व्याकरणमहाभाष्य खण्ड 77

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१/२०) सिचि वृद्धौ ओकारप्रतिषेधः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-२/२०) सिचि वृद्धौ ओकारस्य प्रतिषेधः वक्तव्यः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-३/२०) उदवोढाम् , उदवोढम् , उदवोढ इति ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-४/२०) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-५/२०) न वक्तव्यः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-६/२०) ओकारात् वृद्धिः विप्रतिषेधेन ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-७/२०) ओत्त्वम् क्रियताम् वृद्धिः इति ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-८/२०) वृद्धिः भविष्यति विप्रतिषेधेन ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-९/२०) ओकारात् वृद्धिः विप्रतिषेधेन इति चेत् ओत्त्वाभावः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१०/२०) ओकारात् वृद्धिः विप्रतिषेधेन इति चेत् ओत्त्वस्य अभावः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-११/२०) उदवोढाम् , उदवोढम् ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१२/२०) उदवोढ इति ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१३/२०) न एषः दोषः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१४/२०) उक्तम् तत्र वर्णग्रहणस्य प्रयोजनम् वृद्धौ अपि कृतायाम् ओत्त्वम् यथा स्यात् ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१५/२०) पुनःप्रसङ्गविज्ञानात् वा सिद्धम् यथा प्रसारणादिषु द्विर्वचनम् ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१६/२०) अथ वा पुनःप्रसङ्गात् अत्र वृद्धौ कृतायाम् ओत्त्वम् भविष्यति ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१७/२०) सौढामित्रौ बहिरङ्गलक्षणत्वात् सिद्धम् ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१८/२०) बहिरङ्गलक्षणा वृद्धिः ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-१९/२०) अन्तरङ्गम् ओत्त्वम् ।

(पा-७,२.१; अकि-३,२७८.२-१५; रो-५,९४.३-९५.९; भा-२०/२०) असिद्धम् बहिरङ्गम् अन्तरङ्गे

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-१/१५) अन्तग्रहणम् किमर्थम् न अतः र्लः इति एव उच्यते ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-२/१५) केन इदानीम् तदन्तस्य भविष्यति ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-३/१५) तदन्तविधिना ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-४/१५) इदम् तर्हि प्रयोजनम् ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-५/१५) अयम् अन्तशब्दः अस्ति एव अवयववाची ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-६/१५) तत् यथा ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-७/१५) वस्त्रान्तः , वसनान्तः ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-८/१५) अस्ति सामीप्ये वर्तते ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-९/१५) तत् यथा ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-१०/१५) उदकान्तम् गतः ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-११/१५) उदकसमीपम् गतः इति गम्यते ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-१२/१५) तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-१३/१५) अङ्गान्तौ यौ रेफलकारौ तयोः समीपे यः अकारः तस्य यथा स्यात् ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-१४/१५) इह मा भूत् ।

(पा-७,२.२; अकि-३,२७८.१७-२७९.३; रो-५,९५.१०-९६.३; भा-१५/१५) अश्वल्लीत् , अवभ्रीत्

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१/१०३) हल्ग्रहणम् किमर्थम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२/१०३) समुच्चयः यथा विज्ञायेत ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३/१०३) वदिव्रज्योः च हलन्तस्य च अचः इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४/१०३) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५/१०३) अज्ग्रहणात् एव अत्र समुच्चयः भविष्यति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६/१०३) वदिव्रज्योः च अचः च इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७/१०३) अस्ति अन्यत् अज्ग्रहणे प्रयोजनम् वदिव्रजिविशेषणम् यथा विज्ञायेत ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८/१०३) वदिव्रज्योः एचः इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९/१०३) यदि एतावत् प्रयोजनम् स्यात् वदिव्रज्योः अतः इति एवम् ब्रूयात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१०/१०३) अथ वा एतत् अपि न ब्रूयात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-११/१०३) अतः इति वर्तते ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१२/१०३) इदम् तर्हि प्रयोजनम् हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१३/१०३) कस्य पुनः अजन्तस्य प्राप्नोति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१४/१०३) अकारस्य ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१५/१०३) अचिकीर्षीत् , अजिहीर्षीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१६/१०३) लोपः अत्र बाधकः भविष्यति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१७/१०३) आकारस्य तर्हि प्राप्नोति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१८/१०३) अयासीत् , अवासीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१९/१०३) न अस्ति अत्र विशेषः सत्याम् वा वृद्धौ असत्याम् वा ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२०/१०३) सन्ध्यक्षरस्य तर्हि प्राप्नोति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२१/१०३) न वै सन्ध्यक्षरम् अन्त्यम् अस्ति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२२/१०३) ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् , उदवोढम् , उदवोढ इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२३/१०३) असिद्धः ढलोपः तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२४/१०३) अतः उत्तरम् पठति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२५/१०३) हल्ग्रहणम् इटि प्रतिषेधार्थम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२६/१०३) हल्ग्रहणम् क्रियते इटि प्रतिषेधार्थम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२७/१०३) न इटि इति प्रतिषेधम् वक्ष्यति सः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२८/१०३) अलावीत् , अपावीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-२९/१०३) न वा अनन्तरस्य प्रतिषेधात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३०/१०३) न वा एतत् प्रयोजनम् अस्ति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३१/१०३) किम् कारणम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३२/१०३) अनन्तरस्य प्रतिषेधात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३३/१०३) अनन्तरम् यत् वृद्धिविधानम् तत् प्रतिषिध्यते ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३४/१०३) कुतः एतत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३५/१०३) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३६/१०३) तत् च अनन्त्यार्थम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३७/१०३) तत् च अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३८/१०३) कथम् पुनः अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् शक्यम् विज्ञातुम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-३९/१०३) अन्त्यस्य वचनानर्थक्यात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४०/१०३) अन्त्यस्य वृद्धिविधाने प्रयोजनम् न अस्ति इति कृत्वा अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४१/१०३) अतः विभाषार्थम् तर्हि इदम् वक्तव्यम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४२/१०३) अतः हलादेः लघोः इति विभाषा वृद्धिम् वक्ष्यति सा हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४३/१०३) अचिकीर्षीत् , अजिहीर्षीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४४/१०३) अतः विभाषार्थम् इति चेत् सिद्धम् वृद्धेः लोपबलीयस्त्वात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४५/१०३) अतः विभाषार्थम् इति चेत् तत् अन्तरेण अपि हल्ग्रहणम् सिद्धम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४६/१०३) कथम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४७/१०३) वृद्धेः लोपबलीयस्त्वात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४८/१०३) वृद्धेः लोपः बलीयान् भवति इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-४९/१०३) इदम् इह सम्प्रधार्यम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५०/१०३) वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५१/१०३) परत्वात् वृद्धिः ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५२/१०३) नित्यः लोपः ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५३/१०३) कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५४/१०३) अनित्यः लोपः न हि कृतायाम् वृद्धौ प्राप्नोति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५५/१०३) परत्वात् सगिड्भ्याम् भवितव्यम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५६/१०३) न अत्र सगिटौ प्राप्नुतः ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५७/१०३) किम् कारणम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५८/१०३) एकाचः तौ वलि इति वा ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-५९/१०३) एकाचः सगिटौ उच्येते अथ वा वलि इति तत्र अनुवर्तते ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६०/१०३) किम् पुनः कारणम् एकाचः तौ वली इति वा ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६१/१०३) दर्द्रातेः मा भूत् इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६२/१०३) दरिद्रातेः न सगिड्भ्याम् भवितव्यम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६३/१०३) उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६४/१०३) यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ सगिड्विधौ ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६५/१०३) एवमर्थम् एव तर्हि एकाज्ग्रहणम् अनुवर्त्यम् अत्र सगिटौ मा भूताम् इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६६/१०३) सः एषः नित्यः लोपः वृद्धिम् बाधिष्यते ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६७/१०३) कम् पुनः भवान् वृद्धेः अवकाशम् मत्वा आह नित्यः लोपः इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६८/१०३) अनवकाशा वृद्धिः लोपम् बाधिष्यते ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-६९/१०३) सावकाशा वृद्धिः ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७०/१०३) कः अवकाशः ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७१/१०३) अनन्त्यः ॒ अकणीत् , अकाणीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७२/१०३) कथम् पुनः सति अन्त्ये अनन्त्यस्य वृद्धिः स्यात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७३/१०३) भवेत् यः अता अङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७४/१०३) वयम् तु खलु अङ्गेन अकारम् विशेषयिष्यामः ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७५/१०३) तत्र अनन्त्यः वृद्धेः अवकाशः अन्त्यस्य लोपः बाधकः भविष्यति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७६/१०३) एवम् वृद्धेः लोपबलीयस्त्वात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७७/१०३) अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७८/१०३) सा तर्हि एषा अनन्त्यार्था वृद्धिः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-७९/१०३) अपिपठिषीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८०/१०३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८१/१०३) कथम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८२/१०३) हलादेः इति न एषा बहुव्रीहेः षष्ठी ॒ हल् आदिः यस्य सः अयम् हलादिः हलादेः इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८३/१०३) का तर्हि ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८४/१०३) कर्मधारयात् पञ्चमी ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८५/१०३) हल् आदिः हलादिः हलादेः परस्य इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८६/१०३) यदि कर्मधारयात् पञ्चमी अचकासीत् अत्र प्राप्नोति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८७/१०३) सिचा अनन्तर्यम् विशेषयिष्यामः ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८८/१०३) हलादेः परस्य सिचि अनन्तरस्य इति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-८९/१०३) यदि सिचा आनन्तर्यम् विशेष्यते अकणीत् , अकाणीत् अत्र न प्राप्नोति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९०/१०३) वचनात् भविष्यति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९१/१०३) इह अपि तर्हि वचनात् प्राप्नोति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९२/१०३) अचकासीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९३/१०३) येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९४/१०३) केन च न अव्यवधानम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९५/१०३) वर्णेन एकेन ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९६/१०३) सङ्गातेन पुनः व्यवधानम् भवति न च भवति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९७/१०३) यदि सिचा आनन्तर्यम् विशेष्यते अस्तु बहुव्रीहेः षष्ठी ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९८/१०३) कस्मात् न भवति ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-९९/१०३) अपिपठिषीत् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१००/१०३) व्यवहितत्वात् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१०१/१०३) एवम् तर्हि अतिदूरम् एव इदम् हल्ग्रहणम् अनुसृतम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१०२/१०३) हल्ग्रहणम् अनन्त्यार्थम् ।

(पा-७,२.३; अकि-३,२७९.५-२८१.८; रो-५,९६.५-१०१.२; भा-१०३/१०३) अज्ग्रहणम् अनिगर्थम्

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-१/१३) किमर्थम् जागर्तेः वृद्धिप्रतिषेधः उच्यते ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-२/१३) सिचि वृद्धिः मा भूत् इति ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-३/१३) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-४/१३) जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-५/१३) गुणे तर्हि कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-६/१३) न इटि इति तस्याः प्रतिषेधः भविष्यति ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-७/१३) इयम् तर्हि प्रतिषेधोत्तरकाला वृद्धिः आरभ्यते अतः र्लान्तस्य इति ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-८/१३) अपरः आह ॒ कक्ष्यया कक्ष्या निमातव्या ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-९/१३) सिचि वृद्धिः च प्राप्नोति गुणाः च ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-१०/१३) गुणः भवति ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-११/१३) गुणे कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति न इटि इति च तस्याः प्रतिषेधः भवति ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-१२/१३) प्रतिषेधोत्तरकालम् अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति न च किम् चित् ।

(पा-७,२.५; अकि-३,२८१.१०-१९; रो-५,१०१.४-१०२.७; भा-१३/१३) अतः र्लान्तस्य इति च वृद्धिः प्राप्नोति न च किम् चित्

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१/२३) किमर्थम् पुरस्तात् प्रतिषेधः उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियेत ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-२/२३) तत् यथा अन्यत्र अपि विध्युत्तरकालाः प्रतिषेधाः भवन्ति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-३/२३) क्व अन्यत्र ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-४/२३) कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्यः इति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-५/२३) देवताद्वन्द्वे च न इन्द्रस्य परस्य ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-६/२३) तत्र अयम् अपि अर्थः द्विः इड्ग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-७/२३) न एवम् शक्यम् ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-८/२३) इडर्थम् सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् तत् विच्छिद्येत ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-९/२३) यदि पुनः न वृद्भ्यः चतुर्भ्यः इति अत्र एव उच्येत ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१०/२३) किम् कृतम् भवति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-११/२३) विध्युत्तरकालाः च एव प्रतिषेधः कृअतः भवति द्विः च इड्ग्रहणम् न कर्तव्यम् इडर्थम् च सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् भवति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१२/२३) तत्र अयम् अपि अर्थः द्विः प्रतिषेधः न कर्तव्यः इति एतस्मात् नियमात् इट् प्रसज्येत ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१३/२३) कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एषः योगः प्रतिषेधार्थः भविष्यति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१४/२३) यदि एषः योगः प्रतिषेधार्थः यः एतस्मात् योगात् इट् परिप्राप्यते नियमात् सः न सिध्यति ॒ पेचिव , पेचिम , शेकिव, शेकिम ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१५/२३) एवम् तर्हि कृसृभृ , इति एतेषाम् ग्रहणम् नियमार्थम् भविष्यति स्तुद्रुश्रुस्रुवाम् प्रतिषेधार्थम् वृङ्वृञोः ज्ञापकार्थम् ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१६/२३) एवम् अपि सामान्यविहितस्य एव इटः प्रतिषेधः विज्ञायेत विशेषविहितः च अयम् थलि इति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१७/२३) पुरस्तात् पुनः प्रतिषेधे सति अनारभ्यापवादः अयम् भवति तेन यावान् इण् नाम तस्य सर्वस्य एव प्रतिषेधः सिद्धः भवति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१८/२३) यदि खलु अपि एषः अभिप्रायः तत् न क्रियते इति पुरस्तात् अपि प्रतिषेधे सति तत् न करिष्यते ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-१९/२३) कथम् ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-२०/२३) इदम् अस्ति न इट् वशि कृति इति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-२१/२३) ततः वक्ष्यामि ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-२२/२३) आर्धधातुकस्य वलादेः इति ।

(पा-७,२.८.१; अकि-३,२८१.२१-२८२.१४; रो-५,१०३-१०५; भा-२३/२३) इट् इति अनुवर्तते न इति निवृत्तम्

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१/३९) अथ कृद्ग्रहणम् किमर्थम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२/३९) इह मा भूत् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३/३९) बिभिदिव , बिभिदिम इति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-४/३९) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-५/३९) कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-६/३९) न अत्र तेन परिप्रापणम् प्राप्नोति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-७/३९) किम् कारणम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-८/३९) प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-९/३९) उभयोः सः प्रत्यारम्भः ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१०/३९) कथम् ज्ञायते ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-११/३९) वृङ्वृञोः ग्रहणात् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१२/३९) कथम् कृत्वा ज्ञापकम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१३/३९) इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रत्ययलक्षणः च ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१४/३९) ततः किम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१५/३९) तुल्यजातीये असति यथा एव प्रकृतिलक्षणस्य नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१६/३९) इदम् तर्हि प्रयोजनम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१७/३९) इह मा भूत् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१८/३९) रुदिवः , रुदिमः ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-१९/३९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२०/३९) उपरिष्टात् योगविभागः करिष्यते ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२१/३९) आर्धधातुकस्य ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२२/३९) यत् एतत् अनुक्रान्तम् एतत् आर्धधातुकस्य द्रष्टव्यम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२३/३९) ततः इट् वलादेः इति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२४/३९) तत्र एतावत् द्रष्टव्यम् यदि किम् चित् तत्र अन्यत् अपि आर्धधातुकग्रहणस्य प्रयोजनम् अस्ति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२५/३९) अथ न किम् चित् इह वा कृद्ग्रहणम् क्रियेत तत्र वा आर्धधातुकग्रहणम् कः नु अत्र विशेषः ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२६/३९) न इट् वरम् अनादौ कृति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२७/३९) वरम् अनादौ कृति इट्प्रतिषेधम् प्रयोजयति ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२८/३९) ईशिता , ईशितुम् , ईश्वरः ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-२९/३९) व ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३०/३९) र ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३१/३९) दीपिता , दीपितुम् , दीप्रः ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३२/३९) र ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३३/३९) म ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३४/३९) भसिता , भसितुम् , भस्म ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३५/३९) म ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३६/३९) न ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३७/३९) यतिता , यतितुम् , यत्नः ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३८/३९) अथ अन्ये ये वशादयः तत्र कथम् ।

(पा-७,२.८.२; अकि-३,२८२.१५-२८३.४; रो-५,१०५-१०७; भा-३९/३९) उणादयः अव्युत्पन्नानि प्रातिपदिकानि

(पा-७,२.९; अकि-३,२८३.६-८; रो-५,१०७.५-७; भा-१/४) तितुत्रेषु अग्रहादीनाम् ।

(पा-७,२.९; अकि-३,२८३.६-८; रो-५,१०७.५-७; भा-२/४) तितुत्रेषु अग्रहादीनाम् इति वक्तव्यम् ।

(पा-७,२.९; अकि-३,२८३.६-८; रो-५,१०७.५-७; भा-३/४) इह मा भूत् ।

(पा-७,२.९; अकि-३,२८३.६-८; रो-५,१०७.५-७; भा-४/४) निगृहितिः , उपस्निहितः , निकुचितिः , निपठितिः इति

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१/१०८) एकाज्ग्रहणम् किमर्थम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२/१०८) एकाज्ग्रहणम् जागर्त्यर्थम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३/१०८) एकाज्ग्रहणम् क्रियते जागर्तेः इट्प्रतिषेधः मा भूत् इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४/१०८) जागरिता , जागरितुम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५/१०८) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६/१०८) उपदेशे अनुदात्तात् इति उच्यते जागर्तिः च उपदेशे उदात्तः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७/१०८) न ब्रूमः इहार्थम् जागर्त्यर्थम् एकाज्ग्रहणम् कर्तव्यम् इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८/१०८) किम् तर्हि ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९/१०८) उत्तरार्थम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०/१०८) श्र्युकः किति इति इट्प्रतिषेधम् वक्ष्यति सः जागर्तेः मा भूत् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-११/१०८) जागरितः , जागरितवान् इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१२/१०८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१३/१०८) जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१४/१०८) तत्र गुणे कृते रपरत्वे च कृते अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१५/१०८) ननु च उपदेशाधिकारात् प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१६/१०८) उपदेशग्रहणम् निवर्तयिष्यते ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१७/१०८) यदि निवर्त्यते स्तीर्त्वा , पूर्त्वा , इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१८/१०८) न एषः दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१९/१०८) आनुपूर्व्या सिद्धम् एतत् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२०/१०८) न अत्र अकृते इट्प्रतिषेधे इत्त्वोत्त्वे प्राप्नुतः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२१/१०८) किम् कारणम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२२/१०८) न क्त्वा सेट् इति कित्त्वप्रतिषेधात् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२३/१०८) इदम् तर्हि ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२४/१०८) आतिस्तीर्षति , निपुपूर्षति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२५/१०८) इत्त्वोत्त्वयोः कृतयोः रपरत्वे च्xअ अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२६/१०८) मा भूत् एवम् श्र्युकः किति इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२७/१०८) इट् सनि वा इति एवम् भविष्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२८/१०८) इदम् तर्हि ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-२९/१०८) आस्तीर्णम् , निपूर्ताः पिण्डाः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३०/१०८) इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३१/१०८) मा भूत् एवम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३२/१०८) इट् सनि वा इति सनि विभाषा यस्य विभाषा इति प्रतिषेधः भविष्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३३/१०८) इहार्थम् एव तर्हि वध्यर्थम् एकाज्ग्रहणम् कर्तव्यम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३४/१०८) वधः इट्प्रतिषेधः मा भूत् इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३५/१०८) वधिषीष्ट इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३६/१०८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३७/१०८) क्रियमाणे अपि वा एकाज्ग्रहणे वधः इट्प्रतिषेधः प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३८/१०८) वधिषीष्ट इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-३९/१०८) किम् कारणम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४०/१०८) वधः इट्प्रतिषेधः सन्निपाते एकाच्त्वात् प्रकृतेः च अनुदात्तत्वात् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४१/१०८) सन्निपाते च एव हि वधिः एकाच् श्रूयते प्रकृतिः च अस्य अनुदात्ता ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४२/१०८) किम् पुनः कारणम् एवम् विज्ञायते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४३/१०८) यङ्लोपार्थम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४४/१०८) यङ्लोपे मा भूत् इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४५/१०८) बेभिदिता , बेभिदितुम् , चेच्छिदिता , चेच्छिदितुम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४६/१०८) एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४७/१०८) एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमस्य अनुपपत्तिः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४८/१०८) किम् कारणम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-४९/१०८) अप्राप्तत्वात् प्रतिषेधस्य ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५०/१०८) द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५१/१०८) असति इट्प्रतिषेधे नियमः न उपपद्यते ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५२/१०८) असति नियमे कः दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५३/१०८) तत्र पचादिभ्यः इड्वचनम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५४/१०८) तत्र पचादिभ्यः इट् वक्तव्यः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५५/१०८) पेचिम , शेकिम ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५६/१०८) सनः च इट्प्रतिषेधः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५७/१०८) सनः च इट्प्रतिषेधः वक्तव्यः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५८/१०८) बिभित्सति , चिच्छित्सति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-५९/१०८) द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६०/१०८) इह च नीत्तः तत्वे कृते अनच्कत्वात् इट्प्रतिषेधः न प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६१/१०८) न एषः दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६२/१०८) आनुपूर्व्या सिद्धम् एतत् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६३/१०८) न अत्र अकृते इट्प्रतिषेधे तत्वम् प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६४/१०८) किम् कारणम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६५/१०८) ति किति इति उच्यते ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६६/१०८) यत् अपि उच्यते एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य इति मा भूत् नियमः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६७/१०८) ननु च उक्तम् तत्र पचादिभ्यः इड्वचनम् इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६८/१०८) न एषः दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-६९/१०८) उक्तम् तत्र थल्ग्रहणस्य प्रयोजनम् समुच्चयः यथा विज्ञायेत थलि च सेटि क्ङिति च सेटि इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७०/१०८) यत् अपि उच्यते सनः च इट्प्रतिषेधः इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७१/१०८) उभयविशेषणत्वात् सिद्धम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७२/१०८) उभयम् उपदेशग्रहणेन विशेषयिष्यामः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७३/१०८) उपदेशे अनुदात्तात् उपदेशे एकाचः इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७४/१०८) यङ्लोपे च तदन्तद्विर्वचनात् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७५/१०८) सन्यङन्तस्य स्थाने द्विर्वचनम् तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः सः एकाजुपदेशे अनुदात्तः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७६/१०८) अथ अपि द्विःप्रयोगः द्विर्वचनम् एवम् अपि न दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७७/१०८) न हि अस्य भिद्युपदेशे उपदेशः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७८/१०८) अथ अपि भिद्युपदेशे उपदेशः एवम् अपि न दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-७९/१०८) अकारेण व्यवहितत्वात् न भविष्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८०/१०८) ननु च लोपे कृते न अस्ति व्यवधानम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८१/१०८) स्थानिवद्भावात् व्यवधानम् एव ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८२/१०८) न सिध्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८३/१०८) पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८४/१०८) एवम् तर्हि पूर्वस्मात् अपि विधिः पूर्वविधिः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८५/१०८) कः पुनः उपदेशः न्याय्यः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८६/१०८) यः कृत्स्नः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८७/१०८) कः च कृत्स्नः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८८/१०८) यः उभयोः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-८९/१०८) यदि तर्हि यः उभयोः सः कृत्स्नः सः च न्याय्यः वधः इट्प्रतिषेधः प्राप्नोति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९०/१०८) आवधिषीष्ट इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९१/१०८) न एषः दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९२/१०८) आद्युदात्तनिपातनम् करिष्यते सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९३/१०८) एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९४/१०८) यथा एव हि सः निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत ॒ आवधिषीष्ट इति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९५/१०८) न एषः दोषः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९६/१०८) आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९७/१०८) तत्र आर्धधातुकसामान्ये वधिभावे कृते सतिशिष्टत्वात् प्रत्ययस्वरः भविष्यति ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९८/१०८) अथ के पुनः अनुदात्ताः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-९९/१०८) आदन्ताः , अदरिद्राः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१००/१०८) इवर्णान्ताः च अश्विश्रिडीशीदीधीवेवीङः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०१/१०८) उवर्णान्ताः युरुणुक्षुक्ष्णुस्नूर्णुवर्जम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०२/१०८) ऋदन्ताः च अजागृवृङ्वृञः ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०३/१०८) शकिः कवर्गान्तानाम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०४/१०८) पचिवचिसिचिमुचिरिचिविचिप्रच्छियजिभजिसृजित्यजिभुजिभ्रस्जिभञ्जिरुजियुजिणिजिविजिसिञ्जिस्वञ्जयः चवर्गान्तानाम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०५/१०८) सदिशदिहदिच्छिदितुदिस्विदिभिदिस्कन्दिक्षुदिखिद्यतिविन्दिविद्यतिराधियुधिबुधिशुधिक्रुधिरुधिसाधिव्यधिबन्धिसिध्यतिहनिमन्यतयः तवर्गान्तानाम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०६/१०८) तपितिपिवपिशपिचुपिलुपिलिपिस्वप्यापिक्षिपिसृपितृपिदृपियभिरभिलभियमिरमिनमिगमयः पवर्गान्तानाम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०७/१०८) रुशिरिशिदिशिविशिलिशिस्पृशिदृशिक्रुशिमृशिदंशित्विषिकृषिश्लिषिविषिपिषितुषिदुषिद्विषिघसिवसिदहिदिहिवहिदुहिनहिरुहिलिहिमिहयः च उष्मान्तानाम् ।

(पा-७,२.१०; अकि-३,२८३.१०-२८६.२; रो-५,१०७.९-११५.२; भा-१०८/१०८) वसिः प्रसारणी

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-१/९) कृञः असुटः ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-२/९) कृञः असुटः इति वक्तव्यम् ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-३/९) इह मा भूत् ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-४/९) सञ्चस्करिव , सञ्चस्करिम ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-५/९) तत् तर्हि वक्तव्यम् ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-६/९) न वक्तव्यम् ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-७/९) गुणे कृते रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-८/९) एवम् अपि उपदेशाधिकारात् प्राप्नोति ।

(पा-७,२.१३; अकि-३,२८६.४-७; रो-५,११५.४-७; भा-९/९) तस्मात् असुटः इति वक्तव्यम्

(पा-७,२.१४; अकि-३,२८६.९-१०; रो-५,११५-११६; भा-१/५) श्विग्रहणम् किमर्थम् न प्रसारणे कृते प्रसारणपूर्वत्वे च उगन्तात् इति एव सिद्धम् ।

(पा-७,२.१४; अकि-३,२८६.९-१०; रो-५,११५-११६; भा-२/५) अतः उत्तरम् पठति ।

(पा-७,२.१४; अकि-३,२८६.९-१०; रो-५,११५-११६; भा-३/५) श्विग्रहणम् इदन्तत्वात् उपदेशस्य ।

(पा-७,२.१४; अकि-३,२८६.९-१०; रो-५,११५-११६; भा-४/५) श्विग्रहणम् क्रियते इदन्तत्वात् उपदेशस्य ।

(पा-७,२.१४; अकि-३,२८६.९-१०; रो-५,११५-११६; भा-५/५) उपदेशः उगन्तात् इति उच्यते श्वयतिः च उपदेशः इदन्तः

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-१/८) यस्य विभाषा अविदेः ।

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-२/८) यस्य विभाषा अविदेः इति वक्तव्यम् ।

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-३/८) इह मा भूत् ।

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-४/८) विदितः , विदितवान् इति ।

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-५/८) तत् तर्हि वक्तव्यम् ।

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-६/८) न वक्तव्यम् ।

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-७/८) यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः ।

(पा-७,२.१५; अकि-३,२८६.१५-१८; रो-५,११७; भा-८/८) शाब्विकरणस्य विभाषा लुग्विकरणः च अयम्

(पा-७,२.१६-१७; अकि-३,२८६.२०-२८७.४; रो-५,११७.८-११८.२; भा-१/६) किमर्थः योगविभागः न आदितः विभाषा भावादिकर्मणोः इति एव उच्यते ।

(पा-७,२.१६-१७; अकि-३,२८६.२०-२८७.४; रो-५,११७.८-११८.२; भा-२/६) केन इदानीम् कर्तरि प्रतिषेधः भविष्यति ।

(पा-७,२.१६-१७; अकि-३,२८६.२०-२८७.४; रो-५,११७.८-११८.२; भा-३/६) यस्य विभाषा इति अनेन ।

(पा-७,२.१६-१७; अकि-३,२८६.२०-२८७.४; रो-५,११७.८-११८.२; भा-४/६) एवम् तर्हि सिद्धे सति यत् योगविभागम् करोति तत् ज्ञापयति आचार्यः यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः इति ।

(पा-७,२.१६-१७; अकि-३,२८६.२०-२८७.४; रो-५,११७.८-११८.२; भा-५/६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,२.१६-१७; अकि-३,२८६.२०-२८७.४; रो-५,११७.८-११८.२; भा-६/६) यस्य विभाषा अविदेः इति उक्तम् तत् न वक्तव्यम् भवति

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१/३६) क्षुब्धम् मन्थाभिधाने ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२/३६) क्षुब्धम् मन्थाभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३/३६) क्षुभितम् मन्थेन इति एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-४/३६) क्षुब्ध ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-५/३६) स्वान्त ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-६/३६) स्वान्तम् मनोऽभिधाने ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-७/३६) स्वान्तम् मनोऽभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-८/३६) स्वनितम् मनसा इति एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-९/३६) स्वान्त ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१०/३६) ध्वान्त ।[ ध्वान्तम् तमोऽभिधाने ।] ध्वान्तम् तमोऽभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-११/३६) ध्वनितम् तमसा इति एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१२/३६) [ऋ लग्न ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१३/३६) लग्नम् सक्ताभिधाने ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१४/३६) लग्नम् सक्ताभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१५/३६) लगितम् सक्तेन इति एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१६/३६) लग्न ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१७/३६) म्लिष्ट ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१८/३६) म्लिष्टम् अविस्पष्टाभिधाने ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-१९/३६) म्लिष्टम् अविस्पष्टाभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२०/३६) म्लेच्छितम् विस्पष्टेन इति एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२१/३६) म्लिष्टा ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२२/३६) विरिब्ध ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२३/३६) विरिब्धम् स्वराभिधाने ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२४/३६) विरिब्धम् स्वराभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२५/३६) विरेभितम् स्वरेण इति एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२६/३६) विरिब्ध ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२७/३६) फाण्ट ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२८/३६) फाण्टम् अनायासाभिधाने ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-२९/३६) फाण्टम् अनायासाभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३०/३६) फणितम् एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३१/३६) फाण्ट ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३२/३६) बाढ ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३३/३६) बाढम् बृशाभिधाने ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३४/३६) बाढम् बृशाभिधाने इति वक्तव्यम् ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३५/३६) बाहितम् एव अन्यत्र ।

(पा-७,२.१८; अकि-३,२८७.७-१३; रो-५,११८.५-११९.१२; भा-३६/३६) ]

(पा-७,२.१९; अकि-३,२८७.१५; रो-५,११९.१४; भा-१/२) किम् इदम् वैयात्ये इति ।

(पा-७,२.१९; अकि-३,२८७.१५; रो-५,११९.१४; भा-२/२) वियातभावः वैयात्यम्

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-१/१५) दृढनिपातनम् किमर्थम् न दृहेः न इट् भवति इति एव उच्येत ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-२/१५) दृढनिपातनम् नकारहकारलोपार्थम् परस्य च डत्वार्थम् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-३/१५) दृढनिपातनम् क्रियते नकारहकारलोपार्थम् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-४/१५) नकारहकारलोपः यथा स्यात् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-५/१५) परस्य च ढत्वार्थम् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-६/१५) परस्य च ढत्वम् यथा स्यात् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-७/१५) अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-८/१५) अनिड्वचने हि रभावस्य अप्रसिद्धिः ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-९/१५) द्रढीयान् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-१०/१५) किम् कारणम् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-११/१५) अलघुत्वात् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-१२/१५) नलोपवचनम् च ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-१३/१५) नलोपः च वक्तव्यः ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-१४/१५) इह च परिद्रढय्य गतः ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् ।

(पा-७,२.२०; अकि-३,२८७.१७-२८८.५; रो-५,११९.१६-१२०.१०; भा-१५/१५) इह च पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत

(पा-७,२.२१; अकि-३,२८८.७-१३; रो-५,१२०.१२-११३.५; भा-१/७) परिवृढः इति किमर्थम् निपात्यते न परिपूर्वात् वृहेः न इट् भवति इति एव उच्येत ।

(पा-७,२.२१; अकि-३,२८८.७-१३; रो-५,१२०.१२-११३.५; भा-२/७) परिवृढनिपातनम् च ।

(पा-७,२.२१; अकि-३,२८८.७-१३; रो-५,१२०.१२-११३.५; भा-३/७) किम् ।

(पा-७,२.२१; अकि-३,२८८.७-१३; रो-५,१२०.१२-११३.५; भा-४/७) नकारहकारलोपार्थम् परस्य च ढत्वार्थम् अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् नलोपवचनम् च इति एव ।

(पा-७,२.२१; अकि-३,२८८.७-१३; रो-५,१२०.१२-११३.५; भा-५/७) परिव्रढीयान् इति रः ऋतः हलादेः लघोः इति रभावः न स्यात् ।

(पा-७,२.२१; अकि-३,२८८.७-१३; रो-५,१२०.१२-११३.५; भा-६/७) इह च परिव्रढय्य गतः इति ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् ।

(पा-७,२.२१; अकि-३,२८८.७-१३; रो-५,१२०.१२-११३.५; भा-७/७) इह च पारिवृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत

(पा-७,२.२३; अकि-३,२८८.१५-१९; रो-५,१२१.७-११; भा-१/५) किमर्थम् अविशब्दने इति उच्यते न विशब्दने चुरादिणिचा भवितव्यम् ।

(पा-७,२.२३; अकि-३,२८८.१५-१९; रो-५,१२१.७-११; भा-२/५) एवम् तर्हि सिद्धे सति यत् अयम् अविशब्दने इति आह तत् ज्ञापयति आचार्यः विशब्दने घुषेः विभाषा णिच् भवति इति ।

(पा-७,२.२३; अकि-३,२८८.१५-१९; रो-५,१२१.७-११; भा-३/५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,२.२३; अकि-३,२८८.१५-१९; रो-५,१२१.७-११; भा-४/५) महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः ।

(पा-७,२.२३; अकि-३,२८८.१५-१९; रो-५,१२१.७-११; भा-५/५) एषः प्रयोगः उपपन्नः भवति

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१/२७) किम् इदम् अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते आहोस्वित् अध्ययने चेत् वृतिः वर्तते इति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२/२७) किम् च अतः ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-३/२७) यदि अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते सिद्धम् वृत्तः गुणः वृत्तम् पारायणम् वृत्तम् गुणस्य वृत्तम् पारायणस्य इति न सिध्यति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-४/२७) अथ विज्ञायते अध्ययने चेत् वृतिः वर्तते इति न दोषः भवति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-५/२७) यथा न दोषः तथा अस्तु ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-६/२७) अध्ययने चेत् वृतिः वर्तते इति अपि वै विज्ञायमाने न सिध्यति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-७/२७) किम् कारणम् ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-८/२७) वृतिः अयम् अकर्मकः ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-९/२७) अकर्मकाः च अपि ण्यन्ताः सकर्मकाः भवन्ति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१०/२७) अकर्म्कः च अत्र वृतिः ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-११/२७) कथम् पुनः ज्ञायते अकर्मकः अत्र वृतिः इति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१२/२७) अकर्मकाणाम् भावे क्तः भवति इति एवम् अत्र भावे क्तः भवति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१३/२७) तत्र उदितः क्त्वि विभाषा यस्य विभाषा इति इट्प्रतिषेधः भविष्यति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१४/२७) अथ णिग्रहणम् किमर्थम् ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१५/२७) वृत्तनिपातने णिग्रहणम् अण्यन्तस्य अवधारणप्रतिषेधार्थम् ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१६/२७) वृत्तनिपातने णिग्रहणम् क्रियते अण्यन्तस्य अवधारणम् मा भूत् इति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१७/२७) कैमर्थक्यात् नियमः भवति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१८/२७) विधेयम् न अस्ति इति कृत्वा ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-१९/२७) इह च अस्ति विधेयम् ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२०/२७) किम् ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२१/२७) ण्यधिकात् वृतेः इट्प्रतिषेधः विधेयः ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२२/२७) तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२३/२७) कुतः नु खलु एतत् अधिकार्थे आरम्भे सति ण्यधिकस्य भविष्यति न पुनः सनधिकस्य वा स्यात् यङधिकस्य वा इति ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२४/२७) तस्मात् णिग्रहणम् कर्तव्यम् ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२५/२७) अथ किमर्थम् निपातनम् क्रियते ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२६/२७) निपातनम् णिल्पेड्गुणप्रतिषेधार्थम् ।

(पा-७,२.२६; अकि-३,२८८.२१-२८९.१७; रो-५,१२२.२-१२३.१०; भा-२७/२७) निपातनम् क्रियते णिल्पार्थम् इड्गुणप्रतिषेधार्थम् च

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१/१९) दान्तशान्तयोः किम् निपात्यते ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-२/१९) दान्तशान्तयोः उपधादीर्घत्वम् च ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-३/१९) किम् च ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-४/१९) णिलोपेट्प्रतिषेधौ च ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-५/१९) उपधादीर्घत्वम् अनिपात्यम् ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-६/१९) वृद्ध्या सिद्धम् ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-७/१९) न सिध्यति ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-८/१९) मिताम् ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-९/१९) एवम् तर्हि अनुनासिकस्य क्विझलोः क्ङिति इति एवम् अत्र दीर्घत्वम् भविष्यति ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१०/१९) न सिध्यति ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-११/१९) किम् कारणम् ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१२/१९) णिचा व्यवहितत्वात् ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१३/१९) णिलोपे कृते न अस्ति व्यवधानम् ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१४/१९) स्थानिवद्भावात् व्यवधानम् एव ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१५/१९) प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१६/१९) अथ स्पष्टच्छन्नयोः किम् निपात्यते ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१७/१९) स्पष्टच्छन्नयोः उपधाह्रस्वत्वम् च ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१८/१९) किम् च ।

(पा-७,२.२७; अकि-३,२८९.१९-२९०.५; रो-५,१२४.२-१२; भा-१९/१९) णिलोपेट्प्रतिषेधौ

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१/१७) घुषिस्वनोः वावचनम् इट्प्रतिषेधात् विप्रतिषेधेन ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-२/१७) घुषिस्वनोः वावचनम् इट्प्रतिषेधात् भवति विप्रतिषेधेन ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-३/१७) घुषेः इट्प्रतिषेधस्य अवकाशः असम्पूर्वात् अविशब्दनम् ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-४/१७) घुष्टा रज्जुः , घुष्टः मार्गः ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-५/१७) वावचनस्य अवकाशः सम्पूर्वात् विशब्दनम् ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-६/१७) सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-७/१७) सम्पूर्वात् अविशब्दने उभयम् प्राप्नोति ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-८/१७) सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-९/१७) वावचनम् भवति विप्रतिषेधेन ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१०/१७) स्वनः इट्प्रतिषेधस्य अवकाशः अनाङ्पूर्वात् मनोऽभिधानम् ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-११/१७) स्वान्तम् मनः ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१२/१७) वावचनस्य अवकाशः अङ्पूर्वात् अमनोऽभिधानम् ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१३/१७) आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१४/१७) आङ्पूर्वात् मनोऽभिधाने उभयम् प्राप्नोति ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१५/१७) आस्वान्तम् मनः ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१६/१७) आस्वनितम् मनः ।

(पा-७,२.२८; अकि-३,२९०.७-१४; रो-५,१२४.१४-२२; भा-१७/१७) वावचनम् भवति विप्रतिषेधेन

(पा-७,२.२९; अकि-३,२९०.१६-१९; रो-५,१२५.२-६; भा-१/४) हृषेः लोमकेशकर्तृकस्य इति वक्तव्यम् ।

(पा-७,२.२९; अकि-३,२९०.१६-१९; रो-५,१२५.२-६; भा-२/४) हृष्टानि लोमानि , हृषितानि लोमानि , हृष्टम् लोमभिः , हृषितम् लोमभिः , हृष्टाः केशाः , हृषिताः केशाः , हृष्टम् केशैः , हृषितम् केशैः ।

(पा-७,२.२९; अकि-३,२९०.१६-१९; रो-५,१२५.२-६; भा-३/४) विस्मितप्रतीघातयोः इति वक्तव्यम् ।

(पा-७,२.२९; अकि-३,२९०.१६-१९; रो-५,१२५.२-६; भा-४/४) हृष्टः देवदत्तः , हृषितः देवदत्तः , हृष्टाः दन्ताः , हृषिताः दन्ताः

(पा-७,२.३०; अकि-३,२९०.२१-२२; रो-५,१२५.८-९; भा-१/५) अपचितः इति किम् निपात्यते ।

(पा-७,२.३०; अकि-३,२९०.२१-२२; रो-५,१२५.८-९; भा-२/५) चायः चिभावः निपात्यते ।

(पा-७,२.३०; अकि-३,२९०.२१-२२; रो-५,१२५.८-९; भा-३/५) अपचितः ।

(पा-७,२.३०; अकि-३,२९०.२१-२२; रो-५,१२५.८-९; भा-४/५) क्तिनि नित्यम् इति वक्तव्यम् ।

(पा-७,२.३०; अकि-३,२९०.२१-२२; रो-५,१२५.८-९; भा-५/५) अपचितिः

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१/३४) आर्धधातुकग्रहणम् किमर्थम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२/३४) यथा वलादिग्रहणम् आर्धधातुकविशेषणम् विज्ञायेत ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-३/३४) वलादेः आर्धधातुकस्य इति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-४/३४) अथ अक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणम् विशेषणम् स्यात् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-५/३४) अङ्गस्य इति वर्तते ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-६/३४) अङ्गविशेषणम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-७/३४) तत्र कः दोषः ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-८/३४) अङ्गस्य वलादेः आदितः इट् प्रसज्येत आडाड्वत् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-९/३४) तत् यथा आडाटौ अङ्गस्य आदितः भवतः तद्वत् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१०/३४) क्रियमाणे अपि आर्धधातुकग्रहणे अनिष्टम् शक्यम् विज्ञातुम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-११/३४) वलादेः आर्धधातुकस्य यत् अङ्गम् इति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१२/३४) अक्रियमाणे च इष्टम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१३/३४) अङ्गस्य यः वलादिः इति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१४/३४) किम् च अङ्गस्य वलादिः ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१५/३४) निमित्तम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१६/३४) यस्मिन् अङ्गम् इति एतत् भवति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१७/३४) कस्मिन् च एतत् भवति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१८/३४) प्रत्यये ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-१९/३४) यावता क्रियमाणे च अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् तत्र अक्रियमाणे एव इष्टम् विज्ञास्यामः ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२०/३४) इदम् तर्हि प्रयोजनम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२१/३४) इह मा भूत् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२२/३४) आस्ते, शेते ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२३/३४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२४/३४) रुदादिभ्यः सार्वधातुके इति एतन्नियमार्थम् भविष्यति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२५/३४) रुदादिभ्यः एव सार्वधातुकः इट् भवति न अन्येभ्यः इति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२६/३४) एवम् अपि वृक्षत्वम् , वृक्षता अत्र प्राप्नोति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२७/३४) एवम् तर्हि विहितविशेषणम् धातुग्रहणम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२८/३४) धातोः यः विहितः ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-२९/३४) ननु धातोः एव अयम् विहितः ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-३०/३४) न च अयम् धातोः इति एवम् विहितः ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-३१/३४) क्व पुनः धातुग्रहणम् प्रकृतम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-३२/३४) ऋतः इत् धातोः इति ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-३३/३४) तत् वै षष्ठीनिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह विहितः शक्यते विशेषयितुम् ।

(पा-७,२.३५; अकि-३,२९१.२-१७; रो-५,१२५.११-१२६.१३; भा-३४/३४) अथ इदानीम् षष्ठीनिर्दिष्टेन च अपि विहितः शक्यते विशेषयितुम् शक्यम् आर्धधातुकग्रहणम् अकर्तुम् इति

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१/५६) स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२/५६) स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३/५६) प्रस्नविता , प्रस्नवितुम् , प्रस्नवितव्यम् , प्रक्रमिता , प्रक्रमितुम् , प्रक्रमितव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४/५६) तत् तर्हि वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५/५६) न वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-६/५६) अविशेषेण स्नुक्रमोः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-७/५६) आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-८/५६) आत्मनेपदपरप्रतिषेधे च तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-९/५६) तत्परपरे तावत् ॒ प्रसुस्नूषिष्यते , प्रचिक्रंसिष्यते ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१०/५६) सीयुटि ॒ प्रस्नोषीष्त , प्रक्रंसीष्ट ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-११/५६) एकादेशे ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१२/५६) प्रस्नोष्यन्ते , प्रक्रंस्यन्ते ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१३/५६) एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१४/५६) अन्तादिवद्भावेन व्यपवर्गः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१५/५६) उभयतः आश्रये न अन्तादिवत् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१६/५६) एवम् तर्हि एकादेशः पूर्वविधिम् प्रति स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१७/५६) तत्परपरसीयुटोः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१८/५६) सिद्धम् तु स्नोः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-१९/५६) सिद्धम् एतत् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२०/५६) कथम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२१/५६) स्नोः आत्मनेपदेन समानपदस्थस्य न इट् भवति इति वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२२/५६) यदि स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति उच्यते प्रस्नविता इव आचरति प्रस्नवित्रीयते अत्र न प्राप्नोति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२३/५६) बहिरङ्गलक्षणम् अत्र आत्मनेपदम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२४/५६) क्रमोः च ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२५/५६) क्रमोः च आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२६/५६) अथ किमर्थम् क्रमेः पृथग्ग्रहणम् क्रियते न स्नुक्रमिभ्याम् इति एव उच्येत ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२७/५६) कर्तरि च आत्मनेपदविषयात् कृति न इति वक्ष्यत्गि तत् क्रमेः एव स्यात् स्नोः मा भूत् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२८/५६) व्यतिप्रस्नवितारौ , व्यतिप्रस्नतिवारः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-२९/५६) कर्तरि च आत्मनेपदविषयात् कृति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३०/५६) कर्तरि च आत्मनेपदविषयात् कृति प्रतिषेधः वक्तव्यः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३१/५६) प्रक्रन्ता , उपक्रन्ता ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३२/५६) तत् तर्हि इदम् बहु वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३३/५६) स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३४/५६) क्रमेः च इति वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३५/५६) कर्तरि च आत्मनेपदविषयात् कृति इति वक्तव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३६/५६) सूत्रम् च भिद्यते ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३७/५६) यथान्यासम् एव अस्तु ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३८/५६) ननु च उक्तम् स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् इति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-३९/५६) न एषः दोषः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४०/५६) स्नुक्रमी एव आत्मनेपदनिमित्तत्वेन विशेषयिष्यामः ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४१/५६) न चेत् स्नुक्रमी आत्मनेपदस्य निमित्ते इति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४२/५६) कथम् पुनः धातुः नाम आत्मनेपदस्य निमित्तम् स्यात् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४३/५६) धातुः एव निमित्तम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४४/५६) आह हि भगवान् अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४५/५६) यत्र तर्हि धातुः न आश्रीयते भावकर्मणोः इति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४६/५६) अत्र अपि धातुः एव आश्रीयते ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४७/५६) भावकर्मवृत्तात् धातोः इति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४८/५६) कथम् प्रक्रमितव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-४९/५६) सति आत्मनेपदे निमित्तशब्दः वर्तते ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५०/५६) कथम् प्रक्रन्ता , उपक्रन्ता ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५१/५६) तस्मात् असति अपि ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५२/५६) कथम् प्रक्रमितव्यम् ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५३/५६) तस्मात् सति एव ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५४/५६) कथम् प्रक्रन्ता , उपक्रन्ता ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५५/५६) वक्तव्यम् एव एतत् कर्तरि च आत्मनेपदविषयात् कृति इति ।

(पा-७,२.३६; अकि-३,२९२.२-२९३.९; रो-५,१२७.२-१३०.४; भा-५६/५६) अथ वा कृति इति वर्तते

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१/७६) ग्रहेः दीर्घत्वे इड्ग्रहणम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२/७६) ग्रहेः दीर्घत्वे इड्ग्रहणम् कर्तव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३/७६) इटः दीर्घः इति वक्तव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४/७६) न वक्तव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५/७६) प्रकृतम् अनुवर्तते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६/७६) क्व प्रकृतम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७/७६) आर्धधातुकस्य इट् वलादेः इति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-८/७६) एवम् अपि कर्तव्यम् एव ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-९/७६) अग्रहणे हि असम्प्रत्ययः षष्ठ्यभावात् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१०/७६) अक्रियमाणे हि इड्ग्रहणे असम्प्रत्ययः स्यात् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-११/७६) किम् कारणम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१२/७६) षष्ठ्यभावात् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१३/७६) षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१४/७६) क्रियमाणे च अपि इड्ग्रहणे ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१५/७६) चिण्वदिटः प्रतिषेधः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१६/७६) चिङ्वदितः प्रतिषेधः वक्तव्यः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१७/७६) ग्राहिष्यते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१८/७६) यङ्लोपे च ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-१९/७६) यङ्लोपे च प्रतिषेधः वक्तव्यः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२०/७६) जरीगृहिता , जरीगृहितुम् , जरीगृहितव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२१/७६) यदि पुनः इट् दीर्घः आगमान्तरम् विज्ञायेत ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२२/७६) इट् दीर्घः इति चेत् विप्रतिषिद्धम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२३/७६) इट् दीर्घः इति चेत् विप्रतिषिद्धम् भवति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२४/७६) यदि इट् न दीर्घः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२५/७६) अथ दीर्घः न इट् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२६/७६) इट् दीर्घः च इति विप्रतिषिद्धम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२७/७६) प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाभावः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२८/७६) प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वस्य अभावः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-२९/७६) वुवूर्षते , विवरिषते , ववरीषते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३०/७६) अत्र अपि इट् दीर्घः इति अनुवर्तिष्यते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३१/७६) यत् तर्हि विदेशस्थम् प्रतिषिध्य पुनर्विधानम् तत् न सिध्यति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३२/७६) जृ̄व्रश्च्योः क्त्वि ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३३/७६) श्र्युकः किति इति अनेन प्रतिषिद्धे दीर्घत्वम् न प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३४/७६) जरित्वा , जरीत्वा ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३५/७६) ईटः विधिः इटः प्रतिषेधः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३६/७६) यथाप्राप्तः इट् दीर्घः भविष्यति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३७/७६) यदि तर्हि इटः ग्रहणे ईटः ग्रहणम् न भवति जरीत्वा न क्त्वा सेट् इति कित्त्वप्रतिषेधः न प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३८/७६) इह च अग्र्हीत् इति इटः ईटि इति सिज्लोपः न प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-३९/७६) इह च अग्रहीत् न इटि इति वृद्धिप्रतिषेधः न प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४०/७६) मा भूत् एवम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४१/७६) ह्म्यन्तानाम् इति एवम् भविष्यति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४२/७६) अत्र अपि न इट् इति एव अनुवर्तते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४३/७६) तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४४/७६) तथा अग्रहीध्वम् , अग्रहीढ्वम् विभाषा इटः इति मूर्धन्यः न प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४५/७६) तस्मात् न एवम् शक्यम् वक्तुम् इटः ग्रहणे ईटः ग्रहणम् न भवति इति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४६/७६) भवति चेत् प्रतिषिद्धस्य च पुनर्विधाने दीर्घाभावः इति एव ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४७/७६) तस्मात् अशक्यः इट् दीर्घः आगमान्तरम् विज्ञातुम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४८/७६) न चेत् विज्ञायते इटः ग्रहणम् कर्तव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-४९/७६) न कर्तव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५०/७६) आर्धधातुकस्य इति वर्तते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५१/७६) ग्रहः परस्य आर्धधातुकस्य दीर्घत्वम् वक्ष्यामि ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५२/७६) इह अपि तर्हि प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५३/७६) ग्रहणम् , ग्रहणीयम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५४/७६) वलादेः इति वर्तते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५५/७६) एवम् अपि ग्रहीता , ग्रहीतुम् अत्र न प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५६/७६) भूतपूर्वगत्या भविष्यति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५७/७६) एवम् अपि ग्राहकः अत्र प्राप्नोति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५८/७६) किम् च इट्प्रतीघातेन खलु अपि दीर्घत्वम् उच्यमानम् इटम् बाधते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-५९/७६) तस्मात् इटः ग्रहणम् कर्तव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६०/७६) न कर्तव्यम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६१/७६) प्रकृतम् अनुवर्तते ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६२/७६) क्व प्रकृतम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६३/७६) आर्धधातुकस्य इट् वलादेः इति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६४/७६) ननु च उक्तम् एवम् अपि कर्तव्यम् एव अग्रहणे हि असम्प्रत्ययः षष्ठ्यनिर्देशात् इति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६५/७६) न एषः दोषः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६६/७६) ग्र्हः इति एषा पञ्चमी इट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६७/७६) एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् चिण्वदिटः प्रतिषेधः इति ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६८/७६) कथम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-६९/७६) प्रकृतस्य इटः इदम् दीर्घत्वम् न च चिण्वदिट् प्रकृतः ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७०/७६) यङ्लोपे कथम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७१/७६) यङ्लोपे च उक्तम् इटि सर्वत्र ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७२/७६) क्व सर्वत्र ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७३/७६) यदि एव प्रकृतस्य इटः दीर्घत्वम् अथ अपि इट् दीर्घः आगमान्तरम् विज्ञायेत ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७४/७६) यङ्लोपे च उक्तम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७५/७६) किम् उक्तम् ।

(पा-७,२.३७; अकि-३,२९३.११-२९४.२६; रो-५,१३१.५-१३५.९; भा-७६/७६) तदन्तद्विर्वचनात् इति

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१/३६) अथ वा इति वर्तमाने पुनः वावचनम् किमर्थम् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२/३६) पुनः वावचनम् क्रियते लिङ्सिचोः निवृत्त्यर्थम् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३/३६) पुनः वावचनम् क्रियते लिङ्सिचोः निवृत्त्यर्थम् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-४/३६) अथ किमर्थम् सूतिसूयत्योः पृथग्ग्रहणम् क्रियते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-५/३६) सुवतेः मा भूत् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-६/३६) अथ किमर्थम् धूञः सानुबन्धकस्य ग्रहणम् क्रियते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-७/३६) धुवतेः मा भूत् इति ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-८/३६) किम् पुनः इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-९/३६) कथम् च प्राप्ते कथम् वा अप्राप्ते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१०/३६) यदि स्वरतिः उदात्तः ततः प्राप्ते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-११/३६) अथ अनुदात्तः ततः अप्राप्ते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१२/३६) स्वरतिः उदात्तः ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१३/३६) स्वरतिः उदात्तः पठ्यते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१४/३६) किमर्थम् तर्हि वावचनम् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१५/३६) वावचनम् निवृत्त्यर्थम् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१६/३६) वावचनम् क्रियते निवृत्त्यर्थम् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१७/३६) अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१८/३६) अनुदात्ते हि सति किति विभाषा प्रसज्येत ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-१९/३६) स्वृत्वा ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२०/३६) प्रतिषिध्य पुनः विधानात् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२१/३६) प्रतिषिध्य किल अयम् पुनः विधीयते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२२/३६) सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् श्र्युकः किति इति एतम् अपि बाधेत ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२३/३६) यदि तर्हि उदात्तः स्वरतिः पठिष्यति विप्रतिषेधम् स्वरतेः वेट्त्वात् ऋतः स्ये विप्रतिषेधेन इति सः विप्रतिषेधः न उपपद्यते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२४/३६) किम् कारणम् ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२५/३६) सः विधिः अयम् प्रतिषेधः विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२६/३६) सः अपि विधिः न मृदूनाम् इव कार्पासानाम् कृतः प्रतिषेधविषये आरभ्यते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२७/३६) सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधिष्यते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२८/३६) अथ वा येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते वलादिलक्षणे इयम् विभाषा आरभ्यते स्यलक्षणे पुनः प्राप्ते च अप्राप्ते च ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-२९/३६) अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा वलादिलक्षणम् इटम् बाधिष्यते स्यलक्षणम् न बाधिष्यते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३०/३६) अथ वा पुनः अस्तु अनुदात्तः ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३१/३६) ननु च उक्तम् अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात् इति ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३२/३६) न एषः दोषः ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३३/३६) येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते एकाज्लक्षणे प्रतिषेधे इयम् विभाषा आरभ्यते श्र्युकः किति इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३४/३६) अथ वा श्र्युकः किति इति एषः योगः उदात्तार्थः च येभ्यः च अनुदात्तेभ्यः इट् प्राप्यते तद्बाधनार्थः च ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३५/३६) अथ वा श्र्युकः किति इति इह अनुवर्तिष्यते ।

(पा-७,२.४४; अकि-३,२९५.२-२९६.६; रो-५,१३६.२-१३९.५; भा-३६/३६) अथ वा आचार्यप्रवृत्तिः ज्ञापयति न इयम् विभाषा उग्लक्षणस्य प्रतिषेधस्य विषये भवति इति यत् अयम् सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् इति स्वृग्रहणम् करोति