व्याकरणमहाभाष्य खण्ड 76

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१/७४) अज्ग्रहणम् किमर्थम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२/७४) इकः अचि व्यञ्जने मा भूत् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३/७४) इकः अचि इति उच्यते व्यञ्जनादौ मा भूत् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४/७४) त्रपुभ्याम् , त्रपुभिः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५/७४) अस्तु लोपः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६/७४) अस्तु अत्र नुम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-७/७४) नलोपः प्रातिपदिकान्तस्य इति नलोपः भविष्यति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-८/७४) स्वरः कथम् पञ्चत्रपुभ्याम् , पञ्चत्रपुभ्यः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-९/७४) इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१०/७४) स्वरः वै श्रूयमाणे अपि ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-११/७४) श्रूयमाणे अपि नुमि स्वरः भवति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१२/७४) पञ्चत्रपुणा , पञ्चत्रपुणः इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१३/७४) लुप्ते किम् न भविष्यति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१४/७४) लुप्ते इदानीम् किम् न भविष्यति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१५/७४) किम् पुनः कारणम् श्रूयमाने अपि नुमि स्वरः भवति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१६/७४) सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा ततः श्रूयमाणे अपि नुमि स्वरः भवति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१७/७४) इदम् तर्हि ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१८/७४) अतिराभ्याम् , अतिराभिः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-१९/७४) नुमि कृते रायः हलि इति आत्वम् न प्राप्नोति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२०/७४) इदम् इह सम्प्रधार्यम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२१/७४) नुम् क्रियताम् आत्वम् इति किम् अत्र कर्तव्यम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२२/७४) परत्वात् आत्वम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२३/७४) इह तर्हि प्रियतिसृभ्याम् प्रियतिसृभिः नुमि कृते तिसृभावः न प्राप्नोति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२४/७४) इदम् इह सम्प्रधार्यम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२५/७४) नुम् क्रियताम् तिसृभावः इति किम् अत्र कर्तव्यम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२६/७४) परत्वात् तिसृभावः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२७/७४) अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गात् नुम् कस्मात् न भवति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२८/७४) सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-२९/७४) अतः उत्तरम् पठति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३०/७४) इकः अचि विभक्तौ अज्ग्रहणम् नुम्नुटोः विप्रतिषेधार्थम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३१/७४) इकः अचि विभक्तौ अज्ग्रहणम् क्रियते नुमः नुट् विप्रतिषेधेन यथा स्यात् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३२/७४) त्रपूणाम् , जतूनाम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३३/७४) अक्रियमाणे हि अज्ग्रहणे नित्यनिमित्तः नुम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३४/७४) कृते अपि नुटि प्राप्नोति अकृते अपि ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३५/७४) नित्यनिमित्तत्वात् नुमि कृते नुटः अभावः स्यात् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३६/७४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३७/७४) क्रियमाणे अपि वा अज्ग्रहणे अवश्यम् अत्र नुडर्थः यत्नः कर्तव्यः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३८/७४) पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-३९/७४) इदम् तर्हि प्रयोजनम् नुटि कृते नुम् मा भूत् इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४०/७४) किम् च स्यात् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४१/७४) त्रपूणाम् , जतूनाम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४२/७४) इतरथा हि नुमः नित्यनिमित्तत्वात् नुडभावः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४३/७४) नामि इति दीर्घत्वम् न स्यात् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४४/७४) मा भूत् एवम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४५/७४) नोपधायाः इति एवम् भविष्यति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४६/७४) इह तर्हि शुचीनाम् इन्हन्पूषार्यम्णाम् शौ सौ च इति अस्मात् नियमात् न प्राप्नोति दीर्घत्वम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४७/७४) अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४८/७४) न एषा परिभाषा इह शक्या विज्ञातुम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-४९/७४) इह हि दोषः स्यात् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५०/७४) वाग्मि इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५१/७४) एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५२/७४) उत्तरार्थम् च ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५३/७४) उत्तरार्थम् तर्हि अज्ग्रहणम् कर्तव्यम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५४/७४) अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः अजादौ यथा स्यात् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५५/७४) इह मा भूत् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५६/७४) अस्थिभ्याम् , अस्थिभिः इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५७/७४) यदि उत्तरार्थम् स्यात् तत्र एव अयम् अज्ग्रहणम् कुर्वीत ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५८/७४) इह क्रियमाणे यदि किम् चित् प्रयोजनम् अस्ति तत् उच्यताम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-५९/७४) इह अपि क्रियमाणे प्रयोजनम् अस्ति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६०/७४) किम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६१/७४) अजादौ यथा स्यात् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६२/७४) इह मा भूत् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६३/७४) त्रपु , जतु ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६४/७४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६५/७४) विभक्तौ इति उच्यते न च अत्र विभक्तिम् पश्यामः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६६/७४) प्रत्ययलक्षणेन ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६७/७४) न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६८/७४) एवम् तर्हि सिद्धे सति यत् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति इह कः चित् अन्यः अपि प्रकारः प्रत्ययलक्षणम् नाम इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-६९/७४) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-७०/७४) हे त्रपु , हे त्रपो ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-७१/७४) अत्र गुणः सिद्धः भवति इति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-७२/७४) इकः अचि व्यञ्जने मा भूत् अस्तु लोपः स्वरः कथम् ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-७३/७४) स्वरः वै श्रूयमाणे अपि लुप्ते किम् न भविष्यति ।

(पा-७,१.७३; अकि-३,२६५.१८-२६७.१२; रो-५,६६-६९; भा-७४/७४) रायात्वम् तिसृभावः च व्यवधानात् नुमा अपि नुट् वाच्यः उत्तरार्थम् तु इह किम् चित् त्रपः इति

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१/४९) किम् इह पुंवद्भावेन अतिदिश्यते ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२/४९) नुम्प्रतिषेधः ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३/४९) कथम् पुनः पुंवत् इति अनेन नुम्प्रतिषेधः शक्यः विज्ञातुम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४/४९) वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-५/४९) तत् यथा ॒ उशीनरवत् मद्रेषु यवाः ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-६/४९) सन्ति न सन्ति इति ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-७/४९) मातृवत् अस्याः कलाः ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-८/४९) सन्ति न सन्ति इति ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-९/४९) एवम् इह अपि पुंवत् भवति पुंवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१०/४९) यथा पुंसः न नुम् भवति एवम् तृतीयादिषु भाषितपुंस्कस्य अपि न भवति इति ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-११/४९) किम् उच्यते नुम्प्रतिषेधः इति न पुनः अन्यत् अपि पुंसः प्रतिपदम् कार्यम् उच्यते यत् तृतीयादिषु विभक्तिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१२/४९) अनारम्भात् पुंसि ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१३/४९) न हि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् तृतीयादिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१४/४९) नुम् प्रकृतः तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः नुम्प्रतिषेधात् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१५/४९) पुंवत् इति नुम्प्रतिषेधः चेत् गुणनाभावनुडौत्त्वप्रतिषेधः ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१६/४९) पुंवत् इति न्जुम्प्रतिषेधः चेत् गुणनाभावनुडौत्त्वानाम् प्रतिषेधः वक्तव्यः ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१७/४९) गुण ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१८/४९) ग्रामण्ये ब्राह्मणकुलाय ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-१९/४९) गुण ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२०/४९) नाभाव ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२१/४९) ग्रामण्या ब्राह्मणकुलेन ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२२/४९) नाभाव ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२३/४९) नुट् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२४/४९) ग्रामण्याम् ब्राह्मणकुलानाम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२५/४९) नुट् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२६/४९) औत्त्वम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२७/४९) ग्रामण्याम् ब्राह्मणकुले ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२८/४९) ह्रस्वत्वम् अप्रतिषिद्धम् ह्रस्वाश्रयाः च एते विधयः प्राप्नुवन्ति ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-२९/४९) ह्रस्वाभावार्थम् च ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३०/४९) किम् च ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३१/४९) नुम्प्रतिषेधार्थम् च ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३२/४९) कथम् पुनः अत्र अप्रकृतस्य असंशब्दितस्य ह्रस्वत्वस्य प्रतिषेधः शक्यः विज्ञातुम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३३/४९) अर्थातिदेशात् सिद्धम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३४/४९) न एवम् विज्ञायते भाष्यते पुमान् अनेन शब्देन सः अयम् भाषितपुंस्कः भाषितपुंस्कस्य शब्दस्य पुंशब्दः भवति इति ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३५/४९) कथम् तर्हि ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३६/४९) भाष्यते पुमान् अस्मिन् अर्थे सः अयम् भाषितपुंस्कः भाषितपुंस्कस्य अर्थस्य पुंवदर्थः भवति इति ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३७/४९) तद्धितलुक्प्रतिषेधः च ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३८/४९) तद्धितलुकः च प्रतिषेधः वक्तव्यः ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-३९/४९) पीलुः वृक्षः , पीलु फलम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४०/४९) पीलुना , पिलुनः इति ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४१/४९) न वा समानायाम् आकृतौ भाषितपुंस्कविज्ञानात् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४२/४९) न वा वक्तव्यम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४३/४९) किम् कारणम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४४/४९) समानायाम् आकृतौ भाषितपुंस्कविज्ञानात् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४५/४९) समानायाम् आकृतौ यत् भाषितपुंस्कम् आकृत्यन्तरे च एतत् भाषितपुंस्कम् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४६/४९) किम् वक्तव्यम् एतत् ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४७/४९) न हि ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४८/४९) कथम् अनुच्यमानम् गंस्यते ।

(पा-७,१.७४; अकि-३,२६७.१४-२६८.१४; रो-५,७०.२-७२.७; भा-४९/४९) एतत् अपि अर्थनिर्देशात् सिद्धम्

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१/२१) किम् उदाहरणम् ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-२/२१) अक्षी ते इन्द्र पिङ्गले ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-३/२१) न एतत् अस्ति ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-४/२१) पूर्वसवर्णेन अपि एतत् सिद्धम् ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-५/२१) इदम् तर्हि ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-६/२१) अक्षीभ्याम् ते नासिकाभ्याम् ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-७/२१) इदम् च अपि उदाहरणम् ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-८/२१) अक्षी ते इन्द्र पिङ्गले ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-९/२१) ननु च उक्तम् पूर्वसवर्णेन अपि एतत् सिद्धम् इति ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१०/२१) न सिध्यति ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-११/२१) नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१२/२१) छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृभ्णामि , मधोः तृप्ताः इव असतः इति एवमर्थम् ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१३/२१) पुंवद्भावेन नुमः निवृत्तिः नुमि निवृत्ते पूर्वसवर्णेन एव सिद्धम् ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१४/२१) स्वरार्थः तर्हि ईकारः वक्तव्यः ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१५/२१) उदात्तस्वरः यथा स्यात् नपुंसकस्वरः मा भूत् इति ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१६/२१) ननु च पुंवद्भावातिदेशात् एव स्वरः भविष्यति ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१७/२१) अशक्यः पुंवद्भावातिदेशः स्वरे तन्त्रम् आश्रयितुम् ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१८/२१) इह हि दोषः स्यात् ॒ मधु अस्मिन् अस्ति मधुः मासः इति ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-१९/२१) सः तर्हि पुंवद्भावः वक्तव्यः ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-२०/२१) न वक्तव्यः ।

(पा-७,१.७७; अकि-३,२६८.१६-२४; रो-५,७२.९-७३.८; भा-२१/२१) प्रकृतम् पुंवत् इति वर्तते

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-१/११) कस्य अयम् प्रतिषेधः ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-२/११) नुमः इति आह ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-३/११) तत् नुमः ग्रहणम् कर्तव्यम् ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-४/११) न कर्तव्यम् ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-५/११) प्रकृतम् अनुवर्तते ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-६/११) क्व प्रकृतम् ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-७/११) इदितः नुम् धातोः इति तत् वा अनेकग्रहणेन व्यवच्छिन्नम् अशक्यम् अनुवर्तयितुम् ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-८/११) एवम् तर्हि सर्वनामस्थाने इति वरते सर्वनामस्थाने यत् प्राप्नोति तस्य प्रतिषेधः ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-९/११) तत् वै बहुतरकेण ग्रहणेन व्यवच्छिन्नम् अशक्यम् अनुवर्तयितुम् ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-१०/११) अथ इदानीम् व्यवहितम् अपि शक्यते अनुवर्तयितुम् नुम् एव अनुवर्त्य इह इहार्थम् उत्तरार्थम् च ।

(पा-७,१.७८; अकि-३,२६९.२-८; रो-५,७४.२-८; भा-११/११) इह च एव प्रतिषेधः सिद्धः भवति इह च आत् शीनद्योः नुम् इति नुम्ग्रहणम् न कर्तव्यम् भवति

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-१/१२) इह कस्मात् न भवति ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-२/१२) अदती , घ्नती , लुनती , पुनती ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-३/१२) लोपे कृते अवर्णाभावात् ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-४/१२) किम् तर्हि अस्मिन् योगे उदाहरणम् ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-५/१२) याती , यान्ती ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-६/१२) अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-७/१२) अन्तादिवद्भावेन व्यपवर्गः ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-८/१२) उभयतः आश्रये न अन्तादिवत् ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-९/१२) न उभयतः आश्रयः करिष्यते ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-१०/१२) न एवम् विज्ञायते अवर्णान्तात् शतुः नुम् भवति इति ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-११/१२) कथम् तर्हि ।

(पा-७,१.८०; अकि-३,२६९.१०-१४; रो-५,७४.१०-७५.४; भा-१२/१२) अवर्णात् नुम् भवति तत् चेत् अवर्णम् शतुः अनन्तरम् इति

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१/३१) अनडुहः सौ आम्प्रतिषेधः नुमः अनवकाशत्वात् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२/३१) अनडुहः सौ आम्प्रतिषेधः प्राप्नोति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-३/३१) किम् कारणम् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-४/३१) नुमः अनवकाशत्वात् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-५/३१) अनवकाशः नुम् आमम् बाधते ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-६/३१) न वा अवर्णोपधस्य नुम्वचनात् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-७/३१) न वा एषः दोषः ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-८/३१) किम् कारणम् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-९/३१) अवर्णोपधस्य नुम्वचनात् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१०/३१) अवर्णोपधस्य नुमम् वक्ष्यामि ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-११/३१) तदर्थग्रहणम् कर्तव्यम् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१२/३१) न कर्तव्यम् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१३/३१) प्रकृतम् अनुवर्तते ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१४/३१) क्व प्रकृतम् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१५/३१) आत् शीनद्योः नुम् इति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१६/३१) यदि तत् अनुवर्तते अनडुहि यावन्ति अवर्णानि सर्वेभ्यः परः नुम् प्राप्नोति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१७/३१) न एषः दोषः ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१८/३१) मित् अचः अन्त्यात् परः इति अनेन यत् सर्वान्त्यम् अवर्णम् तस्मात् परः भविष्यति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-१९/३१) पुनःप्रसङ्गविज्ञानात् वा सिद्धम् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२०/३१) अथ वा पुनःप्र्सङ्गात् नुमि कृते आम् भविष्यति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२१/३१) यथात्त्वादिषु द्विर्वचनम् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२२/३१) तत् यथा जग्ले , मम्ले , ईजतुः , ईजुः इति आत्त्वादिषु कृतेषु पुनःप्रसङ्गात् द्विर्वचनम् भवति एवम् अत्र अपि नुमि कृते आम् भविष्यति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२३/३१) न एषः युक्तः परिहारः ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२४/३१) विप्रतिषेधे पुनःप्रसङ्गः विप्रतिषेधः च द्वयोः सावकाशयोः भवति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२५/३१) इह पुनः अनवकाशः नुम् आमम् बाधते ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२६/३१) एवम् तर्हि वृत्तान्तात् एषः परिहारः प्रस्थितः ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२७/३१) कस्मात् वृत्तान्तात् ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२८/३१) इदम् अयम् चोद्यः भवति अनडुहः सौ आम्प्रतिषेधः नुमः अनवकाशत्वात् इति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-२९/३१) तस्य परिहारः न वा अवर्णोपधस्य नुम्वचनात् इति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-३०/३१) ततः अयम् चोद्यः भवति यत्र तर्हि अवर्णप्रकरणम् न अस्ति तत्र तः आमा नुमः बाधनम् प्राप्नोति बह्वन्ड्वांहि ब्राह्मणकुलानि इति ।

(पा-७,१.८२; अकि-३,२६९.२१-२७०.१७; रो-५,७५.१४-७६.१४; भा-३१/३१) ततः उत्तरकालम् इदम् पठितम् पुनःप्रसङ्गविज्ञानात् वा सिद्धम् इति

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-१/१५) दिवः औत्त्वे धातुप्रतिषेधः ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-२/१५) दिवः औत्त्वे धातोः प्रतिषेधः वक्तव्यः ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-३/१५) अक्षद्यूः इति ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-४/१५) अधात्वधिकारात् सिद्धम् ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-५/१५) अधातोः इति वर्तते ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-६/१५) क्व प्रकृतम् ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-७/१५) उगिदचाम् सर्वनामस्थाने अधातोः इति ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-८/१५) अधात्वधिकारात् सिद्धम् इति चेत् नपुंसके दोषः ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-९/१५) अधात्वधिकारात् सिद्धम् इति चेत् नपुंसके दोषः भवति ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-१०/१५) काष्ठतङ्क्षि , कूटतङ्क्षि ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-११/१५) नपुंसकस्य झल् अचः अधातोः इति प्रतिषेधः प्राप्नोति ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-१२/१५) उक्तम् वा ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-१३/१५) किम् उक्तम् ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-१४/१५) अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति ।

(पा-७,१.८४; अकि-३,२७०.१९-२७१.३; रो-५,७७.२-११; भा-१५/१५) अथ वा सम्बन्धम् अनुवर्तिष्यते

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-१/८) इतः अद्वचनम् अनर्थकम् आकारप्रकरणात् ।

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-२/८) इतः अद्वचनम् अनर्थकम् ।

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-३/८) किम् कारणम् ।

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-४/८) आकारप्रकरणात् ।

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-५/८) आत् इति वर्तते ।

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-६/८) षपूर्वार्थम् तु ।

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-७/८) षपूर्वार्थम् तर्हि अत् वक्तव्यः ।

(पा-७,१.८६; अकि-३,२७१.५-८; रो-५,७७.१३-७८.४; भा-८/८) ऋभुक्षाणम् इन्द्रम् , ऋभुक्षणम् इन्द्रम्

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१/२१) असुङि उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् बहिरङ्गलक्षणत्वात् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-२/२१) असुङि उपदेशिवद्भावः वक्तव्यः ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-३/२१) उपदेशावस्थायाम् एव असुङ् भवति इति वक्तव्यम् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-४/२१) किम् प्रयोजनम् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-५/२१) स्वरसिद्ध्यर्थम् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-६/२१) उपदेशावस्थायाम् असुङि कृते इष्टः स्वरः यथा स्यात् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-७/२१) परमपुमान् इति ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-८/२१) अक्रियमाणे हि उपदेशिवद्भावे समासान्तोदात्तत्वे असुङ् आन्तर्यतः अस्वरकस्य अस्वरकः स्यात् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-९/२१) किम् पुनः कारणम् समासान्तोदात्तत्वम् तावत् भवति न पुनः असुङ् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१०/२१) न परत्वात् असुङा भवितव्यम् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-११/२१) बहिर्ङ्गलक्षणत्वात् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१२/२१) बहिरङ्गलक्षणः असुङ् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१३/२१) अन्तरङ्गः स्वरः ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१४/२१) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१५/२१) सः तर्हि उपदेशिवद्भावः वक्तव्यः ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१६/२१) न वक्तव्यः ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१७/२१) आद्युदात्तनिपातनम् करिष्यते सः निपातनस्वरः समासस्वरस्य बाधकः भविष्यति ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१८/२१) एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-१९/२१) सः यथा एव हि निपातनस्वरः समासस्वरम् बाधते एवम् प्रकृतिस्वरम् अपि बाधेत ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-२०/२१) पुमान् ।

(पा-७,१.८९; अकि-३,२७१.१०-२०; रो-५,७८.-७९; भा-२१/२१) तस्मात् सुष्ठु उच्यते असुङि उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् बहिरङ्गलक्षणत्वात् इति

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१/३९) किम् इदम् गोतः परस्य सर्वनामस्थानस्य ङित्त्वम् उच्यते आहोस्वित् सर्वनामस्थाने परतः ङित्कार्यम् अतिदिश्यते ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२/३९) कः च अत्र विशेषः ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३/३९) गोतः सर्वनामस्थाने ङित्कार्यातिदेशः ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-४/३९) गोतः सर्वनामस्थाने ङित्कार्यम् अतिदिश्यते ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-५/३९) सर्वनामस्थाने णित्त्ववचने हि असम्प्रत्ययः षष्ठ्यनिर्देशात् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-६/३९) सर्वनामस्थानस्य णिद्वचने हि असम्प्रत्ययः स्यात् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-७/३९) किम् कारणम् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-८/३९) षष्ठ्यभावात् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-९/३९) षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१०/३९) एवम् तर्हि वतिनिर्देशः अयम् ॒ गोतः ङिद्वत् भवति इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-११/३९) सः तर्हि वतिनिर्देशः कर्तव्यः न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१२/३९) अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१३/३९) तत् यथा ॒ एषः ब्रह्मदत्तः ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१४/३९) अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१५/३९) ते मन्यामहे ॒ ब्रह्मदत्तवत् अयम् भवति इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१६/३९) एवम् इह अपि अणितम् णित् इति आह णिद्वत् इति गम्यते ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१७/३९) अथ वा पुनः अस्तु गोतः परस्य सर्वनामस्थानस्य णित्त्वम् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१८/३९) ननु च उक्तम् सर्वनामस्थाने णित्त्ववचने हि असम्प्रत्ययः षष्ठ्यनिर्देशात् इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-१९/३९) न एषः दोषः ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२०/३९) गोतः इति एषा पञ्चमी सर्वनामस्थाने इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२१/३९) अथ तपरकरणम् किमर्थम् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२२/३९) इह मा भूत् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२३/३९) चित्रगुः शबलगुः इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२४/३९) न एतत् अस्ति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२५/३९) ह्रस्वत्वे कृते न भविष्यति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२६/३९) स्थानिवद्भावात् प्राप्नोति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२७/३९) अतः उत्तरम् पठति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२८/३९) तपरकरणम् अनर्थकम् स्थानिवत्प्रतिषेधात् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-२९/३९) तपरकर्णम् अनर्थकम् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३०/३९) किम् कारणम् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३१/३९) स्थानिवत्प्रतिषेधात् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३२/३९) प्रतिषिध्यते अत्र स्थानिवद्भावः गोः पूर्वणित्त्वात्वस्वरेषु स्थानिवद्भावः न भवति इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३३/३९) सः च अवश्यम् प्रतिषेधः आश्रयितव्यः ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३४/३९) इतरथा हि सम्बुद्धिजसोः प्रतिषेधः ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३५/३९) यः हि मन्यते तपरकरणसामर्थ्यात् अत्र न भविष्यति इति सम्बुद्धिजसोः तेन प्रतिषेधः वक्तव्यः स्यात् ॒ हे चित्रगो चित्रगवः इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३६/३९) अथ इदानीम् सति अपि स्थानिवद्भावप्रतिषेध गुणे कृते कस्मात् एव अत्र न भवति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३७/३९) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३८/३९) ननु च इदानीम् असति अपि स्थानिवद्भावप्रतिषेधे एतया परिभाषया शक्यम् उपस्थातुम् ।

(पा-७,१.९०; अकि-३,२७१.२२-२७२.२२; रो-५,७९.७-८१.७; भा-३९/३९) न इति आह न हि इदानीम् क्व चित् अपि स्थानिवत् स्यात्

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१/३२) अथ अत्र विभक्तौ इति अनुवर्तते उताहो न ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२/३२) किम् च अतः ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-३/३२) तृज्वत् स्त्रियाम् विभक्तौ चेत् क्रोष्ट्रीभक्तिः न सिध्यति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-४/३२) तृज्वत् स्त्रियाम् विभक्तौ चेत् क्रोष्ट्रीभक्तिः इति न सिध्यति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-५/३२) एवम् तर्हि ईकारे तृज्वद्भावम् वक्ष्यामि ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-६/३२) तत् ईकारग्रहणम् कर्तव्यम् ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-७/३२) न कर्तव्यम् ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-८/३२) क्रियते न्यासे एव ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-९/३२) प्रश्लिष्टनिर्देशः अयम् ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१०/३२) स्त्री , ई स्त्री स्त्रियाम् इति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-११/३२) ईकारे तन्निमित्तः सः ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१२/३२) ईकारे चेत् तत् न ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१३/३२) किम् कारणम् ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१४/३२) तन्निमित्तः सः ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१५/३२) तृज्वद्भावनिमित्तः सः ईकारः ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१६/३२) न अकृते तृज्वद्भावे ईकारः प्राप्नोति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१७/३२) किम् कारणम् ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१८/३२) ऋन्नेभ्यः ङीप् इति उच्यते ईकारे च तृज्वद्भावः ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-१९/३२) तत् इदम् इतरेतराश्रयम् भवति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२०/३२) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२१/३२) एवम् तर्हि गौरादिषु पाठात् ईकारः भविष्यति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२२/३२) गौरादिषु न पठ्यते ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२३/३२) न हि किम् चित् तुनन्तम् गौरादिषु पठ्यते ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२४/३२) एवम् तर्हि एतत् ज्ञापयति आचार्यः भवति अत्र ईकारः इति यत् अयम् ईकारे तृज्वद्भावम् शास्ति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२५/३२) तेन एव भावनम् चेत् स्यात् अनिष्टः अपि प्रसज्यते ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२६/३२) यदि अपि न अस्ति विशेषः ङीपः वा ङीषः वा ङीन् अपि तु प्राप्नोति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२७/३२) इह च न प्राप्नोति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२८/३२) पञ्चभिः क्रोष्ट्रीभिः क्रीतैः रथैः पञ्चक्रोष्टृभिः रथैः इति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-२९/३२) एवम् तर्हि न च अपरम् निमित्तम् सञ्ज्ञा च प्रत्ययलक्षणेन ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-३०/३२) न च अपरम् निमित्तम् आश्रीयते ॒ अस्मिन् परतः क्रोष्टुः तृज्वत् भवति इति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-३१/३२) किम् तर्हि अङ्गस्य क्रोष्टुः तृज्वत् भवति ।

(पा-७,१.९५-९६.१; अकि-३,२७२.२५-२७३.१९; रो-५,८१-८४; भा-३२/३२) अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१/८२) किम् पुनः अयम् शास्त्रातिदेशः ॒ तृचः यत् शास्त्रम् तत् अतिदिश्यते ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२/८२) आहोस्वित् रूपातिदेशः ॒ तृचः यत् रूपम् तत् अतिदिश्यते इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३/८२) कः च अत्र विशेषः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४/८२) तृज्वत् इति शास्त्रातिदेशः चेत् यथा चिणि तद्वत् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५/८२) तृज्वत् इति शास्त्रातिदेशः चेत् यथा चिणि तद्वत् प्राप्नोति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६/८२) कथम् च चिणि ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७/८२) उक्तम् अङ्गस्य इति तु प्रकरणात् आण्गशास्त्रातिदेशात् सिद्धम् इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-८/८२) आङ्गम् यत् कार्यम् तत् अतिदिश्यते ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-९/८२) एवम् इह अपि अनङ्गुणदीर्घत्वानि अतिदिष्टानि रपरत्वम् अनतिदिष्टम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१०/८२) तत्र कः दोषः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-११/८२) तत्र रपरवचनम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१२/८२) तत्र रपरत्वम् न सिध्यति तत् वक्तव्यम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१३/८२) न एषः दोषः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१४/८२) गुणे अतिदिष्टे रपरत्वम् अपि अतिदिष्टम् भवति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१५/८२) कथम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१६/८२) कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१७/८२) ऋतः ङिसर्वनामस्थानयोः गुङः भवति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१८/८२) उपस्थितम् इदम् भवति उः अण् रपरः इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-१९/८२) एवम् तर्हि अयम् अन्यः दोषः जायते ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२०/८२) आहत्य तृचः यत् शास्त्रम् तत् अतिदिश्येत अनाहत्य वा इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२१/८२) किम् च अतः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२२/८२) यदि आहत्य दीर्घत्वम् अतिदिष्टम् अनङ्गुणरपरत्वानि अनतिदिष्टानि ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२३/८२) अथ अनाहत्य अनङ्गुणरपरत्वानि अतिदिष्टानि दीर्घत्वम् अनतिदिष्टम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२४/८२) अस्तु आहत्य ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२५/८२) ननु च उक्तम् दीर्घत्वम् अतिदिष्टम् अनङ्गुणरपरत्वानि अनतिदिष्टानि इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२६/८२) न एषः दोषः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२७/८२) दीर्घत्वे अतिदिष्टे अनङ्गुणरपरत्वानि अपि अतिदिष्टानि भवन्ति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२८/८२) कथम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-२९/८२) उपधायाः इति वर्तते न च अकृतेषु एतेषु दीर्घभाविनि उपधा भवति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३०/८२) कुतः नु खलु एतत् एतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वम् भविष्यति न पुनः क्रोष्टोः यः अन्तरतमः गुणः तस्मिन् कृते अवादेशे च या उपधा तस्याः दीर्घत्वम् भविष्यति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३१/८२) न एकम् उदाहरणम् योगारम्भम् प्रयोजयति इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३२/८२) तत्र तृज्वद्वचनसामर्थ्यात् एतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वम् भविष्यति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३३/८२) अथ वा किम् नः एतेन आहत्य अनाहत्य वा इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३४/८२) आहत्य अनाहत्य च तृचः यत् शास्त्रम् तत् अतिदिश्यते ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३५/८२) अथ वा पुनः अस्तु रूपातिदेशः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३६/८२) अथ एतस्मिन् रूपातिदेशे सति किम् प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते आहोस्वित् कृतेषु आदेशेषु ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३७/८२) किम् च अतः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३८/८२) यदि प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते ऋकारः एकः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-३९/८२) अथ कृतेषु आदेशेषु ऋकारः अनतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अतिदिष्टानि ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४०/८२) उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवान् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४१/८२) अस्तु प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४२/८२) ननु च उक्तम् ऋकारः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४३/८२) न एषः दोषः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४४/८२) ऋकारे अतिदिष्टे स्वाश्रयाः अत्र एते विधयः भविष्यन्ति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४५/८२) यत् अपि उच्यते उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवान् इति सचकारग्रहणसामर्थ्यात् स्वरः भविष्यति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४६/८२) रूपातिदेशः इति चेत् सर्वादेशप्रसङ्गः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४७/८२) रूपातिदेशः इति चेत् सर्वादेशः प्राप्नोति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४८/८२) सर्वस्य तुनन्तस्य तृशब्दः आदेशः प्राप्नोति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-४९/८२) सिद्धम् तु रूपातिदेशात् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५०/८२) सिद्धम् एतत् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५१/८२) कथम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५२/८२) रूपातिदेशात् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५३/८२) रूपातिदेशः अयम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५४/८२) ननु च एवम् एव कृत्वा चोद्यते रूपातिदेशः इति चेत् सर्वादेशप्रसङ्गः इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५५/८२) सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः तदादितदन्तविज्ञानात् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५६/८२) सिद्धम् एतत् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५७/८२) कथम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५८/८२) प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एवम् तुनन्तस्य तृजन्तः आदेशः भविष्यति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-५९/८२) एवम् अपि किम् चित् एव तृजन्तम् प्राप्नोति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६०/८२) इदम् अपि प्राप्नोति पक्ता इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६१/८२) आन्तरतम्यात् च सिद्धम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६२/८२) क्रोष्टोः यत् अन्तरतमम् तत् भविष्यति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६३/८२) किम् पुनः तत् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६४/८२) क्रुशेः यः तृच् विहितः तदन्तम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६५/८२) तृज्वद्वचनम् अनर्थकम् तृज्विषये तृचः मृगवाचित्वात् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६६/८२) तृज्विषये एतत् तृजन्तम् मृगवाचि ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६७/८२) तुनः निवृत्त्यर्थम् तर्हि इदम् वक्तव्यम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६८/८२) तुनः सर्वनामस्थाने निवृत्तिः यथा स्यात् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-६९/८२) तुनः निवृत्त्यर्थम् इति चेत् सिद्धम् यथा अन्यत्र अपि ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७०/८२) तुनः निवृत्त्यर्थम् इति चेत् तत् अन्तरेण वचनम् सिद्धम् यथा अन्यत्र अपि अविशेषविहिताः शब्दाः नियतविषयाः दृश्यन्ते ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७१/८२) क्व अन्यत्र ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७२/८२) तत् यथा ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७३/८२) घरतिः अस्मै अविशेषेण उपदिष्टः सः घृतम् , घृणा , घर्मः इति एवंविषयः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७४/८२) रशिः अस्मै अविशेषेण उपदिष्टः सः राशिः , रश्मिः , रशना इति एवंविषयः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७५/८२) लुशिः अस्मै अविशेषेण उपदिष्टः सः लोष्टः इति एवंविषयः ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७६/८२) इदम् तर्हि प्रयोजनम् विभाषा वक्ष्यामि इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७७/८२) विभाषा तृतीयादिषु अचि इति ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७८/८२) वावचनानर्थक्यम् च स्वभावसिद्धत्वात् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-७९/८२) वावचनम् च अनर्थकम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-८०/८२) किम् कारणम् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-८१/८२) स्वभावसिद्धत्वात् ।

(पा-७,१.९५-९६.२; अकि-३,२७३.२०-२७५.२२; रो-५,८४-९१; भा-८२/८२) स्वभावतः एव तृतीयादिषु अजादिषु विभक्तिषु तृजन्तम् च तुनन्तम् च मृगवाचि इति

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१/६२) गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२/६२) गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् भवति पूर्वविप्रतिषेधेन ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३/६२) तत्र गुणस्य अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४/६२) अग्नये , वायवे ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५/६२) नुमः अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-६/६२) त्रपुणी , जतुनी ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-७/६२) इह उभयम् प्राप्नोति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-८/६२) त्रपुणे , जतुने ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-९/६२) वृद्धेः अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१०/६२) सखायै ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-११/६२) सखायः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१२/६२) नुमः सः एव ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१३/६२) इह उभयम् प्राप्नोति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१४/६२) अतिसखीनि ब्राह्मणकुलानि इति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१५/६२) औत्त्वस्य अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१६/६२) अग्नौ , वायौ ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१७/६२) नुमः सः एव ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१८/६२) इह उभयम् प्राप्नोति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-१९/६२) त्रपुणि , जतुनि इति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२०/६२) तृज्वद्भावस्य अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२१/६२) क्रोष्टुना ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२२/६२) नुमः सः एव ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२३/६२) इह उभयम् प्राप्नोति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२४/६२) कृशकृओष्टुने अर्ण्याय ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२५/६२) हितक्रोष्टुने वृषलकुलाय ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२६/६२) नुम् भवति पूर्वविप्रतिषेधेन ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२७/६२) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२८/६२) न वक्तव्यः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-२९/६२) इष्टवाची परशब्दः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३०/६२) विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३१/६२) नुमचिरतृज्वद्भावेभ्यः नुट् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३२/६२) नुमचिरतृज्वद्भावेभ्यः नुट् पूर्वविप्रतिषेधेन वक्तव्यः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३३/६२) नुमः अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३४/६२) त्रपूणि , जतूनि ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३५/६२) नुटः अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३६/६२) अग्नीनाम् , वायूनाम् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३७/६२) इह उभयम् प्राप्नोति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३८/६२) त्रपूणाम् , जतूनाम् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-३९/६२) अचि रादेशस्य अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४०/६२) तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४१/६२) नुटः सः एव ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४२/६२) इह उभयम् प्राप्नोति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४३/६२) तिसृणाम् , चतसृणाम् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४४/६२) तृज्वद्भावस्य अवकाशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४५/६२) क्रोष्ट्रा , क्रोष्टुना ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४६/६२) नुटः सः एव ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४७/६२) इह उभयम् प्राप्नोति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४८/६२) क्रोष्टूनाम् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-४९/६२) नुट् भवति पूर्वविप्रतिषेधेन ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५०/६२) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५१/६२) न वा नुड्विषये रप्रतिषेधात् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५२/६२) न वा एतत् विप्रतिषेधेन अपि सिध्यति तिसृणाम् , चतसृणाम् इति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५३/६२) कथम् तर्हि सिध्यति ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५४/६२) नुड्विषये रप्रतिषेधात् ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५५/६२) नुड्विषये रप्रतिषेधः वक्तव्यः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५६/६२) इतरथा हि सर्वापवादः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५७/६२) इतरथा हि सर्वापवादः रादेशः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५८/६२) सः यथा एव गुणपूर्वसवर्णौ बाधते एव नुटम् अपि बाधेत ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-५९/६२) तस्मात् नुड्विषये रप्रतिषेधः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-६०/६२) तस्मात् नुड्विषये रादेशस्य प्रतिषेधः वक्तव्यः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-६१/६२) न वक्तव्यः ।

(पा-७,१.९५-९६.३; अकि-३,२७५.२३-२७६.२२; रो-५,९१-९२; भा-६२/६२) आचार्यप्रवृत्तिः ज्ञापयति न रादेशः नुटम् बाधते इति यत् अयम् न तिसृचतसृ , इति प्रतिषेधम् शास्ति नामि दीर्घत्वस्य

(पा-७,१.९८; अकि-३,२७६.२४-२५; रो-५,९२.१२-१३; भा-१/३) आम् अनडुहः स्त्रियाम् वा ।

(पा-७,१.९८; अकि-३,२७६.२४-२५; रो-५,९२.१२-१३; भा-२/३) आम् अनडुहः स्त्रियाम् वा इति वक्तव्यम् ।

(पा-७,१.९८; अकि-३,२७६.२४-२५; रो-५,९२.१२-१३; भा-३/३) अनडुही , अनड्वाही

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-१/११) इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-२/११) इत्त्वोत्त्वयोः अवकाशः ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-३/११) आस्तीर्णम् , निपूर्ताः पिण्डाः ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-४/११) गुणवृद्ध्योः अवकाशः ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-५/११) चयनम् , चायकः , लवनम् , लावकः ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-६/११) इह उभयम् प्राप्नोति ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-७/११) आस्तरणम् , आस्तारकः , निपरणम् , निपारकः ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-८/११) गुणवृद्धी भवतः विप्रतिषेधेन ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-९/११) अयुक्तः अयम् विप्रतिषेधः यः अयम् गुणस्य इत्त्वोत्तयोः च ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-१०/११) कथम् ।

(पा-७,१.१००-१०२; अकि-३,२७७.४-८; रो-५,९३.४-८; भा-११/११) नित्यः गुणः