सामग्री पर जाएँ

व्याकरणमहाभाष्य खण्ड 72

विकिपुस्तकानि तः



(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-१/१५) ईत्त्वे वकारप्रतिषेधः घृतम् घृतपावानः इति दर्शनात् ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-२/१५) ईत्त्वे वकारे प्रतिषेधः वक्तव्यः ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-३/१५) किम् प्रयोजनम् ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-४/१५) घृतम् घृतपावानः इति दर्शनात् ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-५/१५) इह मा भूत् ॒ घृतम् घृतपावानः पिबत ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-६/१५) वसाम् वसपावानः पिबत इति ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-७/१५) यदि तर्हि वकारे प्रतिषेधः उच्यते कथम् दीवरी पीवरी इति ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-८/१५) धीवरी पीवरी इति च उक्तम् ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-९/१५) किम् उक्तम् ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-१०/१५) न एतत् ईत्त्वम् ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-११/१५) किम् तर्हि ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-१२/१५) ध्याप्योः एतत् सम्प्रसारणम् इति ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-१३/१५) सः तर्हि प्रतिषेधः वक्तयः ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-१४/१५) न वक्तव्यः ।

(पा-६,४.६६; अकि-३,२०७.२३-२०८.५; रो-४,७४३-७४४; भा-१५/१५) वनिप् एषः भविष्यति न क्वनिप् इति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१/६६) कस्य अयम् प्रतिषेधः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२/६६) आटः प्राप्नोति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३/६६) अटः अपि इष्यते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४/६६) तत् तर्हि अटः ग्रहणम् कर्तव्यम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५/६६) न कर्तव्यम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६/६६) प्रकृतम् अनुवर्तते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-७/६६) क्व प्रकृतम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-८/६६) लुङ्लङ्ल्ङ्क्षु अट् उदात्तः इति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-९/६६) यदि तत् अनुवर्तते आट् अजादीनाम् अट् च इति अट् अपि प्राप्नोति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१०/६६) अस्तु ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-११/६६) अटि कृते पुनः आटि भविष्यति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१२/६६) इह अपि तर्हि अटि कृते पुनः आट् प्राप्नोति ॒ अकार्षीत् , अहार्षीत् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१३/६६) अड्वचनात् न भविष्यति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१४/६६) इह अपि तर्हि अड्वचनात् न स्यात् ॒ ऐहिष्ट , ऐक्षिष्त ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१५/६६) आड्वचनात् भविष्यति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१६/६६) इह अपि तर्हि आड्वचनात् प्राप्नोति ॒ अकार्षीत् , अहार्षीत् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१७/६६) अकृते अटि यः अजादिः इति एवम् एतत् विज्ञास्यते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१८/६६) किम् वक्तव्यम् एतत् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-१९/६६) न हि ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२०/६६) कथम् अनुच्यमानम् गंस्यते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२१/६६) अज्वचनसामर्थ्यात् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२२/६६) यदि कृते अटि यः अजादिः तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२३/६६) अथ वा उपदेशे इति वर्तते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२४/६६) अथ वा आर्धधातुके इति वर्तते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२५/६६) अथ वा लुङ्लङ्ल्ङ्क्षु अट् इति द्विलकारकः निर्देशः ॒ लुङादिषु लकारादिषु यः अजादिः इति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२६/६६) सर्वथा , ऐज्यत , औप्यत इति एतत् न सिध्यति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२७/६६) एवम् तर्हि अजादीनाम् अटा सिद्धम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२८/६६) अजादीनाम् अटा एव सिद्धम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-२९/६६) न अर्थः आटा ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३०/६६) एवम् तर्हि वृद्ध्यर्थम् आट् वक्तव्यः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३१/६६) वृद्ध्यर्थम् इति चेत् अटः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३२/६६) अटः वृद्धिम् वक्ष्यामि ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३३/६६) यदि तर्हि अटः वृद्धिः उच्यते अस्ववः हसति इति अत्र । वृद्धिः प्रप्नोति रोः उत्वे कृते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३४/६६) धातौ वृद्धिम् अटः स्मरेत् । धातौ अटः वृद्धिम् वक्ष्यामि ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३५/६६) तत् तर्हि धातुग्रहणम् कर्तव्यम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३६/६६) न कर्तव्यम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३७/६६) योगविभागः करिष्यते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३८/६६) अटः अचि वृद्धिः भवति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-३९/६६) ततः उपसर्गात् ऋति वृद्धिः भवति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४०/६६) ततः धातौ ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४१/६६) धातौ इति उभयोः शेषः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४२/६६) इह तर्हि ॒ आटीत् , आशीत् इति अतः गुणे इति पररूपत्वम् प्राप्नोति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४३/६६) पररूपम् गुणे न अटः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४४/६६) पररूपम् गुणे अटः न इति वक्ष्यामि ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४५/६६) ओमाङोः उसि तत् समम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४६/६६) यदि अपि एतत् उच्यते अथ वा एतर्हि उसि ओमाङ्क्षु आटः पररूपप्रतिषेधः चोदितः स न वक्तव्यः भवति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४७/६६) छन्दोर्थम् तर्हि आट् वक्तव्यः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४८/६६) अरैक् उ कृष्णाः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-४९/६६) त्रितः एनम् आयुनक् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५०/६६) सुरुचः वेन् आवः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५१/६६) छन्दोर्थम् बहुलम् दीर्घम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५२/६६) बहुलम् छन्दसि दीर्घत्वम् दृश्यते ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५३/६६) तत् यथा ॒ पूरुषः , नारकः इति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५४/६६) एवम् तर्हि आयन् , आसन् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५५/६६) इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् वृद्धिः न प्राप्नोति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५६/६६) इणस्त्योः अन्तरङ्गतः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५७/६६) अन्तरङ्गत्वात् वृद्धिः भविष्यति ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५८/६६) तस्मात् न अर्थः आड्ग्रहणेन ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-५९/६६) अजादीनाम् अटा सिद्धम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६०/६६) वृद्ध्यर्थम् इति चेत् अटः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६१/६६) अस्ववः हसति इति अत्र ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६२/६६) धातौ वृद्धिम् अटः स्मरेत् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६३/६६) पररूपम् गुणे न अटः ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६४/६६) ओमाङोः उसि तत् समम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६५/६६) छन्दोर्थम् बहुलम् दीर्घम् ।

(पा-६,४.७४; अकि-३,२०८.७-२०९.१७; रो-४,७४५-७४८; भा-६६/६६) इणस्त्योः अन्तरङ्गतः ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-१/१०) इयङादिप्रकरणे तन्वादीनाम् छन्दसि बहुलम् ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-२/१०) इयङादिप्रकरणे तन्वादीनाम् छन्दसि बहुलम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-३/१०) तन्वम् पुषेम ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-४/१०) तनुवम् पुषेम ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-५/१०) विष्वम् पश्य ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-६/१०) विषुवम् पश्य ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-७/१०) स्वर्गम् लोकम् ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-८/१०) सुवर्गम् लोकम् ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-९/१०) त्र्यम्बकम् यजामहे ।

(पा-६,४.७७; अकि-३,२०९.१९-२२; रो-४,७४८-७४९; भा-१०/१०) त्रियम्बकम् यजामहे ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१/२६) अथ इह कस्मात् न भवति ॒ ब्राह्मणस्य नियौ , ब्राह्मणस्य नियः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२/२६) अङ्गाधिकारात् ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-३/२६) अङ्गस्य इति अनुवर्तते ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-४/२६) एवम् अपि परमनियौ परमनियः इति अत्र प्राप्नोति ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-५/२६) गतिकारकपूर्वस्य इष्यते ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-६/२६) यणादेशः स्वरपदपूर्वोपधस्य च ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-७/२६) यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्य च इति वक्तव्यम् ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-८/२६) स्वरपूर्वोपधस्य ॒ निन्यतुः , निन्युः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-९/२६) पदपूर्वोपधस्य ॒ उन्न्यौ , उन्न्यः , उद्ध्यौ , उद्ध्यः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१०/२६) उभयकृतम्॒ ग्रामण्यौ , ग्रामण्यः , सेनान्यौ , सेनान्यः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-११/२६) असंयोगपूर्वे हि अनिष्टप्रसङ्गः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१२/२६) असंयोगपूर्वस्य इति हि उच्यमाने अनिष्टम् प्रसज्येत ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१३/२६) उद्ध्यौ , उद्ध्यः , उन्न्यौ , उन्न्यः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१४/२६) असंयोगपूर्वस्य इति प्रतिषेधः प्रसज्येत ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१५/२६) तत् तर्हि वक्तव्यम् ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१६/२६) न वक्तव्यम् ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१७/२६) धातोः इति वर्तते ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१८/२६) तत्र धातुना संयोगम् विशेषयिष्यामः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-१९/२६) धातोः यः संयोगः तत्पूर्वस्य न इति ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२०/२६) उपसर्जनम् वै संयोगः न च उपसर्जनस्य विशेषणम् अस्ति ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२१/२६) धातोः इति अनुवर्तनसामर्थ्यात् उपसर्जनस्य अपि विशेषणम् भविष्यति ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२२/२६) अस्ति अन्यत् धातोः इति अनुवर्तनस्य प्रयोजनम् ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२३/२६) किम् ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२४/२६) इवर्णम् विशेषयिष्यामः ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२५/२६) न एतत् अस्ति प्रयोजनम् ।

(पा-६,४.८२; अकि-३,२०९.२४-२१०.१५; रो-४,७४९-७५१; भा-२६/२६) यत् हि अधातोः इवर्णम् भवितव्यम् एव तस्य यणादेशेन इकः यण् अचि इति एव ।

(पा-६,४.८४; अकि-३,२१०.१७-२०; रो-४,७५१; भा-१/४) वर्षाभूपुनर्भ्वः च ।

(पा-६,४.८४; अकि-३,२१०.१७-२०; रो-४,७५१; भा-२/४) वर्षाभू इति अत्र पुनर्भ्वः च इति वक्तव्यम् ॒ पुनर्भ्वौ , पुनर्भ्वः ।

(पा-६,४.८४; अकि-३,२१०.१७-२०; रो-४,७५१; भा-३/४) अत्यल्पम् इदम् उच्यते ।

(पा-६,४.८४; अकि-३,२१०.१७-२०; रो-४,७५१; भा-४/४) वर्षादृन्कारपुनःपूर्वस्य भुवः इति वक्तव्यम् ॒ वर्षाभ्वौ , वर्षाभ्वः , दृन्भ्वौ , दृन्भ्वः , कारभ्वौ , कारभ्वः , पुनर्भ्वौ , पुनर्भ्वः ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१/३३) हुश्नुग्रहणम् अनर्थकम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२/३३) किम् कारणम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-३/३३) अन्यस्य अभावात् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-४/३३) न हि अन्यत् सार्वधातुके अस्ति यस्य यणादेशः स्यात् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-५/३३) ननु च अयम् अस्ति ॒ याति , वाति इति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-६/३३) क्ङिति अनुवर्तते ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-७/३३) इह तर्हि ॒ यातः , वातः इति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-८/३३) अचि इति वर्तते ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-९/३३) इह तर्हि ॒ यान्ति , वान्ति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१०/३३) य्वोः इति वर्तते ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-११/३३) एवम् अपि धियन्ति , पियन्ति इति अत्र प्राप्नोति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१२/३३) ओः इति वर्तते ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१३/३३) एवम् अपि सुवन्ति , रुवन्ति इति अत्र प्राप्नोति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१४/३३) अनेकाचः इति वर्तते ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१५/३३) एवम् अपि असुवन् , अरुवन् इति अत्र प्राप्नोति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१६/३३) एतत् अपि अटः असिद्धत्वात् एकाच् भवति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१७/३३) एवम् अपि प्रोर्णुवन्ति इति अत्र प्राप्नोति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१८/३३) असंयोगपूर्वस्य इति वर्तते ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-१९/३३) यङ्लुगर्थम् तर्हि हुश्नुग्रहणम् कर्तव्यम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२०/३३) यङ्लुगन्तम् अनेकाच् असंयोगपूर्वम् उवर्णान्तम् अस्ति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२१/३३) तदर्थम् इदम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२२/३३) नदम् योयुवतीनाम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२३/३३) वृषभम् रोरुवतीनाम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२४/३३) यङ्लुगर्थम् इति चेत् आर्धधातुकत्वात् सिद्धम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२५/३३) यङ्लुगर्थम् इति चेत् तत् न ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२६/३३) किम् कारणम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२७/३३) आर्धधातुकत्वात् सिद्धम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२८/३३) कथम् आर्धधातुकत्वम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-२९/३३) उभयथा छन्दसि इति वचनात् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-३०/३३) अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-३१/३३) एवम् तर्हि सिद्धे सति यत् हुश्नुग्रहणम् करोति तत् ज्ञापयति आचार्यः यङ्लुक् भाषायाम् भवति इति ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-३२/३३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,४.८७; अकि-३,२२-२११.१४; रो-४,७५१-७५२; भा-३३/३३) बेभिदीति , चेच्छिदीति एतत् सिद्धम् भवति भाषायाम् अपि ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१/२८) अथ किमर्थम् गुहेः विकृतस्य ग्रहणम् क्रियते न पुनः गुहः इति एव उच्येत ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२/२८) गोहिग्रहणम् विषयार्थम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-३/२८) गोहिग्रहणम् क्रियते विषयार्थम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-४/२८) विषयः प्रतिनिर्दिश्यते ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-५/२८) यत्र अस्य एतत् रूपम् तत्र यथा स्यात् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-६/२८) इह मा भूत् ॒ निजुगुहतुः , निजुगुहुः इति ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-७/२८) अयादेशप्रतिषेधार्थम् च ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-८/२८) अयादेशप्रतिषेधार्थम् च विकृतग्रहणम् क्रियते ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-९/२८) ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१०/२८) ह्रस्वादेशे हि सति अयादेशः प्रसज्येत ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-११/२८) प्रगूह्य गतः ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१२/२८) किम् कारणम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१३/२८) ऊत्त्वस्य असिद्धत्वात् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१४/२८) असिद्धम् ऊत्त्वम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१५/२८) तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१६/२८) विषयार्थेन तावत् न अर्थः गोहिग्रहणेन ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१७/२८) प्रश्लिष्टनिर्देशात् सिद्धम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१८/२८) प्रश्लिष्टनिर्देशः अयम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-१९/२८) उ-ऊत् ॒ ऊत् इति ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२०/२८) तत्र ह्रस्वस्य अवकाशः ॒ निजुगुहतुः , निजुगुहुः ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२१/२८) गुणस्य अवकाशः ॒ निगोढा , नोगोढुम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२२/२८) इह उभयम् प्राप्नोति ॒ निगूहयति , निगूहकः ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२३/२८) परत्वात् गुणे कृते आन्तर्यतः दीर्घस्य दीर्घः भविष्यति ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२४/२८) अयादेशप्रतिषेधार्थेन अपि न अर्थः ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२५/२८) समानाश्रयवचनात् सिद्धम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२६/२८) समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२७/२८) कथम् ।

(पा-६,४.८९; अकि-३,२११.१६-२१२.८; रो-४,७५३-७५४; भा-२८/२८) णौ ऊत्त्वम् णेः ल्यपि अयादेशः ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-१/११) अथ किमर्थम् दुषेः विकृतस्य ग्रहणम् क्रियते न पुनः दुषः इति एव उच्येत ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-२/११) दोषिग्रहणम् च ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-३/११) किम् ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-४/११) अयादेशप्रतिषेधार्थम् ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात् ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-५/११) ह्रस्वादेशे हि सति अयादेशः प्रसज्येत ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-६/११) प्रदूष्य गतः ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-७/११) किम् कारणम् ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-८/११) ऊत्त्वस्य असिद्धत्वात् ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-९/११) असिद्धम् ऊत्त्वम् ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-१०/११) तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत ।

(पा-६,४.९०; अकि-३,२१२.१०-१५; रो-४,७५४; भा-११/११) अत्र अपि समानाश्रयवचनात् सिद्धम् इति एव ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-१/१६) चिण्णमुलोः णिज्व्यवेतानाम् यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-२/१६) शमयन्तम् प्रयोजितवान् , अशमि , अशामि , शमम् शमम् , शामम् शामम् ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-३/१६) शंशमयतेः ॒ अशंशमि , अशंशामि , शंशमम् शंशमम् , शंशामम् शंशामम् ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-४/१६) किम् पुनः कारणम् न सिध्यति ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-५/१६) चिण्णमुल्परे णौ मिताम् अङ्गानाम् दीर्घः भवति इति उच्यते ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-६/१६) यः च अत्र चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ चिण्णमुल्परः इति ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-७/१६) लोपे कृते चिण्णमुल्परः भवति ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-८/१६) स्थानिवद्भावात् न चिण्णमुल्परः ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-९/१६) ननु च प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-१०/१६) एवम् अपि असिद्धत्वात् न प्राप्नोति ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-११/१६) एवम् तर्हि चिण्णमुलोः णिज्व्यवेतानाम् यङ्लोपे च अन्तरङ्गलक्षणत्वात् सिद्धम् ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-१२/१६) किम् इदम् अन्तरङ्गलक्षणत्वात् इति ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-१३/१६) यावत् ब्रूयात् समानाश्रयवचनात् सिद्धम् इति एव व्याश्रयम् च एतत् ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-१४/१६) कथम् ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-१५/१६) णेः णौ लोपः णौ चिण्णमुल्परे मिताम् अङ्गानाम् दीर्घत्वम् उच्यते ।

(पा-६,४.९३; अकि-३,२१२.१७-२१३.४; रो-४,७५४-७५५; भा-१६/१६) तस्मात् न अर्थः उपसङ्ख्यानेन इति ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-१/८) अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् इह अपि यथा स्यात् ॒ समुपाभिच्छादः इति ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-२/८) तत् तर्हि वक्तव्यम् ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-३/८) न वक्तव्यम् ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-४/८) यत्र त्रिप्रभृतयः सन्ति द्वौ अपि तत्र स्तः ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-५/८) तत्र अद्व्युपसर्गस्य इति एव सिद्धम् ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-६/८) न वै एषः लोके सम्प्रत्ययः ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-७/८) न हि द्विपुत्रः आनीयताम् इति उक्ते त्रिपुत्रः आनीयते ।

(पा-६,४.९६; अकि-३,२१३.६-९; रो-४,७५६; भा-८/८) तस्मात् अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् ।

(पा-६,४.१००; अकि-३,२१३.११-१३; रो-४,७५६-७५७; भा-१/७) हल्ग्रहणम् अनर्थकम् अन्यत्र अपि दर्शनात् ।

(पा-६,४.१००; अकि-३,२१३.११-१३; रो-४,७५६-७५७; भा-२/७) हल्ग्रहणम् अनर्थकम् ।

(पा-६,४.१००; अकि-३,२१३.११-१३; रो-४,७५६-७५७; भा-३/७) किम् कारणम् ।

(पा-६,४.१००; अकि-३,२१३.११-१३; रो-४,७५६-७५७; भा-४/७) अन्यत्र अपि दर्शनात् ।

(पा-६,४.१००; अकि-३,२१३.११-१३; रो-४,७५६-७५७; भा-५/७) अन्यत्र अपि लोपः दृश्यते ।

(पा-६,४.१००; अकि-३,२१३.११-१३; रो-४,७५६-७५७; भा-६/७) अग्निः तृणानि बब्सति ।

(पा-६,४.१००; अकि-३,२१३.११-१३; रो-४,७५६-७५७; भा-७/७) शरावे बप्सति चरुः ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१/२९) इटः प्रतिषेधः वक्तव्यः ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२/२९) रुदिहि स्वपिहि ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-३/२९) झलः इति धित्वम् प्राप्नोति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-४/२९) हेः धित्वे हलधिकारात् इटः अप्रतिषेधः ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-५/२९) हेः धित्वे हलधिकारात् इटः अप्रतिषेधः ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-६/२९) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-७/२९) धित्वम् कस्मात् न भवति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-८/२९) हलधिकारात् ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-९/२९) प्रकृतम् हल्ग्रहणम् अनुवर्तते ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१०/२९) क्व प्रकृतम् ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-११/२९) घसिभसोः हलि इति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१२/२९) तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१३/२९) तत् वै तत्र प्रत्याख्यायते ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१४/२९) तत्र प्रत्याख्यातम् सत् यया विभक्त्या निर्दिश्यमानम् अर्थवत्तया निर्दिष्टम् इह अनुवर्तिष्यते ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१५/२९) अथ वा हुझल्भयः इति एषा पञ्चमी हलि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१६/२९) अथ वा निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१७/२९) यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१८/२९) इटा व्यवहितत्वात् ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-१९/२९) यदि एवम् छिन्धकि भिन्धकि इति अत्र धित्वम् न प्राप्नोति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२०/२९) धित्वे कृते अकच् भविष्यति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२१/२९) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२२/२९) धित्वम् क्रियताम् अकच् इति किम् अत्र कर्तव्यम् ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२३/२९) परत्वात् धित्वम् ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२४/२९) नित्यः अकच् ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२५/२९) कृते अपि धित्वे प्राप्नोति अकृते अपि ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२६/२९) अकच् अपि अनित्यः ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२७/२९) अन्यस्य कृते धित्वे प्राप्नोति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२८/२९) उभयोः अनित्ययोः परत्वात् धित्वे कृते अकच् भविष्यति ।

(पा-६,४.१०१; अकि-३,२१३.१५-२१४.७; रो-४,७५७-७५८; भा-२९/२९) अथ वा हकारस्य एव अशक्तिजेन इकारेण ग्रहणम् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१/२६) चिणः लुकि तग्रहणम् कर्तव्यम् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२/२६) किम् प्रयोजनम् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-३/२६) इह मा भूत् ॒ अकारितराम् , अहारितराम् इति ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-४/२६) चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् । चिणः लुकि तग्रहणम् अनर्थकम् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-५/२६) किम् कारणम् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-६/२६) सङ्घातस्य अप्रत्ययत्वात् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-७/२६) सङ्घातस्य लुक् कस्मात् न भवति ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-८/२६) अप्रत्ययत्वात् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-९/२६) प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति उच्यते न च सङ्घातः प्रत्ययः ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१०/२६) तलोपे तर्हि कृते परस्य प्राप्नोति ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-११/२६) तलोपस्य च असिद्धत्वात् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१२/२६) असिद्धः तलोपः ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१३/२६) तस्य असिद्धत्वात् न भविष्यति ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१४/२६) कार्यकृतत्वात् वा ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१५/२६) अथ वा कृतः चिणः लुक् इति कृत्वा पुनः न भविष्यति लुक् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१६/२६) तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१७/२६) विषमः उपन्यासः ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१८/२६) युक्तम् यत् तस्य एव पुनः प्रवृत्तिः न स्यात् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-१९/२६) यत् तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२०/२६) तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२१/२६) तस्मात् पूर्वोक्तौ एव परिहारौ ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२२/२६) अथ वा क्ङिति इति वर्तते ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२३/२६) क्व प्रकृतम् ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२४/२६) गमहनजनखनघसाम् लोपः क्ङिति अनङि इति ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२५/२६) तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-६,४.१०४; अकि-३,२१४.९-२५; रो-४,७५९-७६०; भा-२६/२६) चिणः लुक् इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१/२२) कथम् इदम् विज्ञायते ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-२/२२) उकारात् प्रत्ययात् इति आहोस्वित् उकारान्तात् प्रत्ययात् इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-३/२२) किम् च अतः ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-४/२२) यदि विज्ञायते उकारात् प्रत्ययात् इति सिद्धम् तनु कुरु ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-५/२२) चिनु सुनु इति न सिध्यति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-६/२२) अथ विज्ञायते उकारान्तात् प्रत्ययात् इति सिद्धम् चिनु सुनु इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-७/२२) तनु कुरु न सिध्यति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-८/२२) तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् ॒ तक्ष्णुहि , अक्ष्णुहि ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-९/२२) आप्नुहि शक्नुहि इति अत्र न स्यात् ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१०/२२) यथा इच्छसि तथा अस्तु ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-११/२२) अस्तु तावत् उकारात् प्रत्ययात् इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१२/२२) कथम् चिनु सुनु इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१३/२२) तदन्तविधिना भविष्यति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१४/२२) अथ वा पुनः अस्तु उकारान्तात् प्रत्ययात् इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१५/२२) कथम् तनु कुरु इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१६/२२) व्यप्देशिवद्भावेन भविष्यति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१७/२२) यत् अपि उच्यते तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् ॒ तक्ष्णुहि , अक्ष्णुहि ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१८/२२) आप्नुहि शक्नुहि इति अत्र न स्यात् इति ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-१९/२२) न अस्माभिः असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-२०/२२) किम् तर्हि ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-२१/२२) उकारः ।

(पा-६,४.१०६.१; अकि-३,२१५.२-११; रो-४,७६०-७६१; भा-२२/२२) उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-१/९) उतः च प्रत्ययात् छन्दोवावचनम् ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-२/९) उतः च प्रत्ययात् इति अत्र छन्दसि वा इति वक्तव्यम् ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-३/९) अव स्थिर तनुहि यातुजुनाम् ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-४/९) धिनुहि यज्ञम् धिनुहि यज्ञपतिम् ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-५/९) तेन मा भागिनम् कृणुहि ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-६/९) उत्तरार्थम् च ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-७/९) के चित् तावत् आहुः छन्दोग्रहणम् कर्तव्यम् इति ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-८/९) अपरे आहुः ॒ वावचनम् कर्तव्यम् इति ।

(पा-६,४.१०६.२; अकि-३,२१५.१२-१७; रो-४,७६०-७६२; भा-९/९) लोपः च अस्य अन्यरतस्याम् म्वोः इति अत्र अन्यरतस्याङ्ग्रहणम् न कर्तव्यम् भवति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१/७५) सार्वधातुके इति किमर्थम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२/७५) इह मा भूत् ॒ सञ्चस्करतुः , सञ्चस्करुः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३/७५) स्यान्तस्य प्रतिषेधः वक्तव्यः ॒ करिष्यति करिष्यतः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४/७५) कृञः उत्त्वे उकारान्तनिर्देशात् स्यान्तस्य अप्रतिषेधः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५/७५) कृञः उत्त्वे उकारान्तनिर्देशात् स्यान्तस्य अप्रतिषेधः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६/७५) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-७/७५) उत्त्वम् कस्मात् न भवति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-८/७५) उकारान्तनिर्देशात् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-९/७५) अशक्यः करोतौ उकारान्तनिर्देशः तन्त्रम् आश्रयितुम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१०/७५) इह सम्परिभ्याम् भूषणसमवाययोः क्रोतौ इह एव स्यात् ॒ संस्करोति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-११/७५) संस्कर्ता संसक्र्तुम् इति अत्र न स्यात् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१२/७५) न ब्रूमः अस्मात् उकारान्तनिर्देशात् यः अयम् करोति इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१३/७५) किम् तर्हि ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१४/७५) उकारप्रकरणात् उकारान्तम् अङ्गम् अभिसम्बध्यते ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१५/७५) उतः इति वर्तते ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१६/७५) यदि एवम् न अर्थः सार्वधातुकग्रहणेन ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१७/७५) कस्मात् न भवति सञ्चस्करतुः , सञ्चस्करुः इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१८/७५) उतः इति वर्तते ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-१९/७५) उत्तरार्थम् तर्हि सार्वधातुकग्रहणम् कर्तव्यम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२०/७५) श्नसोः अल्लोपः इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२१/७५) श्नम् सार्वधातुके एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२२/७५) अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२३/७५) उत्तरार्थम् एव तर्हि ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२४/७५) श्नाभ्यस्तयोः आतः इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२५/७५) श्ना सार्वधातुके एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२६/७५) अभ्यस्तम् अपि आकारान्तम् आर्धधातुके न अस्ति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२७/७५) ननु च इदम् अस्ति ॒ अप्सु यायावरः प्रवपेत पिण्डान् इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२८/७५) न एतत् आकारान्तम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-२९/७५) यकारान्तम् एतत् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३०/७५) उत्तरार्थम् एव तर्हि ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३१/७५) ई हलि अघोः इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३२/७५) तत्र अपि श्नाभ्यस्तयोः इति एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३३/७५) अतः अपि उत्तरार्थम् एव तर्हि ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३४/७५) इद् दरिद्रस्य इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३५/७५) वक्ष्यति एतत् ॒ दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३६/७५) अतः अपि उत्तरार्थम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३७/७५) भियः अन्यतरस्याम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३८/७५) अभ्यस्तस्य इति एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-३९/७५) अतः अपि उत्तरार्थम् एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४०/७५) जहातेः च ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४१/७५) अभ्यस्तस्य इति एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४२/७५) अतः अपि उत्तरार्थम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४३/७५) आ च हौ ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४४/७५) हौ इति उच्यते ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४५/७५) अभ्यस्तस्य इति एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४६/७५) अतः अपि उत्तरार्थम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४७/७५) लोपः यि ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४८/७५) अभ्यस्तस्य इति एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-४९/७५) अतः अपि उत्तरार्थम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५०/७५) घव्सोः एत् हौ अभ्यासलोपः च इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५१/७५) हौ इति उच्यते ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५२/७५) तत् एव तर्हि प्रयोजनम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५३/७५) श्नसोः अल्लोपः इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५४/७५) ननु च उक्तम् श्नम् सार्वधातुके एव ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५५/७५) अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५६/७५) अनुप्रयोगे तु भुवा अस्त्यबाधनम् स्मरन्ति कर्तुः वचनात् मनीषिणः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५७/७५) अनुप्रयोगे तु भुवा अस्तेः अबाधनम् इष्यते ॒ ईहाम् आस , ईहाम् आसतुः , ईहाम् आसुः इति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५८/७५) किम् च स्यात् यदि अत्र लोपः स्यात् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-५९/७५) लोपे द्विर्वचनासिद्धिः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६०/७५) लोपे कृते अनच्कत्वात् द्विर्वचनम् स्यात् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६१/७५) स्थानिवद्भादात् भविष्यति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६२/७५) स्थानिवत् इति चेत् कृते भवेत् द्वित्वे ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६३/७५) कृते द्वित्वे लोपः प्राप्नोति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६४/७५) अस्ति तर्हि परस्य लोपः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६५/७५) अभ्यासस्य यः अकारः तस्य दीर्घत्वम् भविष्यति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६६/७५) न एवम् सिध्यति कस्मात् प्रत्यङ्गत्वात् भवेत् हि पररूपम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६७/७५) न एवम् सिध्यति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६८/७५) कस्मात् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-६९/७५) प्रत्यङ्गत्वात् पररूपम् प्राप्नोति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-७०/७५) तस्मिन् च कृते लोपः ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-७१/७५) पररूपे च कृते लोपः प्राप्नोति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-७२/७५) दीर्घत्वम् बाधकम् भवेत् तत्र ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-७३/७५) अतः आदेः इति दीर्घत्वम् बाधकम् भविष्यति ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-७४/७५) इदम् तर्हि प्रयोजनम् ।

(पा-६,४.११०; अकि-३,२१५.१९-२१७.५; रो-४,७६२-७६५; भा-७५/७५) सार्वधातुके भूतपूर्वमात्रे अपि यथा स्यात् ॒ कुरु इति ।

(पा-६,४.१११; अकि-३,२१७.७-८; रो-४, ७६५-७६६; भा-१/४) अथ अत्र तपरकरणम् किमर्थम् ।

(पा-६,४.१११; अकि-३,२१७.७-८; रो-४, ७६५-७६६; भा-२/४) इह मा भूत् ॒ आस्ताम् , आसन् ।

(पा-६,४.१११; अकि-३,२१७.७-८; रो-४, ७६५-७६६; भा-३/४) न एतत् अस्ति प्रयोजनम् ।

(पा-६,४.१११; अकि-३,२१७.७-८; रो-४, ७६५-७६६; भा-४/४) आटः असिद्धत्वात् न भविष्यति ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-१/१०) दरिद्रातेः आर्धधातुके लोपः ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-२/१०) दरिद्रातेः आर्धधातुके लोपः वक्तव्यः ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-३/१०) सिद्धः च प्रत्ययविधौ ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-४/१०) सः च सिद्धः प्रत्ययविधौ ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-५/१०) किम् प्रयोजनम् ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-६/१०) दरिद्राति इति दरिद्रः ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-७/१०) आकारान्तलक्षणः प्रत्ययविधिः मा भूत् इति । न दरिद्रायके लोपः दरिद्राणे च न इष्यते ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-८/१०) दिदरिद्रासस्ति इति एके दिदरिद्रिषति इति वा ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-९/१०) वा अद्यतन्याम् । अद्यतन्याम् वा इति वक्तव्यम् ।

(पा-६,४.११४; अकि-३,२१७.१०-१८; रो-४,७६६; भा-१०/१०) अदरिद्रीत् , अदरिद्रासीत् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१/३६) णकारषकारादेशादेः एत्त्ववचनम् लिटि ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२/३६) णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३/३६) नेमतुः , नेमुः , सेहे, सेहाते , सेहिरे ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-४/३६) किम् पुनः कारणम् न सिध्यति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-५/३६) अनादेशादेः इति ल्प्रतिषेधः प्राप्नोति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-६/३६) तत् तर्हि वक्तव्यम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-७/३६) न वक्तव्यम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-८/३६) लिटा अत्र आदेशादिम् विशेषयिष्यामः ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-९/३६) लिटि यः आदेशादिः तदादेः न इति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१०/३६) अस्ति अन्यत् लिड्ग्रहणस्य प्रयोजनम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-११/३६) किम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१२/३६) इह मा भूत् ॒ पक्ता पक्तुम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१३/३६) न एतत् अस्ति प्रयोजनम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१४/३६) क्ङिति इति वर्तते ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१५/३६) एवम् अपि पक्वः पक्ववान् इति अत्र प्राप्नोति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१६/३६) अभ्यासलोपसन्नियोगेन एत्त्वम् उच्यते न च अत्र अभ्यासलोपसम् पश्यामः ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१७/३६) एवम् अपि पापच्यते अत्र प्राप्नोति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१८/३६) दीर्घत्वम् अत्र बाधकम् भविष्यति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-१९/३६) न अप्राप्ते अभ्यासविकारे एत्तम् अरभ्यते ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२०/३६) तत् यथ अन्यान् अभ्यासविकारान् बाधते एवम् दीर्घत्वम् अपि बाधेत ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२१/३६) सत्यम् एवम् एतत् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२२/३६) अभ्यासविकारेषु तु ज्येष्ठमध्यमकनीयांसः प्रकाराः भवन्ति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२३/३६) तत्र ह्रस्वहलादिशेषौ उत्सर्गौ ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२४/३६) तयोः दीर्घत्वम् अपवादः एत्त्वम् च ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२५/३६) अपवादविप्रतिषेधात् दीर्घत्वम् भविष्यति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२६/३६) इह तर्हि बभणतुः , बभणुः इति अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२७/३६) फलिभजिग्रहणम् तु ज्ञापकम् अभ्यासादेशसिद्धत्वस्य ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२८/३६) यत् अयम् फलिभज्योः ग्रहणम् करोति तत् ज्ञापयति आचार्यः सिद्धः अभ्यासादेशः एत्त्वे इति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-२९/३६) यदि एवम् प्रथमतृतीयादीनाम् आदेशादित्वात् एत्त्वाभावः ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३०/३६) प्रथमतृतीयादीनाम् तर्हि आदेशादित्वात् एत्त्वम् न प्राप्नोति ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३१/३६) पेचतुः , पेचुः , देभतुः , देभुः ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३२/३६) न वा शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३३/३६) न वा एषः दोषः ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३४/३६) किम् कारणम् ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३५/३६) शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य ।

(पा-६,४.१२०.१; अकि-३,२१७.२०-२१८.२०; रो-४,७६७-७६८; भा-३६/३६) यत् अयम् शसिदद्योः प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः रूपाभेदेन यः आदेशादयः न तेषाम् प्रतिषेधः इति ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-१/१६) दम्भः एत्त्वम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-२/१६) दम्भः एत्त्वम् वक्तव्यम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-३/१६) देभतुः , देभुः ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-४/१६) किम् पुनः कारणम् न सिध्यति ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-५/१६) नलोपस्य असिद्धत्वात् । असिद्धः नलोपः ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-६/१६) तस्य असिद्धत्वात् एत्त्वम् न प्राप्नोति ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-७/१६) नशिमन्योः अलिटि एत्त्वम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-८/१६) नशिमन्योः अलिटि एत्त्वम् वक्तव्यम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-९/१६) छन्दसि अमिपच्योः अपि ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-१०/१६) छन्दसि अमिपच्योः अपि इति वक्तव्यम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-११/१६) किम् प्रयोजनम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-१२/१६) अनेशम् मेनका इति एतत् व्येमानम् लिङि पेचिरन् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-१३/१६) यज् आयेजे वप् आवेपे दम्भः एत्त्वम् अलक्षणम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-१४/१६) असिद्धत्वात् नलोपस्य दम्भः एत्त्वम् न सिध्यति ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-१५/१६) श्नसोः अत्त्वे तकारेण ज्ञाप्यते तु एत्त्वशासनम् ।

(पा-६,४.१२०.२; अकि-३,२१८.२१-२१९.७; रो-४,७६८-७६९; भा-१६/१६) अनित्यः अयम् विधिः इति ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१/२२) थल्ग्रहणम् किमर्थम् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-२/२२) थल्ग्रहणम् अक्ङिदर्थम् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-३/२२) थल्ग्रहणम् क्रियते अक्ङिदर्थम् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-४/२२) अक्ङिति एत्त्वम् यथा स्यात् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-५/२२) पेचिथ शेकिथ ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-६/२२) न एतत् अस्ति प्रयोजनम् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-७/२२) सेड्ग्रहणम् एवे अत्र अक्ङिदर्थम् भविष्यति ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-८/२२) इदम् तर्हि प्रयोजनम् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-९/२२) समुच्चयः यथा विज्ञायेत ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१०/२२) थलि च सेटि क्ङिति च सेटि इति ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-११/२२) किम् प्रयोजनम् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१२/२२) पेचिव पेचिम. तत्र पचादिभ्यः इड्वचनम् इति वक्ष्यति ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१३/२२) तत् न वक्तव्यम् भवति ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१४/२२) इह कस्मात् न भवति ॒ लुलविथ ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१५/२२) गुणस्य प्रतिषेधात् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१६/२२) इह अपि तर्हि न प्राप्नोति ॒ पेचिथ शेकिथ ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१७/२२) गुणस्य यः अकारः इति एवम् एतत् विज्ञास्यते ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१८/२२) एवम् अपि शशरिथ , अत्र प्राप्नोति ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-१९/२२) गुणस्य एषः अकारः ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-२०/२२) कथम् ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-२१/२२) वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते ।

(पा-६,४.१२१; अकि-३,२१९.९-१९; रो-४,७७०-७७१; भा-२२/२२) अथ वा आचार्यप्रवृत्तिः ज्ञापयति ने एवञ्जातीयकानाम् एत्त्वम् भवति इति यत् अयम् तृ̄फलभजत्रपः च इति तृ̄ग्रहणम् करोति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१/२१) राधादिषु स्थानिनिर्देशः ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-२/२१) राधादिषु स्थानिनिर्देशः कर्तव्यः ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-३/२१) न कर्तव्यः ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-४/२१) एकहल्मध्ये इति वर्तते ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-५/२१) यदि एवम् त्रेसतुः , त्रेसुः , र शब्दस्य एत्त्वम् प्राप्नोति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-६/२१) अस्तु ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-७/२१) अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य भविष्यति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-८/२१) अनर्थके अलः अन्त्यविधिः न इति एवम् न प्राप्नोति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-९/२१) न एतस्याः परिभाषायाः सन्ति प्रयोजनानि ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१०/२१) अथ वा अतः इति वर्तते ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-११/२१) एवम् अपि राधेः न प्राप्नोति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१२/२१) आकारग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१३/२१) क्व प्रकृतम् ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१४/२१) श्नाभ्यास्तयोः आतः इति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१५/२१) अथ वा श्नसोः अल्लोपः इति अत्र तपरकरणम् प्रत्याख्यायते ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१६/२१) तत् प्रकृतम् इह अनुवर्तिष्यते ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१७/२१) यदि तत् अनुवर्तते अतः एकहल्मध्ये अनादेशादेः लिटि अस्य च इति अवर्णमात्रस्य एत्त्वम् प्राप्नोति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१८/२१) बबाधे ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-१९/२१) अकारेण तपरेण अवर्णम् विशेषयिष्यामः ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-२०/२१) अस्य आतः इति ।

(पा-६,४.१२३; अकि-३,२१९.२१-२२०.८; रो-४,७७१-७७२; भा-२१/२१) इह इदानीम् अस्य इति अनुवर्तते अतः इति निवृत्तम् ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-१/११) अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-२/११) अर्वणस् तृ मघोनः च न शिष्यम् ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-३/११) किम् कारणम् ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-४/११) छान्दसम् हि तत् ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-५/११) दृष्टानुविधिः छन्दसि भवति ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-६/११) मतुब्वन्योः विधानात् च ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-७/११) मतुब्वनी खलु अपि छन्दसि विधीयेते ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-८/११) छन्दसि उभयदर्शनात् ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-९/११) उभयम् खलु अपि छन्दसि दृश्यते ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-१०/११) इमानि अर्वणः पदानि ।

(पा-६,४.१२७-१२८; अकि-३,२२०.११-१८; रो-४,७७२-७७३; भा-११/११) अनर्वणम् वृषभम् मन्द्रजिह्वम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१/७४) पादः उपधाह्रस्वत्वम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२/७४) पादः उपधाह्रस्वत्वम् वक्तव्यम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३/७४) द्विपदः पश्य ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४/७४) आदेशे हि सर्वादेशप्रसङ्गः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५/७४) आदेशे हि सति सर्वादेशः प्रसज्येत ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६/७४) सर्वस्य द्विपाच्छब्दस्य त्रिपाच्छब्दस्य च पच्छब्दादेशः प्रसज्येत येन विधिः तदन्तस्य इति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-७/७४) तत् तर्हि वक्तव्यम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-८/७४) न वा निर्दिश्यमानस्य आदेशत्वात् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-९/७४) न वा वक्तव्यम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१०/७४) किम् कारणम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-११/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा कर्तव्या ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१२/७४) कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत उपधाह्रस्वत्वम् वा उच्येत ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१३/७४) अवश्यम् एषा परिभाषा कर्तव्या ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१४/७४) बहूनि एतस्याः परिभाषायाः प्रयोजनानि कानि ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१५/७४) प्रयोजनम् सुप्तिङादेशे ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१६/७४) सुप् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१७/७४) कुमार्याम् , कोशोर्याम् , खट्वायाम् , मालायाम् , तस्याम् , यस्याम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१८/७४) आड्याट्स्याट्सु कृतेषु साड्याट्स्याट्कस्य आम् प्राप्नोति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-१९/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२०/७४) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२१/७४) आड्याट्स्याटः क्रियन्ताम् आम् इति किम् अत्र कर्तव्यम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२२/७४) परत्वात् आम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२३/७४) नित्याः आड्याट्स्याटः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२४/७४) कृते अपि आमि प्रप्नुवन्ति अकृते अपि ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२५/७४) अनित्याः आड्याट्स्याटः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२६/७४) अन्यस्य कृते आमि प्रप्नुवन्ति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन्तः अनित्याः भवन्ति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२७/७४) उभयोः अनित्ययोः परत्वात् आम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२८/७४) इदम् तर्हि ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-२९/७४) तस्यै यस्यै ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३०/७४) स्याटि कृते सस्याट्कस्य स्मैभावः प्राप्नोति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३१/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३२/७४) यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३३/७४) स्याटा व्यवहितत्वात् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३४/७४) सुप् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३५/७४) तिङ्. अरुदिताम् अरुदितम् अरुदित इति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३६/७४) इटि कृते सेट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३७/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३८/७४) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-३९/७४) इट् क्रियताम् ताम्तम्तामः इति किम् अत्र कर्तव्यम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४०/७४) परत्वात् इडागमः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४१/७४) अन्तरङ्गाः ताम्तम्तामः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४२/७४) इदम् तर्हि क्रियास्ताम् , क्रियास्तम् , क्रियास्त ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४३/७४) यासुटि कृते सयासुट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४४/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४५/७४) ल्यब्भावे च ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४६/७४) ल्यब्भावे च प्रयोजनम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४७/७४) प्रकृत्य प्रहृत्य ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४८/७४) क्त्वान्तस्य ल्यप् प्राप्नोति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-४९/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५०/७४) त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५१/७४) त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च प्रयोजनम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५२/७४) अतितिस्रः , अतिचतस्रः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५३/७४) त्रिचतुरन्तस्य तिसृचतसृभावः प्राप्नोति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५४/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५५/७४) युष्मत् , अस्मत् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५६/७४) अतियूयम् अतिवयम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५७/७४) युष्मदस्मदन्तस्य यूयवयौ प्राप्नुतः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५८/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-५९/७४) त्यदादिविकार ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६०/७४) अतिस्यः , उत्तमस्यः , अत्यसौ , उत्तमासौ ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६१/७४) त्यदाद्यन्तस्य त्यदादिविकाराः प्राप्नुवन्ति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६२/७४) किमन्तस्य कादेशः प्राप्नोति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६३/७४) अतिकः , परमकः ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६४/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६५/७४) उदः पूर्वत्वे ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६६/७४) उदः पूर्वत्वे प्रयोजनम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६७/७४) उदस्थाताम् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६८/७४) अटि कृते साट्कस्य पूर्वसवर्णः प्राप्नोति उदः स्थास्तम्भोः इति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-६९/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-७०/७४) यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-७१/७४) अटा व्यवहितत्वात् ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-७२/७४) सा तर्हि परिभाषा कर्तव्या ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-७३/७४) न कर्तव्या ।

(पा-६,४.१३०; अकि-३,२२१.२-२२२.१७; रो-४,७७३-७७७; भा-७४/७४) उक्तम् षष्ठी स्थानेयोगा इति एतस्य योगस्य वचने प्रयोजनम् षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता इति ।