व्याकरणमहाभाष्य खण्ड 70

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-१/११) आ कुतः अयम् अधिकारः ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-२/११) आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-३/११) यदि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-४/११) प्राक् अभ्यासविकारेभ्यः पुनः अङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धम् ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-५/११) अस्तु तर्हि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-६/११) यदि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः वव्रश्च वकारस्य सम्प्रसारणम् प्राप्नोति ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-७/११) आ सप्तमाध्यायपरिसमाप्तेः पुनः अङ्गाधिकारे सति उः अदत्वस्य स्थानिवद्भावान् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-८/११) सः च इदानीम् अपरिहारः भवति यत् तत् उक्तम् अङ्गान्यत्वात् च सिद्धम् इति ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-९/११) अस्तु तर्हि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-१०/११) ननु च उक्तम् गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् इति ।

(पा-६,४.१.१; अकि-३,१७८.२-१०; रो-४,६६१-६६२; भा-११/११) क्रियते न्यासे एव ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१/३५) किम् पुनः इयम् स्थान्षष्ठी , अङ्गस्य स्थाने इति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२/३५) एवम् भवितुम् अर्हति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-३/३५) अङ्गस्य इति स्थानषष्ठी चेत् पञ्चम्यन्तस्य च अधिकारः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-४/३५) अङ्गस्य इति स्थानषष्ठी चेत् पञ्चम्यन्तस्य च अधिकारः कर्तव्यः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-५/३५) अङ्गात् इति अपि वक्तव्यम् ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-६/३५) अनुच्यमाने हि अतः भिसः ऐस् भवति इति अतः इति पञ्चमी अङ्गस्य इति स्थानषष्ठी ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-७/३५) तत्र अशक्यम् विविभक्तिकत्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-८/३५) तत्र कः दोषः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-९/३५) अकारात् परस्य भिस्मात्रस्य ऐस्-भावः भवति इति इह अपि प्रसज्येत ॒ ब्राह्मणभिस्सा , ओदनभिस्सटा इति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१०/३५) अवयवषष्ठ्यादीनाम् च अप्रसिद्धिः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-११/३५) अवयवषष्ठ्यादयः च न सिध्यन्ति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१२/३५) तत्र कः दोषः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१३/३५) शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१४/३५) ऊत् उपधायाः गोहः इति गोहेः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१५/३५) सिद्धम् तु परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञाभावात् ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१६/३५) सिद्धम् एतत् ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१७/३५) कथम् ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१८/३५) परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-१९/३५) अङ्गसञ्ज्ञाम् प्रति प्रत्ययसञ्ज्ञा प्रत्ययसञ्ज्ञाम् प्रति अङ्गसञ्ज्ञा ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२०/३५) किम् अतः यत् परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२१/३५) सम्बन्धषष्थीनिर्देशः च ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२२/३५) सम्बन्धषष्थीनिर्देशः च अयम् कृतः भवति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२३/३५) अङ्गस्य यः भिस्-शब्दः इति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२४/३५) किम् च अङ्गस्य भिस्-शब्दः ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२५/३५) निमित्तम् ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२६/३५) यस्मिन् अङ्गम् इति एतत् भवति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२७/३५) कस्मिन् च एतत् भवति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२८/३५) प्रत्यये ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-२९/३५) एवम् अपि अवयवषष्ठ्यादयः अविशेषिताः भवन्ति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-३०/३५) अवयवषष्ठ्यादयः अपि सम्बन्धे एव ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-३१/३५) एवम् अपि स्थानम् अविशेषितम् भवति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-३२/३५) स्थानम् अपि सम्बन्धः एव ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-३३/३५) एवम् अपि न ज्ञायते क्व स्थानषष्ठी क्व विशेषणषष्ठी इति ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-३४/३५) यत्र षष्ठी अन्ययोगम् न अपेक्षते सा स्थानषष्ठी ।

(पा-६,४.१.२; अकि-३,१७८.११-१७९.१०; रो-४,६६२-६६५; भा-३५/३५) यत्र हि अन्ययोगम् अपेक्षते सा विशेषणषष्ठी ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१/८०) कानि पुनः अङ्गाधिकारस्य प्रयोजननि ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२/८०) अङ्गाधिकारस्य प्रयोजनम् सम्प्रसारणदीर्घत्वे ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३/८०) हलः उत्तरस्य सम्प्रसारणस्य दीर्घः भवति ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४/८०) हूतः , जीनः , संवीतः , शूनः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६/८०) निरुतम् , दुरुतम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७/८०) नाम्सनोः च ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-८/८०) नाम्सनोः च दीर्घत्वे प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-९/८०) नामि दीर्घः भवति ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१०/८०) अग्नीनाम् , वायूनाम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-११/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१२/८०) क्रिमिणाम् पश्य ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१३/८०) पामनाम् पश्य ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१४/८०) सनि दीर्घः भवति ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१५/८०) चिचीषति , तुष्टूषति ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१६/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१७/८०) दधि सनोति ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१८/८०) मधु सनोति ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-१९/८०) लिङि एत्वे ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२०/८०) लिङि एत्वे प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२१/८०) ग्लेयात् , म्लेयात् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२२/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२३/८०) निर्यायात् , निर्वायात् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२४/८०) अतः भिसः ऐस्त्वे ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२५/८०) अतः भिसः ऐस्त्वे प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२६/८०) वृक्षैः , प्लक्षैः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२७/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२८/८०) ब्राह्मणभिस्सा , ओदनभिस्सटा ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-२९/८०) लुङादिषु अडाटौ ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३०/८०) लुङादिषु अडाटौ प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३१/८०) अकार्षीत् , ऐहिष्ट ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३२/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३३/८०) प्राकरोत् , उपैहिष्ट ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३४/८०) इयङुवङ्युष्मदस्मत्तातङामिनुडानेमुक्केह्रस्वयिदीर्घभितत्वानि ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३५/८०) इयङुवङौ प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३६/८०) श्रियौ श्रियः , भ्रुवौ भ्रुवः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३७/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३८/८०) श्र्यर्थम् , भ्र्वर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-३९/८०) युष्मदस्मदोः प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४०/८०) सामः आकम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४१/८०) युष्माकम् अस्माकम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४२/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४३/८०) युष्मत्साम , अस्मत्साम ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४४/८०) तातङ् प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४५/८०) जीवतात् भवान् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४६/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४७/८०) पच हि तावत् त्वम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४८/८०) जल्प तु तावत् त्वम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-४९/८०) आमि नुट् प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५०/८०) कुमारीणम् , किशोरीणाम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५१/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५२/८०) कुमारी , आम् इति आह ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५३/८०) किशोरी , आम् इति आह ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५४/८०) आने मुक् प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५५/८०) पचमानः , यजमानः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५६/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५७/८०) प्राणः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५८/८०) के ह्रस्वः प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-५९/८०) किशोरिका , कुमारिका ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६०/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६१/८०) कुमारी कायति कुमारीकः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६२/८०) यि दीर्घः प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६३/८०) चीयते , स्तूयते ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६४/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६५/८०) दधियानम् , मधुयानम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६६/८०) भि तत्वम् प्रयोजनम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६७/८०) अद्भिः , अद्भ्यः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६८/८०) अङ्गस्य इति किमर्थम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-६९/८०) अब्भारः , अब्भक्षः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७०/८०) न एतानि सन्ति प्रयोजनानि ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७१/८०) कथम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७२/८०) अर्थवद्ग्रहणप्रत्ययग्रहणाभ्याम् सिद्धम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७३/८०) अर्थवद्ग्रहणप्रत्ययग्रहणाभ्याम् एतानि सिद्धानि ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७४/८०) क्व चित् अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् भविष्यति क्व चित् प्रत्ययाप्रत्ययोः ग्रहणे प्रत्ययस्य एव ग्रहणम् भवति इति ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७५/८०) अथ वा प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७६/८०) यदि प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् , उपैहिष्ट , उपसर्गात् पूर्वम् अडाटौ प्राप्नुतः ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७७/८०) सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७८/८०) सिद्धम् एतत् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-७९/८०) कथम् ।

(पा-६,४.१.३; अकि-३,१७९.११-१८०.२३; रो-४,६६५-६६९; भा-८०/८०) प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एवम् उपसर्गात् पूर्वम् अडाटौ न भविष्यतः ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१/२०) इह कस्मात् न भवति ॒ तृतीयः ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-२/२०) अण्प्रकरणात् ऋकारस्य अप्राप्तिः ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-३/२०) अण्प्रकरणात् ऋकारस्य दीर्घत्वम् न भविष्यति ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-४/२०) अणः इति वर्तते ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-५/२०) क्व प्रकृतम् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-६/२०) ढ्रलोपे पूर्वस्य दीर्घः अणः इति ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-७/२०) तत् वै इकः काशे इति अनेन इग्ग्रहणेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-८/२०) इग्ग्रहणस्य च अण्विशेषणत्वात् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-९/२०) अण्विशेषणम् इग्ग्रहणम् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१०/२०) अणः इकः इति ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-११/२०) यदि तर्हि अण्विशेषणम् इग्ग्रहणम् चौ दीर्घः भवति इति इह न प्राप्नोति ॒ अवाचा , अवाचे ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१२/२०) न एषः दोषः ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१३/२०) अण्ग्रहणम् अनुवर्तते इग्ग्रहणम् निवृत्तम् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१४/२०) एवम् अपि कर्तृ̄चा कर्तृ̄चे , अत्र न प्राप्नोति ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१५/२०) यथालक्षणम् अप्रयुक्ते ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१६/२०) अथ वा उभयम् निवृत्तम् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१७/२०) कस्मात् न भवति तृतीयः ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१८/२०) निपातनात् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-१९/२०) किम् निपातनम् ।

(पा-६,४.२; अकि-३,१८०.२५-१८१.१०; रो-४,६६९-६७०; भा-२०/२०) द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्याम् इति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१/३३) किमर्थम् आमः सनकारस्य ग्रहणम् क्रियते न आमि दीर्घः इति एव उच्येत ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२/३३) केन इदानिम् सनकारके भविष्यति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-३/३३) नुट् अयम् आम्भक्तः आम्ग्रहणेन ग्राहिष्यते ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-४/३३) अतः उत्तरम् पठति ॒ नामि दीर्घः आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-५/३३) नामि दीर्घः आमि चेत् स्यात् कृते दीर्घत्वे न नुट् स्यात् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-६/३३) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-७/३३) दीर्घत्वम् क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-८/३३) परत्वात् नुट् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-९/३३) नित्यम् दीर्घत्वम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१०/३३) कृते अपि नुटि प्राप्नोति अकृते अपि ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-११/३३) नित्यत्वात् दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१२/३३) एवम् तर्हि आह अयम् ह्रस्वान्तात् नुट् इति न च ह्रस्वान्तः अस्ति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१३/३३) तत्र वचनात् भविष्यति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१४/३३) वचनात् यत्र तत् न अस्ति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१५/३३) न इदम् वचनात् लभ्यम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१६/३३) अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१७/३३) किम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१८/३३) यत्र दीर्घत्वम् प्रतिषिध्यते ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-१९/३३) तिसृणाम् , चतसृणाम् इति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२०/३३) न एतत् अस्ति प्रयोजनम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२१/३३) इह तावत् चतसृणाम् इति षट्चतुर्भ्यः च इति एवम् भविष्यति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२२/३३) तिसृणाम् इति त्रिग्रहणम् अपि तत्र प्रकृतम् अनुवर्तते ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२३/३३) क्व प्रकृतम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२४/३३) त्रेः त्रयः इति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२५/३३) इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२६/३३) न एकम् उदाहरणम् ह्रस्वग्रहणम् प्रयोजयति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२७/३३) तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२८/३३) ह्रस्वान्तम् यत् भूतपूर्वम् इति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-२९/३३) उत्तराऋथम् तर्हि सनकारग्रहणम् कर्तव्यम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-३०/३३) नोपधायाः च चर्मणाम् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-३१/३३) नोपधायाः नामि यथा स्यात् ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-३२/३३) इह मा भूत् ॒ चर्मणाम् , वर्मणाम् इति ।

(पा-६,४.३; अकि-३,१८१.१२-१८२.४; रो-४,६७०-६७३; भा-३३/३३) नामि दीर्घः आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत् । वचनात् यत्र तत् न अस्ति । नोपधायाः च चर्मणाम् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१/४५) हनः क्वौ उपधादीर्घत्वप्रसङ्गः ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२/४५) हनः क्वौ उपधालक्षणम् दीर्घत्वम् प्राप्नोति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३/४५) अनुनासिकस्य क्विझलोः क्ङिति इति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-४/४५) तस्य प्रतिषेधः वक्तव्यः ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-५/४५) वृत्रहणौ वृत्रहणः इति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-६/४५) नियमवचनात् सिद्धम् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-७/४५) इन्हन्पूषार्यम्णाम् शौ सौ च इति एतस्मात् नियमवचनात् दीर्घत्वम् न भविष्यति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-८/४५) नियमवचनात् सिद्धम् इति चेत् सर्वनामस्थानप्रकरणे नियमवचनात् अन्यत्र अनियमः ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-९/४५) नियमवचनात् सिद्धम् इति चेत् सर्वनामस्थानप्रकरणे नियमवचनात् अन्यत्र नियमः न प्राप्नोति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१०/४५) क्व अन्यत्र ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-११/४५) वृत्रहणि भ्रूणहनि ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१२/४५) एवम् तर्हि दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् विनियम्य सुटि इति सुविद्वान् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१३/४५) दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् सर्वनामस्थाने विनियम्य , इन्हन्पूषार्यम्णाम् सर्वनामस्थाने दीर्घः भवति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१४/४५) किमर्थम् इदम् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१५/४५) नियमाऋथम् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१६/४५) इन्हन्पूषार्यम्णाम् सर्वनामस्थाने एव न अन्यत्र ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१७/४५) शौ नियमम् पुनः एव विदध्यात् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१८/४५) ततः शौ ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-१९/४५) शौ एव सर्वनामस्थाने न अन्यत्र ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२०/४५) ततः सौ ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२१/४५) सौ एव सर्वनामस्थाने न अन्यत्र ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२२/४५) भ्रूणहनि इति तथा अस्य न दुष्येत् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२३/४५) तथा अस्य भ्रूणहनि इति न दोषः भवति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२४/४५) शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमम् कुरु वा अपि असमीक्ष्य ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२५/४५) अथ वा निवृत्ते सर्वनामस्थानप्रकरणे अविशेषेण शौ नियमम् वक्ष्यामि ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२६/४५) इन्हन्पूषार्यम्णाम् शौ एव ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२७/४५) ततः सौ ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२८/४५) सौ एव ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-२९/४५) इह अपि तर्हि नियमात् न प्राप्नोति ॒ इन्द्रः वृत्रहायते ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३०/४५) दीर्घविधेः उपधानियमात् मे हन्त यि दीर्घविधौ च न दोषः ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३१/४५) उपधालक्षणदीर्घत्वस्य नियमः न च एतत् उपधालक्षणम् दीर्घत्वम् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३२/४५) सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३३/४५) अथ वा अनुवर्तमाने सर्वनामस्थानग्रहणे अनवकाशः शौ नियमः अप्रकृतस्य अपि दीर्घत्वस्य नियामकः भविष्यति ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३४/४५) कथम् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३५/४५) यस्य हि शौ नियमः सुटि न एतत् तेन न तत्र भवेत् विनियम्यम् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३६/४५) यस्य हि शिः सर्वनामस्थानम् न तस्य सुट् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३७/४५) यस्य सुट् सर्वनामस्थानम् न तस्य शिः ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३८/४५) तत्र सर्वनामस्थानप्रकरणे नियम्यम् न अस्ति इति कृत्वा अविशेषेण शौ नियमः विज्ञास्यते ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-३९/४५) दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् विनियम्य सुटि इति सुविद्वान् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-४०/४५) शौ नियमम् पुनः एव विदध्यात् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-४१/४५) भ्रूणहनि इति तथा अस्य न दुष्येत् ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-४२/४५) शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमम् कुरु वा अपि असमीक्ष्य ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-४३/४५) दीर्घविधेः उपधानियमात् मे हन्त यि दीर्घविधौ च न दोषः ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-४४/४५) सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे ।

(पा-६,४.१२-१३; अकि-३,१८२.७-१८३.१८; रो-४,६७३-६७७; भा-४५/४५) यस्य हि शौ नियमः सुटि न एतत् तेन न तत्र भवेत् विनियम्यम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१/३२) अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२/३२) अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-३/३२) गोमान् , यवमान् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-४/३२) किम् पुनः कारणम् न सिध्यति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-५/३२) अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-६/३२) अननुबन्धकग्रहणे इति उच्यते ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-७/३२) सानुबन्धकस्य इदम् ग्रहणम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-८/३२) एवम् तर्हि तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-९/३२) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१०/३२) न कर्तव्यम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-११/३२) पकारलोपे कृते न अतुबन्तम् भवति अत्वन्तम् एव ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१२/३२) यथा एव तर्हि पकारलोपे कृते न अतुबन्तम् एवम् उकारलोपे अपि कृते न अत्वन्तम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१३/३२) ननु च भूतपूर्वगत्या भविष्यति अत्वन्तम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१४/३२) यथा एव तर्हि भूतपूर्वगत्या अत्वन्तम् एवम् अतुबन्तम् अपि ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१५/३२) एवम् तर्हि आश्रीयमाणे भूतपूर्वगतिः अत्वन्तम् च आस्रीयते न अतुबन्तम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१६/३२) न सिध्यति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१७/३२) इह हि व्याकरणे सर्वेषु एव सानुबन्धकग्रहणेषु रूपम् आश्रीयते ॒ यत्र अस्य एतत् रूपम् इति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१८/३२) रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-१९/३२) तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२०/३२) कः असौ ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२१/३२) उपदेशः नाम ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२२/३२) उपदेशे च एतत् अतुबन्तम् न अत्वन्तम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२३/३२) यदि पुनः अत्शब्दम् गृहीत्वा दीर्घत्वम् उच्येत ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२४/३२) न एवम् शक्यम् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२५/३२) इह अपि प्रसज्येत ॒ जगत् , जनगत् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२६/३२) अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२७/३२) इह अपि तर्हि न प्राप्नोति ॒ कृतवान् , भुक्तवान् इति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२८/३२) क्व तर्हि स्यात् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-२९/३२) पचन् , यजन् ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-३०/३२) न वै अत्र इष्यते ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-३१/३२) अनिष्टम् च प्राप्नोति इष्तम् च न सिध्यति ।

(पा-६,४.१४; अकि-३,१८३.२०-१८४.११; रो-४,६७७-६७९; भा-३२/३२) तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१/२३) गमेः दीर्घत्वे इङ्ग्रहणम् । गमेः दीर्घत्वे इङ्ग्रहणम् कर्तव्यम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-२/२३) इङ्गमेः इति वक्तव्यम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-३/२३) इह मा भूत् ॒ सञ्जिगंसते वत्सः मात्रा इति ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-४/२३) अग्रहणे हि अनादेशस्य अपि दीर्घप्रसङ्गः ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-५/२३) अक्रियमाणे हि इङ्ग्रहणे अनादेशस्य अपि दीर्घत्वम् प्रसज्येत ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-६/२३) सञ्जिगंसते वत्सः मात्रा इति ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-७/२३) न वा छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् इङ्ग्रहणानर्थक्यम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-८/२३) न वा इङ्ग्रहणम् कर्तव्यम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-९/२३) किम् कारणम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१०/२३) छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-११/२३) छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् दृश्यते ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१२/२३) स्वर्गम् लोकम् सञ्जिगांसत् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१३/२३) छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् इङ्ग्रहणम् अनर्थकम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१४/२३) यथा एव तर्हि छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् भवति एवम् भाषायाम् अपि प्राप्नोति ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१५/२३) तस्मात् इङ्ग्रहणम् कर्तव्यम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१६/२३) न कर्तव्यम् ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१७/२३) योगविभागः करिष्यते ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१८/२३) अचः सनि ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-१९/२३) अजन्तानाम् सनि दीर्घः भवति ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-२०/२३) ततः हनिगम्योः ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-२१/२३) हनिगम्योः च सनि दीर्घः भवति ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-२२/२३) अचः इति एव ।

(पा-६,४.१६.१; अकि-३,१८४.१३-२५; रो-४,६७९-६८०; भा-२३/२३) अचः स्थाने यौ हनिगमी ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-१/१०) अथ उपधाग्रहणम् अनुवर्तते उत अहो न ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-२/१०) किम् च अतः ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-३/१०) सनि दीर्घे उपधाधिकारः चेत् व्यञ्जनप्रतिषेधः ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-४/१०) सनि दीर्घे उपधाधिकारः चेत् व्यञ्जनप्रतिषेधः वक्तव्यः , चिचीषति तुष्टूषति इति एवम् अर्थम् ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-५/१०) एवम् तर्हि निवृत्तम् ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-६/१०) अनधिकारे उक्तम् ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-७/१०) किम् उक्तम् ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-८/१०) हनिगमिदीर्घेषु अज्ग्रहणम् इति ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-९/१०) न एषः दोषः ।

(पा-६,४.१६.२; अकि-३,१८५.१-७; रो-४,६८१; भा-१०/१०) उक्तम् एतत् ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१/२०) अथ , ऊट् आदिः कस्मान् न भवति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-२/२०) आदिः टित् भवति इति प्राप्नोति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-३/२०) कस्य पुनः आदिः ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-४/२०) वकारस्य ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-५/२०) अस्तु ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-६/२०) वकारकस्य का प्रतिपत्तिः ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-७/२०) लोपः व्योः वलि इति लोपः भविष्यति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-८/२०) न एवम् शक्यम् ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-९/२०) ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति द्वौ ऊटौ स्याताम् ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१०/२०) एवम् तर्हि न एषः टित् ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-११/२०) कः तर्हि ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१२/२०) ठित् ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१३/२०) यदि तर्हि ठित् , धौतः पटः इति एत्येधत्यूट्सु इति वृद्धिः न प्राप्नोति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१४/२०) चर्त्वे कृते भविष्यति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१५/२०) असिद्धम् चर्त्वम् ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१६/२०) तस्य असिद्धत्वात् न प्राप्नोति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१७/२०) आश्रयात् सिद्धत्वम् भविष्यति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१८/२०) असति अन्यस्मिन् आश्रयात् सिद्धत्वम् स्यात् अस्ति च अन्यः सिद्धः वाहः उट् इति ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-१९/२०) एषः अपि ठित् करिष्यते ।

(पा-६,४.१९.१; अकि-३,१८५.९-१६; रो-४,६८१-६८३; भा-२०/२०) तत्र उभयोः चर्त्वे कृते आश्रयात् सिद्धत्वम् भविष्यति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१/३६) अथ क्ङिद्ग्रहणम् अनुवर्तते उत अहो न ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२/३६) किम् च अतः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३/३६) शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम् ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-४/३६) शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम् वक्तव्यम् ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-५/३६) प्रष्टा , प्रष्टुम् , प्रष्टव्यम् ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-६/३६) तुक्प्रसङ्गः च ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-७/३६) तुक् च प्राप्नोति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-८/३६) निवृत्ते अपि क्ङिद्ग्रहणे अवश्यम् अत्र तुगभावार्थः यत्नः कर्तव्यः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-९/३६) अन्तरङ्गत्वात् हि तुक् प्राप्नोति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१०/३६) च्छ्वोः इति सन्निपातग्रहणम् विज्ञायते ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-११/३६) ननु एवम् अपि अन्त्यस्य प्राप्नोति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१२/३६) सन्निपातग्रहणसामर्थ्यात् सर्वस्य भविष्यति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१३/३६) एवम् अपि अङ्गस्य प्राप्नोति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१४/३६) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अङ्गस्य न भविष्यति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१५/३६) यदि एवम् उत्पुच्छयतेः अप्रत्ययः उत्पुट् इति प्राप्नोति , उत्पुत् इति च इष्यते ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१६/३६) तथा वाञ्छतेः अप्रत्ययः वान् , वांशौ वांशः इति न सिध्यति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१७/३६) यथालक्षणम् अप्रयुक्ते ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१८/३६) तत्र तु एतावान् विशेषः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-१९/३६) अनुवर्तमाने क्ङिद्ग्रहणे छः षत्वम् वक्तव्यम् तत्र च अपि सन्निपातग्रहणम् विज्ञेयम् ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२०/३६) निवृत्ते दिवः ऊड्भावः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२१/३६) निवृत्ते दिवः ऊड्भावः प्राप्नोति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२२/३६) द्युभ्याम् , द्युभिः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२३/३६) अस्तु ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२४/३६) कथम् द्युभ्याम् , द्युभिः इति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२५/३६) ऊठि कृते दिवः उत् इति उत्त्वम् भविष्यति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२६/३६) न सिध्यति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२७/३६) आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२८/३६) तदर्थम् तपरः कृतः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-२९/३६) एवमर्थम् तपरः क्रियते ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३०/३६) क्व पुनः क्ङिद्ग्रहणम् प्रकृतम् ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३१/३६) अनुनासिकस्य क्विझलोः क्ङिति इति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३२/३६) यदि तत् अनुवर्तते अज्झनगमाम् सनि क्विझलोः च इति क्विझलोः अपि दीर्घत्वम् प्राप्नोति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३३/३६) झलि तावत् न दोषः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३४/३६) सनम् झल्ग्रहणेन विशेषयिष्यामः ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३५/३६) सनि झलादौ इति ।

(पा-६,४.१९.२; अकि-३,१८५.१७-१८६.१५; रो-४,६८३-६८६; भा-३६/३६) क्वौ अपि आचार्यप्रवृत्तिः ज्ञापयति न अनेन क्वौ दीर्घत्वम् भवति इति यत् अयम् क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः असम्प्रसारम् च इति दीर्घत्वम् शास्ति ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१/१८) असिद्धवचनम् किमर्थम् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-२/१८) असिद्धवचने उक्तम् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-३/१८) किम् उक्तम् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-४/१८) तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च इति ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-५/१८) इह अपि असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-६/१८) आदेशलक्षणप्रतिषेधाऋथम् तावत् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-७/१८) आगहि जहि गतः , गतवान् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-८/१८) अनुनासिकलोपे जभावे च कृते अतः लोपः , अतः हेः इति च प्राप्नोति ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-९/१८) असिद्धत्वात् न भवति ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१०/१८) उत्सर्गलक्षणभावार्थम् च ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-११/१८) एधि शाधि ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१२/१८) अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१३/१८) असिद्धत्वात् भवति ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१४/१८) अथ अत्रग्रहणम् किमर्थम् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१५/१८) अत्रग्रहणम् विषयार्थम् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१६/१८) विषयः प्रतिनिर्दिश्यते ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१७/१८) अत्र एतस्मिन् आभाच्छास्त्रे आभाच्छास्त्रम् असिद्धम् यथा स्यात् ।

(पा-६,४.२२.१; अकि-३,१८७.२-९; रो-४,६८७-६८८; भा-१८/१८) इह मा भूत् ॒ अभाजि, रागः, उपबर्हणम् इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१/९१) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२/९१) प्रयोजनम् शैत्त्वम् धित्वे ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३/९१) शाभावः एत्त्वम् च धित्वे प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४/९१) एधि शाधि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५/९१) अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६/९१) असिद्धत्वात् भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७/९१) शाभावः तावत् न प्रयोजयति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८/९१) एवम् वक्ष्यामि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-९/९१) शास् हौ शा हौ इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१०/९१) यत्वभूतः सकारः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-११/९१) तत्र सात् धित्वम् धि च इति सकारस्य लोपः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१२/९१) अथ वा , आ हौ इति वक्ष्यामि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१३/९१) एवम् अपि सकारस्य प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१४/९१) उपधायाः इति वर्तते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१५/९१) उपधायाः आत्वे कृते सात् धित्वम् धि च इति सकारस्य लोपः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१६/९१) अथ वा न हौ इति वक्ष्यामि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१७/९१) तत्र एत्त्वे प्रतिषिद्धे सात् धित्वम् धि च इति सकारस्य लोपः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१८/९१) एत्त्वम् अपि लोपापवादः विज्ञास्यते न च सकारस्य लोपः प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-१९/९१) हिलोपः उत्त्वे ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२०/९१) हिलोपः उत्त्वे प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२१/९१) कुरु इति अत्र हिलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२२/९१) असिद्धत्वात् भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२३/९१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२४/९१) वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनम् सार्वधातुके भूतपूर्वमात्रे यथा स्त्यात् उत्त्वम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२५/९१) तास्तिलोपेण्यणादेशाः अडाड्विधौ ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२६/९१) तलोपः अस्तिलोपः इणः च यणादेशः अडाड्विधौ प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२७/९१) अकारि , ऐही इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२८/९१) तलोपे कृते लुङि इति अडाटौ न क्ल्प्राप्नुतः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-२९/९१) असिद्धत्वात् भवतः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३०/९१) अस्तिलोपः इणः च यणादेशः प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३१/९१) आसन् , आयन् इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३२/९१) इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् न प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३३/९१) असिद्धत्वात् भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३४/९१) अस्तिलोपः तावत् न प्रयोजयति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३५/९१) आचार्यप्रवृत्तिः ज्ञापयति लोपात् आट् बलीयान् इति यत् अयम् श्नसोः अल्लोपः इति तपरकरणम् करोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३६/९१) इण्यणादेशः च अपि न प्रयोजयति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३७/९१) यणादेशे योगविभागः करिष्यते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३८/९१) इणः यण् भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-३९/९१) ततः एः अनेकाचः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४०/९१) एः च अनेकाचः इणः यण् भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४१/९१) ततः असंयोगपूर्वस्य यण् भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४२/९१) एः अनेकाचः इति एव ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४३/९१) सर्वेषाम् एव परिहारः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४४/९१) उपदेशः इति वर्तते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४५/९१) तत्र उपदेशावस्थायाम् एव अडाटौ भवतः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४६/९१) अथ वा आर्धधातुके इति वर्तते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४७/९१) अथ वा लुङ्लङ्लृङ्क्षु अट् इति द्विलकारकः निर्देशः ॒ लुङादिषु लकारादिषु इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४८/९१) सर्वथा , ऐज्यत , औप्यत इति न सिध्यति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-४९/९१) वक्ष्यति एतत् अजादीनाम् अटा सिद्धम् इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५०/९१) अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५१/९१) अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५२/९१) आगहि जहि गतः , गतवान् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५३/९१) अनुनासिकलोपे कृते जभावे च अतः हेः अतः लोपः इति च लोपः प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५४/९१) असिद्धत्वात् न भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५५/९१) अनुनासिकलोपः तावत् न प्रयोजयति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५६/९१) अल्लोपे उपदेशे इति वर्तते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५७/९१) यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र न प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५८/९१) न एषः दोषः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-५९/९१) न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६०/९१) किम् तर्हि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६१/९१) आर्धधातुकम् अभिसम्बध्यते ॒ आर्धधातुकोपदेशे यत् अकारान्तम् इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६२/९१) जभावः च न प्रयोजयति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६३/९१) हिलोपे योगविभागः करिष्यते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६४/९१) अतः हेः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६५/९१) ततः उतः च ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६६/९१) उतः च हेः लुक् भवति इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६७/९१) ततः प्रत्ययात् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६८/९१) प्रत्ययात् इति उभयोः शेषः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-६९/९१) अथ किमर्थम् अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च इति उच्यते न अनुनासिकलोपजभावौ अल्लोपहिलोपयोः इति एव उच्यते ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७०/९१) सङ्ख्यातानुदेशः मा भूत् इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७१/९१) अनुनासिकलोपः हिलोपे प्रयोजयति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७२/९१) मण्डूकि ताभिः आगहि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७३/९१) रोहितः च इह अ गहि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७४/९१) मरुद्भिः अग्ने अगहि ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७५/९१) सम्प्रसारणम् अवर्णलोपे ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७६/९१) सम्प्रसारणम् अवर्णलोपे प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७७/९१) मधोनः पश्य ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७८/९१) मघोना , मघोने ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-७९/९१) सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८०/९१) असिद्धत्वात् न भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८१/९१) न एतत् अस्ति प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८२/९१) वक्ष्यति एतत् ॒ मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् इति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८३/९१) रेभावः आल्लोपे ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८४/९१) रेभावः आल्लोपे प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८५/९१) किम् स्वित् गर्भम् प्रथमम् दध्रे आपः ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८६/९१) रेभावे कृते आतः लोपः इटि च इति आकारलोपः न प्राप्नोति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८७/९१) असिद्धत्वात् भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८८/९१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-८९/९१) छान्दसः रेभावः लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-९०/९१) तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्वम् ।

(पा-६,४.२२.२; अकि-३,१८७.१०-१८९.१३; रो-४,६८८-६९३; भा-९१/९१) श्नाभ्यस्तयोः आतः इति आकारलोपः भवति ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१/२२) यदि तर्हि अयम् योगः न आरभ्यते , उत् तु कृञः कथम् ओः विनिवृत्तौ । इह कुर्वः कुर्मः कुर्यात् इति उकारलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-२/२२) णेः अपि च इटि कथम् विनिवृत्तिः ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-३/२२) इह च कारयतेः कारिष्यते णेः अनिटि इति णिलोपः न प्राप्नोति ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-४/२२) अब्रुवतः तव योगम् इमम् स्यात् लुक् च चिणः नु कथम् न तरस्य ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-५/२२) इह च , अकारितराम् अहारितराम् इति चिणः उत्तरस्य तरस्य लुक् न स्यात् ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-६/२२) चम् भगवान् कृतवान् तु तदर्थम् तेन भवेत् इटि णेः निवृत्तिः ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-७/२२) इह स्यसिच्सीयुट्तासिषु भावकर्मणोः उपदेशे अज्झनग्रहदृशाम् वा चिण्वत् इट् च किम् च ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-८/२२) णिलोपः च ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-९/२२) म्वोः अपि ये च तथा अपि अनुवृत्तौ ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१०/२२) इह अपि कुर्वः कुर्मः कुर्यात् इति म्वोः ये च इति एतत् अपि अनुवर्तिष्यते ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-११/२२) चिण्लुकि च क्ङितः एव लुक् स्यात् ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१२/२२) चिण्लुकि अपि प्रकृतम् क्ङिद्ग्रहणम् अनुवर्तते ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१३/२२) क्व प्रकृतम् ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१४/२२) गमहनखनघसाम् लोपः क्ङिति अनङि इति ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१५/२२) तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१६/२२) चिणः इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् ल्प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१७/२२) उत् तु कृञः कथम् ओः विनिवृत्तौ ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१८/२२) णेः अपि च इटि कथम् विनिवृत्तिः ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-१९/२२) अब्रुवतः तव योगम् इमम् स्यात् लुक् च चिणः नु कथम् न तरस्य ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-२०/२२) चम् भगवान् कृतवान् तु तदर्थम् तेन भवेत् इटि णेः निवृत्तिः ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-२१/२२) म्वोः अपि ये च तथा अपि अनुवृत्तौ ।

(पा-६,४.२२.३; अकि-३,१८९.१४-१९०.९; रो-४,६९३-६९५; भा-२२/२२) चिण्लुकि च क्ङितः एव लुक् स्यात् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१/१०२) आरभ्यमाणे अपि एतस्मिन् योगे सिद्धम् वसुसम्प्रसारणम् अज्विधौ ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२/१०२) वसुसम्प्रसारणम् अज्विधौ सिद्धम् वक्तव्यम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३/१०२) किम् प्रयोजनम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४/१०२) पपुषः पश्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५/१०२) तस्थुषः पश्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६/१०२) निन्युषः पश्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७/१०२) चिच्युषः पश्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८/१०२) लुलुवुषः पश्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९/१०२) पुपुवुषः पश्य इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१०/१०२) वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि यथा स्युः इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-११/१०२) किम् पुनः कारणम् न सिध्यन्ति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१२/१०२) बहिरङ्गलक्षणत्वात् असिद्धत्वात् च ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१३/१०२) बहिरङ्गलक्षणम् च एव हि वसुसम्प्रसारणम् असिद्धम् च ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१४/१०२) आत्त्वम् यलोपाल्लोपयोः पशुषः न वाजान् चाखायिता चाखायितुम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१५/१०२) आत्त्वम् यलोपाल्लोपयोः सिद्धम् वक्तव्यम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१६/१०२) किम् प्रयोजनम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१७/१०२) पशुषः न वाजान् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१८/१०२) पशुषः इति आत्त्त्वस्य असिद्धत्वात् आतः धातोः इति आकारलोपः न प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१९/१०२) चाखायिता चाखायितुम् इति आत्त्वस्य असिद्धत्वात् यस्य हलः इति यलोपः प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२०/१०२) समानाश्रयवचनात् सिद्धम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२१/१०२) समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२२/१०२) इह तावत् पपुषः पश्य , तस्थुषः पश्य , निन्युषः पश्य , चिच्युषः पश्य , लुलुवुषः पश्य , पुपुवुषः पश्य इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२३/१०२) वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२४/१०२) पशुषः इति विटि आत्त्वम् विडन्तस्य विभक्तौ आकारलोपः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२५/१०२) चाखायिता चाखायितुम् इति यङि आत्त्वम् यङन्तस्य च आर्धधातुके लोपः इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२६/१०२) किम् वक्तव्यम् एतत् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२७/१०२) न हि ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२८/१०२) कथम् अनुच्यमानम् गंस्यते ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-२९/१०२) अत्रग्रहणसामर्थ्यात् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३०/१०२) ननु च अन्यत् अत्रग्रहणस्य प्रयोजनम् उक्तम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३१/१०२) किम् उक्तम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३२/१०२) अत्रग्रहणम् विषयार्थम् इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३३/१०२) अधिकारात् अपि एतत् सिद्धम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३४/१०२) इह पपुषः , चिच्युषः , लुलुवुषः , द्वौ हेतू व्य्पदिष्टौ बहिरङ्गलक्षणत्वम् असिद्धत्वम् च इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३५/१०२) तत्र भवएत् असिद्धत्वम् प्रत्युक्तम् बहिरङ्गलक्षणत्वम् तु न एव प्रत्युक्तम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३६/१०२) न एषः दोषः बहिरङ्गम् अन्तरङ्गम् इति च प्रतिद्वन्द्विभाविनौ एतौ अर्थौ ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३७/१०२) कथम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३८/१०२) सति अन्तरङ्गे बहिरङ्गम् सति च बहिरङ्गे अन्तरङ्गम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-३९/१०२) न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४०/१०२) न अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४१/१०२) तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४२/१०२) ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४३/१०२) ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि सिद्धाः वक्तव्याः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४४/१०२) प्रशमय्य गतः , प्रतमय्य गतः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४५/१०२) प्रबेभिदय्य गतः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४६/१०२) प्रचेच्छिदय्य गतः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४७/१०२) प्रस्तनय्य गतः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४८/१०२) प्रगदय्य गतः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-४९/१०२) ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५०/१०२) अत्र अपि एषः परिहारः समानाश्रयवचनात् सिद्धम् इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५१/१०२) कथम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५२/१०२) णौ एते विधयः णेः ल्यपि अयादेशः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५३/१०२) वुग्युटौ उवङ्यणोः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५४/१०२) वुग्युटौ उवङ्यणोः सिद्धौ वक्तव्यौ ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५५/१०२) बभूवतुः , बभूवुः ॒ वुकः असिद्धत्वात् उवङादेशः प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५६/१०२) उपदिदीये , उपदिदीयाते ॒ युटः असिद्धत्वात् यणादेशः प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५७/१०२) वुकः तावत् न वक्तव्यः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५८/१०२) वुकम् न वक्ष्यामि ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-५९/१०२) एवम् वक्ष्यामि ॒ भुवः लुङ्लिटोः ऊत् उपधायाः इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६०/१०२) अत्र उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६१/१०२) एवम् अपि कुतः नु खलु एतत् उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति न पुनः साम्प्रतिकी या उपधा तस्याः स्यात् भकारस्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६२/१०२) न एषः दोषः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६३/१०२) ओः इति वर्तते ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६४/१०२) तेन उवर्णस्य भविष्यति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६५/१०२) भवेत् सिद्धम् बभूवतुः , बभूवुः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६६/१०२) इदम् तु न सिध्यति ॒ बभूव बभूविथ इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६७/१०२) किम् कारणम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६८/१०२) गुणवृद्ध्योः कृतयोः उवर्णाभावात् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-६९/१०२) न अत्र गुणवृद्धी प्राप्नुतः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७०/१०२) किम् कारणम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७१/१०२) क्ङिति च इति प्रतिषेधात् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७२/१०२) कथम् कित्त्वम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७३/१०२) इन्धिभवतिभ्याम् च इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७४/१०२) तत् वै वयम् कित्त्वम् प्रत्याचक्ष्महे वुका ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७५/१०२) इह तु कित्त्वेन वुक् प्रत्याख्यायते ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७६/१०२) किम् पुनः अत्र न्याय्यम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७७/१०२) वुग्वचनम् एव न्याय्यम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७८/१०२) सति अपि हि कित्त्वे स्याताम् एव अत्र गुणवृद्धी ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-७९/१०२) किम् कारणम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८०/१०२) इग्लक्षणयोः गुणवृद्ध्योः सः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८१/१०२) एवम् तर्हि न अर्थः वुका न अपि कित्त्वेन ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८२/१०२) स्ताम् अत्र गुणवृद्धी ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८३/१०२) गुणवृद्ध्योः कृतयोः अवावोः च कृतयोः या उपधा तस्याः ऊत्त्वम् भविष्यति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८४/१०२) कथम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८५/१०२) ओः इति अत्र अवर्णम् अपि प्रतिनिर्दिश्यते ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८६/१०२) इह अपि तर्हि प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८७/१०२) कीलालपः पश्य ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८८/१०२) शुभंयः पश्य इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-८९/१०२) लोपः अत्र बाधकः भविष्यति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९०/१०२) इह तर्हि प्राप्नोति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९१/१०२) कीलालपौ कीलालपाः इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९२/१०२) एवम् तर्हि व्योः इति वर्तते ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९३/१०२) तेन उवर्णम् विशेषयिष्यामः ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९४/१०२) ओः व्योः इति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९५/१०२) इह इदानीम् ओः इति अनुवर्तते ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९६/१०२) व्योः इति निवृत्तम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९७/१०२) युटः च अपि न वक्तव्यम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९८/१०२) युड्वचनसामर्थ्यात् न भविष्यति ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-९९/१०२) अस्ति अन्यत् युड्वचने प्रयोजनम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१००/१०२) किम् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१०१/१०२) द्वयोः यकारयोः श्रवणम् यथा स्यात् ।

(पा-६,४.२२.४; अकि-३,१९०.१०-१९२.८; रो-४,६९५-७०१; भा-१०२/१०२) न व्यञ्जनपरस्य अनेकस्य एकस्य वा यकारस्य श्रवणम् प्रति विशेषः अस्ति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१/७६) किम् पुनः प्राक् भात् असिद्धत्वम् आहोस्वित् सह तेन ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२/७६) कुतः पुनः अयम् सन्देहः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३/७६) आङा अयम् निर्देशः क्रियते आङ् च पुनः सन्देहम् जनयति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४/७६) तत् यथा ॒ आ पाटलिपुत्रात् वृष्टः देवः इति सन्देहः ॒ किम् प्राक् पाटलिपुत्रात् सह तेन इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५/७६) एवम् इह अपि सन्देहः ॒ प्राक् भात् सह तेन इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६/७६) कः च अत्र विशेषः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७/७६) प्राक् भात् इति चेत् सुनामघोनाभूगुणेषु उपसङ्ख्यानम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-८/७६) प्राक् भात् इति चेत् सुनामघोनाभूगुणेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-९/७६) शुनः पश्य ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१०/७६) शुना शुने ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-११/७६) सम्प्रसारणे कृते अल्लोपः अनः इति प्राप्नोति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१२/७६) यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न संयोगात् वमन्तात् इति प्रतिषेधः भविष्यति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१३/७६) यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१४/७६) कथम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१५/७६) न अस्त्रि अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१६/७६) अयम् अस्ति विशेषः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१७/७६) अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१८/७६) न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-१९/७६) किम् कारणम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२०/७६) न गोश्वन्साववर्ण इति प्रतिषेधात् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२१/७६) न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२२/७६) कस्य तर्हि ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२३/७६) तृतीयादिस्वरस्य ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२४/७६) यत्र तर्हि तृतीयादिस्वरः न अस्ति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२५/७६) शुनः पश्य इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२६/७६) एवम् तर्हि न वयम् लक्षणस्य प्रतिषेधम् शिष्मः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२७/७६) किम् तर्हि येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य अयम् प्रतिषेधः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२८/७६) यत्र तर्हि विभक्तिस्वरः न अस्ति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-२९/७६) बहुशुनी इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३०/७६) यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३१/७६) न एवम् शक्यम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३२/७६) इह अपि प्रस्ज्येत कुमारी इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३३/७६) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न उदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३४/७६) अन्तोदात्तार्थम् यत्नम् करोति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३५/७६) सिद्धम् हि स्यात् ङीपा एव ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३६/७६) मघोनः पश्य ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३७/७६) मघोना मघोने ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३८/७६) सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-३९/७६) यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४०/७६) यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४१/७६) कथम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४२/७६) वक्ष्यति एतत् मघवन्-शब्दः अव्युत्पन्नम् प्रातिपदिकम् इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४३/७६) भूगुणः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४४/७६) भूयान् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४५/७६) भूभावे कृते ओः गुणः प्राप्नोति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४६/७६) यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४७/७६) यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४८/७६) कथम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-४९/७६) दीर्घोच्चारणसामर्थ्यात् न भविष्यति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५०/७६) अस्ति दीर्घोच्चारणस्य प्रयोजनम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५१/७६) किम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५२/७६) भूमा इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५३/७६) निपातनात् एतत् सिद्धम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५४/७६) किम् निपातनम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५५/७६) बहोः नञ्वत् उत्तरपदभूम्नि इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५६/७६) अथ वा पुनः अस्तु सह तेन इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५७/७६) आ भात् इति चेत् सुसम्प्रसारणयलोपप्रस्थादीनाम् प्रतिषेधः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५८/७६) पपुषः पश्य ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-५९/७६) तस्थुषः , निन्युषः , चिच्युषः , लुलुवुषः , पुपुवुषः इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६०/७६) वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि न सिध्यन्ति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६१/७६) न एषः दोषः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६२/७६) उक्तम् एतत् समानाश्रयवचनात् सिद्धम् इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६३/७६) कथम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६४/७६) वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६५/७६) यलोपः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६६/७६) सौरी बलाका ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६७/७६) यः असौ अणि अकारः लुप्यते तस्य असिद्धत्वात् ईति यलोपः न प्राप्नोति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६८/७६) अत्र अपि एषः एव परिहारः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-६९/७६) समानाश्रयवचनात् सिद्धम् इति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७०/७६) कथम् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७१/७६) अणि अकारलोपः अणन्तस्य ईति लोपः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७२/७६) प्रस्थादिषु ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७३/७६) प्रेयान् , स्थेयान् ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७४/७६) प्रस्थादीनाम् असिद्धत्वात् प्रकृत्या एकाच् इति प्रकृतिभावः न प्राप्नोति ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७५/७६) न एषः दोषः ।

(पा-६,४.२२.५; अकि-३,१९२.९-१९३.१९; रो-४,७०१-७०५; भा-७६/७६) यथा एव प्रस्थादीनाम् असिद्धत्वात् प्रकृतिभावः न प्राप्नोति एवम् टिलोपः अपि न भविष्यति ।