व्याकरणमहाभाष्य खण्ड 71

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१/२४) अथ किमर्थम् श्नमः सशकारस्य ग्रहणम् क्रियते न नात् नलोपः इति एव उच्येत ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-२/२४) नात् नलोपः इति इयति उच्यमाने नन्दिता नन्दकः इति अत्र अपि प्रसज्येत ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-३/२४) एवम् तर्हि एवम् वक्ष्यामि नात् नलोपः अनिदिताम् ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-४/२४) ततः हलः उपधायाः क्ङिति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-५/२४) अनिदिताम् इति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-६/२४) न एवम् शक्यम् ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-७/२४) इह न स्यात् ॒ हिनस्ति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-८/२४) तस्मात् न एवम् शक्यम् ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-९/२४) न चेत् एवम् नन्दिता नन्दकः इति प्राप्नोति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१०/२४) एवम् तर्हि क्ङिति इति वर्तते ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-११/२४) एवम् अपि हिनस्ति इति अत्र न प्राप्नोति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१२/२४) न एषा परसप्तमी ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१३/२४) का तर्हि ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१४/२४) सत्सप्तमी ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१५/२४) क्ङिति सति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१६/२४) एवम् तर्हि नशब्दः एव अत्र क्ङित्त्वेन विशेष्यते क्ङित् चेत् नशब्दः भवति इति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१७/२४) एवम् अपि यज्ञानाम् , यत्नानाम् इति अत्र न प्राप्नोति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१८/२४) दीर्घत्वम् अत्र बाधकम् भविष्यति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-१९/२४) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-२०/२४) दीर्घत्वम् क्रियताम् नलोपः इति किम् अत्र कर्तव्यम् ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-२१/२४) परत्वात् नलोपः ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-२२/२४) तस्मात् सशकारस्य ग्रहणम् कर्तव्यम् ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-२३/२४) अथ क्रियमाणे अपि सशकारग्रहणे इह कस्मात् न भवति विश्नानाम् , प्रश्नानाम् इति ।

(पा-६,४.२३; अकि-३,१९३.२१-१९४.८; रो-४,७०५-७०७; भा-२४/२४) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१/४३) अनिदिताम् नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२/४३) अनिदिताम् नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३/४३) विलगितः , विकपितः ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-४/४३) उपतपशरीरविकारयोः इति किमर्थम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-५/४३) विलङ्गितः , विकम्पितः ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-६/४३) बृहेः अचि अनिटि ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-७/४३) बृहेः अचि अनिटि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-८/४३) निबर्हयति निबर्हकः ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-९/४३) अचि इति किमर्थम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१०/४३) निबृंह्यते ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-११/४३) अनिटि इति किमर्थम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१२/४३) निबृंहिता निबृंहितुम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१३/४३) तत् तु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१४/४३) न कर्तव्यम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१५/४३) बृहिः प्रकृत्यन्तरम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१६/४३) कथम् ज्ञायते ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१७/४३) अचि इति लोपः उच्यते ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१८/४३) अनजादौ अपि दृश्यते ॒ निबृह्यते ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-१९/४३) अनिटि इति उच्यते ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२०/४३) इटौ अपि दृश्यते ॒ निबर्हितुम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२१/४३) अजादौ इति उच्यते ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२२/४३) अजादौ अपि न दृश्यते ॒ निबृंहयति निबृंहकः ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२३/४३) रञ्जेः णौ मृगमरणे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२४/४३) रजयति मृगान् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२५/४३) मृगमरणे इति किमर्थम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२६/४३) रञ्जयति वस्त्राणि ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२७/४३) घिनुणि च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२८/४३) रागी ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-२९/४३) घिनुणि निपातनात् सिद्धम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३०/४३) किम् निपातनम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३१/४३) त्यजरज इति ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३२/४३) अशक्यम् धातुनिर्देशे निपातनम् तन्त्रम् आश्रयितुम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३३/४३) इह हि दोषः स्यात् ॒ दशहनः करणे ॒ दंष्ट्रा ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३४/४३) न एतत् धातुनिपातनम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३५/४३) किम् तर्हि ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३६/४३) प्रत्ययान्तस्य एतत् रूपम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३७/४३) तस्मिन् च अस्य प्रत्यये लोपः भवति ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३८/४३) दंशसञ्जस्वञ्जाम् शपि इति ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-३९/४३) रजकरजनरजःसु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-४०/४३) रजकः , रजननम् , रजः इति ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-४१/४३) रजकरजनरजःसु कित्त्वात् सिद्धम् ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-४२/४३) कितः एव एते औणादिकाः ।

(पा-६,४.२४; अकि-३,१९४.१०-१९५.४; रो-४,७०७-७०९; भा-४३/४३) तत् यथा रुचकः , भुवनम् , शिरः इति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१/४६) शासः इत्त्वे आशासः क्वौ ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२/४६) शासः इत्त्वे आशासः क्वौ उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३/४६) आशीः इति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४/४६) किम् पुनः इदम् नियमार्थम् आहोस्वित् विध्यर्थम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-५/४६) कथम् च नियमार्थम् स्यात् कथम् वा विध्यर्थम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-६/४६) यदि तावत् शासिमात्रस्य ग्रहणम् ततः नियमार्थम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-७/४६) अथि हि यस्मात् शासः अङ् विहितः तस्य ग्रहणम् ततः विध्यर्थम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-८/४६) यदि अपि शासिमात्रस्य ग्रहणम् एवम् अपि विध्यर्थम् एव ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-९/४६) कथम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१०/४६) अङ्हलोः इति उच्यते न च अत्र हलादिम् पश्यामः ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-११/४६) ननु च क्विप् एव हलादिः ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१२/४६) क्विपः लोपे कृते हलाद्यभावात् न प्राप्नोति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१३/४६) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१४/४६) क्विब्लोपः क्रियताम् अङ्हलोः इत्त्त्वम् इति किम् अत्र कर्तव्यम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१५/४६) परत्वात् अङ्हलोः इत्त्त्वम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१६/४६) नित्यः क्विब्लोपः ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१७/४६) कृते अपि अङ्हलोः इत्त्त्वे प्राप्नोति अकृते अपि ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१८/४६) नित्यत्वात् क्विब्लोपे कृते हलाद्यभावात् न प्राप्नोति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-१९/४६) एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२०/४६) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२१/४६) यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२२/४६) अथ वा एवम् वक्ष्यामि ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२३/४६) शासः इत् अङ्हलोः ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२४/४६) ततः क्वौ ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२५/४६) क्वौ च शासः इत् भवति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२६/४६) आर्यशीः , मित्रशीः ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२७/४६) ततः आङः ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२८/४६) आङ्पूर्वात् च क्वौ शासः इत् भवति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-२९/४६) आशीः इति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३०/४६) इदम् इदानीम् किमर्थम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३१/४६) नियमार्थम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३२/४६) आङ्पूर्वात् शासः क्वौ एव ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३३/४६) क्व मा भूत् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३४/४६) आशास्यते , आशास्यमानः इति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३५/४६) तत् तर्हि वक्तव्यम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३६/४६) न वक्तव्यम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३७/४६) अविशेषेण शासः इत् भवति इति उक्त्वा ततः अङि इति वक्ष्यामि ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३८/४६) तत् नियमार्थम् भविष्यति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-३९/४६) अङि एव अजादौ न अन्यस्मिन् अजादौ इति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४०/४६) इह अपि तर्हि नियमात् इत्त्वम् प्राप्नोति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४१/४६) आशास्यते , आशास्यमानः इति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४२/४६) यस्मात् शासेः अङ् विहितः तस्य ग्रहणम् न च एतस्मात् शासेः अङ् विहितः ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४३/४६) कथम् आशीः इति ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४४/४६) निपातनात् सिद्धम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४५/४६) किम् निपातनम् ।

(पा-६,४.३४; अकि-३,१९५.८-१९६.२; रो-४,७०९-७११; भा-४६/४६) क्षियाशीःप्रैषेषु तिङ् आकाङ्क्षम् इति ।

(पा-६,४.३७; अकि-३,१९६.५-८; रो-४,७११; भा-१/६) अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च ।

(पा-६,४.३७; अकि-३,१९६.५-८; रो-४,७११; भा-२/६) अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च इति वक्तव्यम् ।

(पा-६,४.३७; अकि-३,१९६.५-८; रो-४,७११; भा-३/६) प्रमत्य प्रतत्य ।

(पा-६,४.३७; अकि-३,१९६.५-८; रो-४,७११; भा-४/६) ततः वा अमः ।

(पा-६,४.३७; अकि-३,१९६.५-८; रो-४,७११; भा-५/६) वा अमः इति वक्तव्यम् ।

(पा-६,४.३७; अकि-३,१९६.५-८; रो-४,७११; भा-६/६) प्रयत्य प्रयम्य प्ररत्य प्ररम्य प्रणत्य प्रणम्य ।

(पा-६,४.४०; अकि-३,१९६.१०-१२; रो-४,७१२; भा-१/६) गमादीनाम् इति वक्तव्यम् ।

(पा-६,४.४०; अकि-३,१९६.१०-१२; रो-४,७१२; भा-२/६) इह अपि यथा स्यात् ।

(पा-६,४.४०; अकि-३,१९६.१०-१२; रो-४,७१२; भा-३/६) परीतत् सहकण्ठिका ।

(पा-६,४.४०; अकि-३,१९६.१०-१२; रो-४,७१२; भा-४/६) संयत् , सनुत् इति ।

(पा-६,४.४०; अकि-३,१९६.१०-१२; रो-४,७१२; भा-५/६) ऊङ् च गमादीनाम् इति वक्तव्यम् ।

(पा-६,४.४०; अकि-३,१९६.१०-१२; रो-४,७१२; भा-६/६) अग्रेगूः , भ्रूः ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१/२१) अथ किम् अयम् समुच्चयः , सनि च झलादौ च इति , आहोस्वित् सन्विशेषणम् झल्ग्रहणम् , सनि झलादौ इति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-२/२१) किम् च अतः ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-३/२१) यदि समुच्चयः सनि अझलादौ अपि प्राप्नोति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-४/२१) सिसनिषति जिजनिषते चिखनिषति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-५/२१) अथ सन्विशेषणम् झल्ग्रहणम् जातः , जातवान् इति अत्र न प्राप्नोति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-६/२१) यथा इच्छसि तथा अस्तु ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-७/२१) अस्तु तावत् समुच्चयः ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-८/२१) ननु च उक्तम् सनि अझलादौ अपि प्राप्नोति इति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-९/२१) न एषः दोषः ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१०/२१) प्रकृतम् झल्ग्रहणम् अनुवर्तते ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-११/२१) तेन सनम् विशेषयिष्यामः ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१२/२१) सनि झलादौ इति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१३/२१) अथ वा पुनः अस्तु सन्विशेषणम् ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१४/२१) कथम् जातः , जातवान् इति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१५/२१) प्रकृतम् झलि क्ङिति इति अनुवर्तते ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१६/२१) यदि एवम् न अर्थः झल्ग्रहणेन ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१७/२१) योगविभागः करिष्यते ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१८/२१) जनसनखनाम् अनुनासिकस्य आकारः भवति झलि क्ङिति ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-१९/२१) ततः सनि ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-२०/२१) सनि च जनसनखनाम् अनुनासिकस्य आकारः भवति झलि इति एव ।

(पा-६,४.४२.१; अकि-३,१९६.१४-२२; रो-४,७१२-७१३; भा-२१/२१) तस्मात् न अर्थः झल्ग्रहणेन ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१/८३) सनोतेः अनुनासिकलोपात् आत्त्वम् विप्रतिषेधेन ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२/८३) सनोतेः अनुनासिकलोपात् आत्त्वम् भवति विप्रतिषेधेन ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३/८३) सनोतेः अनुनासिकलोपस्य अवकाशः अन्ये तनोत्यादयः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४/८३) आत्त्वस्य अवकाशः अन्ये जनादयः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५/८३) सनोतेः अनुनासिकस्य उभयम् प्राप्नोति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६/८३) सातः सातवान् इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७/८३) आत्त्वम् भवति विप्रतिषेधेन ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-८/८३) न एषः युक्तः विप्रतिषेधः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-९/८३) न हि सनोतेः अनुनासिकलोपस्य अन्ये तनोत्यादयः अवकाशः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१०/८३) सनोतेः यः तनोत्यादिषु पाठः सः अनवकाशः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-११/८३) न खलु अपि आत्त्वस्य अन्ये जनादयः अवकाशः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१२/८३) सनोतेः यत् आत्त्वे ग्रहणम् तत् अनवकाशम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१३/८३) तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१४/८३) एवम् तर्हि तनोत्यादिषु पाठः तावत् सावकाशः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१५/८३) कः अवकाशः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१६/८३) अन्यानि तनोत्यादिकार्याणि ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१७/८३) तनादिभ्यः तथासोः इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१८/८३) आत्त्वे अपि ग्रहणम् सावकाशम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-१९/८३) कः अवकाशः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२०/८३) सनि च ये विभाषा च ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२१/८३) उभयोः सावकाशयोः युक्तः विप्रतिषेधः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२२/८३) एवम् अपि अयुक्तः विप्रतिषेधः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२३/८३) पठिष्यति हि आचार्यः पूर्वत्र असिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२४/८३) एकस्य नाम अभावे विप्रतिषेधः न स्यात् किम् पुनः यत्र उभयम् न अस्ति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२५/८३) न एषः दोषः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२६/८३) भवति इह विप्रतिषेधः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२७/८३) किम् वक्तव्यम् एतत् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२८/८३) न हि ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-२९/८३) कथम् अनुच्यमाम् गंस्यते ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३०/८३) आचार्यप्रवृत्तिः ज्ञापयति भवति इह विप्रतिषेधः इति यत् अयम् घुमाश्थागापाजहातिसाम् हलि इति हल्ग्रहणम् करोति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३१/८३) कथम् कृत्वा ज्ञापकम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३२/८३) हल्ग्रहणस्य एतत् प्रयोजनम् हलादौ ईत्त्वम् यथा स्यात् इह मा भूत् , गोदः , कम्बलदः इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३३/८३) यदि च अत्र विप्रतिषेधः न स्यात् हल्ग्रहणम् अनर्थकम् स्यात् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३४/८३) अस्तु अत्र ईत्त्वम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३५/८३) ईत्त्वस्य असिद्धत्वात् लोपः भविष्यति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३६/८३) पश्यति तु आचार्यः भवति इह विप्रतिषेधः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३७/८३) ततः हल्ग्रहणम् करोति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३८/८३) न एतत् अस्ति ज्ञापकम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-३९/८३) व्यवस्थार्थम् एतत् स्यात् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४०/८३) हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४१/८३) किम् च स्यात् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४२/८३) इयङादेशः प्रसज्येत ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४३/८३) ननु च असिद्धत्वात् एव इयङादेशः न भविष्यति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४४/८३) न शक्यम् ईत्त्वम् इयङादेशे असिद्धम् विज्ञातुम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४५/८३) इह हि दोषः स्यात् ॒ धियौ धियः पियौ पियः इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४६/८३) न एतत् ईत्त्वम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४७/८३) किम् तर्हि ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४८/८३) ध्याप्योः सम्प्रसारणम् एतत् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-४९/८३) समानाश्रयम् खलु अपि असिद्धम् भवति व्याश्रम् च एतत् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५०/८३) कथम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५१/८३) क्वौ ईत्त्वम् क्विबन्तस्य विभक्तौ इयङादेशः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५२/८३) व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५३/८३) कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५४/८३) तत्र चक्रकम् अव्यवस्था प्रसज्येत ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५५/८३) न अस्ति चक्रकप्रसङ्गः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५६/८३) न हि अव्यवस्थाकारिण शास्त्रेण भवितव्यम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५७/८३) शास्त्रतः नाम व्यवस्था ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५८/८३) तत्र ईत्त्वस्य असिद्धत्वात् लोपः लोपेन व्यवस्थानम् भविष्यति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-५९/८३) न खलु अपि तस्मिन् तत् एव असिद्धम् भवति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६०/८३) व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६१/८३) हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६२/८३) कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः लोपेन अवस्थानम् भविष्यति न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् ईत्त्वेन व्यवस्थानम् स्यात् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६३/८३) तत् एव खलु अपि तस्मिन् असिद्धम् भवति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६४/८३) कथम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६५/८३) पठिष्यति हि आचार्यः चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६६/८३) चिणः लुक् चिणः लुकि एव असिद्धः भवति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६७/८३) एवम् तर्हि यदि व्यवस्थार्थम् एतत् स्यात् न एव अयम् हल्ग्रहणम् कुर्वीत ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६८/८३) अविशेषेण अयम् ईत्त्वम् उक्त्वा तस्य अजादौ लोपम् अपवादम् विदधीत ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-६९/८३) इदम् अस्ति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७०/८३) आतः लोपः इटि च इति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७१/८३) ततः घुमाश्थागापाजहातिसाम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७२/८३) लोपः भवति इटि च अजादौ क्ङिति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७३/८३) किमर्थम् पुनः इदम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७४/८३) ईत्त्वम् वक्ष्यामि तद्बाधनार्थम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७५/८३) ततः ईत् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७६/८३) ईत् च भवति घ्वादीनाम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७७/८३) ततः एः लिङि ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७८/८३) वा अन्यस्य संयोगादेः ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-७९/८३) न ल्यपि ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-८०/८३) मयतेः इत् अन्यतरस्याम् ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-८१/८३) ततः यति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-८२/८३) यति च ईत् भवति ।

(पा-६,४.४२.२; अकि-३,१९७.१-१९८.१२; रो-४,७१३-७१६; भा-८३/८३) सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् हल्ग्रहणम् करोति गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः भवति इह विप्रतिषेधः इति ।

(पा-६,४.४५; अकि-३,१९८.१४-१८; रो-४,७१७; भा-१/७) इह अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-६,४.४५; अकि-३,१९८.१४-१८; रो-४,७१७; भा-२/७) कथम् ।

(पा-६,४.४५; अकि-३,१९८.१४-१८; रो-४,७१७; भा-३/७) सनः क्तिचि लोपः च आत्त्त्वम् च विभाषा इति ।

(पा-६,४.४५; अकि-३,१९८.१४-१८; रो-४,७१७; भा-४/७) अपरः आह ॒ सर्वः एव अयम् योगः शक्यः अवक्तुम् ।

(पा-६,४.४५; अकि-३,१९८.१४-१८; रो-४,७१७; भा-५/७) कथम् ।

(पा-६,४.४५; अकि-३,१९८.१४-१८; रो-४,७१७; भा-६/७) इह लोपः अपि प्रकृतः आत्त्वम् अपि प्रकृतम् विभाषाग्रहणम् अपि प्रकृतम् ।

(पा-६,४.४५; अकि-३,१९८.१४-१८; रो-४,७१७; भा-७/७) तत्र केवलम् अभिसम्बन्धमात्रम् कर्तव्यम् ॒ सनः क्तिचि लोपः च आत्त्वम् च विभाषा ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१/५४) कानि पुनः आर्धधातुकाधिकारस्य प्रयोजनानि ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२/५४) अतः लोपः यलोपः च णिलोपः च प्रयोजनम् आल्लोपः ईत्त्वम् एत्वम् च चिण्वद्भावः च सीयुटि ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३/५४) अतः लोपः ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४/५४) चिकीर्षिता चिकीर्षितुम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-५/५४) आरधधातुके इति किमर्थम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-६/५४) चिकीर्षति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-७/५४) न एतत् अस्ति प्रयोजनम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-८/५४) अस्तु अत्र सनः अकारलोपः ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-९/५४) शपः अकारस्य श्रवणम् भविष्यति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१०/५४) शपः एव तर्हि मा भूत् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-११/५४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१२/५४) आचार्यप्रवृत्तिः ज्ञापयति न अनेन शबकारस्य लोपः भवति इति यत् अयम् अदिप्रभृतिभ्यः शपः लुकम् शास्ति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१३/५४) न एतत् अस्ति ज्ञापकम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१४/५४) कार्याऋथम् एतत् स्यात् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१५/५४) वित्तः , मृष्टः इति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१६/५४) यत् तर्हि आकारान्तेभ्यः लुकम् शास्ति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१७/५४) इदम् तर्हि प्रयोजनम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१८/५४) वृक्षस्य प्लक्षस्य ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-१९/५४) अतः लोपः ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२०/५४) प्राप्नोति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२१/५४) यलोपः अपि प्रयोजनम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२२/५४) बेभिदिता चेच्छिदिता ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२३/५४) आरधधातुके इति किमर्थम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२४/५४) बेभिद्यते चेच्छिद्यते ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२५/५४) णिलोपः ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२६/५४) पाच्यते याज्यते ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२७/५४) आरधधातुके इति किमर्थम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२८/५४) पाचयति याजयति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-२९/५४) आल्लोपः ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३०/५४) ययतुः ययुः ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३१/५४) आरधधातुके इति किमर्थम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३२/५४) यान्ति वान्ति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३३/५४) ईत्त्वम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३४/५४) दीयते , धीयते ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३५/५४) आरधधातुके इति किमर्थम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३६/५४) अदाताम् अधाताम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३७/५४) एत्वम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३८/५४) स्नेयात् , म्लेयात् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-३९/५४) आरधधातुके इति किमर्थम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४०/५४) स्नायात् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४१/५४) चिण्वद्भावः च सीयुटि ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४२/५४) चिण्वद्भावे सीयुटि किम् उदाहरणम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४३/५४) कारिषीष्ट हारिषीष्ट ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४४/५४) आरधधातुके इति किमर्थम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४५/५४) क्रियेत ह्रियेत ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४६/५४) न एतत् उदाहरणम् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४७/५४) यका व्यवहितत्वात् न भविष्यति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४८/५४) इदम् तर्हि उदाहरणम् ॒ प्रस्नुवीत ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-४९/५४) इदम् च अपि उदाहरणम् ॒ क्रियेत ह्रियेत ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-५०/५४) ननु च उक्तम् यका व्यवहितत्वात् न भविष्यति इति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-५१/५४) यकः एव तर्हि मा भूत् इति ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-५२/५४) किम् च स्यात् ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-५३/५४) वृद्धिः ।

(पा-६,४.४६; अकि-३,१९८.२०-१९९.१५; रो-४,७१७-७२१; भा-५४/५४) वृद्धौ च कृतायाम् युक् प्रसज्येत ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१/३९) अयम् रम् रेफस्य स्थाने कस्मात् न भवति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२/३९) मित् अचः अन्त्यात् परः इति अनेन अचाम् अन्त्यात् परः क्रियते ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३/३९) रेफस्य तर्हि श्रवणम् कस्मात् न भवति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-४/३९) षष्ठ्युच्चारणसामर्थ्यात् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-५/३९) भारद्वाजीयाः पठन्ति भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-६/३९) भ्रस्जादेशात् सम्प्रसारणम् विप्रतिषेधेन ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-७/३९) भ्रस्जादेशात् सम्प्रसारणम् भवति विप्रतिषेधेन ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-८/३९) भ्रस्जादेशस्य अवकाशः ॒ भर्ष्टा भ्रष्टा ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-९/३९) सम्प्रसारणस्य अवकाशः ॒ भृज्जति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१०/३९) इह उभयम् प्राप्नोति ॒ भृष्टः , भृष्टवान् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-११/३९) सम्प्रसारणम् भवति विप्रतिषेधेन ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१२/३९) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१३/३९) न वक्तव्यः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१४/३९) रसेः वा ऋवचनात् सिद्धम् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१५/३९) रसोः वा ऋ भवति इति वक्ष्यामि ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१६/३९) रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१७/३९) रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः वक्तव्यः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१८/३९) वृद्धौ कृतायाम् इदम् एव रूपम् स्यात् ॒ अभ्राक्षीत् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-१९/३९) इदम् न स्यात् ॒ अभार्क्षीत् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२०/३९) सर्वथा वयम् पूर्वविप्रतिषेधात् न मुच्यामहे सूत्रम् च भिद्यते ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२१/३९) यथान्यासम् एव अस्तु ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२२/३९) ननु च उक्तम् भ्रस्जादेशात् सम्प्रसारणम् विप्रतिषेधेन इति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२३/३९) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२४/३९) भ्रस्जादेशः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२५/३९) परत्वात् भ्रस्जादेशः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२६/३९) नित्यत्वात् सम्प्रसारणम् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२७/३९) कृते अपि भ्रस्जादेशे प्राप्नोति अकृते अपि ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२८/३९) भ्रस्जादेशः अपि नित्यः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-२९/३९) कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३०/३९) कथम् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३१/३९) यः असौ ऋकारे रेफः तस्य च उपधायाः च कृते अपि प्राप्नोति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३२/३९) अनित्यः भ्रस्जादेशः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३३/३९) न हि कृते सम्प्रसारणे प्राप्नोति ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३४/३९) किम् कारणम् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३५/३९) न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३६/३९) अथ अपि गृह्यन्ते एवम् अपि अनित्यः ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३७/३९) कथम् ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३८/३९) उपदेशः इति वर्तते ।

(पा-६,४.४७; अकि-३,१९९.१७-२००.११; रो-४,७२१-७२३; भा-३९/३९) तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्ज्यतः इति एवमर्थम् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१/४०) ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२/४०) ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः भवतः पूर्वविप्रतिषेधेन ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३/४०) णिलोपस्य अवकाशः ॒ कार्यते हार्यते ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-४/४०) इयङादेशस्य अवकाशः ॒ श्रियौ श्रियः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-५/४०) इह उभयम् प्राप्नोति ॒ आटिटत् , आशिशत् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-६/४०) ननु च अत्र यणादेशेन भवितव्यम् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-७/४०) इदम् तर्हि ॒ अततक्षत् , अररक्षत् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-८/४०) यणादेशस्य अवकाशः ॒ निन्यतुः , निन्युः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-९/४०) णिलोपस्य सः एव ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१०/४०) इह उभयम् प्राप्नोति ॒ आटिटत् , आशिशत् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-११/४०) वृद्देः अवकाशः ॒ सखायौ सखायः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१२/४०) णिलोपस्य सः एव ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१३/४०) इह उभयम् प्राप्नोति ॒ कारयतेः कारकः , हारयतेः हारकः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१४/४०) गुणस्य अवकाशः ॒ चेता स्तोता ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१५/४०) णिलोपस्य अवकाशः ॒ आटिटत् , आशिशत् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१६/४०) इह उभयम् प्राप्नोति ॒ कारणा हारणा ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१७/४०) दीर्घत्वस्य अवकाशः ॒ चीयते , स्तूयते ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१८/४०) णिलोपस्य अवकाशः ॒ कारणा हारणा ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-१९/४०) इह उभयम् प्राप्नोति ॒ कार्यते हार्यति ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२०/४०) णिलोपः भवति विप्रतिषेधेन ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२१/४०) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२२/४०) न वक्तव्यः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२३/४०) सन्तु अत्र एते विधयः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२४/४०) एतेषु विधिषु कृतेषु स्थानिवद्भावात् णिग्रहणेन ग्रहणात् णिलोपः भविष्यति ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२५/४०) न एवम् शक्यम् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२६/४०) इयङादेशे हि दोषः स्यात् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२७/४०) अन्त्यस्य लोपः प्रसज्येत ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२८/४०) अल्लोपस्य इयङ्यणोः च न अस्ति सम्प्रधारणा ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-२९/४०) वृद्धेः अवकाशः ॒ प्रियम् आचष्टे प्रापयति ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३०/४०) अल्लोपस्य अवकाशः ॒ चिकीर्षिता चिकीर्षितुम् ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३१/४०) इह उभयम् प्राप्नोति ॒ चिकीर्षकः , जिहीर्षकः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३२/४०) गुणस्य अल्लोपस्य च न अस्ति सम्प्रधारणा ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३३/४०) दीर्घत्वस्य अवकाशः ॒ अपि काकः श्येनायते ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३४/४०) अल्लोपस्य सः एव ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३५/४०) इह उभयम् प्राप्नोति ॒ चिकीर्ष्यते जिहीर्ष्यते ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३६/४०) अल्लोपः भवति विप्रतिषेधेन ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३७/४०) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३८/४०) न वक्तव्यः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-३९/४०) इष्टवाची परशब्दः ।

(पा-६,४.४८; अकि-३,२००.१३-२०१.६; रो-४,७२४-७२५; भा-४०/४०) विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१/४३) किम् इदम् यलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२/४३) कः च अत्र विशेषः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३/४३) यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-४/४३) यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-५/४३) शुच्यिता शुच्यितुम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-६/४३) अस्ति तर्जो सङ्घातग्रहणम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-७/४३) यदि सङ्घातग्रहणम् अन्त्यस्य लोपः प्राप्नोति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-८/४३) सिद्धः अन्त्यस्य पूर्वेण एव ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-९/४३) तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१०/४३) एवम् अपि तेन अतिप्रसक्तम् इति कृत्वा नियमः विज्ञायेत ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-११/४३) यस्य हलः एव न अन्यतः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१२/४३) क्व मा भूत् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१३/४३) लोलूयिता पोपूयिता ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१४/४३) कैमर्थक्यात् नियमः भवति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१५/४३) विधेयम् न अस्ति इति कृत्वा ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१६/४३) इह च अस्ति विधेयम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१७/४३) किम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१८/४३) अन्त्यस्य लोपः प्राप्तः सः सर्वस्य विधेयः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-१९/४३) तत्र अपूर्वः विधिः अस्तु नियम अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२०/४३) एवम् अपि अन्त्यस्य प्राप्नोति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२१/४३) किम् कारणम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२२/४३) न हि लोपः सर्वापहारी ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२३/४३) ननु च सङ्घातग्रहणसामर्थ्यात् सर्वस्य भविष्यति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२४/४३) सङ्घातग्रहणम् चेत् क्यस्य विभाषायाम् दोषः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२५/४३) सङ्घातग्रहणम् चेत् क्यस्य विभाषायाम् दोषः भवति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२६/४३) समिधिता समिध्यिता ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२७/४३) यदा लोपः तदा सर्वस्य लोपः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२८/४३) यदा अलोपः तदा सर्वस्य अलोपः प्राप्नोति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-२९/४३) आदेः परवचनात् सिद्धम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३०/४३) हलः इति पञ्चमी ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३१/४३) तस्मात् इति उत्तरस्य आदेः परस्य इति यकारस्य एव भविष्यति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३२/४३) अथ वा पुनः अस्तु वर्णग्रहणम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३३/४३) ननु च उक्तम् यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३४/४३) न एषः दोषः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३५/४३) अङ्गात् इति हि वर्तते ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३६/४३) न वा अङ्गात् इति पञ्चमी अस्ति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३७/४३) एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३८/४३) अङ्गस्य यः यकारः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-३९/४३) किम् च अङ्गस्य यकारः ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-४०/४३) निमित्तम् ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-४१/४३) यस्मिन् अङ्गम् इति एतत् भवति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-४२/४३) कस्मिन् च एतत् भवति ।

(पा-६,४.४९; अकि-३,२०१.८-२०२.२; रो-४,७२६-७२८; भा-४३/४३) प्रत्यये ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-१/१६) अथ अनिटि इति किमर्थम् ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-२/१६) कारयिता कारयितुम् ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-३/१६) अनिटि इति शक्यम् अवक्तुम् ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-४/१६) कस्मात् न भवति कारयिता कारयितुम् ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-५/१६) निष्ठायाम् सेटि इति एतत् नियमार्थम् भविष्यति ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-६/१६) निष्ठायाम् एव सेटि णेः लोपः भवति न अयत्र ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-७/१६) क्व मा भूत् ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-८/१६) कारयिता कारयितुम् ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-९/१६) अथ वा उपरिष्टात् योगविभागः करिष्यते ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-१०/१६) इदम् अस्ति ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-११/१६) निष्ठायाम् सेटि ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-१२/१६) जनित मन्त्र ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-१३/१६) शमिता यज्ञे ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-१४/१६) ततः अय् ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-१५/१६) अयादेशः भवति णेः सेटि ।

(पा-६,४.५१; अकि-३,२०२.४-९; रो-४,७२८; भा-१६/१६) तत आमन्ताल्वायेत्न्विष्णुषु अय् भवति इति एव ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१/४१) अथ सेड्ग्रहणम् किमर्थम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२/४१) निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३/४१) निष्ठायाम् सेड्ग्रहणम् क्रियते अनिटि प्रतिषेधः यथा स्यात् इति ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-४/४१) सञ्ज्ञपितः पशुः इति ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-५/४१) निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् इति चेत् तत् सिद्धम् अनिडभावात् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-६/४१) निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् इति चेत् अन्तरेण अपि सेड्ग्रहणम् तत् सिद्धम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-७/४१) कथम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-८/४१) अनिडभावात् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-९/४१) ननु च यस्य विभाषा इति ज्ञपेः इट्प्रतिषेधः ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१०/४१) एकाचः हि प्रतिषेधः ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-११/४१) एकाचः हि सः प्रतिषेधः ज्ञपिः च अनेकाच् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१२/४१) इड्भावार्थम् तु तन्निमित्तत्वात् लोपस्य ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१३/४१) इड्भावार्थम् तर्हि सेड्ग्रहणम् क्रियते ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१४/४१) कथम् पुनः सेटि इति अनेन इट् शक्यः भावयितुम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१५/४१) तन्निमित्तत्वात् लोपस्य ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१६/४१) न अत्र अकृते इटि णिलोपेन भवितव्यम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१७/४१) किम् कारणम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१८/४१) सेटि इति उच्यते ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-१९/४१) अवचने हि णिलोपे इट्प्रतिषेधप्रसङ्गः ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२०/४१) अक्रियमाणे हि सेड्ग्रहणे णिलोपे कृते एकाचः इति इट्प्रतिषेधः प्रसज्येत ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२१/४१) कारितम् , हारितम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२२/४१) एवम् तर्हि न अर्थः सेड्ग्रहणेन न अपि सूत्रेण ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२३/४१) कथम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२४/४१) सप्तमे योगविभागः करिष्यते ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२५/४१) इदम् अस्ति ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२६/४१) निष्ठायाम् न इट् भवति ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२७/४१) ततः णेः ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२८/४१) ण्यन्तस्य निष्ठायाम् न इट् भवति ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-२९/४१) कारितम् , हारितम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३०/४१) ततः वृत्तम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३१/४१) वृत्तम् इति च निपात्यते ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३२/४१) किम् निपात्यते ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३३/४१) णेः निष्ठायाम् लोपः निपात्यते ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३४/४१) किम् प्रयोजनम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३५/४१) नियमार्थम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३६/४१) अत्र एव णेः निष्ठायाम् लोपः भवति न अन्यत्र ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३७/४१) क्व मा भूत् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३८/४१) कारितम् , हारितम् ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-३९/४१) इह अपि तर्हि प्राप्नोति ॒ वर्तितम् अन्नम् , वर्तिता भिक्षा इति ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-४०/४१) ततः अध्ययने ।

(पा-६,४.५२.१; अकि-३,२०२.११-२०३.६; रो-४,७२८-७३०; भा-४१/४१) अध्ययने चेत् वृतिः वर्तते इति ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-१/१५) वृधिरमिशृधीनाम् उपसङ्ख्यानम् सार्वधातुकत्वात् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-२/१५) वृधिरमिशृधीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-३/१५) किम् कारणम् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-४/१५) सार्वधातुकत्वात् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-५/१५) वर्धन्तु त्वा सुष्टुतयः गिरः मे ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-६/१५) वर्धयन्तु इति एवम् प्राप्ते ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-७/१५) बृहस्पतिः त्वा सुम्ने रम्णातु ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-८/१५) रमयतु इति एवम् प्राप्ते ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-९/१५) अग्ने शर्ध महते सौभगाय ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-१०/१५) शर्धय इति एवम् प्राप्ते ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-११/१५) तत् तर्हि वक्तव्यम् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-१२/१५) न वक्तव्यम् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-१३/१५) वृधिरमिशृधीनाम् आर्धधातुकत्वात् सिद्धम् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-१४/१५) कथम् आर्धधातुकत्वम् ।

(पा-६,४.५२.२; अकि-३,२०३.७-१२; रो-४,७३१; भा-१५/१५) अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-१/११) किम् पुनः अयम् क्त्नुः आहोस्वित् इत्नुः ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-२/११) कः च अत्र विशेषः ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-३/११) क्त्नौ इटि णेः गुणवचनम् ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-४/११) क्त्नौ इटि णेः गुणः वक्तव्त्यः ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-५/११) गदयित्नुः , स्तनयित्नुः ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-६/११) अस्तु तर्हि इत्नुः ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-७/११) इत्नौ प्रत्ययान्तरकरणम् ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-८/११) यदि तर्हि इत्नुः प्रत्ययान्तरम् कर्तव्यम् ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-९/११) अयादेशे च उपसङ्ख्यानम् ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-१०/११) अयादेशे च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.५५; अकि-३,२०३.१४-२०; रो-४,७३१-७३२; भा-११/११) उभयम् क्रियते न्यासे एव ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१/२२) ल्यपि लघुपूर्वस्य इति चेत् व्यञ्जनान्तेषु उपसङ्ख्यानम् ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-२/२२) ल्यपि लघुपूर्वस्य इति चेत् व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-३/२२) प्रशमय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-४/२२) प्रतमय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-५/२२) अल्लोपे च गुरुपूर्वात् प्रतिषेधः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-६/२२) अल्लोपे च गुरुपूर्वात् प्रतिषेधः वक्तव्यः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-७/२२) प्रचिकीर्ष्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-८/२२) ल्यपि लघुपूर्वात् इति वचनात् सिद्धम् ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-९/२२) ल्यपि लघुपूर्वात् इति वक्तव्यम् ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१०/२२) एवम् अपि ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-११/२२) प्रशमय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१२/२२) प्रतमय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१३/२२) प्रबेभिदय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१४/२२) प्रचेच्छिदय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१५/२२) प्रगदय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१६/२२) प्रस्तनय्य गतः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१७/२२) ह्रस्वादिषु च उक्तम् ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१८/२२) किम् उक्तम् ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-१९/२२) समानाश्रयत्वात् सिद्धम् इति ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-२०/२२) कथम् ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-२१/२२) णौ एते विधयः ।

(पा-६,४.५६; अकि-३,२०३.२२-२०४.९; रो-४, ७३२-७३३; भा-२२/२२) णेः ल्यपि अयादेशः ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-१/८) इङादेशस्य प्रतिषेधः वक्तव्यः ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-२/८) अध्याप्य गतः ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-३/८) आपः सानुबन्धकनिर्देशात् इङि सिद्धम् ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-४/८) आपः सानुबन्धकनिर्देशः करिष्यते ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-५/८) तेन इङादेशस्य न भविष्यति ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-६/८) सः तर्हि सानुबन्धकनिर्देशः कर्तव्यः ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-७/८) न कर्तव्यः ।

(पा-६,४.५७; अकि-३,२०४.११-१५; रो-४, ७३४; भा-८/८) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१/१७) भावकर्मणोः इति कथम् इदम् विज्ञायते ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-२/१७) भावकर्मणोः ये स्यादयः इति , आहोस्वित् भावकर्मवाचिनि परतः ये स्यादयः इति ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-३/१७) किम् च अतः ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-४/१७) यदि विज्ञायते भावकर्मणोः ये स्यादयः इति सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-५/१७) अथ विज्ञायते भावकर्मवाचिनि परतः ये स्यादयः इति स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-६/१७) यथा इच्छसि तथा अस्तु ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-७/१७) अस्तु तावत् भावकर्मणोः ये स्यादयः इति ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-८/१७) स्यसिच्तासयः च विशेषिताः ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-९/१७) ननु च उक्तम् सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः इति ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१०/१७) स्यसिच्तासयः च विशेषिताः ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-११/१७) कथम् ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१२/१७) भावकर्मणोः यक् भवति इति अत्र स्यादयः अपि अनुवर्तिष्यन्ते ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१३/१७) अथ वा पुनः अस्तु भावकर्मवाचिनि परतः ये स्यादयः इति ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१४/१७) ननु च उक्तम् स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः इति ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१५/१७) सीयुट् च विशेषितः ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१६/१७) कथम् ।

(पा-६,४.६२.१; अकि-३,२०५.३-१२; रो-४, ७३४-७३६; भा-१७/१७) भावकर्मवाचिनि परतः सीयुट् न अस्ति इति कृत्व भावकर्मवाचिनि सीयुटि कार्यम् विज्ञास्यते ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१/४०) अथ इट् च इति उच्यते ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२/४०) कस्य अयम् इट् भवति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३/४०) अङ्गस्य इति वर्तते ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-४/४०) यदि एवम् आदितः इट् प्राप्नोति अडाड्वत् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-५/४०) तत् यथा अडाटौ टित्त्वात् आदितः भवतः तद्वत् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-६/४०) एवम् तर्हि स्यादीनाम् एव भविष्यन्ति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-७/४०) एवम् अपि षष्ठ्यभावात् न प्राप्नोति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-८/४०) ननु च भावकर्मणोः इति एषा षष्ठी ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-९/४०) न एषा षष्ठी ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१०/४०) किम् तर्हि अर्थिनिर्देशे एषा सप्तमी ॒ भावे च अर्थे कर्मणि च इति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-११/४०) एवम् तर्हि भावकर्मणोः इति एषा सप्तमी स्यादिषु इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१२/४०) एवम् अपि न सिध्यति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१३/४०) किम् कारणम् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१४/४०) न हि अर्थेन पौर्वापर्यम् अस्ति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१५/४०) अर्थे असम्भवात् तद्वाचिनि शब्दे कार्यम् विज्ञास्यते ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१६/४०) एवम् अपि सीयुटः न प्राप्नोति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१७/४०) एवम् तर्हि सप्तमे योगविभागः करिष्यते ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१८/४०) आर्धधातुकस्य इट् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-१९/४०) यावान् इट् नाम सः सर्वः आर्धधातुकस्य इट् भवति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२०/४०) ततः वलादेः ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२१/४०) वलादेः आर्धधातुकस्य इट् भवति इति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२२/४०) यदि एवम् स्यसिच्सीयुट्तासिषु इट् भवति चिण्वद्भावः अविशेषितः भवति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२३/४०) तत्र कः दोषः ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२४/४०) स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् इति क्व चित् एव चिण्वद्भावः स्यात् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२५/४०) एवम् तर्हि स्यादीन् अपेक्षिष्यामहे ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२६/४०) स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् स्यादिषु इति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२७/४०) अथ के पुनः इमम् इटम् प्रयोजयन्ति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२८/४०) ये अनुदात्ताः ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-२९/४०) अथ ये उदात्ताः तेषाम् कथम् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३०/४०) सिद्धम् तेन एव परत्वात् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३१/४०) उदात्तेभ्यः अपि वा अनेन एव इट् एषितव्यः ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३२/४०) किम् प्रयोजनम् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३३/४०) कारयतेः कारिष्यते , हारयतेः हारिष्यते ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३४/४०) इटः असिद्धत्वात् अनिटि इति णिलोपः यथा स्यात् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३५/४०) कथम् पुनः इच्छता अपि भवता उदात्तेभ्यः अनेन एव इट् लभ्यः न पुनः अनेन अस्तु तेन वा इति तेन एव स्यात् विप्रतिषेधेन ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३६/४०) ननु च नित्यः अयम् कृते अपि तस्मिन् प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३७/४०) न तु अस्मिन् कृते अपि सः प्राप्नोति ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३८/४०) किम् कारणम् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-३९/४०) अवलादित्वात् ।

(पा-६,४.६२.२; अकि-३,२०५.१३-२०६.७; रो-४, ७३६-७३८; भा-४०/४०) तस्मात् अनेन एव भविष्यति इट् ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-१/१६) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-२/१६) वृद्धिः चिण्वत् युक् च हन्तेः च घत्वम् दीर्घः च उक्तः यः मिताम् वा चिणि इति ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-३/१६) वृद्धिः प्रयोजनम् ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-४/१६) चेष्यते चायिष्यते ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-५/१६) युक् च प्रयोजनम् ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-६/१६) ग्लास्यते , ग्लायिष्यते ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-७/१६) हन्तेः च घत्वम् प्रयोजनम् ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-८/१६) हनिष्यते घानिष्यते ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-९/१६) दीर्घः च उक्तः यः मिताम् वा चिणि इति सः च प्रयोजनम् ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-१०/१६) शमिष्यते शामिष्यते तमिष्यते तामिष्यते ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-११/१६) इट् च असिद्धः तेन मे लुप्यते णिः नित्यः च अयम् वल्निमित्तः विघाती ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-१२/१६) इटः असिद्धत्वात् णेः अनिटि इति णिलोपः यथा स्यात् ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-१३/१६) कथम् पुनः अयम् नित्यः ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-१४/१६) कृताकृतप्रसङ्गित्वात् ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-१५/१६) कृते अपि तस्मिन् इटि साप्तमिके आर्धधातुकस्य इट् वलादेः इति पुनः अयम् भवति ।

(पा-६,४.६२.३; अकि-३,२०६.८-१७; रो-४, ७३९; भा-१६/१६) अस्मिन् तु विहिते वलादित्वस्य निमित्तस्य विहतत्वात् साप्तमिकः न भवति

(पा-६,४.६२.४; अकि-३,२०६.१८-२२; रो-४, ७४०; भा-१/६) अथ उपदेशग्रहणम् किमर्थम् ।

(पा-६,४.६२.४; अकि-३,२०६.१८-२२; रो-४, ७४०; भा-२/६) चिण्वद्भावे उपदेशवचनम् ऋकारगुणबलीयस्त्वात् ।

(पा-६,४.६२.४; अकि-३,२०६.१८-२२; रो-४, ७४०; भा-३/६) चिण्वद्भावे उपदेशवचनम् क्रियते ऋकारगुणस्य बलीयस्त्वात् ।

(पा-६,४.६२.४; अकि-३,२०६.१८-२२; रो-४, ७४०; भा-४/६) कारिष्यते ।

(पा-६,४.६२.४; अकि-३,२०६.१८-२२; रो-४, ७४०; भा-५/६) परत्वात् गुणे कृते रपरत्वे च अनजन्तत्वात् चिण्वद्भावः न प्राप्नोति ।

(पा-६,४.६२.४; अकि-३,२०६.१८-२२; रो-४, ७४०; भा-६/६) उपदेशग्रहणात् भविष्यति ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-१/१४) वधिभावात् सीयुटि चिण्वद्भावः विप्रतिषेधेन ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-२/१४) वधिभावात् सीयुटि चिण्वद्भावः भवति विप्रतिषेधेन ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-३/१४) वधिभावस्य अवकाशः ॒ वध्यात् , वध्यास्ताम् , वध्यासुः ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-४/१४) चिण्वद्भावस्य अवकाशः ॒ घानिष्यते , अघानिष्यत ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-५/१४) इह उभयम् प्राप्नोति ॒ घानिषीष्ट घानिषीयास्ताम् घानिषीरन् ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-६/१४) चिण्वद्भावः भवति विप्रतिषेधेन ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-७/१४) अथ इदानीम् चिण्वद्भावे कृते पुनःप्रसङ्गविज्ञानात् वधिभावः कस्मात् न भवति ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-८/१४) सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-९/१४) हनिणिङादेशप्रतिषेधः च ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-१०/१४) हनिणिङादेशानाम् च प्रतिषेधः वक्तव्यः ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-११/१४) हनिष्यते , घानिष्यते , एष्यते , आयिष्यते , अध्येष्यते , अध्यायिष्यते ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-१२/१४) लुङि इति हनिणिङादेशाः प्राप्नुवन्ति ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-१३/१४) अङ्गस्य इति तु प्रकरणात् अङ्गशास्त्रातिदेशात् सिद्धम् ।

(पा-६,४.६२.५; अकि-३,२०६.२३-२०७.७; रो-४, ७४०-७४१; भा-१४/१४) आङ्गम् यत् कार्यम् तत् प्रतिनिर्दिश्यते न च हनिणिङादेशाः आङ्गाः ।भवन्ति इति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१/२६) अथ इड्ग्रहणम् किमर्थम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२/२६) इड्ग्रहणम् अक्ङिदर्थम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-३/२६) इड्ग्रहणम् क्रियते अक्ङिति लोपः यथा स्यात् ॒ पपिथ तस्थिथ इति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-४/२६) सार्वधातुके च आदि इति आर्धधातुकाधिकारात् उपसङ्ख्यानम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-५/२६) सार्वधातुके च आदि इति आर्धधातुकाधिकारात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-६/२६) इषम् ऊर्जम् अहम् इतः आदि ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-७/२६) ननु च क्ङिति इति वर्तमाने यथा एव इड्ग्रहणम् अक्ङिदर्थम् एवम् आर्धधातुके इति अपि वर्तमाने इड्ग्रहणम् सार्वधातुकार्थम् भविष्यति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-८/२६) न सिध्यति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-९/२६) किम् कारणम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१०/२६) न हि क्ङिता अच् विशेष्यते ॒ अचि भवति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-११/२६) कतरस्मिन् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१२/२६) क्ङिति इति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१३/२६) किम् तर्हि अचा क्ङित् विशेष्यते ॒ क्ङिति भवति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१४/२६) कतरस्मिन् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१५/२६) अचि इति ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१६/२६) किम् पुनः कारणम् अचा क्ङित् विशेष्यते ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१७/२६) यथा इट् अपि अज्ग्रहणेन विशेष्यते ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१८/२६) अस्ति च इदानीम् क्व चित् इट् अनजादिः यदर्थः विधिः स्यात् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-१९/२६) अस्ति इति आह ॒ दासीय धासीय ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२०/२६) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२१/२६) न कर्तव्यम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२२/२६) आर्धधातुकग्रहणात् सिद्धम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२३/२६) कथम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२४/२६) आर्धधातुकत्वम् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२५/२६) उभयथा छन्दसि इति वचनात् ।

(पा-६,४.६४; अकि-३,२०७.९-२१; रो-४,७४१-७४३; भा-२६/२६) अन्ये अपि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।