व्याकरणमहाभाष्य खण्ड 74

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१/३१) युवोः अनाकौ इति उच्यते कयोः युवोः अनाकौ भवतः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२/३१) प्रत्यययोः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-३/३१) कथम् पुनः अङ्गस्य इति अनुवर्तमाने प्रत्यययोः स्याताम् ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-४/३१) युशब्दवुशब्दान्तम् एतत् विभक्तौ अङ्गम् भवति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-५/३१) यदि युशब्दवुशब्दान्तस्य अङ्गस्य अनाकौ भवतः सर्वादेशौ प्राप्नुतः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-६/३१) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यतः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-७/३१) यत्र तर्हि विभक्तिः न अस्ति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-८/३१) नन्दना कारिका इति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-९/३१) अत्र अपि प्रत्ययलक्षणेन विभक्तिः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१०/३१) यत्र तर्हि प्रत्ययलक्षणम् न अस्ति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-११/३१) नन्दनप्रियः कारकप्रियः इति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१२/३१) मा भूताम् या असौ सामासिकी विभक्तिः तस्याम् या असौ समासात् विभक्तिः तस्याम् भविष्यतः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१३/३१) न वै तस्याम् युशब्दवुशब्दान्तम् अङ्गम् भवति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१४/३१) भवेत् यः युशब्दवुशब्दाभ्याम् अङ्गम् विशेषयेत् तस्य आनन्त्ययोः न स्याताम् ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१५/३१) वयम् खलु अङ्गेन युशब्दवुशब्दौ विशेषयिष्यामः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१६/३१) अङ्गस्य युवोः अनाकौ भवतः यत्रतत्रस्थयोः इति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१७/३१) यत्र तर्हि समासात् विभक्तिः न अस्ति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१८/३१) नन्दनदधि कारकदधि ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-१९/३१) एवम् तर्हि न च अपरम् निमित्तम् सञ्ज्ञा च प्रत्ययलक्षणेन ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२०/३१) न च इह परम् निमित्तम् आश्रीयते ॒ अस्मिन् परतः युवोः अनाकौ भवतः इति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२१/३१) किम् तर्हि अङ्गस्य युवोः अनाकौ भवतः इति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२२/३१) अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२३/३१) अथ वा तयोः एव यत् अङ्गम् तन्निमित्तत्वेन आश्रयिष्यामः ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२४/३१) कथम् ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२५/३१) अङ्गस्य इति सम्बन्धसामान्ये षष्ठी विज्ञास्यते ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२६/३१) अङ्गस्य यौ युवू ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२७/३१) किम् च अङ्गस्य युवू ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२८/३१) निमित्तम् ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-२९/३१) ययोः युवोः अङ्गम् इति एतत् भवति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-३०/३१) कयोः च एतत् भवति ।

(पा-७,१.१.१; अकि-३,२३६.१-१६; रो-५,१-३; भा-३१/३१) प्रत्यययोः

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१/५७) युवोः अनाकौ इति चेत् धातुप्रतिषेधः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२/५७) युवोः अनाकौ इति चेत् धातुप्रतिषेधः वक्तव्यः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३/५७) युत्वा युतः युतवान् युतिः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४/५७) भुज्य्वादीनाम् च । भुज्य्वादीनाम् च प्रतिषेधः वक्तव्यः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५/५७) भुज्युः कंयुः शंयुः इति । अनुनासिकपरत्वात् सिद्धम् । अनुनासिकपरयोः युवोः ग्रहणम् न च एतौ अनुनासिकपरौ ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-६/५७) यदि अनुनासिकपरयोः ग्रहणम् नन्दनः कारकः अत्र न प्राप्नुतः न हि एताभ्याम् युशब्दवुशब्दाभ्याम् अनुनासिकम् परम् पश्यामः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-७/५७) अनुनासिकपरत्वात् इति न एवम् विज्ञायते अनुनासिकः परः आभ्याम् तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वात् इति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-८/५७) कथम् तर्हि ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-९/५७) अनुनासिकः परः अनयोः तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वात् इति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१०/५७) यदि अनुनासिकपरयोः ग्रहणम् इत्सञ्ज्ञा प्राप्नोति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-११/५७) तत्र कः दोषः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१२/५७) तत्र ङीब्नुमोः प्रतिषेधः । ङीब्नुमः प्रतिषेधः वक्तव्यः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१३/५७) नन्दनः कारकः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१४/५७) नन्दना कारिका ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१५/५७) उगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः । धात्वन्तस्य च । धात्वन्तस्य च प्रतिषेधः वक्तव्यः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१६/५७) दिवु सिवु ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१७/५७) षिट्टित्करणम् तु ज्ञापकम् उगित्कार्याभावस्य । यत् अयम् युशब्दवुशब्दौ षिट्टितौ करोति शिल्पिनि ष्वुन् ट्युट्युलौ तुट् च इति तत् ज्ञापयति आचार्यः न युवोः उगित्कार्यम् भवति इति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१८/५७) कथम् कृत्वा ज्ञापकम् षिट्टित्करणे एतत् प्रयोजनम् षिट्टितः इति इकारः यथा स्यात् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-१९/५७) यदि च अत्र उगित्कार्यम् स्यात् षिट्टित्करणम् अनर्थकम् स्यात् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२०/५७) पश्यति तु आचार्यः न युवोः उगित्कार्यम् भवति इति ततः युशब्दवुशब्दौ षिट्टितौ करोति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२१/५७) न वा षित्करणम् ङीष्विधानार्थम् । न एतत् अस्ति ज्ञापकम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२२/५७) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२३/५७) किम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२४/५७) षित्करणम् क्रियते ङीष्विधानार्थम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२५/५७) षितः इति ङीष् यथा स्यात् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२६/५७) टित्करणम् अनुपसर्जनार्थम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२७/५७) टित्करणे अपि अन्यत् प्रयोजनम् अस्ति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२८/५७) किम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-२९/५७) अनुपसर्जनात् टितः इति ईकारः यथा स्यात् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३०/५७) टितः अनुपसर्जनात् भवति उगितः उपसर्जनात् च अनुपसर्जनात् च ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३१/५७) एवम् तर्हि विप्रतिषेधात् तु टापः बलीयस्त्वम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३२/५७) विप्रतिषेधात् तु टापः बलीयस्त्वम् भविष्यति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३३/५७) टापः अवकाशः खट्वा माला ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३४/५७) ङीपः अवकाशः गोमती यवमती ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३५/५७) इह उभयम् प्राप्नोति नन्दना कारिका ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३६/५७) टाप् भवति विप्रतिषेधेन ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३७/५७) न एषः युक्तः विप्रतिषेधः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३८/५७) विप्रतिषेधे परम् इति उच्यते पूर्वः च टाप् परः ङीप् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-३९/५७) ङीपः परः टाप् करिष्यते ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४०/५७) सूत्रविपर्यासः कृतः भवति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४१/५७) एवम् तर्हि उगितः ङीप् भवति इति अत्र अपि अतः टाप् इति अनुवर्तिष्यते ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४२/५७) एवम् अपि अकारान्तात् उगितः इह एव स्यात् नन्दना कारिका ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४३/५७) गोमती यवमती इति अत्र न स्यात् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४४/५७) एवम् तर्हि सम्बन्धानुवृत्तिः करिष्यते ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४५/५७) अजाद्यतः टाप् ऋन्नेभ्यः ङीप् अतः टाप् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४६/५७) उगितः च ङीप् भवति अतः टाप् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४७/५७) वनः र च वनः ङीप् भवति उगितः अतः टाप् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४८/५७) पादः अन्यतरस्याम् ङीप् भवति उगितः अतः टाप् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-४९/५७) ततः ऋचि ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५०/५७) ऋचि च टाप् भवति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५१/५७) प्रकृतम् अनुवर्तते ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५२/५७) सिध्यति एवम् यदि वार्त्तिककारः पठति विप्रतिषेधात् तु टापः बलीयस्त्वम् इति एतत् असङ्गृहीतम् भवति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५३/५७) एतत् च सङ्गृहीतम् भवति ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५४/५७) कथम् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५५/५७) इष्टवाची परशब्दः ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५६/५७) विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति । धात्वन्तस्य च अर्थवद्ग्रहणात् ।

(पा-७,१.१.२; अकि-३,२३६.१७-२३८.१३; रो-५,३-७; भा-५७/५७) अर्थवतोः युवोः ग्रहणम् न च धात्वन्तः अर्थवान्

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१/३३) नुम्विधौ झल्ग्रहणम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२/३३) नुम्विधौ झल्ग्रहणम् कर्तव्यम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-३/३३) झलन्तस्य उगितः इष्यते ॒ उगिदचाम् सर्वनामस्थाने अधातोः झलः इति ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-४/३३) तत् च अवश्यम् कर्तव्यम् । लिङ्गविशिष्टप्रतिषेधार्थम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति गोमान् यवमान् एवम् गोमती यवमती इति अत्र अपि स्यात् । न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-५/३३) न वा वक्तव्यम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-६/३३) किम् कारणम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-७/३३) विभक्तौ लिङ्गविशिष्टग्रहणम् न इति एषा परिभाषा कर्तव्या ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-८/३३) कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत झल्ग्रहणम् वा इति ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-९/३३) अवश्यम् एषा परिभाषा कर्तव्या ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१०/३३) बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-११/३३) कानि । प्रयोजनम् शुनः स्वरे । यथा इह भवति शुना शुनः एवम् शुन्या शुन्याः इति अत्र अपि स्यात् । यूनः सम्प्रसारणे ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१२/३३) यूनः सम्प्रसारणे प्रयोजनम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१३/३३) यथा इह भवति यूनः पश्य इति एवम् युवतीः पश्य इति अत्र अपि स्यात् । उगिदचाम् नुम्विधौ । उगिदचाम् नुम्विधौ प्रयोजनम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१४/३३) यथा इह भवति गोमान् यवमान् एवम् गोमती यवमती इति अत्र अपि स्यात् । अनडुहः च आम्विधौ ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१५/३३) अनडुहः च आम्विधौ प्रयोजनम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१६/३३) यथा इह भवति अनड्वान् इति एवम् अनडुही इति अत्र अपि स्यात् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१७/३३) न वा भवति अनड्वाही इति ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१८/३३) भवति अन्येन यत्नेन ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-१९/३३) आम् अनडुहः स्त्रियाम् वा इति ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२०/३३) लिङ्गविशिष्टग्रहणात् ईकारान्तस्य प्राप्नोति । पथिमथोः आत्त्वे । पथिमथोः आत्त्वे प्रयोजनम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२१/३३) यथा इह भवति पन्थाः मन्थाः एवम् पथी मथी इति अत्र अपि प्राप्नोति ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२२/३३) न केवलः पथिशब्दः स्त्रियाम् वर्तते ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२३/३३) उपसमस्तः तर्हि वर्तते ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२४/३३) सुपथी इति । पुंसः असुङ्विधौ ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२५/३३) पुंसः असुङ्विधौ प्रयोजनम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२६/३३) यथा इह भवति पुमान् एवम् पुंसी इति अत्र अपि स्यात् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२७/३३) न केवलः पुंशब्दः स्त्रियाम् वर्तते ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२८/३३) उपसमस्तः तर्हि वर्तते ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-२९/३३) सुपुंसी इति । सख्युः णित्त्वानङौ । सख्युः णित्त्वानङौ प्रयोजनम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-३०/३३) यथा इह भवति सखा सखायौ सखायः एवम् सखी सख्यौ सख्यः इति अत्र अपि प्राप्नोति । भवद्भगवदघवताम् ओद्भावे । भवद्भगवदघवताम् ओद्भावे प्रयोजनम् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-३१/३३) यथा इह भवति भोः भगोः अघोः इति एवम् भवति भगवति अघवति इति अत्र अपि स्यात् ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-३२/३३) एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।

(पा-७,१.१.३; अकि-३,२३८.१४-२३९.२४; रो-५,७-९; भा-३३/३३) एतस्याम् च सत्याम् न अर्थः झल्ग्रहणेन

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१/२८) तत् एतत् अनन्यार्थम् झल्ग्रहणम् कर्तव्यम् नुम्प्रतिषेधः वा वक्तव्यः ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२/२८) उभयम् न वक्तव्यम् ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-३/२८) उपरिष्टात् झल्ग्रहणम् क्रियते तत् पुरस्तात् अपक्रक्ष्यते ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-४/२८) एवम् अपि सूत्रविपर्यासः कृतः भवति ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-५/२८) एवम् तर्हि योगविभागः करिष्यते ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-६/२८) उगिदचाम् सर्वनामस्थाने अधातोः ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-७/२८) युजेः असमासे ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-८/२८) ततः नपुंसकस्य ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-९/२८) नपुंसकस्य नुम् भवति ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१०/२८) झलः इति उभयोः शेषः ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-११/२८) ततः अचः ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१२/२८) अजन्तस्य च नपुंसकलिङ्गस्य नुम् भवति ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१३/२८) यदि अपि तावत् एतत् उगित्कार्यम् परिहृतम् इदम् अपरम् प्राप्नोति ॒ शातनितरा पातनितरा ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१४/२८) उगितः नद्याः घादिषु ह्रस्वः भवति इति अन्यतरस्याम् ह्रस्वत्वम् प्रसज्येत नित्यम् च इष्यते ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१५/२८) उगितः या नदी एवम् एतत् विज्ञायते ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१६/२८) उगितः एषा नदी ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१७/२८) उगितः या परा ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१८/२८) अत्र च एव दोषः भवति उगितः हि एषा परा नदी ऐषुमतितरायाम् च प्राप्नोति ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-१९/२८) उगितः परा या विहिता ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२०/२८) उगितः एषा विहिता ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२१/२८) उगितः इति एवम् या विहिता ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२२/२८) एवम् अपि भोगवतितरायाम् दोषः भवति ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२३/२८) भोगवतितरा भोगवतीतरा ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२४/२८) तस्मात् उगितः या नदी उगितः या विहिता इति एवम् एतत् विज्ञास्यते ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२५/२८) एवम् विज्ञायमाने शातनितरायाम् दोषः एव । सिद्धम् तु युवोः अनुनासिकत्वात् सिद्धम् एतत् ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२६/२८) कथम् ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२७/२८) यकारवकारयोः एव इदम् अनुनासिकयोः ग्रहणम् ।

(पा-७,१.१.४; अकि-३,२४०.१-१६; रो-५,९-१०; भा-२८/२८) सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१/३२) आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् । आयनादिषु उपदेशिवद्भावः वक्तव्यः ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२/३२) उपदेशावस्थायाम् आयनादयः भवन्ति इति वक्तव्यम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-३/३२) किम् प्रयोजनम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-४/३२) स्वरसिद्ध्यर्थम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-५/३२) उपदेशावस्थायाम् आयनादिषु इष्टः स्वरः यथा स्यात् इति ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-६/३२) शिलेयम् तैत्तिरीयः ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-७/३२) अक्रियमाणे हि उपदेशिवद्भावे प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आन्तर्यतः आदेशाः अस्वरकाणाम् अस्वरकाः स्युः ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-८/३२) न वा क्व चित् चित्करणात् उपदेशिवद्वचनानर्थक्यम् न वा वक्तव्यम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-९/३२) किम् कारणम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१०/३२) क्व चित् चित्करणात् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-११/३२) यत् अयम् क्व चित् घादीन् चितः करोति अग्रात् यत् घच्छौ च तत् ज्ञापयति आचार्यः उपदेशावस्थायाम् आयनादयः भवन्ति इति ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१२/३२) कथम् कृत्वा ज्ञापकम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१३/३२) चित्करणे एतत् प्रयोजनम् चितः इति अन्तोदात्तत्वम् यथा स्यात् इति ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१४/३२) यदि च उपदेशावस्थायाम् आयनादयः भवन्ति ततः चित्करणम् अर्थवत् भवति । तत्र उणादिप्रतिषेधः । तत्र उणादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१५/३२) शङ्खः शाण्ढः इति । धातोः वा ईयङ्वचनात् । अथ वा यत् अयम् ऋतेः ईयङ् इति धातोः ईयङ् शास्ति तत् ज्ञापयति आचार्यः न धातुप्रत्ययानाम् आयनादयः भवन्ति इति ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१६/३२) यदि हि स्युः ऋतेः छङ् इति एव ब्रूयात् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१७/३२) सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च ऋतेः छङा सिध्यति ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१८/३२) छङि सति वलादिलक्षणः इट् प्रसज्येत ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-१९/३२) इटि कृते अनादित्वात् आदेशः न स्यात् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२०/३२) इदम् इह सम्प्रधार्यम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२१/३२) इट् क्रियताम् आदेशः इति किम् अत्र कर्तव्यम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२२/३२) परत्वात् इडागमः ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२३/३२) नित्यः आदेशः ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२४/३२) कृते अपि इटि प्राप्नोति अकृते अपि ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२५/३२) अनित्यः आदेशः न हि कृते इटि प्राप्नोति ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२६/३२) किम् कारणम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२७/३२) अनादित्वात् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२८/३२) अन्तरङ्गः तर्हि आदेशः ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-२९/३२) का अन्तरङ्गता ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-३०/३२) इदानीम् एव हि उक्तम् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-३१/३२) तत् एतत् ऋतेः ईयङ्वचनम् ज्ञापकम् एव न धातुप्रत्ययानाम् आयनादयः भवन्ति इति । प्रातिपदिकविज्ञानात् च पाणिनेः सिद्धम् प्रातिपदिकविज्ञानात् च भगवतः पाणिनेः आचार्यस्य सिद्धम् ।

(पा-७,१.२; अकि-३,२४०.१७-२४१.२१; रो-५,११.२-१३.२; भा-३२/३२) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१/४९) झादेशे धात्वन्तप्रतिषेधः झादेशे धात्वन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२/४९) उज्झिता उज्झितुम् इति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३/४९) प्रत्ययाधिकारात् सिद्धम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४/४९) प्रत्ययग्रहणम् प्रकृतम् अनुवर्तते ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-५/४९) क्व प्रकृतम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-६/४९) आयनेयीनीयियः फडखछघाम् प्रत्ययादीनाम् इति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-७/४९) प्रत्ययाधिकारात् सिद्धम् इति चेत् अनादेः आदेशवचनम् । प्रत्ययाधिकारात् सिद्धम् इति चेत् अनादेः आदेशः वक्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-८/४९) अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-९/४९) एवम् तर्हि प्रत्ययग्रहणम् अनुवर्तते आदिग्रहणम् निवृत्तम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१०/४९) कथम् पुनः समासनिर्दिष्टानाम् एकदेशः अनुवर्तते एकदेशः वा निवर्तते ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-११/४९) असमासनिर्देशात् सिद्धम् । असमासनिर्देशः करिष्यते ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१२/४९) प्रत्ययस्य आदीनाम् इति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१३/४९) सः तर्हि असमासनिर्देशः कर्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१४/४९) न कर्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१५/४९) क्रियते न्यासे एव ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१६/४९) कथम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१७/४९) अविभक्तिकः निर्देशः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१८/४९) प्रत्यय आदीनाम् इति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-१९/४९) तत्र शयान्तै इति अनकारान्तत्वात् अङ्गस्य आद्भावप्रतिषेधः । तत्र एतस्मिन् प्रत्ययग्रहणे अनुवर्तमाने आदिग्रहणे निवृत्ते शयान्तै इति अनकारान्तत्वात् अङ्गस्य आद्भावः प्राप्नोति तस्य प्रतिषेधः वक्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२०/४९) सिद्धम् अनानन्तर्यात् अनकारान्तेन अद्भावनिवृत्तिः । सिद्धम् एतत् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२१/४९) कथम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२२/४९) अनानन्तर्यात् अनकारान्तेन अद्भावः न भविष्यति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२३/४९) कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२४/४९) अनकारान्तग्रहणम् प्रत्ययविशेषणम् इति कृत्वा चोदितम् झकारविशेषणम् इति कृत्वा परिहारः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२५/४९) यदि अनकारान्तग्रहणम् झकारविशेषणम् शेरते अत्र न प्राप्नोति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२६/४९) तत्र रुटि सन्नियोगवचनात् सिद्धम् । तत्र रुटि सन्नियोगः करिष्यते ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२७/४९) कः एषः यत्नः चोद्यते सन्नियोगः नाम ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२८/४९) चकारः कर्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-२९/४९) रुट् च ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३०/४९) किम् च ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३१/४९) यत् च अन्यत् प्राप्नोति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३२/४९) किम् च अन्यत् प्राप्नोति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३३/४९) अद्भावः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३४/४९) सः तर्हि चकारः कर्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३५/४९) न कर्तव्यः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३६/४९) योगविभागः करिष्यते ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३७/४९) शीङः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३८/४९) शीङः उत्तरस्य झस्य अत् भवति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-३९/४९) ततः रुट् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४०/४९) रुट् च भवति शीङः इति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४१/४९) एवम् अपि पर्यायः प्रसज्येत ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४२/४९) एवम् तर्हि अच्शब्दस्य रुटम् वक्ष्यामि ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४३/४९) तत् अच्शब्दग्रहणम् कर्तव्यम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४४/४९) न कर्तव्यम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४५/४९) प्रकृतम् अनुवर्तते ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४६/४९) क्व प्रकृतम् ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४७/४९) अत् अभ्यस्तात् इति ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४८/४९) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-७,१.३; अकि-३,२४१.२३-२४२.२६; रो-५,१३.४-१५.५; भा-४९/४९) शीङः इति एषा पञ्चमी अत् इति प्रथमायाः षष्ठी प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१/४२) रुटि दृशिगुणप्रतिषेधः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२/४२) रुटि दृशिगुणः प्राप्नोति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३/४२) अदृश्रन् अस्य केतवः इति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-४/४२) तस्य प्रतिषेधः वक्तव्यः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-५/४२) परस्मिन् इति क्ङिति च इति प्रतिषेधः भविष्यति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-६/४२) एवम् अपि अदृश्रम् अस्य केतवः इति अत्र प्राप्नोति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-७/४२) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-८/४२) पूर्वान्ते शीङः गुणविधिः पूर्वान्ते शीङः गुणः विधेयः ॒ शेरते ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-९/४२) सूत्रम् च भिद्यते ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१०/४२) यथान्यासम् एव अस्तु ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-११/४२) ननु च उक्तम् रुटि दृशिगुणप्रतिषेधः इति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१२/४२) पूर्वान्ते अपि एषः दोषः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१३/४२) कथम् ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१४/४२) अयम् दृशिगुणः प्रतिषेधविषये आरभ्यते सः यथा एव क्ङिति च इति एतम् प्रतिषेधम् बाधते एवम् अनुपधायाः अपि प्रसज्येत ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१५/४२) तस्मात् उभाभ्याम् दृशेः अक्प्रत्ययान्तरम् वक्तव्यम् पितरम् च दृशेयम् मातरम् च दृशेयम् इति एवम् अर्थम् ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१६/४२) झादेशात् आट् लेटि झादेशात् आट् लेटि भवति विप्रतिषेधेन ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१७/४२) झादेशस्य अवकाशः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१८/४२) लुनते लुनताम् अलुनत ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-१९/४२) आटः अवकाशः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२०/४२) पताति दिद्युत् ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२१/४२) उदधिम् च्यावयाति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२२/४२) इह उभयम् प्राप्नोति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२३/४२) अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२४/४२) आट् लेटि भवति विप्रतिषेधेन ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२५/४२) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२६/४२) न वा नित्यत्वात् आटः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२७/४२) न वा वक्तव्यः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२८/४२) किम् कारणम् ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-२९/४२) नित्यत्वात् आटः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३०/४२) नितः आडागमः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३१/४२) सः कथम् नित्यः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३२/४२) यदि अनकारान्तग्रहणम् झकारविशेषणम् ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३३/४२) अथ हि प्रत्ययविशेषणम् झादेशः अपि नित्यः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३४/४२) अन्तरङ्गलक्षणत्वात् च ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३५/४२) अन्तरङ्गः खलु अपि आडागमः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३६/४२) कथम् अन्तरङ्गः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३७/४२) यदि प्राक् लादेशात् धात्वधिकारः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३८/४२) अथ हि लादेशे धात्वधिकारः अनुवर्तते उभयम् समानाश्रयम् ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-३९/४२) यदि एव अनकारान्तग्रहणम् प्रत्ययविशेषणम् अथ अपि लादेशे धात्वधिकारः अनुवर्तते उभयथा अपि पूर्वविप्रतिषेधेन न अर्थः ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-४०/४२) कथम् ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-४१/४२) बहुलम् छन्दसि इति एवम् अत्र शपः लुक् न भविष्यति ।

(पा-७,१.६; अकि-३,२४३.२-२४४.२; रो-५,१५.७-१७.६; भा-४२/४२) तत्र अनतः इति प्रतिषेधः भविष्यति ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-१/१५) इदम् बहुलम् छन्दसि इति द्विः क्रियते ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-२/१५) एकम् शक्यम् अकर्तुम् ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-३/१५) कथम् ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-४/१५) यदि तावत् पूर्वम् क्रियते परम् न करिष्यते ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-५/१५) अतः भिसः ऐस् इति अत्र बहुलम् छन्दसि इति एतत् अनुवर्तिष्यते ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-६/१५) अथ परम् क्रियते पूर्वम् न करिष्यते ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-७/१५) बहुलम् छन्दसि इति अत्र रुट् अपि अनुवर्तिष्यते ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-८/१५) अपरः आह ॒ उभे बहुलग्रहणे एकम् छन्दोग्रहणम् शक्यम् अकर्तुम् ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-९/१५) कथम् ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-१०/१५) इदम् अस्ति ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-११/१५) वेत्तेः विभाषा ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-१२/१५) ततः छन्दसि ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-१३/१५) छन्दसि च विभाषा ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-१४/१५) ततः अतः भिसः ऐस् भवति ।

(पा-७,१.७-१०; अकि-३,२४४.७-१२; रो-५,१७.११-१७; भा-१५/१५) छन्दसि विभाषा इति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-१/९) इह वृक्षैः प्लक्षैः इति परत्वात् एत्त्वम् प्राप्नोति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-२/९) ऐस्भावः इदानीम् क्व भविष्यति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-३/९) कृते एत्त्वे भौतपूर्व्यात् ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-४/९) कृते एत्त्वे भूतपूर्वमकारान्तम् इति ऐस् भविष्यति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-५/९) ऐस् तु नित्यः तथा सति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-६/९) एवम् सति नित्यः ऐस्भावः कृते अपि एत्त्वे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-७/९) नित्यत्वात् ऐस्त्वे कृते विहतनिमित्तत्वात् एत्त्वम् न भविष्यति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-८/९) एत्त्वम् भिसि परत्वात् चेत् अतः ऐस् क्व भविष्यति ।

(पा-७,१.९; अकि-३,२४४.१४-२१; रो-५,१८.२-९; भा-९/९) कृते एत्त्वे भौतपूर्व्यात् ऐस् तु नित्यः तथा सति ।

(पा-७,१.११; अकि-३,२४५.२-३; रो-५,१८.११-१३; भा-१/७) इमौ द्वौ प्रतिषेधौ उच्येते ।

(पा-७,१.११; अकि-३,२४५.२-३; रो-५,१८.११-१३; भा-२/७) उभौ शक्यौ अवक्तुम् ।

(पा-७,१.११; अकि-३,२४५.२-३; रो-५,१८.११-१३; भा-३/७) कथम् ।

(पा-७,१.११; अकि-३,२४५.२-३; रो-५,१८.११-१३; भा-४/७) एवम् वक्ष्यामि ।

(पा-७,१.११; अकि-३,२४५.२-३; रो-५,१८.११-१३; भा-५/७) इदमदसोः कात् इति ।

(पा-७,१.११; अकि-३,२४५.२-३; रो-५,१८.११-१३; भा-६/७) तन्नियमार्थम् भविष्यति ।

(पा-७,१.११; अकि-३,२४५.२-३; रो-५,१८.११-१३; भा-७/७) इदमदसोः कात् एव न अन्यतः इति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१/३८) किमर्थम् इनादेशः उच्यते न नादेशः एव उच्येत ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२/३८) का रूपसिद्धिः ॒ वृक्षेण प्लक्षेण ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३/३८) एत्त्वे योगविभागः करिष्यते ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-४/३८) कथम् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-५/३८) इदम् अस्ति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-६/३८) बहुवचने झलि एत् ओसि च ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-७/३८) ततः आङि च ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-८/३८) आङि च परतः अतः एत्त्वम् भवति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-९/३८) वृक्षेण प्लक्षेण ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१०/३८) ततः आपः सम्बुद्धौ च ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-११/३८) आपः आङि च ओसि च इति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१२/३८) न एवम् शक्यम् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१३/३८) इह हि अनेन इति इद्रूपलोपः प्रसज्येत ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१४/३८) झलि लोपः करिष्यते ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१५/३८) न शक्यः झलि लोपः कर्तुम् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१६/३८) इह हि दोषः स्यात् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१७/३८) अया विष्टा इति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१८/३८) एवम् तर्हि अन्लोपापवादः विज्ञास्यते ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-१९/३८) कथम् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२०/३८) एवम् वक्ष्यामि ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२१/३८) अन् ने च अपि च इति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२२/३८) तत् नकारग्रहणम् कर्तव्यम् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२३/३८) न कर्तव्यम् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२४/३८) क्रियते न्यासे एव ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२५/३८) लुपनिर्दिष्टः नकारः ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२६/३८) यदि एवम् न उपधायाः इति दीर्घत्वम् प्राप्नोति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२७/३८) सौत्रः निर्देशः ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२८/३८) अथ वा नपुंसकनिर्देशः करिष्यते ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-२९/३८) अथ किमर्थम् आत् उच्यते न अत् एव उच्येत ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३०/३८) का रूपसिद्धिः वृक्षात् ॒ प्लक्षात् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३१/३८) सवर्णदीर्घत्वेन सिद्धम् ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३२/३८) न सिध्यति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३३/३८) अतः गुणे पररूपम् इति पररूपत्वम् प्राप्नोति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३४/३८) अकारोच्चारणसामर्थ्यात् न भविष्यति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३५/३८) यदि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३६/३८) न एषः दोषः ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३७/३८) यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।

(पा-७,१.१२; अकि-३,२४५.५-२०; रो-५,१८.१५-२०.३; भा-३८/३८) पररूपम् प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-१/९) किम् इदम् चतुर्थ्येकवचनस्य ग्रहणम् आहोस्वित् सप्तम्येकवचनस्य ग्रहणम् ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-२/९) कुतः सन्देहः ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-३/९) समानः निर्देशः ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-४/९) चतुर्थ्येकवचनस्य ग्रहणम् ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-५/९) कथम् ज्ञायते ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-६/९) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-७/९) इह अपि तर्हि चतुर्थ्येकवचनस्य ग्रहणम् स्यात् ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-८/९) ङेः आम् नद्याम्नीभ्यः ।

(पा-७,१.१३; अकि-३,२४५.२२-२४६.४; रो-५,२०.५-१०; भा-९/९) एवम् तर्हि व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति इह चतुर्थ्येकवचनय्स् अग्रहणम् व्याख्यास्यामः तत्र सप्तम्येकवचनस्य इति ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१/२९) अशः एकादिष्टात् स्मायादीनाम् उपसङ्ख्यानम् अशः एकादिष्टात् स्मायादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२/२९) अथ उ अत्र अस्मै ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-३/२९) अथ उ अत्र अस्मात् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-४/२९) अथ उ अत्र अस्मिन् इति ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-५/२९) एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-६/२९) किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः स्मायादयः ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-७/२९) न परत्वात् स्मायादिभिः भवितव्यम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-८/२९) न भवितव्यम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-९/२९) किम् कारणम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१०/२९) नित्यत्वात् एकादेशः ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-११/२९) नित्यः एकादेशः ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१२/२९) कृतेषु अपि स्मायादिषु प्राप्नोति अकृतेषु अपि ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१३/२९) नित्यत्वात् एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१४/२९) किम् उच्यते अशः इति न इह अपि कर्तव्यम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१५/२९) अत्र अस्मै ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१६/२९) अत्र अस्मात् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१७/२९) अत्र अस्मिन् इति ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१८/२९) एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-१९/२९) आनुपूर्व्या सिद्धम् एतत् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२०/२९) न अत्र अकृतेषु स्मायादिषु हलादिः विभक्तिः अस्ति हलादौ चेत् रूपलोपः न च अकृतए इद्रूपलोपे एकादेशः प्राप्नोति ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२१/२९) तत् आनुपूर्या सिद्धम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२२/२९) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२३/२९) न वा बहिरङ्गलक्षणत्वात् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२४/२९) न वा कर्तव्यम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२५/२९) किम् कारणम् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२६/२९) बहिरङ्गलक्षणत्वात् ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२७/२९) बहिरङ्गलक्षणः एकादेशः ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२८/२९) अन्तरङ्गाः स्मायादयः ।

(पा-७,१.१४; अकि-३,२४६.६-१९; रो-५,२१.२-१५; भा-२९/२९) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-१/९) किमर्थम् शीभावः शिभावः च उच्यते न शिभावः एव उच्येत ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-२/९) का रूपसिद्धिः ॒ ते ये के ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-३/९) आद्गुणेन सिद्धम् ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-४/९) न एवम् शक्यम् ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-५/९) इह हि त्रपुणी जतुनी दीर्घश्रवणम् न स्यात् ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-६/९) एवम् तर्हि शीभवः एव उच्यताम् ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-७/९) न एवम् शक्यम् ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-८/९) इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणम् न स्यात् ।

(पा-७,१.१७, २०; अकि-३,२४६.२३-२४७.३; रो-५,२१.१८-२१; भा-९/९) तस्मात् शीभावः शिभावः च वक्तव्यः ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१/२१) किमर्थः ङकारः ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-२/२१) सामान्यग्रहणार्थः ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-३/२१) औ , इति उच्यमाने प्रथमाद्विवचनस्य एव स्यात् ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-४/२१) अथ अपि औट् इति उच्यते एवम् अपि द्वितीयाद्विवचनस्य एव स्यात् ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-५/२१) अस्ति प्रयोजनम् एतत् ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-६/२१) किम् तर्हि इति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-७/२१) ङित्कार्यम् तु प्राप्नोति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-८/२१) खट्वे माले ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-९/२१) याट् आपः इति याट् प्राप्नोति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१०/२१) न एषः दोषः ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-११/२१) न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङिति इति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१२/२१) कथम् तर्हि ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१३/२१) ङः एव इत् ङित् ङिति इति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१४/२१) एवम् सति वर्णग्रहणम् इदम् भवति वर्णग्रहणेषु च एतत् भवति यस्मिन् विधिः तदादौ अल्ग्रहणे इति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१५/२१) न दोषः भवति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१६/२१) अथ वा वर्णग्रहणम् इदम् भवति न च एतत् वर्णग्रहणेषु भवति ॒ अननुबन्धकग्रहणे न सानुबन्धकस्य इति ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१७/२१) अथ वा पूर्वसूत्रनिर्देशः अयम् पूर्वसूत्रेषु च ये अनुबन्धाः न तैः इह इत्कार्याणि क्रियन्ते ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१८/२१) औकारः अयम् शीविधौ ङित् गृहीतः ङित् च अस्माकम् न अस्ति कः अयम् प्रकारः ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-१९/२१) सामान्यार्थः तस्य च आसञ्जने अस्मिन् ङित्कार्यम् ते श्याम् प्रसक्तम् सः दोषः ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-२०/२१) ङित्त्वे विद्यात् वर्णनिर्देशमात्रम् वर्णे यत् स्यात् तत् च विद्यात् तदादौ ।

(पा-७,१.१८; अकि-३,२४७.५-१६; रो-५,२२.२-२३.६; भा-२१/२१) वर्णः च अयम् तेन ङित्त्वे अपि अदोषः निर्देशः अयम् पूर्वसूत्रेण वा स्यात् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१/३४) औशघौ । औशघौ इति वक्तव्यम् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२/३४) किम् इदम् अघौ इति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-३/३४) अनुत्तरपदे इति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-४/३४) किम् प्रयोजनम् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-५/३४) इह मा भूत् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-६/३४) अष्टपुत्रः अष्टभार्यः इति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-७/३४) अस्तु लुक् तत्र ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-८/३४) अस्तु अत्र औश्त्वम् लुक् भविष्यति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-९/३४) षड्भ्यः अपि एवम् प्रसज्यते ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१०/३४) इह अपि तर्हि प्राप्नोति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-११/३४) अष्टौ तिष्ठन्ति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१२/३४) अष्टौ पश्य इति । अपवादः ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१३/३४) अपवादत्वात् अत्र औश्त्वम् लुकम् बाधिष्यते ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१४/३४) इह अपि तर्हि बाधेत ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१५/३४) अष्टपुत्रः अष्टभार्यः ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१६/३४) यस्य विषये ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१७/३४) यस्य लुकः विषये औश्त्वम् तस्य अपवादः ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१८/३४) यः वा तस्मात् अनन्तरः ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-१९/३४) अथ वा अनन्तरस्य लुकः बाधकम् भविष्यति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२०/३४) कुतः एतत् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२१/३४) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२२/३४) अथ इह कस्मात् न भवति औश्त्वम् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२३/३४) अष्ट तिष्ठन्ति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२४/३४) अष्ट पश्य इति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२५/३४) आत्वम् यत्र तु तत्र औश्त्वम् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२६/३४) यत्र एव आत्वम् तत्र एव औश्त्वेन भवितव्यम् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२७/३४) कुतः एतत् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२८/३४) तथा हि अस्य ग्रहः कृतः ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-२९/३४) तथा हि अस्य आत्वभूतस्य ग्रहणम् क्रियते ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-३०/३४) अष्टाभ्यः इति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-३१/३४) ननु च नित्यम् आत्वम् ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-३२/३४) एतत् एव ज्ञापयति आचार्यः विभाषात्वम् इति यत् अयम् आत्वभूतस्य ग्रहणम् करोति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-३३/३४) अष्टाभ्यः इति ।

(पा-७,१.२१; अकि-३,२४७.१८-२४८.१८; रो-५,२३.८-२५.१३; भा-३४/३४) इतरथा हि अष्टनः इति एव ब्रूयात्

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१/३७) स्वमोः लुक् त्यदादिभ्यः च स्वमोः लुक् त्यदादिभ्यः च इति वक्तव्यम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२/३७) इह अपि यथा स्यात् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३/३७) तत् ब्राह्मणकुलम् इति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-४/३७) कृते हि अत्वे न लुक् भवेत् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-५/३७) अत्वे कृते लुक् न प्राप्नोति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-६/३७) इदम् इह सम्प्रधार्यम् ॒ अत्वम् क्रियताम् लुक् इति किम् अत्र कर्तव्यम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-७/३७) परत्वात् अत्वम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-८/३७) नित्यः लुक् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-९/३७) कृते अपि अत्वे प्राप्नोति अकृते अपि ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१०/३७) अनित्यः लुक् न हि कृते अत्वे प्राप्नोति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-११/३७) अतः अम् इति अम्भावेन भवितव्यम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१२/३७) तस्मात् त्यदादिभ्यः च इति वक्तव्यम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१३/३७) इदम् विचार्यते ॒ शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् वा स्यात् अर्थग्रहणम् वा इति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१४/३७) कः च अत्र विशेषः ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१५/३७) शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१६/३७) शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः वक्तव्यः ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१७/३७) बहुत्रपुः बहुत्रपू बहुत्रपवः इति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१८/३७) अस्तु तर्हि अर्थग्रहणम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-१९/३७) यदि अर्थग्रहणम् प्रियसक्थ्ना ब्राह्मणेन इति अनङ् न प्राप्नोति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२०/३७) अस्तु तर्हि शब्दग्रहणम् एव ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२१/३७) ननु च उक्तम् शिशीलुग्नुम्बिधिषु नपुंसकग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः इति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२२/३७) सिद्धम् तु प्रकृतार्थविशेषणत्वात् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२३/३७) सिद्धम् एतत् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२४/३७) कथम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२५/३७) प्रकृतस्य अर्थः विशेष्यते ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२६/३७) किम् च प्रकृतम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२७/३७) अङ्गम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२८/३७) अङ्गस्य शिशीलुग्नुमः भवन्ति नपुंसके वर्तमानस्य ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-२९/३७) कथम् प्रियसक्थ्ना ब्राह्मणेन ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३०/३७) अस्थ्यादिषु शब्दग्रहणम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३१/३७) अस्थ्यादिषु नपुंसकग्रहणम् शब्दग्रहणम् द्रष्टव्यम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३२/३७) युक्तम् पुनः इदम् विचारयितुम् ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३३/३७) ननु अनेन असन्दिग्धेन अर्थग्रहणेन भवितव्यम् न हि नपुंसकम् नाम शब्दः अस्ति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३४/३७) किम् तर्हि उच्यते अस्थ्यादिषु शब्दग्रहणम् इति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३५/३७) अत्र अपि अर्थग्रहणम् एव ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३६/३७) अत्र एतावान् सन्देहः क्व प्रकृतस्य अर्थः विशेष्यते क्व गृह्यमाणस्य इति ।

(पा-७,१.२३; अकि-३,२४८.२०-२४९.१८; रो-५,२६.२-२८.६; भा-३७/३७) शिशीलुग्नुम्विधिषु प्रकृतस्य अर्थः विशेष्यते अस्थ्यादिषु गृह्यमाणस्य ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-१/१६) अद्भावे पूर्वसवर्णप्रतिषेधः ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-२/१६) अद्भावे पूर्वसवर्णस्य प्रतिषेधः वक्तव्यः ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-३/१६) कतरत् तिष्ठति , कतरत् पश्य ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-४/१६) सिद्धम् अनुनासिकोपधत्वात् ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-५/१६) सिद्धम् एतत् ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-६/१६) कथम् ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-७/१६) अनुनासिकोपधः अच्शब्दः करिष्यते ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-८/१६) दुक्करणात् वा ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-९/१६) अथ वा दुग्डतरादीनाम् इति वक्ष्यति ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-१०/१६) डित्करणात् वा ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-११/१६) अथ वा डिद् अच्छब्दः करिष्यते ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-१२/१६) सः तर्हि डकारः कर्तव्यः ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-१३/१६) न कर्तव्यः ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-१४/१६) क्रियते न्यासे एव ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-१५/१६) द्विडकारकः निर्देशः ।

(पा-७,१.२५; अकि-३,२४९.२०-२५०.५; रो-५,२८.८-२९.५; भा-१६/१६) अद्ड्डतरादिभ्यः इति