रहणम् कर्तव्यम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२५/४७) न कर्तव्यम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२६/४७) प्रकृतम् अनुवर्तते ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२७/४७) क्व प्रकृतम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२८/४७) इकः ह्रस्वः अङ्यः गालवस्य इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-२९/४७) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३०/४७) खिति इति एषा सप्तमी ह्रस्वः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३१/४७) अथ वा खिति ह्रस्वः भवति इति उच्यते ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३२/४७) खिति ह्रस्वभावी न अस्ति इति कृत्वा भूतपूर्वगतिः विज्ञास्यते ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३३/४७) अजन्तम् यत् भूतपूर्वम् इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३४/४७) अथ वा कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३५/४७) खिति ह्रस्वः भवति इति उपस्थितम् इदम् भवति अचः इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३६/४७) तत्र वचनात् अनजन्तस्य अपि भविष्यति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३७/४७) इह अपि तर्हि वचनात् प्राप्नोति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३८/४७) वाङ्मन्यः इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-३९/४७) न एतत् अस्ति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४०/४७) इकः इति वर्तते ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४१/४७) एवम् अपि खट्वम्मन्यः , अत्र न प्राप्नोति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४२/४७) न एषः दोषः ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४३/४७) आब्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४४/४७) क्व प्रकृतम् ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४५/४७) ङ्यापोः सञ्ज्ञाच्छन्दसोः बहुलम् इति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४६/४७) एवम् अपि कीलालपम्मन्यः , शुभंयम्मन्यः अत्र न प्राप्नोति ।

(पा-६,३.६६; अकि-३,१६५.९-१६६.३; रो-४,६३६-६३७; भा-४७/४७) तस्मात् पूर्वोक्तौ एव परिहारौ ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१/४२) अमः प्रत्ययवदनुदेशे किम् प्रयोजनम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२/४२) अमः प्रत्ययवदनुदेशे प्रयोजनम् आत्वपूर्वसवर्णगुणेयङुवङादेशाः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३/४२) अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णगुणेयङुवङादेशाः प्रयोजनम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-४/४२) आत्वम् प्रयोजनम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-५/४२) गाम्मन्यः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-६/४२) पूर्वसवर्णः प्रयोजनम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-७/४२) स्त्रीम्मन्यः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-८/४२) गुणः प्रयोजनम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-९/४२) नरम्मन्यः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१०/४२) इयङुवङौ प्रयोजनम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-११/४२) श्रियम्मन्यः , भ्रुवम्मन्यः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१२/४२) अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णाप्रसिद्धिः अप्रथमात्वात् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१३/४२) अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णयोः अप्रसिद्धिः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१४/४२) किम् कारणम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१५/४२) अप्रथमात्वात् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१६/४२) प्रथमयोः इति उच्यते न च अत्र प्रथमाम् पश्यामः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१७/४२) किम् च भोः आत्वम् प्रथमयोः इति उच्यते ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१८/४२) न खलु प्रथमयोः इति उच्यते ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-१९/४२) प्रथमयोः इति तु विज्ञायते ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२०/४२) कथम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२१/४२) अम्शसोः इति उच्यते ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२२/४२) ते एवम् विज्ञास्यामः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२३/४२) शस्सहचरितः यः अम्शब्दः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२४/४२) कः च शस्सहचरितः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२५/४२) प्रथमा एव ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२६/४२) ननु च प्रत्ययवदनुदेशात् भविष्यति ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२७/४२) न सिध्यति ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२८/४२) किम् कारणम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-२९/४२) सामान्यातिदेशे [ऋ॒ हि] विशेषानतिदेशः ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३०/४२) सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३१/४२) तत् यथा ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३२/४२) ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३३/४२) यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३४/४२) एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् द्वितीयैकवचने भवति प्रथमयोः इति न तत् अतिदिश्यते ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३५/४२) सिद्धम् तु द्वितीयैकवचनवद्वचनात् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३६/४२) सिद्धम् एतत् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३७/४२) कथम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३८/४२) द्वितीयैकवचनवत् भवति इति वक्तव्यम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-३९/४२) एकशेषनिर्देशात् वा ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-४०/४२) अथ वा एकशेषनिर्देशः अयम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-४१/४२) अम् च अम् च अम् ।

(पा-६,३.६८.१; अकि-३,१६६.५-१६७.३; रो-४,६३८-६३९; भा-४२/४२) इचः एकाचः अम् भवति अम्प्रत्ययवत् च अस्मिन् कार्यम् भवति इति ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१/२०) अथ इह कथम् भवितव्यम् ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-२/२०) श्रियम् आत्मानम् मन्यते ब्राह्मणकुलम् ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-३/२०) श्रियम्मन्यम् आहोस्वित् श्रिमन्यम् इति ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-४/२०) श्रियम्मन्यम् इति भवितव्यम् ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-५/२०) स्वमोः नपुंसकात् इति लुक् कस्मात् न भवति ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-६/२०) न अप्राप्ते लुकि अम् आरभ्यते ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-७/२०) सः यथा एव सुपः धातुप्रातिपदिकयोः इति एतम् बाधते एवम् स्वमोः नपुंसकात् इति एतम् अमि लुकम् बाधेत ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-८/२०) न बाधते ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-९/२०) किम् कारणम् ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१०/२०) येन न अप्राप्ते तस्य बाधनम् भवति ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-११/२०) न च अप्राप्ते सुपः धातुप्रातिपदिकयोः इति एतस्मिन् एतत् आरभ्यते ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१२/२०) स्वमोः नपुंसकात् इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१३/२०) अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् सुपः धातुप्रातिपदिकयोः इति एतम् बाधते ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१४/२०) स्वमोः नपुंसकात् इति एतम् न बाधिष्यते ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१५/२०) एवम् तर्हि असिद्धम् बहिरङ्गम् अन्तरङ्गे इति असिद्धत्वात् बहिरङ्गलक्षणस्य अमः अन्तरङ्गलक्षणः लुक् न भविष्यति ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१६/२०) न एषा परिभाषा उत्तरपदाधिकारे शक्या विज्ञातुम् ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१७/२०) इह हि दोषः स्यात् ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१८/२०) द्विषन्तपः , परन्तपः ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-१९/२०) संयोगान्तलोपः न स्यात् ।

(पा-६,३.६८.२; अकि-३,१६७.४-१४; रो-४,६३९-६४०; भा-२०/२०) तस्मात् श्रिमन्यम् इति एव भवितव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१/३३) अस्तुसत्यागदस्य कारे ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२/३३) अस्तुसत्यागदस्य कारे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-३/३३) अस्तुङ्कारः , सत्यङ्कारः , अगदङ्कारः ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-४/३३) भक्षस्य छन्दसि ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-५/३३) भक्षस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-६/३३) तस्य ते भक्षङ्कारस्य ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-७/३३) छन्दसि इति किम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-८/३३) भक्षकारस्य तत् मतम् इति ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-९/३३) धेनोः भव्यायाम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१०/३३) धेनोः भव्यायाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-११/३३) धेनुम्भव्या ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१२/३३) लोकस्य पृणे ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१३/३३) लोकस्य पृणे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१४/३३) लोकम्प्र्णस्य धन्विनः ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१५/३३) इत्ये अनभ्याशस्य ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१६/३३) इत्ये अनभ्याशस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१७/३३) अनभ्याशमित्यः ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१८/३३) भ्राष्ट्राग्न्योः इन्धे ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-१९/३३) भ्राष्ट्राग्न्योः इन्धे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२०/३३) भ्राष्ट्रमिन्धः , अग्निमिन्धः ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२१/३३) गिले अगिलस्य ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२२/३३) गिले अगिलस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२३/३३) तिमिङ्गिलः ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२४/३३) अगिलस्य इति किमर्थम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२५/३३) गिलगिलः ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२६/३३) गिलगिले च इति वक्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२७/३३) तिमिङ्गिलगिलः ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२८/३३) उष्णभद्रयोः करणे ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-२९/३३) उष्णभद्रयोः करणे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-३०/३३) उष्णङ्करणम् , भद्रङ्करणम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-३१/३३) सूतोग्रराजभोजकुलमेरुभ्यः दुहितुः पुत्रट् वा ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-३२/३३) सूतोग्रराजभोजकुलमेरुभ्यः दुहितुः पुत्रट् वा भवति इति वक्तव्यम् ।

(पा-६,३.७०; अकि-३,१६७.१६-१६८.१४; रो-४,६४१-६४२; भा-३३/३३) सूतपुत्री , सूतदुहिता , उग्रपुत्री , उग्रदुहिता , रजपुत्री , राजदुहिता , भोजपुत्री , भोजदुहिता , कुलपुत्री , कुलदुहिता , मेरुपुत्री , मेरुदुहिता ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-१/९) किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-२/९) कथम् च प्राप्ते कथम् वा अप्राप्ते ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-३/९) खिति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-४/९) रात्रेः अप्राप्ते ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-५/९) रात्रेः अप्राप्ते विभाषा ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-६/९) प्राप्ते नित्यः विधिः ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-७/९) रात्रिम्मन्यः ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-८/९) अप्राप्ते विभाषा ।

(पा-६,३.७२; अकि-३,१६८.१६-२०; रो-४,६४२-६४३; भा-९/९) रात्र्यटः , रात्रिमटः ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-१/१३) किमर्थम् नञः सानुबन्धकस्य ग्रहणम् क्रियते न नस्य इति एव उच्येत ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-२/१३) नस्य इति उच्यमाने कर्णपुत्रः , वर्णपुत्रः इति अत्र अपि प्रसज्येत ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-३/१३) न एषः दोषः ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-४/१३) अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-५/१३) एवम् अपि प्रश्नपुत्रः , विश्नपुत्रः इति अत्र अपि प्राप्नोति ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-६/१३) न एषः दोषः ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-७/१३) अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-८/१३) एवम् अपि वामनपुत्रः , पामनपुत्रः इति अत्र अपि प्राप्नोति ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-९/१३) तस्मात् सानुबन्धकस्य ग्रहणम् कर्तव्यम् ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-१०/१३) नञः नलोपे अवक्षेपे तिङि उपसङ्ख्यानम् ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-११/१३) नञः नलोपे अवक्षेपे तिङि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-१२/१३) अपचसि वै त्वम् जाल्म ।

(पा-६,३.७३; अकि-३,१६८.२२-१६९.८; रो-४,६४२-६४३; भा-१३/१३) अकरोषि वै त्वम् जाल्म ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-१/१४) किमर्थम् तस्मात् इति उच्यते न नुट् अचि इति एव उच्येत ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-२/१४) नुट् अचि इति उच्यमाने नञः एव नुट् प्रसज्येत ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-३/१४) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-४/१४) तत्र अयम् अपि अर्थः ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-५/१४) तदोः सः सौ अनन्त्ययोः इति तदोः ग्रहणम् न कर्तव्यम् ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-६/१४) तत्र हि तवर्गानिर्देशे एतत् प्रयोजनम् इह मा भूत् ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-७/१४) अनेषः करोति इति ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-८/१४) यावता पूर्वान्तः सः अपि अदोषः भवति ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-९/१४) न एवम् शक्यम् ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-१०/१४) अनुष्णः इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-११/१४) नुग्वचनात् न भविष्यति ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-१२/१४) ङमुट् तर्हि प्राप्नोति ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-१३/१४) तस्मात् परादिः कर्तव्यः ।

(पा-६,३.७४; अकि-३,१६९.१०-१६; रो-४,६४४; भा-१४/१४) परादौ च क्रियमाणे तस्मात् इति वक्तव्यम् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१/२६) किमर्थम् आदुक् उच्यते न अदुक् एव उच्यते ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२/२६) का रूपसिद्धिः ॒ एकान्नविंशतिः , एकान्नशतम् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-३/२६) सवर्णदीर्घत्वेन सिद्धम् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-४/२६) न सिध्यति ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-५/२६) अतः गुणे इति पररूपत्वम् प्राप्नोति ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-६/२६) एवम् तर्हि अदुट् करिष्यते ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-७/२६) अदुट् च अशक्यः कर्तुम् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-८/२६) आनुनासिक्यम् हि न स्यात् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-९/२६) यत् हि तत् यरः अनुनासिके अनुनासिकः व इति पदान्तस्य इति एवम् तत् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१०/२६) किम् पुनः कारणम् पदान्तस्य इति एवम् तत् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-११/२६) इह मा भूत् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१२/२६) बुध्नः , ब्रध्नः , बध्नाति ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१३/२६) एवम् तर्हि अनुट् करिष्यते ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१४/२६) अनुट् च अशक्यः कर्तुम् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१५/२६) विभाषया आनुनासिक्यम् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१६/२६) तेन इदम् एव रूपम् स्यात् एकान्नविंशतिः ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१७/२६) इदम् न स्यात् ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१८/२६) एकान्नविंशतिः इति ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-१९/२६) अस्तु तर्हि अदुक् एव ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२०/२६) ननु च उक्तम् अतः गुणे इति पररूपत्वम् प्राप्नोति इति ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२१/२६) न एषः दोषः ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२२/२६) अकारोच्चारणसामर्थ्यात् न भविष्यति ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२३/२६) यदि तर्हि प्राप्नुवन् विधिः अकारोच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२४/२६) यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२५/२६) यस्य तु विधिः निमित्तम् एव न असौ बाध्यते ।

(पा-६,३.७६; अकि-३,१६९.१८-१७०.४; रो-४,६४४-६४५; भा-२६/२६) पररूपम् च प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-१/१२) सहस्य हलोपवचनम् ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-२/१२) सहस्य हलोपः वक्तव्यः ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-३/१२) सादेशे हि स्वरे दोषः ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-४/१२) सादेशे हि [सति] स्वरे दोषः स्यात् ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-५/१२) आन्तर्यतः उदात्तानुदात्तयोः [स्थाने] स्वरितः आदेशः प्रसज्येत ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-६/१२) [सपुत्रः , सभार्यः ।] सः तर्हि लोपः वक्तत्व्यः ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-७/१२) न वक्तत्व्यः ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-८/१२) आद्युदात्तनिपातनम् करिष्यते ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-९/१२) सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-१०/१२) एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-११/१२) सः यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् समासस्वरम् अपि बाधेत ।

(पा-६,३.७८; अकि-३,१७०.६-१२; रो-४,६४५-६४६; भा-१२/१२) सेष्टि , सपशुबन्धम् ।

(पा-६,३.७९; अकि-३,१७०.१४-१७; रो-४,६४६; भा-१/७) ग्रन्थान्ते वचनानर्थक्यम् अव्ययीभावेन कृतत्वात् । ग्रन्थान्ते वचनम् अनर्थकम् ।

(पा-६,३.७९; अकि-३,१७०.१४-१७; रो-४,६४६; भा-२/७) किम् कारणम् ।

(पा-६,३.७९; अकि-३,१७०.१४-१७; रो-४,६४६; भा-३/७) अव्ययीभावेन कृतत्वात् ।

(पा-६,३.७९; अकि-३,१७०.१४-१७; रो-४,६४६; भा-४/७) अव्ययीभावे च अकाले इति एव सिद्धम् ।

(पा-६,३.७९; अकि-३,१७०.१४-१७; रो-४,६४६; भा-५/७) यः तर्हि कालोत्तरपदः ग्रन्थान्तः तदर्थम् इदम् वक्तव्यम् ।

(पा-६,३.७९; अकि-३,१७०.१४-१७; रो-४,६४६; भा-६/७) सकाष्ठम् ज्योतिषम् अधीते ।

(पा-६,३.७९; अकि-३,१७०.१४-१७; रो-४,६४६; भा-७/७) सकलम् , समुहूर्तम् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१/२७) उपसर्जनस्य वावचने सर्वप्रसङ्गः अविशेषात् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२/२७) उपसर्जनस्य वावचने सर्वप्रसङ्गः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-३/२७) सर्वस्य उपसर्जनस्य सादेशः प्राप्नोति ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-४/२७) अस्य अपि प्राप्नोति ॒ सहयुध्वा , सहकृत्वा ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-५/२७) किम् कारणम् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-६/२७) अविशेषात् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-७/२७) न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य सादेशः भवति इति ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-८/२७) अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-९/२७) सिद्धम् तु बहुव्रीहिनिर्देशात् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१०/२७) सिद्धम् एतत् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-११/२७) कथम् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१२/२७) बहुव्रीहिनिर्देशात् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१३/२७) बहुव्रीहिनिर्देशः कर्तव्यः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१४/२७) एवम् अपि सहयुध्वप्रियः , सहकृत्वप्रियः इति अत्र प्राप्नोति ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१५/२७) बहुव्रीहौ यत् उत्तरपदम् इति एवम् विज्ञास्यते ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१६/२७) ननु एतत् अपि बहुव्रीहौ उत्तरपदम् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१७/२७) एवम् तर्हि बहुव्रीहौ यत् उपसर्जनम् इति एवम् विज्ञास्यते ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१८/२७) बहुव्रीहौ च यत् उपसर्जनम् बहुव्रीहिम् प्रति च यत् उपसर्जनम् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-१९/२७) सः तर्हि बहुव्रीहिनिर्देशः कर्तव्यः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२०/२७) न कर्तव्यः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२१/२७) इह कः चित् प्रधानानाम् एव समासः कः चित् उपसर्जनानाम् एव कः चित् प्रधानोपसर्जनानाम् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२२/२७) तत् यः उपसर्जनानाम् एव समासः तत् उपसर्जनम् ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२३/२७) अथ वा अकारः मत्वर्थीयः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२४/२७) तत् यथा तुन्दः घाटः इति ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२५/२७) अथ वा मतुब्लोपः अत्र द्रष्टव्यः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२६/२७) तत् यथा पुष्यकाः एषाम् ते इमे पुष्यकाः ।

(पा-६,३.८२)॒ अकि-३,१७०.१९-१७१.११; रो-४,६४६-६४७; भा-२७/२७) कालकाः एषाम् ते इमे कालकाः इति ।

(पा-६,३.८३)॒ अकि-३,१७१.१३-१४; रो-४,६४८; भा-१/४) प्रकृत्या आशिषि अगवादिषु ।

(पा-६,३.८३)॒ अकि-३,१७१.१३-१४; रो-४,६४८; भा-२/४) प्रकृत्या आशिषि अगवादिषु इति वक्तव्यम् ।

(पा-६,३.८३)॒ अकि-३,१७१.१३-१४; रो-४,६४८; भा-३/४) इह मा भूत् ।

(पा-६,३.८३)॒ अकि-३,१७१.१३-१४; रो-४,६४८; भा-४/४) सगवे सवत्साय सहलाय इति ।

(पा-६,३.८६; अकि-३,१७१.१६-१९; रो-४,६४८; भा-१/४) चरणे किम् निपात्यते ।

(पा-६,३.८६; अकि-३,१७१.१६-१९; रो-४,६४८; भा-२/४) ब्रह्मणि उपपदे समानपूर्वे व्रते कर्मणि चरेः णिनिः व्रतलोपः च ।

(पा-६,३.८६; अकि-३,१७१.१६-१९; रो-४,६४८; भा-३/४) ब्रह्मणि उपपदे समानपूर्वे व्रते कर्मणि चरेः णिनिः प्रत्ययः व्रतलोपः च निपात्यते ।

(पा-६,३.८६; अकि-३,१७१.१६-१९; रो-४,६४८; भा-४/४) समाने ब्रह्मणि व्रतम् चतर्ति इति सब्रह्मचारी ।

(पा-६,३.८९; अकि-३,१७१.२१-२२; रो-४,६४९; भा-१/२) दृग्दृशवतुषु दृक्षे उपसङ्ख्यानम् । दृग्दृशवतुषु दृक्षे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.८९; अकि-३,१७१.२१-२२; रो-४,६४९; भा-२/२) सदृक्षासः प्रतिसदृक्षासः ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-१/१५) किमर्थम् अञ्चतिनह्यादिषु क्विब्ग्रहणम् क्रियते ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-२/१५) इह मा भूत् ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-३/१५) समञ्चनम् , उपनहनम् ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-४/१५) न एतत् अस्ति प्रयोजनम् ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-५/१५) उत्तरपदे इति वर्तते न च अन्तरेण क्विपम् अञ्चतिनह्यादयः उत्तरपदानि भवन्ति ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-६/१५) तत्र अन्तरेण क्विब्ग्रहणम् क्विबन्ते एव भविष्यति ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-७/१५) तदादिविधिना प्राप्नोति ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-८/१५) अतः उत्तरम् पठति अञ्चतिनह्यादिषु क्विब्ग्रहणनार्थक्यम् यस्मिन् विधिः तदादौ अल्ग्रहणे ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-९/१५) अञ्चतिनह्यादिषु क्विब्ग्रहणम् अनर्थकम् ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-१०/१५) किम् कारणम् ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-११/१५) यस्मिन् विधिः तदादौ अल्ग्रहणे ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-१२/१५) अल्ग्रहणेषु एतत् भवति न च इदम् अल्ग्रहणम् ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-१३/१५) एवम् तर्हि सिद्धे सति यत् क्विब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र धातुग्रहणे तदादिविधिः भवति इति ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-१४/१५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,३.९३, ११६; अकि-३,१७२.२-११; रो-४,६४९-६५०; भा-१५/१५) अतः कृकमि इति अत्र , अयस्कृत् अयस्कार इति अपि सिद्धम् भवति ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-१/११) अद्रिसध्र्योः अन्तोदात्तवचनम् कृत्स्वरनिवृत्त्यर्थम् ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-२/११) अद्रिसध्र्योः अन्तोदात्तत्वम् वक्तव्यम् ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-३/११) किम् प्रयोजनम् ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-४/११) कृत्स्वरनिवृत्त्यर्थम् ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-५/११) कृत्स्वरः मा भूत् ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-६/११) विष्वद्र्यङ् , विष्वद्र्यञ्चौ , विष्वद्र्यञ्चः , सध्र्यङ् , सध्र्यञ्चौ , सध्र्यञ्चः ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-७/११) तत्र छन्दसि स्त्रियाम् प्रतिषेधः ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-८/११) तत्र छन्दसि स्त्रियाम् प्रतिषेधः वक्तव्यः ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-९/११) विश्वाची , घृताची ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-१०/११) यदि छन्दसि स्त्रियाम् प्रतिषेधः उच्यते कथम् सा कद्रीची ।

(पा-६,३.९२; अकि-३,१७२.१४-२१; रो-४,६५०; भा-११/११) एवम् तर्हि छन्दसि स्त्रियाम् बहुलम् इति वक्तव्यम् ।

(पा-६,३.९७; अकि-३,१७३.२-५; रो-४,६५१; भा-१/७) समापः ईत्त्वप्रतिषेधः ।

(पा-६,३.९७; अकि-३,१७३.२-५; रो-४,६५१; भा-२/७) समापः ईत्त्वप्रतिषेधः वक्तव्यः ।

(पा-६,३.९७; अकि-३,१७३.२-५; रो-४,६५१; भा-३/७) समापम् नाम देवयजनम् ।

(पा-६,३.९७; अकि-३,१७३.२-५; रो-४,६५१; भा-४/७) अपरः आह ॒ ईत्त्वम् अनवर्णात् इति वक्तव्यम् ।

(पा-६,३.९७; अकि-३,१७३.२-५; रो-४,६५१; भा-५/७) समीपम् , अन्तरीपम् ।

(पा-६,३.९७; अकि-३,१७३.२-५; रो-४,६५१; भा-६/७) इह मा भूत् ।

(पा-६,३.९७; अकि-३,१७३.२-५; रो-४,६५१; भा-७/७) प्रापम् , परापम् ।

(पा-६,३.९८; अकि-३,१७३.७-८; रो-४,६५१; भा-१/५) दीर्घोच्चारणम् किमर्थम् न उदनोः देशे इति एव उच्येत ।

(पा-६,३.९८; अकि-३,१७३.७-८; रो-४,६५१; भा-२/५) का रूपसिद्धिः ॒ अनूपः ।

(पा-६,३.९८; अकि-३,१७३.७-८; रो-४,६५१; भा-३/५) सवर्णदीर्घत्वेन् सिद्धम् ।

(पा-६,३.९८; अकि-३,१७३.७-८; रो-४,६५१; भा-४/५) न सिध्यति ।

(पा-६,३.९८; अकि-३,१७३.७-८; रो-४,६५१; भा-५/५) अवग्रहे दोषः स्यात् ।

(पा-६,३.९९; अकि-३,१७३.११-१३; रो-४,६५१; भा-१/५) अषष्ठ्यतृतीयस्थस्य इति उच्यते ।

(पा-६,३.९९; अकि-३,१७३.११-१३; रो-४,६५१; भा-२/५) तत्र इदम् न सिध्यति ।

(पा-६,३.९९; अकि-३,१७३.११-१३; रो-४,६५१; भा-३/५) अन्यस्य इदम् अन्यदीयम् ।

(पा-६,३.९९; अकि-३,१७३.११-१३; रो-४,६५१; भा-४/५) अन्यस्य कारकम् अन्यत्कारकम् ।

(पा-६,३.९९; अकि-३,१७३.११-१३; रो-४,६५१; भा-५/५) एवम् तर्हि अविशेषेण अन्यस्य दुक् छकारकयोः इति उक्त्वा ततः वक्ष्यामि अषष्ठ्यतृतीयस्थस्य आशीराशास्थास्थितोत्सुकोतिरागेषु इति ।

(पा-६,३.१०१; अकि-३,१७३.१६-१७; रो-४,६५१; भा-१/५) कद्भावे त्रौ उपसङ्ख्यानम् ।

(पा-६,३.१०१; अकि-३,१७३.१६-१७; रो-४,६५१; भा-२/५) कद्भावे त्रौ उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.१०१; अकि-३,१७३.१६-१७; रो-४,६५१; भा-३/५) कुत्सिताः त्रयः कत्त्रयः ।

(पा-६,३.१०१; अकि-३,१७३.१६-१७; रो-४,६५१; भा-४/५) के वा त्रयः ।

(पा-६,३.१०१; अकि-३,१७३.१६-१७; रो-४,६५१; भा-५/५) न बिभृयुः कत्त्रयः

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१/३३) पृषोदरादीनि इति उच्यते ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२/३३) कानि पृषोदरादीनि ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-३/३३) पृषोदरप्रकाराणि ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-४/३३) कानि पुनः पृषोदरप्रकाराणि ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-५/३३) येषु लोपागमविकाराः श्रूयन्ते न च उच्यन्ते ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-६/३३) अथ यथा इति किम् इदम् ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-७/३३) प्रकारवचने थाल् ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-८/३३) अथ किम् इदम् उपदिष्टानि इति ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-९/३३) उच्चारितानि ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१०/३३) कुतः एतत् ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-११/३३) दिशिः उच्चारणक्रियः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१२/३३) उच्चार्य हि वर्णान् आह उप्दिष्टाः इमे वर्णाः इति ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१३/३३) कैः पुनः उपदिष्टाः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१४/३३) शिष्टैः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१५/३३) के पुनः शिष्टाः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१६/३३) वैयाकरणाः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१७/३३) कुतः एतत् ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१८/३३) शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः च शास्त्रज्ञाः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-१९/३३) यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकम् च शास्त्रम् तत् इतरेतराश्रयम् भवति ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२०/३३) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२१/३३) एवम् तर्हि निवासतः आचारतः च ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२२/३३) सः च आचारः आर्यावर्त्ते एव ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२३/३३) कः पुनः आर्यावर्त्तः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२४/३३) प्राक् आदर्शात् [ऋ अदर्शनात्] प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२५/३३) एतस्मिन् आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किम् चित् अन्तरेण कस्याः चित् विद्यायाः पारगाः तत्रभवन्तः शिष्टाः ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२६/३३) यदि तर्हि शिष्टाः शब्देषु प्रमाणम् किम् अष्टाध्याय्या क्रियते ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२७/३३) शिष्टज्ञानार्था अष्टाध्यायी ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२८/३३) कथम् पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुम् ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-२९/३३) अष्टाध्यायीम् अधीयानः अन्यम् पश्यति अनधीयानम् ये अत्र विहिताः शब्दाः तान् प्रयुञ्जानम् ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-३०/३३) सः पश्यति ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-३१/३३) नूनम् अस्य दैवानुग्रहः स्वभावः वा यः अयम् न च अष्टाध्यायीम् अधीते ये च अस्यम् विहिताः शब्दाः तान् प्रयुङ्क्ते ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-३२/३३) नूनम् अयम् अन्यान् अपि जानाति ।

(पा-६,३.१०९.१; अकि-३,१७३.१९-१७४.१५; रो-४,६५२-६५४; भा-३३/३३) एवम् एषा शिष्टज्ञानार्था अष्टाध्यायी ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१/२४) दिक्शब्देभ्यः तीरस्य तारभावः वा ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-२/२४) दिक्शब्देभ्यः तीरस्य तारभावः वा वक्तव्यः ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-३/२४) दक्षिणतीरम् , दक्षिणतारम् ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-४/२४) वाचः वादे डत्वम् वलभावः च उत्तरपदस्य इञि ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-५/२४) वाचः वादे डत्वम् वक्तव्यम् वलभावः च उत्तरपदस्य इञि वक्तव्यः ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-६/२४) वाग्वादस्य अपत्यम् वाड्वलिः ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-७/२४) षषः उत्वम् दतृदशसु उत्तरपदादेः ष्टुत्वम् च ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-८/२४) षषः उत्वम् वक्तव्यम् उत्तरपदादेः ष्टुत्वम् च वक्तव्यम् ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-९/२४) षोडशन् , षोडश ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१०/२४) धासु वा ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-११/२४) धासु वा इति वक्तव्यम् उत्तरपदादेः ष्टुत्वम् च वक्तव्यम् ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१२/२४) षोढा षड्ढा कुरु ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१३/२४) अथ किमर्थम् बहुवचननिर्देशः क्रियते न पुनः धायाम् इति एव उच्यते ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१४/२४) नानाधिकरणवाची यः धाशब्दः तस्य ग्रहणम् यथा विज्ञायेत ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१५/२४) इह मा भूत् ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१६/२४) षट् दधाति इति षड्धा इति ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१७/२४) दुरः दाशनाशदभध्येषु ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१८/२४) दुरः दाशनाशदभध्येषु उत्वम् वक्तव्यम् उत्तरपदादेः च ष्टुत्वम् ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-१९/२४) दूडाशः , दूणाशः , दूडभः , दूढ्यः ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-२०/२४) स्वरो रोहतौ छन्दसि ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-२१/२४) स्वरो रोहतौ छन्दसि उत्वम् वक्तव्यम् ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-२२/२४) एहि त्वम् जाये स्वो रोहाव ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-२३/२४) पीवोपवसनादीनाम् छन्दसि लोपः वक्तव्यः ।

(पा-६,३.१०९.२; अकि-३,१७४.१६-१७५.७; रो-४,६५४-६५५; भा-२४/२४) पीवोपवसनानाम् पयोपवसनानाम् श्रिया इदम् ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-१/१४) पूर्वग्रहणम् किमर्थम् न तस्मिन् इति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-२/१४) न सिध्यति ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-३/१४) न हि ढ्रलोपेन आनन्तर्यम् ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-४/१४) इह कस्मात् न भवति करणीयम् , हरणीयम् ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-५/१४) न एवम् विज्ञायते ढ्रोः लोपः ढ्रलोपः , ढ्रलोपे इति ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-६/१४) कथम् तर्हि ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-७/१४) ढ्रोः लोपः अस्मिन् सः अयम् ढ्रलोपः , ढ्रलोपे इति ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-८/१४) यदि एवम् न अर्थः पूर्वग्रहणेन ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-९/१४) भवति हि ढ्रलोपेन आनन्तर्यम् ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-१०/१४) इदम् तर्हि प्रयोजनम् ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-११/१४) उत्तरपदे इति वर्तते ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-१२/१४) तेन आनन्तर्यमात्रे यथा स्यात् ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-१३/१४) औदुम्बरिः राजा ।

(पा-६,३.१११; अकि-३,१७५.९-१४; रो-४, ६५६; भा-१४/१४) पुनः रूपाणि कल्पयेत् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१/३०) वर्णग्रहणम् किमर्थम् न सहिवहोः ओत् अस्य इति एव उच्येत ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२/३०) वृद्धौ अपि कृतायाम् यथा स्यात् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-३/३०) उदवोढाम् , उदवोढम् , उदवोढ इति ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-४/३०) अथ अवर्णग्रहणम् किमर्थम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-५/३०) इह मा भूत् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-६/३०) ऊढः , ऊढवान् इति ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-७/३०) न एतत् अस्ति प्रयोजनम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-८/३०) भवतु अत्र ओत्त्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-९/३०) श्रवणम् कस्मात् न भवति ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१०/३०) पूर्वत्वम् अस्य भविष्यति ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-११/३०) इदम् इह सम्प्रधार्यम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१२/३०) ओत्त्वम् क्रियताम् पूर्वत्वम् इति किम् अत्र कर्तव्यम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१३/३०) परत्वात् ओत्त्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१४/३०) अन्तरङ्गम् पूर्वत्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१५/३०) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१६/३०) ओत्त्वम् क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१७/३०) परत्वात् ओत्त्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१८/३०) नित्यम् सम्प्रसारणम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-१९/३०) कृते अपि ओत्त्वे प्राप्नोति अकृते अपि ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२०/३०) ओत्त्वम् अपि नित्यम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२१/३०) कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२२/३०) अनित्यम् ओत्त्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२३/३०) न हि कृते सम्प्रसारणे प्राप्नोति ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२४/३०) अन्तरङ्गम् पूर्वत्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२५/३०) यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२६/३०) न च सम्प्रसारणम् एव ओत्त्वस्य निमित्तम् विहन्ति ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२७/३०) अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२८/३०) उभयोः नित्ययोः परत्वात् ओत्त्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-२९/३०) ओत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् ।

(पा-६,३.११२; अकि-३,१७५.१६-१७६.४; रो-४,६५६-६५७; भा-३०/३०) तत्र कार्यकृतत्वात् पुनः ओत्त्वम् न भविष्यति ।

(पा-६,३.१२१; अकि-३,१७६.६; रो-४,६५८; भा-१/३) अपील्वादीनाम् इति वक्तव्यम् ।

(पा-६,३.१२१; अकि-३,१७६.६; रो-४,६५८; भा-२/३) इह मा भूत् ।

(पा-६,३.१२१; अकि-३,१७६.६; रो-४,६५८; भा-३/३) रुचिवहम् , चारुवहम् ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-१/१३) अम्नुष्यादिषु इति वक्तव्यम् ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-२/१३) इह मा भूत् ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-३/१३) प्रसेवः , प्रहारः , प्रसारः ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-४/१३) सादकारयोः कृत्रिमे ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-५/१३) सादकारयोः कृत्रिमे इति वक्तव्यम् ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-६/१३) इह एव यथा स्यात् ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-७/१३) प्रासादः , प्राकारः ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-८/१३) इह मा भूत् ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-९/१३) एषः अस्य प्रसादः ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-१०/१३) एषः अस्य प्रकारः ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-११/१३) प्रतिवेशादीनाम् विभाषा ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-१२/१३) प्रतिवेशादीनाम् विभाषा दीर्घत्वम् वक्तव्यम् ।

(पा-६,३.१२२; अकि-३,१७६.८-१३; रो-४,६५८; भा-१३/१३) प्रतिवेशः , प्रतीवेशः , प्रतिकारः , प्रतीकारः ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-१/१६) कथम् इदम् विज्ञायते ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-२/१६) दा इति एतस्मिन् तकारादौ , आहोस्वित् दा इति एतस्मिन् तकारान्ते इति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-३/१६) किम् च अतः ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-४/१६) यदि विज्ञायते तकारादौ इति नीत्ता वित्ता , अत्र न प्राप्नोति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-५/१६) अथ विज्ञायते तकारान्ते इति सुदत्तम् प्रतिदत्तम् अत्र अपि प्राप्नोति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-६/१६) यथा इच्छसि तथा अस्तु ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-७/१६) अस्तु तावत् तकारादौ इति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-८/१६) कथम् नीत्ता वित्ता ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-९/१६) चर्त्वे कृते भविष्यति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-१०/१६) असिद्धम् चर्त्वम् ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-११/१६) तस्य असिद्धत्वात् न प्राप्नोति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-१२/१६) आश्रयात् सिद्धत्वम् भविष्यति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-१३/१६) अथ वा पुनः अस्तु तकारान्ते इति ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-१४/१६) कथम् सुदत्तम् प्रतिदत्तम् ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-१५/१६) न एतत् तकारान्तम् ।

(पा-६,३.१२४; अकि-३,१७६.१५-२०; रो-४,६५८-६५९; भा-१६/१६) थकारान्तम् एतत् ।

(पा-६,३.१३८; अकि-३,१७७.५-१०; रो-४,६५९; भा-१/४) इह अन्ये आचार्याः चौ प्रत्यङ्गस्य प्रतिषेधम् आहुः ।

(पा-६,३.१३८; अकि-३,१७७.५-१०; रो-४,६५९; भा-२/४) तत् इह अपि साध्यम् ।

(पा-६,३.१३८; अकि-३,१७७.५-१०; रो-४,६५९; भा-३/४) न एषः दोषः ।

(पा-६,३.१३८; अकि-३,१७७.५-१०; रो-४,६५९; भा-४/४) एतत् एव ज्ञापयति आचार्यः न प्रत्यङ्गम् भवति इति यत् अयम् चौ दीर्घत्वम् शास्ति ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-१/१२) इकः ह्रस्वात् सम्प्रसारणदीर्घत्वम् विप्रतिषेधेन ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-२/१२) इकः ह्रस्वात् सम्प्रसारणदीर्घत्वम् भवति विप्रतिषेधेन ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-३/१२) इकः ह्रस्वस्य अवकाशः ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-४/१२) ग्रामणिकुलम् , सेनानिकुलम् ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-५/१२) सम्प्रसारणदीर्घत्वस्य अवकाशः ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-६/१२) विभाषा ह्रस्वत्वम् ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-७/१२) यदा न ह्रस्वत्वम् सः अवकाशः ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-८/१२) ह्रस्वप्रसङ्गे उभयम् प्राप्नोति ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-९/१२) कारीषगन्धीपुत्रः , कौमुदगन्धीपुत्रः ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-१०/१२) सम्प्रसारणदीर्घत्वम् भवति विप्रतिषेधेन ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-११/१२) अथ इदानीम् दीर्घत्वे कृते पुनःप्रसङ्गविज्ञानात् ह्रस्वत्वम् कस्मात् न भवति ।

(पा-६,३.१३९; अकि-३,१७७.२-३; रो-४,६५९-६६०; भा-१२/१२) सकृद्गतौ विप्रतिषेधेन यत् बाधितम् तत् बाधितम् एव इति ।