व्याकरणमहाभाष्य खण्ड 73

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१/१८) ऊट् आदिः कास्मात् न भवति ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-२/१८) आदिः टित् भवति इति आदिः प्राप्नोति ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-३/१८) सम्प्रसारणम् इति अनेन यणः स्थानम् ह्रियते ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-४/१८) यदि एवम् वाहः ऊड्वचनानर्थक्यम् सम्प्रसारणेन कृतत्वात् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-५/१८) वाहः ऊड्वचनम् अनर्थकम् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-६/१८) किम् कारणम् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-७/१८) सम्प्रसारणेन कृतत्वात् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-८/१८) सम्प्रसारणेन एव सिद्धम् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-९/१८) का रूपसिद्धिः ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१०/१८) प्रष्ठौहः पश्य ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-११/१८) गुणः प्रत्ययलक्षणत्वात् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१२/१८) प्रत्ययलक्षणेन गुणः भविष्यति ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१३/१८) एज्ग्रहणात् वृद्धिः ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१४/१८) एज्ग्रहणात् वृद्धिः भविष्यति ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१५/१८) एवम् तर्हि सिद्धे सति यत् वाहः ऊठम् शास्ति शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१६/१८) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१७/१८) पचाव इदम् , पचाम इदम् ।

(पा-६,४.१३२; अकि-३,२२२१९-२२३.७; रो-४,७७७-७७८; भा-१८/१८) असिद्धत्वात् बहिरङ्गलक्षणस्य आत् गुणस्य अन्तरङ्गलक्षणम् ऐत्त्वम् न भवति इति ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१/२१) श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-२/२१) श्वादीनाम् प्रसारणे नकारान्तग्रहणम् कर्तव्यम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-३/२१) किम् प्रयोजनम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-४/२१) अनकारान्तप्रतिषेधार्थम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-५/२१) अनकारान्तस्य मा भूत् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-६/२१) मभवा मघवते ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-७/२१) तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-८/२१) यत् तावत् उच्यते नकारान्तग्रहणम् कर्तव्यम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-९/२१) न कर्तव्यम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१०/२१) उक्तम् वा ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-११/२१) किम् उक्तम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१२/२१) अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् इति ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१३/२१) यत् अपि उच्यते प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति लिङ्गविशिष्टग्रहणे च उक्तम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१४/२१) किम् उक्तम् ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१५/२१) न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१६/२१) अथ वा उपरिष्टात् योगविभागः करिष्यते ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१७/२१) श्वयुवमघोनाम् अतद्धिते ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१८/२१) ततः अल्लोपः ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-१९/२१) अकारस्य च लोपः भवति ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-२०/२१) ततः अनः ।

(पा-६,४.१३३; अकि-३,२२३.९-२०; रो-४,७७८-७७९; भा-२१/२१) अनः इति उभयोः शेषः ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-१/१५) अथ किम् इदम् षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् आहोस्वित् नियमार्थम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-२/१५) कथ च अल्लोपार्थम् स्यात् कथम् वा नियमार्थम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-३/१५) यदि अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ततः अल्लोपार्थम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-४/१५) अथ हि अणि टिलोपस्य एव प्रकृतिभावः ततः नियमार्थम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-५/१५) षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-६/१५) षपूर्वादीनाम् पुनर्वचनम् क्रियते अल्लोपार्थम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-७/१५) अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-८/१५) अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः । अवधारणे हि सति अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-९/१५) कथम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-१०/१५) यदि तावत् एवम् नियमः स्यात् षपूर्वादीनाम् एव अणि इति भवेत् इह नियमात् न स्यात् सामनः , वैमनः इति ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-११/१५) ताक्षण्यः इति प्राप्नोति ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-१२/१५) अथ अपि एवम् नियमः स्यात् षपूर्वादीनाम् अणि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् ताक्षण्यः इति , सामनः , वैमनः इति तु प्राप्नोति ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-१३/१५) अथ अपि उभयतः नियमः स्यात् षपूर्वादीनाम् एव अणि , अणि एव षपूर्वादीनाम् इति एवम् अपि सामन्यः , वेमन्यः इति प्राप्नोति ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-१४/१५) तस्मात् सुष्थु उच्यते षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् ।

(पा-६,४.१३५; अकि-३,२२३.२२-२२४.१२; रो-४,७८०-७८१; भा-१५/१५) अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः इति ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१/१७) आतः अनापः ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-२/१७) आतः अनापः इति वक्तव्यम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-३/१७) इह अपि यथा स्यात् ॒ समासे अनञ्पूर्वे क्त्वः ल्यप् इति ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-४/१७) अनापः इति किमर्थम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-५/१७) खट्वायाम् , मालायाम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-६/१७) यदि अनापः इति उच्यते कथम् क्त्वायाम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-७/१७) निपातनात् एतत् सिद्धम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-८/१७) किम् निपातनम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-९/१७) क्त्वायाम् व प्रतिषेधः इति ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१०/१७) यदि एवम् न अर्थः अनापः इति अनेन ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-११/१७) कथम् समासे अनञ्पूर्वे क्त्वः ल्यप् इति ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१२/१७) निपातनात् एतत् सिद्धम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१३/१७) कथम् हलः श्नः शानच् हौ इति ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१४/१७) एतत् अपि निपातनात् सिद्धम् ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१५/१७) अथ वा योगविभागः करिष्यते ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१६/१७) आतः ॒ आकारलोपः भवति ।

(पा-६,४.१४०; अकि-३,२२४.१४-२१; रो-४,७८१; भा-१७/१७) ततः धातोः ॒ धातोः च आकारस्य लोपः भवति इति ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-१/१६) मन्त्रेषु आत्मनः प्रत्ययमात्रप्रसङ्गः ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-२/१६) मन्त्रेषु आत्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-३/१६) इह अपि यथा स्यात् ॒ त्मन्या समञ्जन् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-४/१६) त्मनोः अन्तः अस्थः इति ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-५/१६) यदि प्रत्ययमात्रे लोपः उच्यते कथम् आत्मनः एव निर्मिमीष्व इति ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-६/१६) तस्मात् न अर्थः प्रत्ययमात्रे लोपेन ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-७/१६) कथम् त्मन्या समञ्जन् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-८/१६) त्मनोः अन्तः अस्थः इति ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-९/१६) छान्दसत्वात् सिद्धम् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-१०/१६) छान्दसम् एतत् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-११/१६) दृष्टानुविधिः छन्दसि भवति ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-१२/१६) आदिग्रहणानर्थक्यम् च आकारप्रकरणात् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-१३/१६) आदिग्रहणम् च अनर्थकम् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-१४/१६) किम् कारणम् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-१५/१६) आकारप्रकरणात् ।

(पा-६,४.१४१; अकि-३,२२४.२३-२२५.५; रो-४,७८२; भा-१६/१६) आतः इति वर्तते ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-१/९) तिग्रहणम् किमर्थम् न विंशतेः डिति लोपः इति एव उच्येत ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-२/९) न एवम् शक्यम् ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-३/९) विंशतेः डिति लोपः इति उच्यमाने अन्त्यस्य प्रसज्येत ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-४/९) सिद्धः अन्त्यस्य यस्येत लोपेन ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-५/९) तत्र आरम्भसामर्थ्यात् तिशब्दस्य भविष्यति ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-६/९) कुतः नु खलु एतत् अनन्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनः अङ्गस्य इति ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-७/९) तस्मात् तिग्रहणम् कर्तव्यम् ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-८/९) अथ क्रियमाणे अपि तिग्रहणे अन्त्यस्य कस्मात् न भवति ।

(पा-६,४.१४२; अकि-३,२२५.७-११; रो-४,७८२-७८३; भा-९/९) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

(पा-६,४.१४३; अकि-३,२२५.१३-१६; रो-४,७८३; भा-१/७) अभस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१४३; अकि-३,२२५.१३-१६; रो-४,७८३; भा-२/७) इह अपि यथा स्यात् ॒ उपसरजः , मन्दुरजः इति ।

(पा-६,४.१४३; अकि-३,२२५.१३-१६; रो-४,७८३; भा-३/७) तत् तर्हि वक्तव्यम् ।

(पा-६,४.१४३; अकि-३,२२५.१३-१६; रो-४,७८३; भा-४/७) न वक्तव्यम् ।

(पा-६,४.१४३; अकि-३,२२५.१३-१६; रो-४,७८३; भा-५/७) कथम् उपसरजः , मन्दुरजः इति ।

(पा-६,४.१४३; अकि-३,२२५.१३-१६; रो-४,७८३; भा-६/७) डिति अभस्य अपि अनुबन्धकरणसामर्थ्यात् ।

(पा-६,४.१४३; अकि-३,२२५.१३-१६; रो-४,७८३; भा-७/७) अभस्य अपि अनुबन्धकरणसामर्थ्यात् भविष्यति ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१/५३) नकारन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरस्द्मसुपर्वणाम् उपसङ्ख्यानम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२/५३) नकारन्तस्य टिलोपे सब्रह्मचारिन् पीठसर्पिन् कलापिन् कुथुमिन् तैतिलिन् जाजलिन् लाङ्गलिन् शिलालिन् शिखण्डिन् सूकरस्द्मन् सुपर्वन् इति एतेषाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३/५३) सब्रह्मचारिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४/५३) साब्रह्मचाराः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-५/५३) सब्रह्मचारिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-६/५३) पीठसर्पिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-७/५३) पैठसर्पाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-८/५३) पीठसर्पिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-९/५३) कलापिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१०/५३) कालपाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-११/५३) कलापिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१२/५३) कुथुमिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१३/५३) कौथुमाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१४/५३) कुथुमिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१५/५३) तैतिलिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१६/५३) तैतिलाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१७/५३) तैतिलिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१८/५३) जाजलिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-१९/५३) जाजलाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२०/५३) जाजलिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२१/५३) लाङ्गलिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२२/५३) लाङ्गलाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२३/५३) लाङ्गलिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२४/५३) शिलालिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२५/५३) शैलालाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२६/५३) शिलालिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२७/५३) शिखण्डिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२८/५३) शैखण्डाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-२९/५३) शिखण्डिन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३०/५३) सूकरस्द्मन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३१/५३) सौकरसद्माः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३२/५३) सूकरस्द्मन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३३/५३) सुपर्वन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३४/५३) सौपर्वाः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३५/५३) सुपर्वन् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३६/५३) चर्मणः कोशे ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३७/५३) चर्मणः कोशे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३८/५३) चार्मः कोशः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-३९/५३) आस्मनः विकारे ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४०/५३) आस्मनः विकारे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४१/५३) अश्मनः विकारः आश्मः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४२/५३) शुनः सङ्कोचे ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४३/५३) शौनः सङ्कोचः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४४/५३) अव्ययानाम् च । अव्ययानाम् च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४५/५३) किम् प्रयोजनम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४६/५३) सायम्प्रतिकाद्यर्थम् । सायम्प्रातिकः पौनःपुनिकः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४७/५३) शाश्वतिके प्रतिषेधः वक्तव्यः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४८/५३) न वक्तव्यः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-४९/५३) निपातनात् एतत् सिद्धम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-५०/५३) किम् निपातनम् ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-५१/५३) येषाम् च विरोधः शाश्वतिकः इति ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-५२/५३) एवम् तर्हि शाश्वते प्रतिषेधः वक्तव्यः ।

(पा-६,४.१४४; अकि-३,२२५.१८-२२६.१८; रो-४,७८३-७८५; भा-५३/५३) शाश्वतम् ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-१/१४) इवर्णान्तस्य इति किम् उदाहरणम् ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-२/१४) हे दाक्षि दाक्ष्या दाकृ̄यः ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-३/१४) हे दाक्षि इति ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-४/१४) यदि लोपः न स्यात् परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वम् प्रस्ज्येत ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-५/१४) दाक्ष्या इति ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-६/१४) यदि लोपः न स्यात् परस्य यणादेशे कृते पूर्वस्य श्रवणम् प्रसज्येत ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-७/१४) दाक्षेयः इति ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-८/१४) यदि लोपः न स्यात् परस्य लोपे कृते पूर्वस्य श्रवणम् प्रसज्येत ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-९/१४) न एतानि सन्ति प्रयोजनानि ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-१०/१४) सवर्णदीर्घत्वेन अपि एतानि सिद्धानि ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-११/१४) इदम् तर्हि ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-१२/१४) अतिसखेः आगच्छति ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-१३/१४) अतिसखेः स्वम् ।

(पा-६,४.१४८.१; अकि-३,२२६.२०-२५; रो-४,७८५-७८६; भा-१४/१४) यदि लोपः न स्यात् उपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१/३१) यस्य ईत्यादौ श्याम् प्रतिषेधः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२/३१) यस्य ईत्यादौ श्याम् प्रतिषेधः वक्तव्यः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-३/३१) काण्डे कुड्ये ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-४/३१) सौर्ये नाम हिमवतः शृङ्गे ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-५/३१) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-६/३१) न वक्तव्यः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-७/३१) इह श्याम् इति अपि प्रकृतम् न इति अपि ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-८/३१) तत्र अभिसम्बन्धमात्रम् कर्तव्यम् ॒ यस्य ईत्यादौ लोपः भवति श्याम् न ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-९/३१) इयङुवङ्भ्याम् लोपः विप्रतिषेधेन ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१०/३१) इयङुवङ्भ्याम् लोपः भवति विप्रतिषेधेन ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-११/३१) इयङुवङोः अवकाशः श्रियौ श्रियः , भ्रुवौ भ्रुवः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१२/३१) लोपस्य अवकाशः कामण्डलेयः , माद्रबाहेयः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१३/३१) इह उभयम् प्राप्नोति ॒ वत्सप्रेयः , लैखाभ्रेयः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१४/३१) लोपः भवति विप्रतिषेधेन ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१५/३१) गुणवृद्धी च । गुणवृद्धी च इयङुवङ्भ्याम् भवतः विप्रतिषेधेन ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१६/३१) गुणवृद्ध्योः अवकाशः ॒ चेता गौः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१७/३१) इयङुवङोः सः एव ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१८/३१) इह उभयम् प्राप्नोति ॒ चयनम् , चायकः , लवनम् , लावकः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-१९/३१) गुणवृद्धी भवतः विप्रतिषेधेन ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२०/३१) न वा इयङुवङादेशस्य अन्यविषये वचनात् ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२१/३१) न वा अर्थः विप्रतिषेधेन ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२२/३१) किम् कारणम् ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२३/३१) इयङुवङादेशस्य अन्यविषये वचनात् ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२४/३१) इयङुवङादेशः अन्यविषये आरभ्यते ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२५/३१) किंविषये ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२६/३१) यणादिविषये ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२७/३१) सः यथा यणादेशम् बाधते एवम् गुणवृद्धी बाधेत ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२८/३१) तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-२९/३१) तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः वक्तव्यः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-३०/३१) न वक्तव्यः ।

(पा-६,४.१४८.२; अकि-३,२२७.१-१९; रो-४,७८७-७८८; भा-३१/३१) मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयङुवङादेशः यणादेशम् बाधिष्यते गुणवृद्धी न बाधिष्यते ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१/३२) सूर्यादीनाम् अणन्ते अप्रसिद्धिः अङ्गान्यत्वात् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२/३२) सूर्यादीनाम् अणन्ते अप्रसिद्धिः ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-३/३२) सौरी बलाका ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-४/३२) किम् कारणम् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-५/३२) अङ्गान्यत्वात् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-६/३२) अणन्तम् एतत् अङ्गम् अन्यत् भवति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-७/३२) लोपे कृते न अङ्गान्यत्वम् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-८/३२) स्थानिवद्भावात् अङ्गान्यत्वम् भवति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-९/३२) सिद्धम् तु स्थानिवत्प्रतिषेधात् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१०/३२) सिद्धम् एतत् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-११/३२) कथम् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१२/३२) स्थानिवत्प्रतिषेधात् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१३/३२) प्रतिषिध्यते अत्र स्थानिवद्भावः यलोपविधिम् प्रति न स्थानिवत् भवति इति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१४/३२) एवम् अपि न सिध्यति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१५/३२) किम् कारणम् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१६/३२) शब्दान्यत्वात् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१७/३२) अन्यः हि शूर्यशब्दः अन्यः सौर्यशब्दः ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१८/३२) न एषः दोषः ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-१९/३२) एकदेशविकृतम् अनन्यवत् भवति इति भविष्यति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२०/३२) उपधाग्रहणानर्थक्यम् च ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२१/३२) स्थानिवद्भावे च इदानीम् प्रतिषिद्धे उपधाग्रहणम् अनर्थकम् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२२/३२) किम् कारणम् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२३/३२) अन्त्यः एव हि सूर्यादीनाम् यकारः ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२४/३२) किम् यातम् एतत् भवति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२५/३२) सुष्ठु च यातम् साधु च यातम् यदि प्राक् भात् असिद्धत्वम् ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२६/३२) अथ हि सह तेन असिद्धत्वम् असिद्धत्वात् लोपस्य न अन्त्यः यकारः भवति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२७/३२) यदि अपि सह तेन असिद्धत्वम् एवम् अपि न दोषः ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२८/३२) न एवम् विज्ञायते सूर्यादीनाम् अङ्गानाम् यकारलोपः इति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-२९/३२) कथम् तर्हि ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-३०/३२) अङ्गस्य यलोपः भवति सः चेत् सूर्यादीनाम् यकारः इति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-३१/३२) एवम् अपि सूर्यचरी , अत्र प्राप्नोति ।

(पा-६,४.१४९.१; अकि-३,२२७.२१-२२८.१२; रो-४,७८८-७८९; भा-३२/३२) तस्मात् उपधाग्रहणम् कर्तव्यम् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१/२१) विषयपरिगणनम् च ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-२/२१) विषयपरिगणनम् च कर्तव्यम् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-३/२१) सूर्यमत्स्ययोः ङ्याम् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-४/२१) सूर्यमत्स्ययोः ङ्याम् इति वक्तव्यम् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-५/२१) सौरी मत्सी ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-६/२१) सूर्यागस्त्ययोः छे च ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-७/२१) सूर्यागस्त्ययोः छे च ङ्याम् च इति वक्तव्यम् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-८/२१) सौरी सौरीयः , आगस्ती , आगस्तीयः ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-९/२१) तिष्यपुष्ययोः नक्षत्राणि ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१०/२१) तिष्यपुष्ययोः नक्षत्राणि लोपः वक्तव्यः ॒ तैषम् , पौषम् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-११/२१) अन्तिकस्य तसि कादिलोपः आद्युदात्तत्वम् च ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१२/२१) अन्तिकस्य तसि कादिलोपः वक्तव्यः आद्युदात्तत्वम् च वक्तव्यम् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१३/२१) अन्तितः न दूरात् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१४/२१) तमे तादेः च ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१५/२१) तमे तादेः च कादेः च लोपः वक्तव्यः ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१६/२१) अग्ने त्वम् नः अन्तमः ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१७/२१) अन्तितमः अवरोहति ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१८/२१) तसि इति एषः न वक्तव्यः ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-१९/२१) दृष्टः दाशतये अपि हि घौ लोपः अन्तिषत् इति यत्र । अन्तिषत् ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-२०/२१) तथा अघौ ये अन्त्यथर्वसु ।

(पा-६,४.१४९.२; अकि-३,२२८.१३-२२९.५; रो-४,७८९-७९१; भा-२१/२१) अन्ति ये च दूरके ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-१/१३) छग्रहणम् शक्यम् अकर्तुम् ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-२/१३) इह कस्मात् न भवति बिल्वकेभ्यः ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-३/१३) भस्य इति वर्तते ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-४/१३) एवम् अपि बिल्वकाय , अत्र प्राप्नोति ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-५/१३) तद्धितस्य इति वर्तते ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-६/१३) एवम् अपि बिल्वकस्य विकारः अवयवः वा बैल्वकः , अत्र प्राप्नोति ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-७/१३) तद्धिते तद्धितस्य इति वर्तते ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-८/१३) एवम् अपि बिल्वकीयायाम् भवः बैल्वकः , बैल्वकस्य किम् चित् बैल्वकीयम् , अत्र प्राप्नोति ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-९/१३) न सः बिल्वकात् ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-१०/१३) बिल्वकादिभ्यः यः विहितः इति उच्यते न च असौ बिल्वकशब्दात् विहितः ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-११/१३) किम् तर्हि बिल्वकीयशब्दात् ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-१२/१३) एवम् तर्हि सिद्धे सति यत् छग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा ॒ सन्नियोगशिष्टानाम् अन्यतराभावे उभयोः अभावः इति ।

(पा-६,४.१५३; अकि-३,२२९.७-१४; रो-४,७९१-७९३; भा-१३/१३) तस्मात् छग्रहणम् कर्तव्यम् छस्य एव लुक् यथा स्यात् कुकः मा भूत् इति ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-१/१५) तुः सर्वस्य लोपः वक्तव्यः अन्त्यस्य लोपः मा भूत् इति ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-२/१५) सः तर्हि वक्तव्यः ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-३/१५) न वक्तव्यः । तुः सर्वलोपविज्ञानम् अन्त्यस्य वचनानर्थक्यात् ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-४/१५) तुः सर्वलोपः विज्ञायते ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-५/१५) कुतः ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-६/१५) अन्त्यस्य वचनानर्थक्यात् ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-७/१५) अन्त्यस्य लोपवचने प्रयोजनम् न अस्ति इति कृत्वा सर्वस्य भविष्यति ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-८/१५) अथ वा लुक् प्रकृतः ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-९/१५) सः अनुवर्तिष्यते ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-१०/१५) अशक्यः लुक् अनुवर्तयितुम् ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-११/१५) किम् कारणम् ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-१२/१५) विजयिष्ठकरिष्थयोः गुणदर्शनात् ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-१३/१५) विजयिष्ठकरिष्थयोः गुणः दृश्यते ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-१४/१५) विजयिष्ठः ।

(पा-६,४.१५४; अकि-३,२२९.१६-२३; रो-४,७९३; भा-१५/१५) आसुतिम् करिष्ठः ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१/१९) णौ इष्ठवत् प्रातिपदिकस्य ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-२/१९) णौ प्रातिपदिकस्य इष्ठवद्भावः वक्तव्यः ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-३/१९) किम् प्रयोजनम् ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-४/१९) पुंवद्भावरभावटिलोपयणादिपरार्थम् ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-५/१९) पुंवद्भावार्थम् ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-६/१९) एनीम् आचष्टे , एतयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-७/१९) श्येतयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-८/१९) रभावार्थम् ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-९/१९) पृथुम् आचष्टे , प्रथयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१०/१९) म्रदयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-११/१९) टिलोपार्थम् ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१२/१९) पटुम् आचष्टे पटयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१३/१९) यणादिपरार्थम् ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१४/१९) स्थूलम् आचष्टे स्थवयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१५/१९) दवयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१६/१९) किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१७/१९) उदाहरणमात्रम् इति आह ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१८/१९) प्रादयः अपि हि इष्यन्ते ॒ प्रियम् आचष्टे प्रापयति ।

(पा-६,४.१५५; अकि-३,२३०.२-१०; रो-४,७९४-७९५; भा-१९/१९) भारद्वाजीयाः पठन्ति ॒ णौ इष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थम् इति ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-१/४) किम् अयम् यिशब्दः आहोस्वित् यकारः ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-२/४) किम् च अतः ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-३/४) यदि लोपः अपि अनुवर्तते ततओ यिशब्दः ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-४/४) अथ निवृत्तम् ततः यकारः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१/५३) कथम् इदम् विज्ञायते ॒ हलादेः अङ्गस्य इति आहोस्वित् हलादेः ऋकारस्य इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२/५३) युक्तम् पुनः इदम् विचारयितुम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३/५३) ननु अनेन असन्दिग्धेन अङ्गविशेषणेन भवितव्यम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४/५३) कथम् हि ऋकारस्य नाम हल् आदिः स्यात् अन्यस्य अन्यः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-५/५३) अयम् आदिशब्दः अस्ति एव अवयववाची ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-६/५३) तत् यथा ऋगादिः , अर्धर्चादिः , श्लोकादिः इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-७/५३) अस्ति सामीप्ये वर्तते ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-८/५३) तत् यथा ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-९/५३) दधिभोजनम् अर्थसिद्धेः आदिः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१०/५३) दधिभोजनसमीपे ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-११/५३) घृतभोजनम् आरोग्यस्य आदिः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१२/५३) घृतभोजनसमीपे ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१३/५३) यावता सामीप्ये अपि वर्तते जायते विचारणा ॒ हल्समीपस्य ऋकारस्य हलादेः अङ्गस्य इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१४/५३) किम् च अतः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१५/५३) यदि विज्ञायते हलादेः अङ्गस्य इति अप्रथीयान् , अत्र न प्राप्नोति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१६/५३) अथ विज्ञायते हलादेः ऋकारस्य इति अनृचीयान् , अत्र अपि प्राप्नोति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१७/५३) उभयथा स्वृचीयान् इति अत्र प्राप्नोति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१८/५३) अस्तु तावत् हलादेः अङ्गस्य इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-१९/५३) कथम् अप्रथीयान् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२०/५३) तद्धितान्तेन समासः भविष्यति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२१/५३) न प्रथीयान् अप्रथीयान् इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२२/५३) भवेत् सिद्धम् यदा तद्धितान्तेन समासः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२३/५३) यदा तु खलु समासात् तद्धितोत्पत्तिः तदा न सिध्यति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२४/५३) न एव समासात् तद्धितोत्पत्त्या भवितव्यम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२५/५३) किम् कारणम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२६/५३) बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२७/५३) भवेत् यदा बहुव्रीहिः तदा न स्यात् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२८/५३) यदा तु खलु तत्पुरुषः तदा प्राप्नोति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-२९/५३) न पृथुः अपृथुः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३०/५३) अयम् अपि अपृथुः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३१/५३) अयम् अपि अपृथुः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३२/५३) अयम् अनयोः अप्रथीयान् इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३३/५३) न समासात् अजादिभ्याम् भवितव्यम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३४/५३) किम् कारणम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३५/५३) गुणवचनात् इति उच्यते न च समासः गुणवचनः इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३६/५३) यदा तर्हि समासात् विन्मतुपौ विन्मतुबन्तात् अजादी तदा प्राप्नुतः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३७/५३) अविद्यमानाः पृथवः अपृथवः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३८/५३) अपृथवः अस्य सन्ति अपृथुमान् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-३९/५३) अयम् अपृथुमान् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४०/५३) अयम् अपृथुमान् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४१/५३) अयम् अनयोः अप्रथीयान् इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४२/५३) न एषः दोषः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४३/५३) अपृथवः एव न सन्ति कुतः यस्य अपृथवः इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४४/५३) इह कस्मात् न भवति ॒ मातयति , भ्रातयति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४५/५३) लोपः अत्र बाधकः भविष्यति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४६/५३) इदम् इह सम्प्रधार्यम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४७/५३) टिलोपः क्रियताम् रभावः इति किम् अत्र कर्तव्यम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४८/५३) परत्वात् रभावः ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-४९/५३) यदि पुनः अवशिष्टस्य रभावः उच्येत ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-५०/५३) न एवम् शक्यम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-५१/५३) इह अपि प्रसज्येत ॒ कृतम् आचष्टे , कृतयति इति ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-५२/५३) एवम् तर्हि परिगणनम् कर्तव्यम् ।

(पा-६,४.१६१; अकि-३,२३१.२-२३; रो-४,७९६-७९९; भा-५३/५३) पृथुमृदुकृशभृशदृढपरिवृढानाम् इति वक्तव्यम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१/६१) प्रकृत्या एकाच् इति किम् इष्ठेय्मेयस्सु आहोस्वित् अविशेषेण ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२/६१) किम् च अतः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३/६१) यदि अविशेषेण स्वी खी शौवम् अधुना इति अत्र अपि प्राप्नोति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४/६१) स्विखिनौ एव न स्तः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५/६१) कथम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-६/६१) उक्तम् एतत् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-७/६१) एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-८/६१) स्ववान् खवान् इति एव भवितव्यम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-९/६१) शौवम् इति परत्वात् ऐजागमे कृते टिलोपेन भवितव्यम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१०/६१) अधुना इति सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनम् क्रियते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-११/६१) इह तर्हि प्राप्नोति ॒ द्रव्यम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१२/६१) यस्य ईति आदौ प्रकृतिभावः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१३/६१) यस्य ईति यस्य लोपप्राप्तिः तस्य प्रकृतिभावः न च एतानि यस्य ईति आदौ ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१४/६१) एवम् अपि श्रिये हितः श्रीयः , ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीयापाकः इति अत्र प्राप्नोति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१५/६१) तस्मात् इष्ठेय्मेयस्सु प्रकृतिभावः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१६/६१) अथ इष्ठेय्मेयस्सु प्रकृतिभावे किम् उदाहरणम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१७/६१) प्रेयान् प्रेष्थः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१८/६१) न एतत् अस्ति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-१९/६१) प्रादीनाम् असिद्धत्वात् न भविष्यति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२०/६१) इदम् तर्हि श्रेयान् , श्रेष्ठः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२१/६१) प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् एकाचः उच्चारणसामर्थ्यात् अवचनात् प्रकृतिभावः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२२/६१) प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् तत् न ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२३/६१) किम् कारणम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२४/६१) एकाचः उच्चारणसामर्थ्यात् अन्तरेण अपि वचनम् प्रकृतिभावः भविष्यति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२५/६१) विन्मतोः तु लुगर्थम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२६/६१) विन्मतोः तु लुगर्थम् प्रकृतिभावः वक्तव्यः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२७/६१) स्रग्वितरः , स्रजीयान् , स्रग्वितमः , स्रजिष्ठः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२८/६१) स्रुग्वत्तरः , स्रुचीयान् , स्रुग्वत्तमः , स्रुचिष्ठः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-२९/६१) ननु च विन्मतोः लुक् टिलोपम् बाधिष्यते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३०/६१) कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३१/६१) असति खलु अपि सम्भवे बाधनम् भवति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३२/६१) अस्ति च सम्भवः यत् उभयम् स्यात् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३३/६१) यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३४/६१) यतरः नः ब्रह्मीयान् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३५/६१) ब्रह्मवत्तरः इति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३६/६१) यत् तावत् उच्यते कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् इति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३७/६१) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३८/६१) यदि तर्हि विन्मतोः लुक् न उच्येत किम् इह स्यात् इति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-३९/६१) टिलोपः इति आह ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४०/६१) टिलोपः चेत् न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४१/६१) सः बाधकः भविष्यति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४२/६१) यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४३/६१) अस्ति च सम्भवः यत् उभयम् स्यात् इति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४४/६१) सति अपि सम्भवे बाधनम् भवति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४५/६१) तत् यथा ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४६/६१) दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४७/६१) एवम् इह अपि सति अपि सम्भवे विन्मतोः लुक् टिलोपम् बाधिष्यते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४८/६१) यत् अपि उच्यते यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत इति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-४९/६१) न बाधते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५०/६१) किम् कारणम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५१/६१) येन न अप्राप्ते तस्य बाधनम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५२/६१) न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५३/६१) नः तद्धिते इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५४/६१) अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् विन्मतोः लुक् टिलोपम् बाधिष्यते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५५/६१) नः तद्धिते इति एतम् न बाधिष्यते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५६/६१) यदि तर्हि विन्मतोः लुक् टिलोपम् बाधते पयिष्थः इति न सिध्यति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५७/६१) पयसिष्थः इति प्राप्नोति ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५८/६१) यथालक्षणम् अप्रयुक्ते ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-५९/६१) प्रकृत्या अके राजन्यमनुष्ययुवानः ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-६०/६१) राजन्यमनुष्ययुवानः अके प्रकृत्या भवन्ति इति वक्तव्यम् ।

(पा-६,४.१६३; अकि-३,२३१.२५-२३३.५; रो-४,७९९-८०४; भा-६१/६१) राजन्यकम् , मानुष्यकम् , यौवनिका ।

(पा-६,४.१७०; अकि-३,२३३.१०-१२; रो-४,८०४; भा-१/३) मपूर्वात् प्रतिषेधे वा हितनाम्नः ।

(पा-६,४.१७०; अकि-३,२३३.१०-१२; रो-४,८०४; भा-२/३) मपूर्वात् प्रतिषेधे वा हितनाम्नः इति वक्तव्यम् ।

(पा-६,४.१७०; अकि-३,२३३.१०-१२; रो-४,८०४; भा-३/३) समानः हैतनामः , समानः हैतनामनः इति च ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१/२४) अथ किम् इदम् ब्राह्मस्य अजातौ अनः लोपार्थम् वचनम् आहोस्वित् नियमार्थम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-२/२४) कथ च लोपाथम् स्यात् कथम् व नियमार्थम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-३/२४) यदि तावत् अपत्ये इति वर्तते ततः नियमार्थम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-४/२४) अथ निवृत्तम् ततः लोपार्थम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-५/२४) अतः उत्तरम् पठति ब्राह्मस्य अजातौ लोपार्थम् वचनम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-६/२४) ब्राह्मस्य अजातौ लोपार्थम् वचनम् क्रियते ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-७/२४) अपत्ये इति निवृत्तम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-८/२४) तत्र अप्राप्तविधाने प्राप्तप्रतिषेधः ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-९/२४) तत्र अप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधः वक्तव्यः ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१०/२४) ब्राह्मणः ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-११/२४) न वा पर्युदाससामर्थ्यात् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१२/२४) न वा वक्तव्यः ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१३/२४) किम् कारणम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१४/२४) पर्युदाससामर्थ्यात् पर्युदासः अत्र भविष्यति ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१५/२४) अस्ति अन्यत् पर्युदासे प्रयोजनम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१६/२४) किम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१७/२४) या जातिः एव न अपत्यम् ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१८/२४) ब्राह्मी ओषधिः इति ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-१९/२४) न वै अत्र इष्यते ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-२०/२४) अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-२१/२४) एवम् तर्हि अनुवर्तते अपत्ये इति न तु अपत्ये इति अनेन निपातनम् अभिसम्बध्यते ॒ ब्राह्मः इति निपात्यते अपत्ये अजातौ इति ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-२२/२४) किम् तर्हि ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-२३/२४) प्रतिषेधः अभिसम्बध्यते ॒ ब्राह्मः इति निपात्यते ।

(पा-६,४.१७१; अकि-३,२३३.१४-२३४.३; रो-४,८०५; भा-२४/२४) अपत्ये जातौ न इति ।

(पा-६,४.१७२; अकि-३,२३४.५-८; रो-४,८०६; भा-१/७) किमर्थम् इदम् उच्यते न नः तद्धिते इति एव सिद्धम् ।

(पा-६,४.१७२; अकि-३,२३४.५-८; रो-४,८०६; भा-२/७) न सिध्यति ।

(पा-६,४.१७२; अकि-३,२३४.५-८; रो-४,८०६; भा-३/७) अन् अणि इति प्रकृतिभावः प्रसज्येत ।

(पा-६,४.१७२; अकि-३,२३४.५-८; रो-४,८०६; भा-४/७) अणि इति उच्यते णः च अयम् ।

(पा-६,४.१७२; अकि-३,२३४.५-८; रो-४,८०६; भा-५/७) एवम् तर्हि सिद्धे सति यत् निपातनम् करोति तत् ज्ञापयति आचार्यः ताच्छीलिके णे अण्कृतानि भवन्ति ।

(पा-६,४.१७२; अकि-३,२३४.५-८; रो-४,८०६; भा-६/७) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,४.१७२; अकि-३,२३४.५-८; रो-४,८०६; भा-७/७) चौरी तापसी इति अणन्तात् इति ईकारः सिद्धः भवति ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१/३९) अत्र भ्रौणहत्ये किम् निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२/३९) यकारादौ तद्धिते तत्वम् निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३/३९) भ्रौणहत्ये तत्वनिपातनानर्थक्यम् सामान्येन कृतत्वात् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-४/३९) भ्रौणहत्ये तत्वनिपातनम् अनर्थकम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-५/३९) किम् कारणम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-६/३९) सामान्येन कृतत्वात् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-७/३९) सामान्येन एव अत्र तत्वम् भविष्यति ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-८/३९) हनः तः अचिण्णमुलोः इति ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-९/३९) ज्ञापकम् तु तद्धिते तत्वप्रतिषेधस्य ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१०/३९) एवम् तर्हि ज्ञापयति आचार्यः न तद्धिते तत्वम् भवति इति ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-११/३९) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१२/३९) भ्रौणघ्नः , वार्त्रघ्नः इति अत्र तत्वम् न भवति ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१३/३९) ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१४/३९) ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन कर्तव्यम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१५/३९) ऐक्ष्वाकः , ऐक्ष्वाकः ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१६/३९) एकश्रुत्या निर्देशात् सिद्धम् ।एकश्रुतिः स्वरसर्वनाम यथा नपुंसकम् लिङ्गसर्वनाम ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१७/३९) अथ मैत्रेये किम् निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१८/३९) मैत्रेये ढञि यादिलोपनिपातनम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-१९/३९) मैत्रेये ढञि यादिलोपः निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२०/३९) इदम् मित्रयुशब्दस्य चतुः ग्रहणम् क्रियते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२१/३९) गृष्ट्यादिषु प्रत्ययविध्यर्थम् पाठः क्रियते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२२/३९) द्वितीये अध्याये यस्कादिषु लुगर्थम् ग्रहणम् क्रियते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२३/३९) सप्तमे अध्याये इयादेशार्थम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२४/३९) इदम् चतुर्थम् यादिलोपार्थम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२५/३९) द्विर्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२६/३९) बिदादिषु प्रत्ययविध्यर्थम् पाठः कर्तव्यः ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२७/३९) तत्र न एव अर्थः लुका न अपि यादिलोपेन ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२८/३९) इयादेशेन एव सिद्धम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-२९/३९) न एवम् शक्यम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३०/३९) इह हि मैत्रेयकः सङ्घः इति सङ्घातलक्षणेषु अञ्यञिञाम् अण् इति अण् प्रसज्येत ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३१/३९) हिरण्मये किम् निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३२/३९) हिरण्मये यलोपवचनम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३३/३९) हिरण्मये यलोपः निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३४/३९) अथ हिरण्यये किम् निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३५/३९) हिरण्ययस्य छन्दसि मलोपवचनात् सिद्धम् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३६/३९) हिरण्ययस्य छन्दसि मलोपः निपात्यते ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३७/३९) हिरण्ययी नः नयतु ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३८/३९) हिरण्ययाः पन्थानः आसन् ।

(पा-६,४.१७४; अकि-३,२३४.११-२३५.१६; रो-४,८०७-८०९; भा-३९/३९) हिरण्ययम् आसनम् ।