व्याकरणमहाभाष्य खण्ड 75

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-१/१३) इतरात् छन्दसि प्रतिषेधः एकतरात् सर्वत्र ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-२/१३) इतरात् छन्दसि प्रतिषेधः एकतरात् सर्वत्र इति वक्तव्यम् ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-३/१३) एकतरम् तिष्ठति , एकतरम् पश्य ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-४/१३) नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः विप्रतिषेधेन । नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-५/१३) नपुंसकादेशानाम् अवकाशः ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-६/१३) त्रपु , त्रपुणी , त्रपूणि ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-७/१३) युष्मदस्मदोः विभक्त्यादेशानाम् अवकाशः ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-८/१३) त्वम् ब्राह्मणः , अहम् ब्राह्मणः , युवाम् ब्राह्मणौ , आवाम् ब्राह्मणौ , यूयाम् ब्राह्मणाः वयम् ब्राह्मणाः ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-९/१३) इह उभयम् प्राप्नोति ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-१०/१३) त्वम् ब्राह्मणकुलम् , अहम् ब्राह्मणकुलम् , युवाम् ब्राह्मणकुले , आवाम् ब्राह्मणकुले , यूयम् ब्राह्मणकुलानि , वयम् ब्राह्मणकुलानि ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-११/१३) युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-१२/१३) अथ इदानीम् युष्मदस्मदोः विभक्त्यादेशेषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुम्विधयः कस्मात् न भवन्ति ।

(पा-७,१.२६; अकि-३,२५०.७-२५०.१८; रो-५,२९.७-३०.८; भा-१३/१३) सकृद्गतौ विप्रतिषेधेन यत् बाधितम् तत् बाधितम् एव इति

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१/३२) किमर्थः शकारः ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२/३२) सर्वादेशार्थः ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-३/३२) शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-४/३२) न एतत् अस्ति प्रयोजनम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-५/३२) अक्रियमाणे अपि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य अकारे कृते त्रयाणाम् अकाराणाम् अतः गुणे पररूपत्वे सिद्धम् रूपम् स्यात् ॒ तव स्वम् , मम स्वम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-६/३२) यदि एतत् लभ्येत कृतम् स्यात् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-७/३२) तत् तु न लभ्यम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-८/३२) किम् कारणम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-९/३२) अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य प्रसज्येत ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१०/३२) अतः उत्तरम् पठति ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-११/३२) ङसः आदेशे शित्करणानर्थक्यम् अकारस्य अकारवचनानर्थक्यात् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१२/३२) ङसः आदेशे शित्करणम् अनर्थकम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१३/३२) किम् कारणम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१४/३२) अकारस्य अकारवचनानर्थक्यात् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१५/३२) अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१६/३२) अर्थवत्त्वादेशे लोपार्थम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१७/३२) अर्थवत्त्वकारस्य अकारवचनम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१८/३२) कः अर्थः ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-१९/३२) आदेशे लोपार्थम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२०/३२) यः सः शेषे लोपः आदेशे सः विज्ञायते ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२१/३२) ननु च आदेशः या विभक्तिः इति एवम् एतत् विज्ञायते ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२२/३२) आदेशः एषा विभक्तिः ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२३/३२) कथम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२४/३२) सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वम् न उपपद्यते ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२५/३२) तस्मात् शित्करणम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२६/३२) तस्मात् शकारः कर्तव्यः ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२७/३२) न कर्तव्यः ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२८/३२) क्रियते न्यासे एव ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-२९/३२) कथम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-३०/३२) प्रश्लिष्टनिर्देशः अयम् ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-३१/३२) अ , अ , अ , इति ।

(पा-७,१.२७; अकि-३,२५०.२०-२५१.१७; रो-५,३०.१०-३१.१४; भा-३२/३२) सः अनेकाल् शित् सर्वस्य इति सर्वस्य भविष्यति

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१/२०) प्रथमयोः इति उच्यते कयोः इदम् प्रथमयोः ग्रहणम् किम् विभक्त्योः आहोस्वित् प्रत्यययोः ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-२/२०) विभक्त्योः इति आह ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-३/२०) कथम् ज्ञायते ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-४/२०) अन्यत्र अपि हि प्रथमयोः ग्रहणे विभक्त्योः ग्रहणम् विज्ञायते न प्रत्यययोः ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-५/२०) क्व अन्यत्र ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-६/२०) प्रथमयोः पूर्वसवर्णः इति ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-७/२०) अस्ति कारणम् येन तत्र विभक्त्योः ग्रहणम् विज्ञायते ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-८/२०) किम् कारणम् ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-९/२०) अचि इति तत्र वर्तते न च अजादी प्रथमौ स्तः ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१०/२०) ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-११/२०) यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तज्ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१२/२०) इह अपि आचार्यप्रवृत्तिः ज्ञापयति विभक्त्योः ग्रहणम् इति यत् अयम् शसः न इति प्रतिषेधम् शास्ति ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१३/२०) न एषः प्रतिषेधः ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१४/२०) नत्वम् एतत् विधीयते ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१५/२०) सिद्धम् अत्र नत्वम् तस्मात् शसः नः पुंसि इति ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१६/२०) यत्र तेन न सिध्यति तदर्थम् ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१७/२०) क्व च तेन न सिध्यति ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१८/२०) स्त्रियाम् नपुंसके च ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-१९/२०) युष्मान् ब्राह्मणी पश्य , अस्मान् ब्राह्मणी पश्य , युष्मान् ब्राह्मणकुलानि पश्य , अस्मान् ब्राह्मणकुलानि पश्य इति ।

(पा-७,१.२८; अकि-३,२५१.१९-२५२.६; रो-५,३२.२-३३.८; भा-२०/२०) यत् तर्हि युष्मदस्मदोः अनादेशे द्वितीयायाम् च इति आह तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-१/१४) किम् अयम् भ्यम्शब्दः आहोस्वित् अभ्यम्शब्दः ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-२/१४) कुतः सन्देहः ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-३/१४) समानः निर्देशः ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-४/१४) किम् च अतः ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-५/१४) यदि तावत् भ्यम्शब्दः शेषे लोपः च अन्त्यस्य एत्वम् प्राप्नोति ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-६/१४) अथ अभ्यम्शब्दः शेषे लोपः च टिलोपः उदात्त्निवृत्तिस्वरः प्राप्नोति ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-७/१४) यथा इच्छसि तथा अस्तु ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-८/१४) अस्तु तावत् अभ्यम्शब्दः शेषे लोपः च अन्त्यस्य ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-९/१४) ननु च उक्तम् एत्त्वम् प्राप्नोति इति ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-१०/१४) न एषः दोषः ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-११/१४) अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति न भविष्यति ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-१२/१४) अथ वा पुनः अस्तु अभम्शब्दः शेषे लोपः च टिलोपः ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-१३/१४) ननु च उक्तम् उदात्तनिवृत्तिस्वरः प्राप्नोति इति ।

(पा-७,१.३०; अकि-३,२५२.८-१४; रो-५,३३.१०-३४.६; भा-१४/१४) न एषः दोषः उक्तम् एतत् आदौ सिद्धम् इति

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१/५०) किमर्थम् आमः ससकारस्य ग्रहणम् क्रियते न आमः आकम् इति एव उच्येत ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२/५०) केन इदानीम् ससकारस्य भविष्यति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३/५०) आमः सुट् अयम् भक्तः आम्ग्रहणेन ग्राहिष्यते ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४/५०) अतः उत्तरम् पठति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-५/५०) साम्ग्रहणम् यथागृहीतस्य आदेशवचनात् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-६/५०) साम्ग्रहणम् क्रियते ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-७/५०) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् ससकारस्य न प्राप्नोति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-८/५०) इष्यते च स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति सामः आकम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-९/५०) एवमर्थम् इदम् उच्यते ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१०/५०) न वा द्विपर्यन्तानाम् अकारवचनात् आमि सकाराभावः ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-११/५०) न वा एतत् प्रयोजनम् अस्ति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१२/५०) किम् कारणम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१३/५०) द्विपर्यन्तानाम् अकारवचनात् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१४/५०) द्विपर्यन्तानाम् हि त्यदादीनम् अत्वम् उच्यते तेन आमि सकारः न भविष्यति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१५/५०) सुट्प्रतिषेधः तु आदेशे लोपविज्ञानात् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१६/५०) सुट्प्रतिषेधः तु वक्तव्यः ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१७/५०) किम् कारणम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१८/५०) आदेशे लोपविज्ञानात् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-१९/५०) यः सः शेषे लोपः आदेशे सः विज्ञायते ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२०/५०) न वा टिलोपवचनात् आदेशे टाप्प्रतिषेधार्थम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२१/५०) न वा सुट्प्रतिषेधः वक्तव्यः ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२२/५०) किम् कारणम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२३/५०) टिलोपवचनात् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२४/५०) आदेशे यः सः शेषे लोपः टिलोपः सः वक्तव्यः ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२५/५०) किम् प्रयोजनम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२६/५०) टाप्प्रतिषेधार्थम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२७/५०) टाप् मा भूत् इति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२८/५०) सः तर्हि टिलोपः वक्तव्यः ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-२९/५०) न वा लिङ्गाभावात् टिलोपवचनानर्थक्यम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३०/५०) न वा वक्तव्यम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३१/५०) किम् कारणम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३२/५०) लिङ्गाभावात् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३३/५०) अलिङ्गे युष्मदस्मदी ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३४/५०) किम् वक्तव्यम् एतत् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३५/५०) न हि ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३६/५०) कथम् अनुच्यमानम् गंस्यते ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३७/५०) न हि अस्ति विशेषः युष्मदस्मदोः स्त्रियाम् पुंसि नपुंसके वा ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३८/५०) अस्ति कारणम् येन एतत् एवम् भवति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-३९/५०) किम् कारणम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४०/५०) यः असौ विशेषवाची शब्दः तदसान्निध्यात् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४१/५०) अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४२/५०) ननु च न एतेन एवम् भवितव्यम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४३/५०) न हि शब्दनिमित्तकेन नाम अर्थेन भवितव्यम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४४/५०) किम् तर्हि अर्थ निमित्तकेन नाम शब्देन भवितव्यम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४५/५०) तत् एतत् एवम् दृश्यताम् ॒ अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४६/५०) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४७/५०) यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह अपि तस्य विशेषः न गम्यते ॒ दृषत् समित् इति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४८/५०) तस्मात् सुट्प्रतिषेधः तस्मात् सुट्प्रतिषेधः वक्तव्यः ससकारग्रहणम् वा कर्तव्यम् ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-४९/५०) अथ क्रियमाणे अपि ससकारग्रहणे कस्मात् एव अत्र सुट् न भवति ।

(पा-७,१.३३; अकि-३,२५२.१६-२५३.२१; रो-५,३४.८-३८.४; भा-५०/५०) ससकारग्रहणसामर्थ्यात् भाविनः सुटः आदेशः विज्ञायते

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-१/११) इह पपौ, तस्थौ इति त्रीणि कार्याणि युगपत् प्राप्नुवन्ति ॒ द्विर्वचनम् एकादेशः औत्वम् इति ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-२/११) तत् यदि सर्वतः औत्वम् लभ्येत कृतम् स्यात् ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-३/११) अथ अपि द्विर्वचनम् लभ्येत एवम् अपि कृतम् स्यात् ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-४/११) तत् तु न लभ्यम् ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-५/११) किम् कारणम् ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-६/११) अत्र हि परत्वात् एकादेशः द्विर्वचनम् बाधते ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-७/११) परत्वात् औत्वम् ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-८/११) नित्यः एकादेशः औत्वम् बाधेत ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-९/११) कम् पुनः भवान् औत्वस्य अवकाशम् मत्वा आह नित्यः एकादेशः इति ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-१०/११) अनवकाशम् औत्वम् एकादेशम् बाधिष्यते ।

(पा-७,१.३४; अकि-३,२५३.२३-२५४.४; रो-५,३९.२-८; भा-११/११) औत्वे कृते द्विर्वचनम् एकादेशः इति यदि अपि परत्वात् एकादेशः स्थानिवद्भावात् द्विर्वचनम् भविष्यति

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-१/१४) विदेः वसोः कित्त्वम् ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-२/१४) विदेः वसोः कित्त्वम् वक्तव्यम् ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-३/१४) किम् प्रयोजनम् ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-४/१४) वसुग्रहणेषु लिडादेशस्य अपि ग्रहणम् यथा स्यात् ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-५/१४) किम् च कारणम् न स्यात् ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-६/१४) अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् लिडादेशस्य न प्राप्नोति ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-७/१४) सानुबन्धकः हि सः क्रियते ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-८/१४) किम् पुनः कारणम् सः सानुबन्धकः क्रियते ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-९/१४) अयम् ऋ̄कारान्तानाम् लिटि गुङः प्रतिषेधविषयः आरभ्यते सः पुनः कित्करणात् बाध्यते ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-१०/१४) आतिस्तीर्वान् , निपुपूर्वान् इति ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-११/१४) सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-१२/१४) न कर्तव्यः ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-१३/१४) क्रियते न्यासे एव ।

(पा-७,१.३६; अकि-३,२५४.६-१३; रो-५,४०.२-४१.१; भा-१४/१४) द्विसकारकः निर्देशः ॒ विदेः शतुर्वसुस्समासे अनञ्पूर्वे क्त्वः ल्यप् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१/८१) ल्यबादेशे उपदेशिवद्वचनम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२/८१) ल्यबादेशे उपदेशिवद्भावः वक्तव्यः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३/८१) उपदेशावस्थायाम् ल्यप् भवति इति वक्तव्यम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४/८१) किम् प्रयोजनम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५/८१) अनादिष्टार्थम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६/८१) अकृतेषु आदेशेषु ल्यप् यथा स्यात् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७/८१) के पुनः आदेशाः उपदेशिवद्वचनम् प्रयोजयन्ति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-८/८१) हित्वदत्त्वात्त्वेत्वेत्त्वदीर्घत्वशूडितः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-९/८१) हित्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१०/८१) हित्वा , प्रधाय ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-११/८१) हित्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१२/८१) दत्त्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१३/८१) दत्त्वा , प्रदाय ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१४/८१) दत्त्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१५/८१) आत्त्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१६/८१) खात्वा , प्रखन्य ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१७/८१) आत्त्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१८/८१) इत्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-१९/८१) स्थित्वा , प्रस्थाय ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२०/८१) इत्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२१/८१) ईत्त्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२२/८१) पीत्वा , प्रपाय ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२३/८१) ईत्त्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२४/८१) दीर्घत्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२५/८१) शान्त्वा , प्रशम्य ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२६/८१) दीर्घत्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२७/८१) शत्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२८/८१) पृष्ट्वा , आपृच्छ्य ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-२९/८१) शत्वम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३०/८१) ऊठ् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३१/८१) द्यूत्वा , प्रदीव्य ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३२/८१) ऊठ् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३३/८१) इट् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३४/८१) देवित्वा , प्रदीव्य ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३५/८१) किम् पुनः कारणम् आदेशाः तावत् भवन्ति न पुनः ल्यप् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३६/८१) न परत्वात् ल्यपा भवितव्यम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३७/८१) सन्ति च एव अत्र के चित् परे आदेशाः अपि च बहिरङ्गलक्षणत्वात् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३८/८१) बहिरङ्गः ल्यप् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-३९/८१) अन्तरङ्गाः आदेशाः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४०/८१) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४१/८१) सः तर्हि उपदेशिवद्भावः वक्तव्यः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४२/८१) न वक्तव्यः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४३/८१) आचार्यप्रवृत्तिः ज्ञापयति अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति यत् अयम् अदः जग्धिः ल्यप्ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४४/८१) स्नात्वाकालकादिषु च प्रतिषेधः स्नात्वाकालकादिषु च प्रतिषेधः वक्तव्यः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४५/८१) स्नात्वाकालकः , पीत्वास्थिरकः , भुक्त्वासुहितकः इति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४६/८१) तदन्तनिर्देशात् सिद्धम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४७/८१) तदन्तनिर्देशात् सिद्धम् एतत् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४८/८१) कथम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-४९/८१) क्त्वान्तस्य ल्यपा भवितव्यम् न च एतत् क्त्वान्तम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५०/८१) समासनिपातनात् वा ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५१/८१) अथ वा अवश्यम् अत्र समासार्थम् निपातनम् कर्तव्यम् तेन एव यत्नेन ल्यप् अपि न भविष्यति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५२/८१) अनञः वा परस्य ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५३/८१) अथ वा अनञः परस्य ल्यपा भवितव्यम् न च अत्र अनञम् पश्यामः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५४/८१) ननु च धातुः एव अनञ् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५५/८१) न धातोः परस्य भवितव्यम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५६/८१) किम् कारणम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५७/८१) नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५८/८१) नञ्युक्तम् इव युक्तम् वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञास्यते ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-५९/८१) कुतः एतत् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६०/८१) तथा हि अर्थः गम्यते ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६१/८१) तत् यथा ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६२/८१) अब्राह्मणम् आनय इति उक्ते ग्राह्मणसदृशम् पुरुषम् आनयति न असौ लोष्टम् आनीय कृती भवति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६३/८१) एवम् इह अपि अनञ् इति नञ्प्रतिषेधात् अन्यस्मात् अनञौ नञ्सदृशात् कार्यम् विज्ञास्यते ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६४/८१) किम् च अन्यत् अनञ् नञ्सदृशम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६५/८१) पदम् इति आह ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६६/८१) अथ वा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति एवम् धातुः अपि क्त्वाग्रहणेन ग्राहिष्यते ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६७/८१) ननु च इयम् अपि परिभाषा अस्ति ॒ कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सा अपि इह उपतिष्ठते ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६८/८१) तत्र कः दोषः ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-६९/८१) इह न स्यात् ॒ प्रकृत्य प्रहृत्य ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७०/८१) क्व तर्हि स्यात् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७१/८१) परमकृत्वा , उत्तमकृत्वा ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७२/८१) न वै अत्र इष्यते ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७३/८१) अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७४/८१) गतिकारकपूर्वस्य एव इष्यते ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७५/८१) कुतः न खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति कृद्ग्रहणे गतिकारकपूर्वस्य इति च इयम् इह परिभाषा भवति प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इयम् न भवति कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७६/८१) आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति यत् अयम् अनञ् इति प्रतिषेधम् शास्ति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७७/८१) कथम् कृत्वा ज्ञापकम् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७८/८१) अयम् हि नञ् न गतिः न च कारकम् तत्र कः प्रसङ्गः यत् नञ्पूर्वस्य स्यात् ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-७९/८१) पश्यति तु आचार्यः इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति ततः अनञ् इति प्रतिषेधम् शास्ति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-८०/८१) किम् नञः प्रतिषेधेन न गतिः न च कारकम् यावता नञि पूर्वे तु ल्यब्भावः न भविष्यति ।

(पा-७,१.३७; अकि-३,२५४.१५-२५६.११; रो-५,४१-४७; भा-८१/८१) प्रतिषेधात् तु जानीमः तत्पूर्वम् न इह गृह्यते प्रत्यय्ग्रहणे यावत् तावत् भवितुम् अर्हति

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१/३६) सुपाम् च सुपः भवन्ति इति वक्तव्यम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२/३६) युक्ता माता आसीत् भुरि दक्षिणायाः दक्षिणायाम् इति प्राप्ते ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३/३६) तिङाम् च तिङः भवन्ति इति वक्तव्यम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-४/३६) चषालम् ये , अश्वयूपाय तक्षति तक्षन्ति इति प्राप्ते ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-५/३६) लुकि किम् उदाहरणम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-६/३६) आर्द्रे चर्मन् , लोहिते चर्मन् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-७/३६) न एतत् अस्ति ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-८/३६) पूर्वसवर्णेन अपि एतत् सिद्धम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-९/३६) इदम् तर्हि ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१०/३६) यत् स्थवीयसः आवसन् उत सप्त साकम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-११/३६) ननु च एतत् अपि पूर्वसवर्णेन एव सिद्धम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१२/३६) न सिध्यति ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१३/३६) यदि अत्र पूर्वसवर्णः स्यात् त्यदाद्यत्वम् प्रसज्येत ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१४/३६) इदम् च अपि उदाहरणम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१५/३६) आर्द्रे चर्मन् , लोहिते चर्मन् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१६/३६) ननु च उक्तम् पूर्वसवर्णेन अपि एतत् सिद्धम् इति ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१७/३६) न सिध्यति ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१८/३६) यदि अत्र पूर्वसवर्णः स्यात् आन्तर्यतः दकारः प्रसज्येत ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-१९/३६) अस्तु ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२०/३६) संयोगान्तलोपेन सिद्धम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२१/३६) इयाडियाजीकाराणाम् उपसङ्ख्यानम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२२/३६) इयाडियाजीकाराणाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२३/३६) दार्विया परिज्मन् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२४/३६) इया ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२५/३६) डियाच् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२६/३६) सुक्षेत्रिया , सुगातुया ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२७/३६) डियाच् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२८/३६) ईकार ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-२९/३६) दृतिम् न शुष्कम् सरसी शयानम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३०/३६) आङयाजयाराम् च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३१/३६) आङ् , प्र बाहवा ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३२/३६) अयाच् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३३/३६) स्वप्नया सचसे जनम् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३४/३६) अयाच् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३५/३६) अयार् ।

(पा-७,१.३९; अकि-३,२५६.१३-२५७.२; रो-५,४७-४९; भा-३६/३६) सः नः सिन्धुम् इव नावया

(पा-७,१.४०; अकि-३,२५७.४-१८; रो-५,४९.४-५०.३; भा-१/२) किमर्थः शकारः ।

(पा-७,१.४०; अकि-३,२५७.४-१८; रो-५,४९.४-५०.३; भा-२/२) शित् सर्वस्य इति

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१/२७) इह ॒ ये पूर्वासः , ये उपरासः ॒ आत् जसेः असुक् इति असुकि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२/२७) एवम् तर्हि जसि पूर्वान्तः करिष्यते ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-३/२७) यदि पूर्वान्तः क्रियते का रूपसिद्धिः ॒ ब्राह्मणासः पितरः सोम्यासः ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-४/२७) सवर्णदीघत्वेन सिद्धम् ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-५/२७) न सिध्यति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-६/२७) अतः गुणे इति पररूपत्वम् प्राप्नोति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-७/२७) अकारोच्चारणसामर्थ्यात् न भविष्यति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-८/२७) यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-९/२७) न एषः दोषः ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१०/२७) यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् न असौ बाध्यते ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-११/२७) पररूपम् च प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१२/२७) अथ वा असुट् करिष्यते ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१३/२७) एवम् अपि ये पूर्वासः ये उपरासः इति असुटि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१४/२७) न एषः दोषः ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१५/२७) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अस्य न भविष्यति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१६/२७) यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१७/२७) असुटा व्यवहितत्वात् ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१८/२७) सिध्यति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-१९/२७) सूत्रम् तर्हि भिद्यते ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२०/२७) यथान्यासम् एव अस्तु ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२१/२७) ननु च उक्तम् ये पूर्वासः ये उपरासः असुकि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति इति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२२/२७) न एषः दोषः ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२३/२७) इदम् इह सम्प्रधार्यम् ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२४/२७) शीभावः क्रियताम् असुक् इति किम् अत्र कर्तव्यम् ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२५/२७) परत्वात् असुक् ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२६/२७) अथ इदानीम् असुकि कृते पुनः प्रसङ्गविज्ञानात् शीभावः कस्मात् न भवति ।

(पा-७,१.५०; अकि-३,२५७.२०-२५८.११; रो-५,५०.५-५१.२; भा-२७/२७) सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-१/१०) अश्ववृषयोः मैथुनेच्छायाम् ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-२/१०) अश्ववृषयोः मैथुनेच्छायाम् इति वक्तव्यम् ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-३/१०) अश्वस्यति वडवा , वृषस्यति गौः ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-४/१०) मैथुनेच्छायाम् इति किमर्थम् ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-५/१०) अश्वीयति , वृषीयति ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-६/१०) क्षीरलवणयोः लालसायाम् ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-७/१०) क्षीर्लवणयोः लालसायाम् इति वक्तव्यम् ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-८/१०) क्षीरस्यति माणवकः , लवणस्यति उष्ट्रः इति ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-९/१०) अपरः आह ॒ सर्वप्रातिपदिकेभ्यः लालसायाम् इति वक्तव्यम् दध्यस्यति मध्वस्यति इति एवमर्थम् ।

(पा-७,१.५१; अकि-३,२५८.१३-२०; रो-५,५१.४-१२; भा-१०/१०) अपरः आह॒ सुक् वक्तव्यः ॒ दधिस्यति मदुस्यति इति एवमर्थम्

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१/६८) इमे बहवः आम्शब्दाः ॒ कास्प्रत्ययात् आम् अमन्त्रे लिटि ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२/६८) ङसोसाम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३/६८) किमेत्तिङव्ययघात् आमु अद्रव्यप्रकर्षे ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४/६८) ङेः आम् नद्याम्नीभ्यः इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५/६८) कस्य इदम् ग्रहणम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६/६८) षष्ठीबहुवचनस्य ग्रहणम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-७/६८) अथ अस्य कस्मात् न भवति कास्प्रत्ययात् आम् अमन्त्रे लिटि इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-८/६८) अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-९/६८) सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः इह अस्य ग्रहणम् मा भूत् इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१०/६८) ननु च अवश्यम् मकारस्य इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-११/६८) न अर्थः इत्सञ्ज्ञापरित्राणार्थेन ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१२/६८) इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१३/६८) इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१४/६८) प्रत्ययान्तात् अयम् विधीयते तत्र न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१५/६८) यः तर्हि न प्रत्ययान्तात् इजादेशः च गुरुमतः अनृच्छः इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१६/६८) अत्र अपि आस्कासोः आम्वचनम् ज्ञापकम् न अयम् अचाम् अन्त्यात् परः भवति इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१७/६८) कथम् कृत्वा ज्ञापकम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१८/६८) न हि अस्ति विशेषः आमि अचाम् अन्त्यात् परे सति असति वा ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-१९/६८) अयम् अस्ति विशेषः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२०/६८) असति आमि द्विर्वचनेन भवितव्यम् सति न भवितव्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२१/६८) सति अपि भवितव्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२२/६८) कथम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२३/६८) आमः तन्मध्यपतितत्वात् धातुग्रहणेन ग्रहणात् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२४/६८) तत् एतत् कासासोः आम्वचनम् ज्ञापकम् एव न अयम् अचाम् अन्त्यात् परः भवति इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२५/६८) अथ अपि कथम् चित् कार्यम् स्यात् एवम् अपि न दोषः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२६/६८) क्रियते न्यासे एव ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२७/६८) आमः अमन्त्रे इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२८/६८) यदि एवम् आमा अन्त्रे इति प्राप्नोति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-२९/६८) शकन्धुन्यायेन निर्देशः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३०/६८) अथ वा अस्तु अस्य ग्रहणम् कः दोषः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३१/६८) इह कारयाञ्चकार , हरयाञ्चकार , चिकीर्षाञ्चकार , जिहीर्षाञ्चकार , ह्रस्वन्द्यापः नुट् इति नुट् प्रसज्येत ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३२/६८) लोपायादेशयोः कृतयोः न भविष्यति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३३/६८) इदम् इह सम्प्रधार्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३४/६८) लोपायादेशौ क्रियेताम् नुट् इति किम् अत्र कर्तव्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३५/६८) परत्वात् नुट् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३६/६८) नित्यौ लोपायादेशौ ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३७/६८) कृते अपि नुटि प्राप्नुतः अकृते अपि ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३८/६८) तत्र नित्यत्वात् लोपायादेशयोः कृतयोः विहतनिमित्तत्वात् नुट् न भविष्यति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-३९/६८) अथ अस्य कस्मात् न भवति किमेत्तिङव्ययघात् आमु अद्रव्यप्रकर्षे इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४०/६८) अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४१/६८) सः तर्हि एवमर्थः अनुबन्धः कर्तव्यः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४२/६८) ननु च अवश्यम् उगित्कार्यार्थः अनुबन्धः कर्तव्यः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४३/६८) न अर्थः उगित्कार्यार्थेन अनुबन्धेन ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४४/६८) लिङ्गविभक्तिप्रकरणे सर्वम् उगित्कार्यम् न च आमः लिङ्गविभक्ती स्तः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४५/६८) अव्ययम् एषः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४६/६८) मकारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४७/६८) इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४८/६८) इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-४९/६८) न एतत् अस्ति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५०/६८) घान्तात् अयम् विधीयते तत्र न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा परत्वे ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५१/६८) अथ अपि कथम् चित् इत्कार्यम् स्यात् एवम् अपि न दोषः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५२/६८) क्रियते न्यासे एव ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५३/६८) अथ वा अस्तु अस्य ग्रहणम् कः दोषः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५४/६८) इह पचतितराम् , जल्पतितराम् , ह्रस्वनद्यापः नुट् इति नुट् प्रसज्येत ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५५/६८) लोपे कृते न भविष्यति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५६/६८) इदम् इह सम्प्रधार्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५७/६८) लोपः क्रियताम् नुट् इति किम् अत्र कर्तव्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५८/६८) परत्वात् नुट् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-५९/६८) एवम् तर्हि ह्रस्वनद्यापः नुट् इति अत्र यस्य इति लोपः अनुवर्तिष्यते ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६०/६८) अथ अस्य कस्मात् न भवति ङेः आम् नद्याम्नीभ्यः इति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६१/६८) किम् च स्यात् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६२/६८) कुमार्याम् , किशोर्याम् , खट्वायाम् , मालायाम् , तस्याम् , यस्याम् इति ह्रस्वनद्यापः नुट् इति नुट् प्रसज्येत ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६३/६८) आड्याट्स्याटः अत्र बाधकाः भविष्यन्ति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६४/६८) इदम् इह सम्प्रधार्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६५/६८) आड्याट्स्याटः क्रियन्ताम् नुट् इति किम् अत्र कर्तव्यम् ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६६/६८) परत्वात् आड्याट्स्याटः ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६७/६८) अथ इदानीम् आड्याट्स्याट्सु कृतेषु पुनःप्रसङ्गात् नुट् कस्मात् न भवति ।

(पा-७,१.५२-५४; अकि-३,२५८.२४-२६०.११; रो-५,५१.१६-५४.१४; भा-६८/६८) सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-७,१.५६; अकि-३,२६०.१३-१६; रो-५,५५.२-५; भा-१/४) अयम् योगः शक्यः अवक्तुम् ।

(पा-७,१.५६; अकि-३,२६०.१३-१६; रो-५,५५.२-५; भा-२/४) कथम् श्रीणाम् उदारः धरुणः रयीणाम् , अपि तत्र सूतग्रामणीनाम् ।

(पा-७,१.५६; अकि-३,२६०.१३-१६; रो-५,५५.२-५; भा-३/४) इह तावत् श्रीणाम् उदारः धरुणः रयीणाम् विभाषा आमि नदीसञ्ज्ञा सा छन्दसि व्यवस्थितविभाषा भविष्यति ।

(पा-७,१.५६; अकि-३,२६०.१३-१६; रो-५,५५.२-५; भा-४/४) अपि तत्र सूतग्रामणीनाम् इति सूताः च ग्रामण्यः च सूतग्रामणि तत्र ह्रस्वनद्यापः नुट् इति एव सिद्धम्

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१/२३) अथ धातोः इति किमर्थम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-२/२३) अभैत्सीत् , अच्छैत्सीत् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-३/२३) नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-४/२३) नुम्विधौ उपदेशिवद्भावः वक्तव्यः ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-५/२३) उपदेशावस्थायाम् नुम् भवति इति वक्तव्यम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-६/२३) किम् प्रयोजनम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-७/२३) प्रत्ययविध्यर्थम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-८/२३) उपदेशावस्थायाम् नुमि कृते इष्टः प्रत्ययविधिः यथा स्यात् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-९/२३) कुण्डा , हुण्डा इति ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१०/२३) इतरथा हि अनकारे प्रत्ययः ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-११/२३) अक्रियमाणे हि उपदेशिवद्भावे अनकारे यः प्रत्ययः प्राप्नोति सः तावत् स्यात् तस्मिन् अवस्थिते नुम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१२/२३) तत्र कः दोषः ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१३/२३) तत्र अयथेष्टप्रसङ्गः ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१४/२३) तत्र अयथेष्टम् प्रसज्येत ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१५/२३) अनिष्टे प्रत्यये अवस्थिते नुम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१६/२३) अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१७/२३) धातुग्रहणसामर्थ्यात् वा तदुपदेशे नुम्विधानम् धातुग्रहणसामर्थ्यात् वा तदुपदेशे धातूपदेशे नुम् भविष्यति ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१८/२३) ननु च अन्यत् धातुग्रहणस्य प्रयोजनम् उक्तम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-१९/२३) किम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-२०/२३) अभैत्सीत् , अच्छैत्सीत् इति ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-२१/२३) न एतत् अस्ति प्रयोजनम् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-२२/२३) प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् ।

(पा-७,१.५८; अकि-३,२६१.२-१७; रो-५,५५.९-५६.१३; भा-२३/२३) यत् च अत्र इकारेण क्रियते अकारेण अपि तत् शक्यम् कर्तुम्

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१/१७) शे तृम्पादीनाम् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-२/१७) शे तृम्पादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-३/१७) तृम्पति , तृम्फति ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-४/१७) किमर्थम् इदम् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-५/१७) न नुमनुषक्ताः एव एते पठ्यन्ते ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-६/१७) लुप्तनकारत्वात् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-७/१७) लुप्यते अत्र नकारः अनिदिताम् हलः उपधायाः क्ङिति इति ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-८/१७) यदि पुनः इमे इदितः पठ्येरन् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-९/१७) न एवम् शक्यम् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१०/१७) इह हि लोपः न स्यात् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-११/१७) तृपितः , दृपितः इति ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१२/१७) यदि पुनः इमे मुचादिषु पठ्येरन् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१३/१७) न दोषः स्यात् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१४/१७) अथ वा न एवम् विज्ञायते इदितः नुम् धातोः इति ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१५/१७) कथम् तर्हि ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१६/१७) इदितः नुम् ।

(पा-७,१.५९; अकि-३,२६१.१९-२६२.३; रो-५,५७.२-५८.६; भा-१७/१७) ततः धातोः इति

(पा-७,१.६२; अकि-३,२६२.५-७; रो-५,५८.८-५९.२; भा-१/७) इमौ द्वौ प्रतिषेधौ उच्येते ।

(पा-७,१.६२; अकि-३,२६२.५-७; रो-५,५८.८-५९.२; भा-२/७) उभौ शक्यौ अवक्तुम् ।

(पा-७,१.६२; अकि-३,२६२.५-७; रो-५,५८.८-५९.२; भा-३/७) कथम् ।

(पा-७,१.६२; अकि-३,२६२.५-७; रो-५,५८.८-५९.२; भा-४/७) एवम् वक्ष्यामि ।

(पा-७,१.६२; अकि-३,२६२.५-७; रो-५,५८.८-५९.२; भा-५/७) इटि लिटि रधेः नुम् भवति इति ।

(पा-७,१.६२; अकि-३,२६२.५-७; रो-५,५८.८-५९.२; भा-६/७) तन्नियमार्थम् भविष्यति ।

(पा-७,१.६२; अकि-३,२६२.५-७; रो-५,५८.८-५९.२; भा-७/७) लिटि एव इडादौ न अन्यस्मिन् इडादौ इति

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-१/९) इह कस्मात् न भवति ॒ आलभ्यते ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-२/९) अस्तु ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-३/९) अनिदिताम् हलः उपधायाः क्ङिति इति लोपः भविष्यति ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-४/९) इह तर्हि आलम्भ्या गौः पोः अदुपधात् इति यति अवस्थिते नुम् ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-५/९) तत्र कः दोषः ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-६/९) आलम्भ्या* एषः स्वरः प्रसज्येत ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-७/९) आलम्भ्या* इति च इष्यते ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-८/९) न एषः दोषः ।

(पा-७,१.६५; अकि-३,२६२.९-१२; रो-५,५९.४-८; भा-९/९) उक्तम् एतत् धातुग्रहणसामर्थ्यात् उपदेशे नुम्विधानम् इति

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१/२१) अथ केवलग्रहणम् किमर्थम् न न सुदुर्भ्याम् इति एव उच्येत ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-२/२१) सुदुरोः केवलग्रहणम् अन्योपसर्गप्रतिषेधार्थम् ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-३/२१) सुदुरोः केवलग्रहणम् क्रियते अन्योपसृष्टात् मा भूत् इति ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-४/२१) प्रसुलम्भम् ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-५/२१) न एषः अस्ति प्रयोगः ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-६/२१) इदम् तर्हि ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-७/२१) सुप्रलम्भम् ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-८/२१) प्रेण व्यवहितत्वात् न भविष्यति ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-९/२१) इदम् तर्हि ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१०/२१) अतिसुलम्भम् ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-११/२१) कर्मप्रवचनीयसञ्ज्ञा अत्र बाधिका भविष्यति सुः पूजायाम् अतिः अतिक्रमणे च इति ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१२/२१) यदा तर्हि न अतिक्रमणम् न पूजा ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१३/२१) इदम् च अपि उदाहरणम् ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१४/२१) सुप्रलम्भम् ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१५/२१) ननु च उक्तम् प्रेण व्यवहितत्वात् न भविष्यति इति ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१६/२१) न एषः दोषः ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१७/२१) सुदुर्भ्याम् इति न एषा पञ्चमी ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१८/२१) का तर्हि ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-१९/२१) तृतीया ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-२०/२१) सुदुर्भ्याम् उपसृष्टस्य इति ।

(पा-७,१.६८; अकि-३,२६२.१४-२२; रो-५,५९.१०-६१.२; भा-२१/२१) व्यवहितः च अपि उपसृष्टः भवति

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-१/८) चिण्णमुलोः अनुपसर्गस्य ।

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-२/८) चिण्णमुलोः अनुपसर्गस्य इति वक्तव्यम् ।

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-३/८) इह मा भूत् ।

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-४/८) प्रालम्भि ।

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-५/८) प्रलम्भम् प्रलम्भम् ।

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-६/८) तत् तर्हि वक्तव्यम् ।

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-७/८) न वक्तव्यम् ।

(पा-७,१.६९; अकि-३,२६३.२-५; रो-५,६१.४-७; भा-८/८) इह उपसर्गात् इति अपि प्रकृतम् न इति अपि तत्र अभिसम्बन्धमात्रम् कर्तव्यम् ॒ विभाषा चिण्णमुलोः उपसर्गात् न इति

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-१/१०) अधातोः इति किमर्थम् ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-२/१०) उखास्रत् , पर्णध्वत् ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-३/१०) अधातोः इति शक्यम् अवक्तुम् ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-४/१०) कस्मात् न भवति खास्रत् , पर्णध्वत् इति ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-५/१०) उगिति अञ्चतिग्रहणात् सिद्धम् अधातोः ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-६/१०) उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-७/१०) अञ्चतिग्रहणम् नियमार्थम् भविष्यति ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-८/१०) अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-९/१०) इदम् तर्हि प्रयोजनम् अधातुभूतपूर्वस्य अपि यथा स्यात् ।

(पा-७,१.७०; अकि-३,२६३.७-१३; रो-५,६१-६२; भा-१०/१०) गोमन्तम् इच्छति गोमत्यति गोमत्यतेः अप्रत्ययः गोमान् इति

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१/७९) झलचः नुम्विधौ उगित्प्रतिषेधः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२/७९) झलचः नुम्विधौ उगिल्लक्षणस्य प्रतिषेधः वक्तव्यः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३/७९) गोमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४/७९) ननु च झल्लक्षणः उगिल्लक्षणम् बाधिष्यते ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५/७९) कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६/७९) असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७/७९) किम् च स्यात् यदि अत्र उगिल्लक्षणः अपि स्यात् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-८/७९) द्वयोः नकारयोः श्रवणम् प्रसज्येत ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-९/७९) न व्यञ्जनपरस्य एकस्य वा अनेअकस्य वा श्रवणम् प्रति विशेषः अस्ति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१०/७९) ननु च प्रतिज्ञाभेदः भवति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-११/७९) श्रुतिभेदे अस्ति किम् प्रतिज्ञाभेदः करिष्यति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१२/७९) ननु च श्रुतिकृतः अपि भेदः अस्ति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१३/७९) इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणम् प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१४/७९) तथा कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वम् प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१५/७९) अथ एकस्मिन् अपि नुमि णत्वम् कस्मात् न भवति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१६/७९) अनुस्वारीभूतः णत्वम् अतिक्रामति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१७/७९) कृते तर्हि परसवर्णे कस्मात् न भवति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१८/७९) असिद्धे च परसवर्णः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-१९/७९) विप्रतिषेधात् सिद्धम् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२०/७९) विप्रतिषेधात् सिद्धम् एतत् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२१/७९) झल्लक्षणः क्रियताम् उगिल्लक्षणः इति झल्लक्षणः भविष्यति विप्रतिषेधेन ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२२/७९) झल्लक्षणस्य अवकाशः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२३/७९) सर्पींषि , धनूंषि ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२४/७९) उगिल्लक्षणस्य अवकाशः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२५/७९) गोमान् , यवमान् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२६/७९) इह उभयम् प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२७/७९) गोमन्ति ब्राह्मणकुलानि , यवमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२८/७९) झल्लक्षणः भविष्यति विप्रतिषेधेन ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-२९/७९) ननु च पुनःप्रसङ्गविज्ञानात् उगिल्लक्षणः प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३०/७९) पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३१/७९) पुनः प्रसङ्गः इति चेत् अमादिभिः तुल्यम् एतत् भवति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३२/७९) तत् यथा ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३३/७९) युष्मदस्मदोः अमादिषु कृतेषु पुनःप्रसङ्गात् शशीलुग्नुमः न भवन्ति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३४/७९) एवम् झल्लक्षणे कृते पुनःप्रसङ्गात् उगिल्लक्षणः न भविष्यति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३५/७९) यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति सति अपि सम्भवे बाधनम् भवति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३६/७९) तत् यथा ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३७/७९) दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३८/७९) एवम् इह अपि सति अपि सम्भवे झल्लक्षणः उगिल्लक्षणम् बाधिष्यते ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-३९/७९) अथ वा अस्तु अत्र उगिल्लक्षणः अपि ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४०/७९) ननु च उक्तम् च्वयोः नकारयोः श्रवणम् प्रसज्येत इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४१/७९) परिहृतम् एतत् न व्यञ्जनपरस्य एकस्य वा अनेकस्य वा श्रवणम् प्रति विशेषः अस्ति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४२/७९) ननु च उक्तम् प्रतिज्ञाभेदः भवति इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४३/७९) श्रुतिभेदे असति प्रतिज्ञाभेदः किम् करिष्यति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४४/७९) ननु च श्रुतिकृतः अपि भेदः उक्तः इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणम् प्रसज्येत कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वम् प्राप्नोति इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४५/७९) न एषः दोषः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४६/७९) अयोगवाहानाम् अविशेषेण उपदेशः चोदितः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४७/७९) तत्र इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते तस्य झल्ग्रहणेन ग्रहणात् पूर्वस्य अनुस्वारः भविष्यति कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः तस्य झल्ग्रहणेन ग्रहणात् पूर्वस्य अनुस्वारपरसवर्णौ भविष्यतः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४८/७९) न एव वा पुनः अत्र उगिल्लक्षणः प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-४९/७९) किम् कारणम् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५०/७९) मिदचः अन्त्यात् परः इति उच्यते न च द्वयोः मितोः अचाम् अन्त्यात् परत्वे सम्भवः अस्ति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५१/७९) कथम् तर्हि इमौ द्वौ मितौ अचाम् अन्त्यात् परौ स्तः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५२/७९) बह्वनड्वांहि ब्राह्मणकुलानि इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५३/७९) विनिमित्तौ एतौ ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५४/७९) तत्र बहूर्जि प्रतिषेधः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५५/७९) तत्र बहूर्जि प्रतिषेधः वक्तव्यः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५६/७९) बहूर्जि ब्राह्मणकुलानि इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५७/७९) अन्त्यात् पूर्वम् नुमम् एके ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५८/७९) अन्त्यात् पूर्वम् नुमम् एके इच्छन्ति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-५९/७९) किम् अविशेषेण आहोस्वित् बहूर्जौ एव ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६०/७९) किम् च अतः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६१/७९) यदि अविशेषेण काष्ठतक्ंषि इति भवितव्यम् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६२/७९) अथ बहूर्जौ एव काष्ठतङ्क्षि इति भवितव्यम् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६३/७९) एवम् तर्हि बहूर्जौ एव ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६४/७९) बहूर्ञ्जि ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६५/७९) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६६/७९) न वक्तव्यः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६७/७९) अचः इति एषा पञ्चमी ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६८/७९) अचः उत्तरः यः झल् तदन्तस्य नपुंसकस्य नुमा भवितव्यम् ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-६९/७९) यः च अत्र अचः उत्तरः न असौ झल् न अपि तदन्तम् नपुंसकम् यदन्तम् च नपुंसकम् न असौ अचः उत्तरः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७०/७९) इह अपि तर्हि न प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७१/७९) काष्ठतङ्क्षि इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७२/७९) अत्र यः अचः उत्तरः झल् न तदन्तम् नपुंसकम् यदन्तम् च नपुंसकम् न असौ अचः उत्तरः ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७३/७९) न एतत् अस्ति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७४/७९) झल्जातिः प्रतिनिर्दिश्यते ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७५/७९) अचः उत्तरा या झल्जातिः इति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७६/७९) यदि पञ्चमी कुण्डानि , वनानि इति अत्र न प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७७/७९) एव तर्हि इकः अचि विभक्तौ इति अत्र अचः सर्वनामस्थाने इति एतत् अनुवर्तिष्यते ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७८/७९) एवम् अपि षष्ठ्यभावात् न प्राप्नोति ।

(पा-७,१.७२; अकि-३,२६३.१५-२६५.१६; रो-५,६२-६६; भा-७९/७९) सर्वनामस्थाने इति एषा सप्तमी अचः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति