व्याकरणमहाभाष्य खण्ड 78

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-१/९) इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-२/९) इड्ग्रहणम् नित्यार्थम् ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-३/९) नित्यः अयम् आरम्भः ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-४/९) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-५/९) सिद्धा अत्र विभषा पूर्वेण एव तत्र आरम्भसामर्थ्यात् नित्यः विधिः भविष्यति ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-६/९) न अत्र पूर्वेण विभाषा प्राप्नोति ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-७/९) किम् कारणम् ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-८/९) यस्य विभाषा इति प्रतिषेधात् ।

(पा-७,२.४७; अकि-३,२९६.८-१३; रो-५,१३९.७-१२; भा-९/९) तत्र आरम्भसामर्थ्यात् विभषा लभ्येत पुनः इड्ग्रहणात् इट् एव भवति

(पा-७,२.४८; अकि-३,२९६.१५-१७; रो-५,१४०.१-३; भा-१/४) इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधः ।

(पा-७,२.४८; अकि-३,२९६.१५-१७; रो-५,१४०.१-३; भा-२/४) इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधः वक्तव्यः ।

(पा-७,२.४८; अकि-३,२९६.१५-१७; रो-५,१४०.१-३; भा-३/४) इह मा भूत् ।

(पा-७,२.४८; अकि-३,२९६.१५-१७; रो-५,१४०.१-३; भा-४/४) प्रेषिता , प्रेषितुम् , प्रेषितव्यम्

(पा-७,२.५२; अकि-३,२९६.१९-२१; रो-५,१४०.५-७; भा-१/४) इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् ।

(पा-७,२.५२; अकि-३,२९६.१९-२१; रो-५,१४०.५-७; भा-२/४) पुनः इड्ग्रहणम् नित्यार्थम् ।

(पा-७,२.५२; अकि-३,२९६.१९-२१; रो-५,१४०.५-७; भा-३/४) इट् इति वर्तमाने पुनः इड्ग्रहणम् क्रियते नित्यार्थम् ।

(पा-७,२.५२; अकि-३,२९६.१९-२१; रो-५,१४०.५-७; भा-४/४) नित्यार्थः अयम् आरम्भः

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१/२१) गमेः इट् परस्मैपदेषु चेत् कृति उपसङ्ख्यानम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-२/२१) गमेः इट् परस्मैपदेषु चेत् कृति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-३/२१) जिगमिषिता , जिगमिषितुम् , जिगमिषितव्यम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-४/२१) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-५/२१) न कर्तव्यम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-६/२१) अविशेषेण गमेः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-७/२१) आत्मनेपदपरप्रतिषेधे उक्तम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-८/२१) किम् उक्तम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-९/२१) आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः इति ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१०/२१) इह अपि आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-११/२१) तपरपरे तावत् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१२/२१) सङ्जिगंसिष्यते ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१३/२१) सीयुटि ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१४/२१) सङ्गंसीष्ट ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१५/२१) एकादेशे ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१६/२१) सङ्गंस्यन्ते ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१७/२१) एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१८/२१) सिद्धम् तु गमेः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-१९/२१) सिद्धम् एतत् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-२०/२१) कथम् ।

(पा-७,२.५८; अकि-३,२९७.२-१२; रो-५,१४०.९-१४१.२; भा-२१/२१) गमेः आत्मनेपदेन समानपदस्थेण न भवति इति वक्तव्यम्

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१/३६) वृतादिप्रतिषेधे च ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२/३६) किम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३/३६) कृति उपसङ्ख्यानम् कर्तव्यम् ॒ विवृत्सिता विवृत्सितुम् , विवृत्सितव्यम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-४/३६) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-५/३६) न कर्तव्यम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-६/३६) अविशेषेण वृतादिभ्यः इट्प्रतिषेधम् उक्त्वा आत्मनेपदपरः इट् भवति इति वक्ष्यामि ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-७/३६) आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इड्वचनम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-८/३६) आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इट् वक्तव्यः ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-९/३६) तपरपरे तावत् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१०/३६) विवर्तिषिष्यते ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-११/३६) सीयुटि ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१२/३६) वर्तिषीष्ट ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१३/३६) एकादेशे ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१४/३६) वर्तिष्यन्ते , वर्धिष्यन्ते ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१५/३६) सिद्धम् तु वृतादीनाम् आत्मनेपदेन समानपदस्थस्य इड्वचनात् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१६/३६) सिद्धम् एतत् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१७/३६) कथम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१८/३६) वृतादीनाम् आत्मनेपदेन समानप्दस्थस्य इट् भवति इति वक्तव्यम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-१९/३६) चतुस्तासिक्ल्̥पिग्रहणानर्थक्यम् च ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२०/३६) चतुर्ग्रहणम् च अनर्थकम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२१/३६) सर्वेभ्यः हि वृतादिभ्यः प्रतिषेधः इष्यते ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२२/३६) तासिग्रहणम् च अनर्थकम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२३/३६) किम् कारणम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२४/३६) निवृत्तत्वात् सकारस्य ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२५/३६) निवृत्तम् सकारादौ इति ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२६/३६) तास्ग्रहणे च इदानीम् अक्रियमाणे क्ल्̥पिग्रहणेन अपि न अर्थः एषः अपि हि वृतादिः पञ्चमः ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२७/३६) भवेत् क्ल्̥पिग्रहणम् न कर्तव्यम् तास्ग्रहणम् तु कर्तव्यम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२८/३६) यत् हि तत् सकारादौ इति न तत् शक्यम् निवर्तयितुम् तृचि अपि हि प्रसज्येत ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-२९/३६) वर्तिता , वर्धिता ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३०/३६) तास्ग्रहणे च इदानीम् क्रियमाणे क्ल्̥पिग्रहणम् अपि कर्तव्यम् अन्येभ्यः अपि वृतादिभ्यः तासौ मा भूत् इति ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३१/३६) भवेत् तास्ग्रहणम् कर्तव्यम् क्ल्̥पिग्रहणम् तु न एव कर्तव्यम् ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३२/३६) अन्येभ्यः अपि वृतादिभ्यः तासौ कस्मात् न भवति ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३३/३६) परस्मैपदेषु इति वर्तते क्ल्̥पेः एव च तास्परस्मैपदपरः न अन्येभ्यः वृतादिभ्यः ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३४/३६) यदि एवम् तास्ग्रहणेन अपि न अर्थः ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३५/३६) तृचि कस्मात् न भवति ।

(पा-७,२.५९; अकि-३,२९७.१४-२९८.१२; रो-५,१४१.३-१४२.९; भा-३६/३६) परस्मैपदेषु इति वर्तते

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१/३८) तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधप्रसङ्गः अकारवत्त्वात् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२/३८) तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३/३८) जघसिथ ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-४/३८) किम् कारणम् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-५/३८) अकारवत्त्वात् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-६/३८) सः अपि हि अकारवान् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-७/३८) सिद्धम् तु हलादिग्रहणात् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-८/३८) सिद्धम् एतत् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-९/३८) कथम् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१०/३८) हलादिग्रहणम् कर्तव्यम् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-११/३८) तत् च अवश्यम् कर्तव्यम् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१२/३८) अठ्यशी प्रयोजयतः ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१३/३८) आथ्यशी तावत् न प्रयोजयतः ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१४/३८) किम् कारणम् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१५/३८) तासौ अनिटः इति उच्यते सेटौ च इमौ तासौ ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१६/३८) अञ्ज्वशू तर्हि प्रयोजयतः ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१७/३८) अञ्ज्वशू च अपि न प्रयोजयतः ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१८/३८) किम् कारणम् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-१९/३८) तासौ नित्यानिटः इति उच्यते विभाषितेटौ च एतौ ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२०/३८) अदिः तर्हि प्रयोजयति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२१/३८) आदिथ ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२२/३८) क्रियमाणे अपि वै हलादिग्रहणे अत्र प्राप्नोति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२३/३८) जघसिथ ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२४/३८) एषः अपि हलादिः ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२५/३८) तस्य च अभावात् तासौ ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२६/३८) तासौ अनिटः इति उच्यते न च घसिः तासौ अस्ति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२७/३८) ननु च यः तासौ न अस्ति अनिट् अपि असौ तासौ भवति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२८/३८) न एवम् विज्ञायते यः तासौ अनिट् इति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-२९/३८) कथम् तर्हि ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३०/३८) यः तासौ अस्ति अनिट् च इति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३१/३८) किम् वक्तव्यम् एतत् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३२/३८) न हि ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३३/३८) कथम् अनुच्यमानम् गंस्यते ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३४/३८) सप्तम्यर्थे अपि वै वतिः भवति ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३५/३८) तत् यथा ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३६/३८) मथुरायाम् इव मथुरावत् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३७/३८) पाटलिपुत्रे इव पाटलिपुत्रवत् ।

(पा-७,२.६२; अकि-३,२९८.१४-२९९.४; रो-५,१४३.२-१४४.५; भा-३८/३८) एवम् तासौ इव तास्वत्

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१/२५) किमर्थम् इदम् उच्यते न अचः तास्वत् थलि अनिटः नित्यम् इति एव सिद्धम् ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-२/२५) एवम् तर्हि नियमार्थः अयम् आरम्भः ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-३/२५) ऋतः एव भारद्वाजस्य न अन्यतः भारद्वाजस्य इति ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-४/२५) क्व मा भूत् ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-५/२५) ययिथ , वविथ इति ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-६/२५) ऋतः भारद्वाजस्य इति नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-७/२५) ऋतः भारद्वाजस्य इति नियमानुपपत्तिः ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-८/२५) किम् कारणम् ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-९/२५) अप्राप्तत्वात् प्रतिषेधस्य ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१०/२५) गुणे कृते रपरत्वे च अनजन्तत्वात् प्रतिषेधः न प्राप्नोति ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-११/२५) असति नियमे कः दोषः ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१२/२५) तत्र पचादिभ्यः इड्वचनम् ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१३/२५) तत्र पचादिभ्यः इट् वक्तव्यः ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१४/२५) पेचिथ , शेकिथ इति ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१५/२५) यदिः पुनः अयम् भारद्वाजः पुरस्तात् अपकृष्येत ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१६/२५) अचः तास्वत् थलि अनिटः नित्यम् भारद्वाजस्य ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१७/२५) उपदेशे अत्वतः भारद्वाजस्य ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१८/२५) ततः ऋतः ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-१९/२५) भारद्वाजस्य इति निवृत्तम् ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-२०/२५) सिध्यते एवम् अयम् तु भारद्वाजः स्वस्मात् मतात् प्रच्यावितः भवति ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-२१/२५) एवम् तर्हि योगविभागात् सिद्धम् ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-२२/२५) योगविभागः करिष्यते ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-२३/२५) अचः तास्वत् थलि अनिटः नित्यम् उपदेशे ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-२४/२५) ततः अत्वतः ।

(पा-७,२.६३; अकि-३,२९९.६-१९; रो-५,१४५.२-१४६.३; भा-२५/२५) अत्वतः च उपदेशे इति

(पा-७,२.६४; अकि-३,२९९.२१-२२; रो-५,१४६.५-७; भा-१/५) वृग्रहणम् किमर्थम् न कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एव सिद्धम् ।

(पा-७,२.६४; अकि-३,२९९.२१-२२; रो-५,१४६.५-७; भा-२/५) एवम् तर्हि नियमार्थः अयम् आरम्भः ।

(पा-७,२.६४; अकि-३,२९९.२१-२२; रो-५,१४६.५-७; भा-३/५) निगमः एव यथा स्यात् ।

(पा-७,२.६४; अकि-३,२९९.२१-२२; रो-५,१४६.५-७; भा-४/५) क्व मा भूत् ।

(पा-७,२.६४; अकि-३,२९९.२१-२२; रो-५,१४६.५-७; भा-५/५) ववरिथ

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१/२५) किमर्थम् इदम् उच्यते ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-२/२५) वस्वेकाजाद्घसांवचनम् नियमार्थम् ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-३/२५) नियमार्थः अयम् आरम्भः ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-४/२५) वसौ एकाजात् घसाम् एव ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-५/२५) क्व मा भूत् ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-६/२५) बिभिद्वान् ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-७/२५) किम् उच्यते नियमार्थम् इति न पुनः विध्यर्थः अपि स्यात् ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-८/२५) प्रतिषेधः अपि हि अत्र प्राप्नोति न इट् वशि कृति इति ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-९/२५) कृत् च एव हि अयम् वशादिः च ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१०/२५) एवम् तर्हि कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-११/२५) न अत्र तेन परिप्रापणम् प्राप्नोति ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१२/२५) किम् कारणम् ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१३/२५) प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१४/२५) उभयोः सः प्रत्यारम्भः ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१५/२५) कथम् ज्ञायते ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१६/२५) वृङ्वृञोः ग्रहणात् ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१७/२५) कथम् कृत्वा ज्ञापकम् ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१८/२५) इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रतिषेधः न प्राप्नोति ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-१९/२५) पश्यति तु आचार्यः उभयोः सः प्रत्यारम्भः इति ततः वृङ्वृञोः ग्रहणम् करोति ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-२०/२५) न खलु अपि कः चित् उभयवान् प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणः च ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-२१/२५) तुल्यजातीये असति यथा एव प्रकृतिलक्षणसय नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-२२/२५) अथ यावता वसौ एकाज्भ्यः इटा भवितव्यम् कः नु अत्र विशेषः नियमार्थे वा सति विध्यर्थे वा ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-२३/२५) न खलु कः चित् विशेषः ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-२४/२५) आहोपुरुषिकामात्रम् तु भवान् आह विध्यर्थम् इति ।

(पा-७,२.६७.१; अकि-३,३००.२-१६; रो-५,१४७; भा-२५/२५) वयम् तु ब्रूमः नियमार्थम् इति

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१/२५) अथ एकाज्ग्रहणम् किमर्थम् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-२/२५) इह मा भूत् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-३/२५) बिभिद्वान् , चिच्छिद्वान् इति ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-४/२५) क्रियमाणे अपि वा एकाज्ग्रहणे अत्र प्राप्नोति ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-५/२५) एषः अपि हि एकाच् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-६/२५) एवम् तर्हि कृते द्विर्वचने यः एकाच् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-७/२५) किम् वक्तव्यम् एतत् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-८/२५) न हि ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-९/२५) कथम् अनुच्यमानम् गंस्यते ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१०/२५) एकाज्ग्रहणसामर्थ्यात् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-११/२५) न हि कः चित् अकृते चिर्वचने एनकाच् अस्ति यदर्थम् एकाज्ग्रहणम् क्रियते ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१२/२५) ननु च अयम् अस्ति जागर्तिः ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१३/२५) गागृवांसः अनु ग्मन् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१४/२५) यत् तर्हि आकारग्रहणम् करोति न हि कः चित् अकृते द्विर्वचने आकारान्तः अनेकाच् अस्ति ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१५/२५) ननु च अयम् अस्ति दरिद्रातिः ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१६/२५) न दरिद्रातेः इटा भवितव्यम् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१७/२५) किम् कारणम् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१८/२५) उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-१९/२५) यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-२०/२५) एवम् अपि भूतपूर्वगतिः विज्ञायेत ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-२१/२५) आकारान्तः यः भूतपूर्वः इति ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-२२/२५) एकाज्ग्रहणम् एव तर्हि ज्ञापकम् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-२३/२५) ननु च उक्तम् जागर्त्यर्थम् एतत् स्यात् ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-२४/२५) न एकम् उदाहरणम् एकाज्ग्रहणम् प्रयोजयति ।

(पा-७,२.६७.२; अकि-३,३००.१७-२७; रो-५,१४८-१४९; भा-२५/२५) यदि एतावत् प्रयोजनम् स्यात् जागर्तेः न इति एव भ्रूयात्

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१/२४) अथ घसिग्रहणम् किमर्थ न एकाच् इति एव सिद्धम् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-२/२४) घसिग्रहणम् अनच्कत्वात् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-३/२४) घसिग्रहणम् क्रियते लोपे कृते अनच्कत्वात् इट् न प्राप्नोति ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-४/२४) इदम् इह सम्प्रधार्यम् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-५/२४) इट् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-६/२४) परत्वात् इडागमः ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-७/२४) नित्यः लोपः ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-८/२४) कृते अपि इटि प्राप्नोति अकृते अपि ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-९/२४) इट् अपि नित्यः ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१०/२४) कृते अपि लोपे प्राप्नोति अकृते अपि ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-११/२४) अनित्यः इट् न हि कृते लोपे प्राप्नोति ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१२/२४) किम् कारणम् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१३/२४) अनच्कत्वात् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१४/२४) एवम् तर्हि द्विर्वचने कृते अभ्यासे यः अकारः तदाश्रयः इट् भविष्यति ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१५/२४) न सिध्यति ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१६/२४) किम् कारणम् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१७/२४) द्वित्वात् लोपस्य परत्वात् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१८/२४) द्विर्वचनम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-१९/२४) परत्वात् लोपः ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-२०/२४) लोपे कृते अनच्कत्वात् द्विर्वचनम् न प्राप्नोति ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-२१/२४) घसिग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-२२/२४) कथम् ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-२३/२४) वचनात् इट् भविष्यति ।

(पा-७,२.६७.३; अकि-३,३०१.१-११; रो-५, १५०-१५१; भा-२४/२४) इटि कृते द्विर्वचनम् क्रियताम् लोपः इति यदि अपि परत्वात् लोपः स्थानिवद्भावात् द्विर्वचनम् भविष्यति

(पा-७,२.६८; अकि-३,३०१.१३-१४; रो-५,१५१.५-६; भा-१/५) दृशेः च इति वक्तव्यम् ।

(पा-७,२.६८; अकि-३,३०१.१३-१४; रो-५,१५१.५-६; भा-२/५) ददृश्वान् , ददृशिवान् ।

(पा-७,२.६८; अकि-३,३०१.१३-१४; रो-५,१५१.५-६; भा-३/५) तत् तर्हि वक्तव्यम् ।

(पा-७,२.६८; अकि-३,३०१.१३-१४; रो-५,१५१.५-६; भा-४/५) न वक्तव्यम् ।

(पा-७,२.६८; अकि-३,३०१.१३-१४; रो-५,१५१.५-६; भा-५/५) दृशेः इति वर्तते

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-१/९) स्वरतेः वेट्त्वात् ऋतः स्ये विप्रतिषेधेन ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-२/९) स्वरतिलक्षणात् वावचनात् ऋतः स्ये इति एतत् भवति विप्रतिषेधेन ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-३/९) स्वरतिलक्षणस्य वावचनस्य अवकाशः ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-४/९) स्वर्ता , स्वरिता ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-५/९) ऋतः स्ये इति अस्य अवकाशः ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-६/९) करिष्यते , हरिष्यते ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-७/९) इह उभयम् प्राप्नोति ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-८/९) स्वरिष्यति , अस्वरिष्यत् ।

(पा-७,२.७०; अकि-३,३०१,१६-२०; रो-५,१५१.८-१२; भा-९/९) ऋतः स्ये इति एतत् भवति विप्रतिषेधेन

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१/१९) किम् उदाहरणम् ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-२/१९) अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-३/१९) न एतत् अस्ति ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-४/१९) न अस्ति अत्र विशेषः सति वा इटि असति वा ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-५/१९) इदम् तर्हि ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-६/१९) अयंसिष्टाम् , अयंसिषुः , व्यरंसिष्टाम् , व्यरंसिषुः , अनंसिष्टाम् , अनंसिषुः , अयासिष्टाम् , अयासिषुः , अवासिष्टाम् , अवासिषुः ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-७/१९) इदम् च अपि उदाहरणम् ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-८/१९) अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-९/१९) ननु च उक्तम् न अस्ति अत्र विशेषः सति वा इटि असति वा इति ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१०/१९) अयम् अस्ति विशेषः ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-११/१९) यदि अत्र इट् न स्यात् वृद्धिः प्रसज्येत ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१२/१९) इटि पुनः सति न इटि इति प्रतिषेधः सिद्धः भवति ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१३/१९) मा भूत् एवम् ह्म्यन्तानाम् इति एवम् भविष्यति ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१४/१९) अत्र अपि न इटि इति अनुवर्तते ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१५/१९) तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१६/१९) आकारान्ताः च अपि पदपूर्वाः एकवचने उदाहरणम् ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१७/१९) मा हि यासीत् ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१८/१९) यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत ।

(पा-७,२.७३; अकि-३,३०१.२१-३०२.१०; रो-५,१५१.१४-१५२.१०; भा-१९/१९) इटि पुनः सति उक्तम् एतत् अर्थवत् तु सिचः चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशः उदात्तेन उदात्तः इति उदात्तत्वम् सिद्धम् भवति

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-१/१३) किमर्थः योगविभागः न इशीडजनाम् स्ध्वे इति एव उच्येत ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-२/१३) ईशः ध्वे मा भूत् इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-३/१३) इष्यते एव ॒ ईशिध्वे इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-४/१३) ईडजनोः तर्हि से मा भूत् इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-५/१३) इष्यते एव ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-६/१३) ईडिषे , जनिषे इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-७/१३) ईशः तर्हि स्वे मा भूत् इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-८/१३) इष्यते एव ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-९/१३) ईशिष्व इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-१०/१३) से तर्हि यः स्वशब्दः तत्र यथा स्यात् क्रियासमभिहारे यः स्वशब्दः तत्र मा भूत् इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-११/१३) अत्र अपि इष्यते ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-१२/१३) सः भवान् ईशिष्व इति एव अयम् ईष्टे इति ।

(पा-७,२.७७-७८; अकि-३,३०२.१३-१८; रो-५,१५२.१३-१५३.४; भा-१३/१३) आतः च इष्यते एवम् हि आह सिद्धम् तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् इति ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-१/११) किम् सार्वधातुकग्रहणम् अनुवर्तते उताहो न ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-२/११) किम् च अर्थः अनुवृत्त्या ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-३/११) बाढम् अर्थः यदि अकारात् परः याशब्दः आर्धधातुकम् अस्ति ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-४/११) ननु च अयम् अस्ति ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-५/११) चिकीर्ष्यात् , जिहीर्ष्यात् ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-६/११) लोपः अत्र बाधकः भविष्यति ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-७/११) किम् तर्हि अस्मिन् योगे उदाहरणम् ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-८/११) पचेत् , यजेत् ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-९/११) अत्र अपि अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-१०/११) सः यथा एव अयादेशः दीर्घत्वम् बाधते एवम् लोपम् अपि बाधेत ।

(पा-७,२.८०; अकि-३,३०२.२०-३०३.२; रो-५,१५४.१-६; भा-११/११) तस्मात् सार्वधातुकग्रहणम् अनुवर्त्यम्

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१/३२) मुकि स्वरे दोषः ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२/३२) मुकि सति स्वरे दोषः भवति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-३/३२) पचमानः , यजमानः ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-४/३२) मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-५/३२) ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-६/३२) न सिध्यति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-७/३२) अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-८/३२) एवम् तर्हि अभक्तः करिष्यते ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-९/३२) अभक्ते च ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१०/३२) किम् ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-११/३२) स्वरे दोषः भवति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१२/३२) पचमानः , यजमानः ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१३/३२) मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१४/३२) एवम् तर्हि परादिः करिष्यते ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१५/३२) परादौ दीर्घप्रसङ्गः ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१६/३२) यदि परादिः क्रियते अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१७/३२) न एषः दोषः ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१८/३२) तिङि इति एवम् तत् ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-१९/३२) सिध्यति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२०/३२) सूत्रम् तर्हि भिद्यते ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२१/३२) यथान्यासम् एव अस्तु ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२२/३२) ननु च उक्तम् मुकि स्वरे दोषः इति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२३/३२) परिहृतम् एतत् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२४/३२) ननु च उक्तम् अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् इति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२५/३२) अथ अयम् अद्भक्तः स्यात् गृह्येत अदुपदेशग्रहणेन ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२६/३२) बाढम् गृह्येत ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२७/३२) अद्भक्तः तर्हि भविष्यति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२८/३२) तत् कथम् ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-२९/३२) अतः या इयः इति अत्र अकारग्रहणम् पञ्चमीनिर्दिष्टम् अङ्गस्य इति च षष्ठीनिर्दिष्टम् तत्र अशक्यम् विविभक्तित्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-३०/३२) तत् प्रकृतम् इह अनुवर्तिष्यते ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-३१/३२) एवम् अपि षष्ठ्यभावात् न प्राप्नोति ।

(पा-७,२.८२; अकि-३,३०३.४-२३; रो-५,१५५.२-१५६.१५; भा-३२/३२) आनः इति एषा सप्तमी अतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१/२५) अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकप्रसङ्गः ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-२/२५) अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकः प्राप्नोति ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-३/२५) अष्टाभिः , अष्टाभ्यः , जातः , जातवान् , पन्थाः , मन्थाः ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-४/२५) सिद्धम् अनण्त्वात् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-५/२५) सिद्धम् एतत् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-६/२५) कथम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-७/२५) अनण्त्वात् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-८/२५) कथम् अनण्त्वम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-९/२५) अण्सवर्णान् गृह्णाति इति उच्यते न च अकारः अण् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१०/२५) उच्चारणसामर्थ्यात् वा ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-११/२५) अथ वा शुद्धोच्चारणसामर्थ्यात् न भविष्यति ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१२/२५) न एतौ स्तः परिहारौ ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१३/२५) यत् तावत् उच्यते अनण्त्वात् इति न ब्रूमः अण्सवर्णान् गृह्णाति इति ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१४/२५) कथम् तर्हि तपरः तत्कालस्य इति ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१५/२५) यत् अपि उच्यते उच्चारणसामर्थ्यात् वा इति अस्ति अन्यत् उच्चारणे प्रयोजनम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१६/२५) किम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१७/२५) उत्तरार्थम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१८/२५) रायः हलि इति ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-१९/२५) एवम् तर्हि न इमौ पृथक्परिहारौ ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-२०/२५) एकपरिहरः अयम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-२१/२५) सिद्धम् अनण्त्वात् उच्चारणसामर्थ्यात् वा इति ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-२२/२५) इह तावत् अष्टाभिः , अष्टाभ्यः इति अनण्त्वात् सिद्धम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-२३/२५) जातः , जातवान् , पन्थाः , मन्थाः उच्चारण्सामर्थ्यात् सिद्धम् ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-२४/२५) यदि एवम् पृथक्परिहारयोः अपि न दोषः ।

(पा-७,२.८४; अकि-३,३०४.२-१५; रो-५,१५७.२-१५९.३; भा-२५/२५) यः यत्र परिहारः सः तत्र भविष्यति

(पा-७,२.८६; अकि-३,३०४.१७-१८; रो-५,१५९.५-६; भा-१/३) अनादेशग्रहणम् शक्यम् अकर्तुम् ।

(पा-७,२.८६; अकि-३,३०४.१७-१८; रो-५,१५९.५-६; भा-२/३) कथम् हलि इति अनुवर्तते न च आदेशः हलादिः अस्ति ।

(पा-७,२.८६; अकि-३,३०४.१७-१८; रो-५,१५९.५-६; भा-३/३) तत् एतत् अनादेशग्रहणम् तिष्ठतु तावत् सान्न्यासिकम्

(पा-७,२.८९; अकि-३,३०४-२१; रो-५,१५९.८-९; भा-१/३) अज्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-७,२.८९; अकि-३,३०४-२१; रो-५,१५९.८-९; भा-२/३) कथम् ।

(पा-७,२.८९; अकि-३,३०४-२१; रो-५,१५९.८-९; भा-३/३) अविशेषेण यत्वम् उत्सर्गः तस्य हलादौ आत्वम् अपवादः

(पा-७,२.९०; अकि-३,३०५.२-३; रो-५,१६०.२-३; भा-१/३) शेषग्रहणम् शक्यम् अकर्तुम् ।

(पा-७,२.९०; अकि-३,३०५.२-३; रो-५,१६०.२-३; भा-२/३) कथम् ।

(पा-७,२.९०; अकि-३,३०५.२-३; रो-५,१६०.२-३; भा-३/३) अविशेषेण लोपः उत्सर्गः तस्य अजादौ यत्वम् अपवादः हलादौ आत्वम्

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१/२३) परिग्रहणम् शक्यम् अकर्तुम् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-२/२३) मान्तस्य इति एव सिद्धम् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-३/२३) न सिध्यति ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-४/२३) किम् कारणम् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-५/२३) अन्तशब्दस्य उभयार्थत्वात् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-६/२३) कथम् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-७/२३) अयम् अन्तशब्दः अस्ति एव सह तेन वर्तते ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-८/२३) तत् यथा ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-९/२३) मर्यादान्तम् देवदत्तस्य क्षेत्रम् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१०/२३) सह मर्यादया इति गम्यते ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-११/२३) अस्ति प्राक् तस्मात् वर्तते ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१२/२३) तत् यथा ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१३/२३) नद्यन्तम् देवदत्तस्य क्षेत्रम् इति ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१४/२३) प्राक् नद्याः इति गम्यते ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१५/२३) तत् यः सह तेन वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१६/२३) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१७/२३) सर्वत्र एव अन्तशब्दः सह तेन वर्तते ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१८/२३) अथ कथम् नद्यन्तम् देवदत्तस्य क्षेत्रम् इति ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-१९/२३) नद्याः क्षेत्रत्वे सम्भः न अस्ति इति कृत्वा प्राक् नद्याः इति गम्यते ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-२०/२३) अवधिद्योतनार्थम् तर्हि परिग्रहणम् कर्तव्यम् ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-२१/२३) मान्तस्य इति इयति उच्यमाने यत्र एव मान्ते युष्मदस्मदी तत्र एव आदेशाः स्युः ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-२२/२३) क्व च मान्ते युष्मदस्मदी ।

(पा-७,२.९१; अकि-३,३०५.५-१३; रो-५,१६०.५-१६२.२; भा-२३/२३) युष्मान् आचष्टे , अस्मान् आचष्टे इति युष्मयतेः अस्मयतेः च अप्रत्ययः

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१/२४) किमर्थम् इदम् उच्यते न त्वमौ एकवचने इति एव सिद्धम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-२/२४) न सिध्यति ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-३/२४) किम् कारणम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-४/२४) एकवचनाभावात् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-५/२४) एकवचने इति उच्यते न च अत्र एकवचनम् पश्यामः ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-६/२४) प्रत्ययलक्षणेन ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-७/२४) न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-८/२४) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-९/२४) लुक् क्रियताम् आदेशौ इति किम् अत्र कर्तव्यम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१०/२४) परत्वात् आदेशौ ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-११/२४) नित्यः लुक् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१२/२४) कृतयोः अपि आदेशयोः प्राप्नोति अकृतयोः अपि ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१३/२४) अन्तरङ्गौ आदेशौ ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१४/२४) एवम् तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोः त्वमौ शास्ति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बाधित्वा बहिरङ्गः लुक् भवति इति ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१५/२४) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१६/२४) गोमान् प्रियः अस्य गोमत्प्रियः , यवमत्प्रियः गोमान् इव आचरति गोमत्यते , यवमत्यते अन्तरङ्गान् अपि नुमादीन् बहिरङ्गः लुक् बाधते इति ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१७/२४) न एतत् अस्ति ज्ञापकम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१८/२४) अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-१९/२४) किम् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-२०/२४) ये अन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थम् एतत् स्यात् ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-२१/२४) तत् यथा ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-२२/२४) तव पुत्रः त्वत्पुत्रः , मम पुत्रः मत्पुत्रः , तुभ्यम् हितम् त्वद्धितम् , मह्यम् हितम् मद्धितम् इति ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-२३/२४) यत् तर्हि मपर्यन्तग्रहणम् अनुवर्तयति ।

(पा-७,२.९८.१; अकि-३,३०५.१५-३०६.५; रो-५,१६३-१६४; भा-२४/२४) यति अत्र अन्ये एकवचनादेशाः स्युः मपर्त्यन्तानुवृत्तिः अनर्थिका स्यात्

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१/२०) तिसृभावे सञ्ज्ञायाम् कनि उपसङ्ख्यानम् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-२/२०) तिसृभावे सञ्ज्ञायाम् कनि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-३/२०) तिसृका नाम ग्रामः ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-४/२०) चतसरि आद्युदात्तनिपातनम् च ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-५/२०) चतसरि आद्युदात्तनिपातनम् कर्तव्यम् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-६/२०) त्रिचतुरोः स्त्रियाम् तिसृचतसृ ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-७/२०) किम् प्रयोजनम् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-८/२०) चतस्रः पश्य ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-९/२०) शसि स्वरः मा भूत् इति ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१०/२०) किम् च अन्यत् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-११/२०) उपदेशिवद्वचनम् च ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१२/२०) उपदेशिवद्भावः च वक्तव्यः ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१३/२०) किम् प्रयोजनम् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१४/२०) स्वरसिद्ध्यर्थम् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१५/२०) उपदेशावस्थायाम् एव आद्युदात्तनिपातने कृते विभक्तिस्वरेण बाधनम् यथा स्यात् ॒ चतसृणाम् इति ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१६/२०) सः तर्हि उपदेशिवद्भावः वक्तव्यः ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१७/२०) न वक्तव्यः ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१८/२०) उक्तम् वा ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-१९/२०) किम् उक्तम् ।

(पा-७,२.९९; अकि-३,३०७.१८-३०८.६; रो-५,१६७.१६-१६९.२; भा-२०/२०) विभक्तिस्वरभावः च हलादिग्रहणात् आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् इति

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१/३६) अचि रादेशे जसि उपसङ्ख्यानम् गुणपरत्वात् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२/३६) अचि रादेशे जसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३/३६) तिस्रः तिष्ठन्ति , चतस्रः तिष्ठन्ति ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-४/३६) किम् पुनः कारणम् न सिध्यति ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-५/३६) गुणपरत्वात् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-६/३६) परत्वात् गुणः प्राप्नोति ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-७/३६) तत् तर्हि वक्तव्यम् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-८/३६) न वा अनवकाशत्वात् रस्य ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-९/३६) न वा वक्तव्यम् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१०/३६) किम् कारणम् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-११/३६) अनवकाशत्वात् रस्य ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१२/३६) अनवकाशः रादेशः गुणम् बाधिष्यते ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१३/३६) सावकाशः रादेशः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१४/३६) कः अवकाशः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१५/३६) तिस्रः पश्य ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१६/३६) चतस्रः पश्य ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१७/३६) न एषः अस्ति अवकाशः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१८/३६) अत्र अपि पूर्वसवर्णदीर्घः प्राप्नोति ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-१९/३६) सः यथा एव पूर्वसवर्णम् बाधते एवम् गुणम् अपि बाधिष्यते ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२०/३६) गुणः अपि अनवकाशः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२१/३६) सावकाशः गुणः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२२/३६) कः अवकाशः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२३/३६) हे कर्तः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२४/३६) न एषः सर्वनामस्थाने गुणः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२५/३६) कः तर्हि ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२६/३६) सम्बुद्धिगुणः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२७/३६) अयम् तर्हि ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२८/३६) हे मातः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-२९/३६) एषः अपि सम्बुद्धिगुणः एव ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३०/३६) न अत्र सम्बुद्धिगुणः प्राप्नोति ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३१/३६) किम् कारणम् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३२/३६) अम्बार्थनद्योः ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३३/३६) भवेत् दीर्घाणाम् ह्रस्ववचनसामर्थ्यात् न स्यात् ह्रस्वानाम् तु खलु ह्रस्वत्वम् क्रियताम् सम्बुद्धिगुणः इति परत्वात् सम्बुद्धिगुणेन भवितव्यम् ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३४/३६) अथ अपि कथम् चित् सावकासः गुणः स्यात् एवम् अपि न दोषः ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३५/३६) पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् रादेशः जसि गुणम् बाधते सर्वनामस्थानगुणम् न बाधिष्यते ।

(पा-७,२.१००; अकि-३,३०८.८-२२; रो-५,१६९.४-१७१.३; भा-३६/३६) तस्मात् सुष्ठु उच्यते अचि रादेशे जसि उपसङ्ख्यानम् गुणपरत्वात् इति

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१/२७) नुमः अनङ्जरसौ भवतः विप्रतिषेधेन ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२/२७) नुमः अवकाशः ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-३/२७) त्रपुणी , जतुनी , तुम्बुरुणी ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-४/२७) अनङः अवकाशः ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-५/२७) प्रियसक्थ्ना ब्राह्मणेन ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-६/२७) इह उभयम् प्राप्नोति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-७/२७) दध्ना , सक्थ्ना ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-८/२७) जरसः अवकाशः ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-९/२७) जरसा , जरसे ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१०/२७) नुमः अवकाशः ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-११/२७) कुण्डानि , वनानि ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१२/२७) इह उभयम् प्राप्नोति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१३/२७) अतिजरांसि ब्राह्मणकुलानि ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१४/२७) अनङ्जरसौ नुमः भवतः विप्रतिषेधेन ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१५/२७) अथ इह लुक् कस्मात् न भवति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१६/२७) अतिजरसम् पश्य इति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१७/२७) किम् पुनः कारणम् द्वितीयैकवचनम् एव उदाह्रियते न पुनः प्रथमैकवचनम् अपि ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१८/२७) अतिजरसम् तिष्ठति इति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-१९/२७) अस्ति अत्र विशेषः ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२०/२७) न अत्र अकृते अम्भावे जरस्भावः प्राप्नोति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२१/२७) किम् कारणम् ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२२/२७) अचि इति उच्यते ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२३/२७) यदा च जरस्भावः कृतः तदा लुक् न भविष्यति सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२४/२७) यदि एवम् अतिजरसम् , अतिजरसैः इति अत्र न प्राप्नोति अतिजरम् , अतिजरैः इति भवितव्यम् ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२५/२७) गोनर्दीयः आह ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२६/२७) इष्टम् एव एतत् सङ्गृहीतम् भवति ।

(पा-७,२.१०१; अकि-३,३०९.२-१२; रो-५,१७२.२-१७३.४; भा-२७/२७) अतिजरम् अतिजरैः इति भवितव्यम् सत्याम् एतस्याम् परिभाषायाम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१/४३) त्यदादीनाम् द्विपर्यन्तानाम् अकारवचनम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२/४३) त्यदादीनाम् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३/४३) किम् प्रयोजनम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-४/४३) युष्मदस्मदन्तानाम् भवदन्तानाम् वा मा भूत् इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-५/४३) तत् तर्हि वक्तव्यम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-६/४३) न वक्तव्यम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-७/४३) त्यदादीनाम् अकारेण सिद्धत्वात् युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक् ततः अत् इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-८/४३) यत् अयम् त्यदादीनाम् अत्वेन सिद्धे युष्मदस्मदोः शेषे लोपम् शास्ति तत् ज्ञापयति आचार्यः प्राक् ततः अत्वम् भवति इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-९/४३) न सर्वेषाम् इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१०/४३) अपि वा उपसमस्तार्थम् अत्वाभावात् कृतम् भवेत् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-११/४३) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१२/४३) उपसमस्तार्थम् एतत् स्यात् ॒ अतियूयम् , अतिवयम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१३/४३) उपसमस्तानाम् हि त्यदादीनाम् अत्वम् न इष्यते ॒ अतितत् , अतितदौ , अतितदः ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१४/४३) टिलोपः टाबभावार्थः कर्तव्यः इति तत् स्मृतम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१५/४३) यः तु शेषे लोपः टिलोपः सः वक्तव्यः ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१६/४३) किम् प्रयोजनम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१७/४३) टाप्प्रतिषेधार्थम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१८/४३) टाप् मा भूत् इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-१९/४३) सः तर्हि टिलोपः वक्तव्यः ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२०/४३) न वक्तव्यः ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२१/४३) अथ वा शेषसप्तम्या शेषे लोपः विधीयते ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२२/४३) इह युष्मदस्मदोः लोपः इति इयता अन्त्यस्य लोपः सिद्धः ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२३/४३) सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् अवशिष्टस्य लोपः यथा स्यात् इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२४/४३) लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिम् मनीषिणः ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२५/४३) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति यत् अयम् किमः कः इति कादेशम् शास्ति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२६/४३) इतरथा हि किमः अत् भवति इति एव ब्रूयात् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२७/४३) सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च किमः अत्त्वेन सिध्यति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२८/४३) अत्त्वे हि सति अन्त्यस्य प्रसज्येत ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-२९/४३) सिद्धम् अन्त्यस्य पूर्वेण एव तत्र आरम्भसामर्थ्यात् इकारस्य भविष्यति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३०/४३) कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सति इकारस्य भविष्यति न पुनः ककारस्य स्यात् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३१/४३) यत् तर्हि किमः ग्रहणम् करोति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३२/४३) इतरथा हि कट् अत् भवति इति एव ब्रूयात् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३३/४३) एवम् अपि ककारमात्रात् परस्य प्राप्नोति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३४/४३) त्यदादीनाम् इति वर्तते न च अन्यत् किमः त्यदादिषु ककारवत् अस्ति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३५/४३) एवम् अपि अनैकान्तिकम् ज्ञापकम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३६/४३) एतावत् तु ज्ञाप्यते न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति तत्र कुतः एतत् द्विपर्यन्तानाम् भविष्यति न पुनः युष्मदस्मदन्तानाम् वा स्यात् भवदन्तानाम् वा ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३७/४३) किम् च अवश्यम् खलु अपि उत्तरार्थम् किमः ग्रहणम् कर्तव्यम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३८/४३) कु तिहोः क्व अति इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-३९/४३) कादेशः खलु अपि अवश्यम् साकच्कार्थः वक्तव्यः कः कौ के इति एवम् अर्थम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-४०/४३) तस्मात् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-४१/४३) त्यदादीनाम् अकारेण सिद्धत्वात् युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक् ततः अत् इति ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-४२/४३) अपि वा उपसमस्तार्थम् अत्वाभावात् कृतम् भवेत् , टिलोपः टाबभावार्थः कर्तव्यः इति तत् स्मृतम् ।

(पा-७,२.१०२; अकि-३,३०९.१५-३१०.२५; रो-५,१७४.२-१७८.६; भा-४३/४३) अथ वा शेषसप्तम्या शेषे लोपः विधीयते , लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिम् मनीषिणः

(पा-७,२.१०५; अकि-३,३१०.२७-२८; रो-५,१७८.८-९; भा-१/५) किमर्थम् क्वादेशः उच्यते न कु तिहात् सि इति एव उच्यते ।

(पा-७,२.१०५; अकि-३,३१०.२७-२८; रो-५,१७८.८-९; भा-२/५) का रूपसिद्धिः ॒ क्व ।

(पा-७,२.१०५; अकि-३,३१०.२७-२८; रो-५,१७८.८-९; भा-३/५) यणादेशेन सिद्धम् ।

(पा-७,२.१०५; अकि-३,३१०.२७-२८; रो-५,१७८.८-९; भा-४/५) न सिध्यति ।

(पा-७,२.१०५; अकि-३,३१०.२७-२८; रो-५,१७८.८-९; भा-५/५) ओः गुणः प्रसज्येत

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१/२८) किमर्थम् अनन्त्ययोः इति उच्यते ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२/२८) अन्त्ययोः मा भूत् इति ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-३/२८) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-४/२८) अत्वम् अन्त्ययोः बाधकम् भविष्यति ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-५/२८) अनवकाशाः विधयः बाधकाः भवन्ति सावकाशम् च अत्वम् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-६/२८) कः अवकाशः ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-७/२८) द्विशब्दः ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-८/२८) सत्वम् अपि सावकाशम् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-९/२८) कः अवकाशः ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१०/२८) अनन्त्यः ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-११/२८) कथम् पुनः सति अन्त्ये अनन्त्यस्य सत्वम् स्यात् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१२/२८) भवेत् यः तकारदकाराभ्याम् अङ्गम् विशेषयेत् तस्य अनन्त्ययोः न स्यात् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१३/२८) वयम् तु खलु अङ्गेन तकारदकारौ विशेषयिष्यामः ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१४/२८) एवम् अपि उभयोः सावकासशयोः परत्वात् सत्वम् प्राप्नोति ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१५/२८) किम् च स्यात् यदि अन्त्ययोः सत्वम् स्यात् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१६/२८) इह हे सः इति एङ्ह्रस्वात् इति सम्बुद्धिलोपः न स्यात् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१७/२८) इह च या सा अतः इति टाप् न स्यात् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१८/२८) तस्मात् अनन्त्ययोः इति वक्तव्यम् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-१९/२८) न वक्तव्यम् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२०/२८) एवम् वक्ष्यामि ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२१/२८) तदोः सः सौ ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२२/२८) ततः अदसः ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२३/२८) अदसः च दकारस्य सः भवति इति ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२४/२८) इदम् इदानीम् किमर्थम् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२५/२८) नियमार्थम् ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२६/२८) अदसः एव दकारस्य न अन्यस्य दकारस्य इति ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२७/२८) यदि नियमः क्रियते द्वीयतेः अप्रत्ययः द्वः इति प्राप्नोति स्वः इति च इष्यते ।

(पा-७,२.१०६; अकि-३,३११.२-१२; रो-५,१७८.११-१८०.५; भा-२८/२८) यथालक्षणम् अप्रयुक्ते

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१/३१) अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२/३१) अदसः एव सोः भवेत् औत्वम् किमर्थम् सुलोपः विधीयते ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-३/३१) ह्रस्वात् लुप्येत सम्बुद्धिः ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-४/३१) इह हे असौ इति एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्रसज्येत ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-५/३१) न हलः ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-६/३१) हलः लोपः सम्बुद्धिलोपः ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-७/३१) तत् हल्ग्रहणम् कर्तव्यम् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-८/३१) प्रकृतम् हि तत् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-९/३१) प्रकृतम् हल्ग्रहणम् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१०/३१) क्व प्रकृतम् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-११/३१) हल्ङ्याब्भ्यः दीर्घात् सुतिस्यपृक्तम् हल् इति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१२/३१) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१३/३१) ह्रस्वात् इति एषा पञ्चमी हल् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१४/३१) आपः एत्त्वम् भवेत् तस्मिन् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१५/३१) इह हे असौ ब्राह्मणि आङि च आपः सम्बुद्धौ च इति एत्त्वम् प्रसज्येत ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१६/३१) न झलि इति अनुवर्तनात् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१७/३१) झलि इति तत्र अनुवर्तते ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१८/३१) क्व प्रकृतम् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-१९/३१) सुपि च बहुवचने झलि एत् इति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२०/३१) प्रत्ययस्थात् च कात् इत्त्वम् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२१/३१) इह च असकौ ब्राह्मणी इति प्रत्यय्स्थात् कात् पूर्वस्य इति ईत्त्वम् प्रसज्येत ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२२/३१) न एषः दोषः ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२३/३१) प्रश्लिष्टनिर्देशः अयम् ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२४/३१) आ , आप् , आप् इति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२५/३१) इह अपि तर्हि न प्राप्नोति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२६/३१) कारिके , हारिके , इति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२७/३१) शीभावः च प्रसज्यते ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२८/३१) इह च शीभावः च प्राप्नोति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-२९/३१) असौ ब्राह्मणी ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-३०/३१) आपः उत्तरस्य औङः शी भवति इति शीभावः प्राप्नोति ।

(पा-७,२.१०७.१; अकि-३,३११.१४-३१२.१३; रो-५,१८०-१८२; भा-३१/३१) तस्मात् सोः लोपः वक्तव्यः

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१/२५) सौ औत्वप्रतिषेधः साकच्कात् वा सात् उत्वम् च ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-२/२५) सौ औत्वप्रतिषेधः साकच्कात् वा वक्तव्यः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-३/२५) सात् च परस्य उत्वम् वक्तव्यम् ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-४/२५) असकौ , असुकः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-५/२५) उत्तरपदभूतानाम् आदेशे उपदेशवद्वचनम् ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-६/२५) उत्तरपदभूतानाम् त्यदादीनाम् आदेशे उपदेशिवद्भावः वक्तव्यः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-७/२५) परमाहम् , परमायम् , परमानेन ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-८/२५) किम् प्रयोजनम् ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-९/२५) अनादिष्टार्थम् ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१०/२५) अकृते एकादेशे आदेशाः यथा स्युः इति ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-११/२५) किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः आदेशाः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१२/२५) न परत्वात् आदेशैः भवितव्यम् ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१३/२५) बहिरङ्गलक्षणत्वात् ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१४/२५) बहिरङ्गाः आदेशाः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१५/२५) अन्तरङ्गः एकादेशः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१६/२५) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१७/२५) सः तर्हि उपदेशिवद्भावः वक्तव्यः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१८/२५) न वक्तव्यः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-१९/२५) आचार्यप्रवृत्तिः ज्ञापयति पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-२०/२५) कथम् कृत्वा ज्ञापकम् ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-२१/२५) इन्द्रे द्वौ अचौ ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-२२/२५) तत्र एकः यस्य इति लोपेन अपह्रियते अपरः एकादेशेन ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-२३/२५) अनच्कः इन्द्रः संवृत्तः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-२४/२५) तत्र कः वृद्धेः प्रसङ्गः ।

(पा-७,२.१०७.२; अकि-३,३१२.१४-३१३.४; रो-५,१८२; भा-२५/२५) पश्यति तु आचार्यः पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशे इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति

(पा-७,२.१०७.३; अकि-३,३१३.५-८; रो-५,१८२-१८३; भा-१/२) अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते , ह्रस्वात् लुप्येत सम्बुद्धिः न हलः प्रकृतम् हि तत् ।

(पा-७,२.१०७.३; अकि-३,३१३.५-८; रो-५,१८२-१८३; भा-२/२) आपः एत्त्वम् भवेत् तस्मिन् न झलि इति अनुवर्तनात् , प्रत्ययस्थात् च कात् इत्त्वम् शीभावः च प्रसज्यते

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१/३०) मृजेः वृद्धिविधौ क्विप्रतिषेधः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२/३०) मृजेः वृद्धिविधौ क्व्यन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-३/३०) कंसपरिमृड्भ्याम् , कंसपरिमृड्भिः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-४/३०) धातोः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात् सिद्धम् ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-५/३०) अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-६/३०) धातुप्रत्यये कार्यम् भवति इति एषा परिभाषा कर्तव्या ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-७/३०) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-८/३०) प्रयोजनम् सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-९/३०) सृजि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१०/३०) रज्जुसृड्भ्याम् , रज्जुसृड्भिः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-११/३०) सृजि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१२/३०) दृशि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१३/३०) देवदृग्भ्याम् , देवदृग्भिः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१४/३०) दृशि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१५/३०) मस्जि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१६/३०) उदकमग्भ्याम् , उदकमग्भिः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१७/३०) मस्जि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१८/३०) नशि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-१९/३०) प्रनड्भ्याम् , प्रनड्भिः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२०/३०) नशि ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२१/३०) हन्ति ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२२/३०) वार्त्रघ्नः , भ्रौणघ्नः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२३/३०) हन्ति ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२४/३०) गिरति ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२५/३०) देवगिरः ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२६/३०) यदि स्वरूपग्रहणे इति उच्यते प्रसृब्भ्याम् , प्रसृब्भिः , अनुदात्तस्य च ऋदुपस्य अन्यतरस्याम् इति अम् प्राप्नोति ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२७/३०) एवम् तर्हि इयम् परिभाषा कर्तव्या धातोः कार्यम् उच्यमानम् तत्प्रत्यये भवति इति ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२८/३०) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-२९/३०) न कर्तव्या ।

(पा-७,२.११४; अकि-३,३१३.१०-२२; रो-५,१८३.४-१८४.४; भा-३०/३०) आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् भ्रौणहत्ये तत्वम् शास्ति

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१/२६) वृद्धौ अज्ग्रहणम् गोऽर्थम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२/२६) वृद्धौ अज्ग्रहणम् क्रियते गोतः वृधिः यथा स्यात् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-३/२६) गौः इति ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-४/२६) न एतत् अस्ति प्रयोजनम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-५/२६) णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-६/२६) अथ योगविभागः किमर्थः न ञ्णिति अतः उपधायाः इति एव उच्येत ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-७/२६) का रूपसिद्धः चायकः , लावकः , कारकः ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-८/२६) गुणे कृते अयवः रपरत्वे च अतः उपधायाः इति एव सिद्धम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-९/२६) योगविभागः सखिव्यञ्जनाद्यर्थः ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१०/२६) योगविभागः क्रियते सख्यर्थः व्यञ्जनाद्यर्थः च ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-११/२६) सख्यर्थः तावत् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१२/२६) सखायौ , सखायः ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१३/२६) व्यञ्जनाद्यर्थः ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१४/२६) जैत्रम् , यौत्रम् , च्यौत्रम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१५/२६) योगविभागे च इदानीम् सखिव्यञ्जनाद्यर्थे क्रियमाणे अज्ग्रहणम् अपि कर्तव्यम् भवति ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१६/२६) किम् प्रयोजनम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१७/२६) गोर्थम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१८/२६) ननु च उक्तम् णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति इति ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-१९/२६) अस्ति अन्यत् णित्करणसय प्रयोजनम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२०/२६) किम् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२१/२६) गावौ , गावः ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२२/२६) अवादेशे कृते अतः उपधायाः इति वृद्धिः यथा स्यात् ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२३/२६) यत् तु सौ णित्करणम् तत् अनवकाशम् तस्य अनवकाशत्वात् एव वृद्धिः भविष्यति ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२४/२६) यथा एव खलु अपि णित्करणसामर्थ्यात् अनिकः अपि वृद्धिः प्रार्थ्यते एवम् तत्वम् अपि प्राप्नोति ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२५/२६) तत्वम् अपि हि ञ्णिति इति उच्यते ।

(पा-७,२.११५; अकि-३,३१३.२४-३१४.१४; रो-५,१८४.५-१८५.७; भा-२६/२६) तस्मात् अज्ग्रहणम् कर्तव्यम्

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१/२८) अज्ग्रहणम् कर्तव्यम् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२/२८) ननु च क्रियते एव ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-३/२८) द्वितीयम् कर्तव्यम् यथा अचामादिग्रहणम् अज्विशेषणम् विज्ञायेत ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-४/२८) अचाम् आदेः अचः इति ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-५/२८) अथ अक्रियमाणे अज्ग्रहणे कस्य अचामादिग्रहणम् विशेषणम् स्यात् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-६/२८) इग्विशेषणम् इति आह ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-७/२८) अचाम् आदेः इकः इति ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-८/२८) तत्र कः दोषः ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-९/२८) इह एव स्यात् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१०/२८) ऐत्कायनः , औपगवः ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-११/२८) इह न स्यात् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१२/२८) गार्ग्यः , वात्स्यः इति ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१३/२८) तत् तर्हि अज्ग्रहणम् कर्तव्यम् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१४/२८) न कर्तव्यम् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१५/२८) प्रकृतम् अनुवर्तते ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१६/२८) क्व प्रकृतम् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१७/२८) अचः ञ्णिति इति ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१८/२८) यदि तत् अनुवर्तते अतः उपधायाः अचः इति अज्मात्रस्य उपधायाः वृद्धिः प्रसज्येत ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-१९/२८) छेदकः इति ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२०/२८) अकारेण तपरेण अचम् विशेषयिष्यामः ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२१/२८) अचः अतः इति ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२२/२८) इह इदानीम् अचः इति एव अनुवर्तते अतः इति निवृत्तम् ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२३/२८) अथ वा मण्डूकगतयः अधिकाराः ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२४/२८) यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२५/२८) अथ वा एकयोगः करिष्यते ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२६/२८) अचः ञ्णिति अतः उपधायाः ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२७/२८) ततः तद्धितेषु अचाम् आदेः इति ।

(पा-७,२.११७.१; अकि-३,३१४.१६-३१५.२; रो-५,१८५-१८६; भा-२८/२८) न च एकयोगे अनुवृत्तिः भवति

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१/१७) तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणप्रतिषेधः ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-२/१७) तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणायाः वृद्धेः प्रतिषेधः वक्तव्यः ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-३/१७) क्रौष्टुः जागतः इति ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-४/१७) ननु च अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-५/१७) कथम् अन्यस्य उच्यमाना अन्यस्य बाधिका स्यात् ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-६/१७) असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-७/१७) लोकविज्ञानात् सिद्धम् ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-८/१७) सति अपि सम्भवे बाधनम् भवति ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-९/१७) तत् यथा ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१०/१७) ब्राह्मणेभ्यः दधि दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-११/१७) एवम् इह अपि सति अपि सम्भवे अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१२/१७) विषमः उपन्यासः ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१३/१७) न अप्राप्ते दधिदाने तक्रदानम् आरभ्यते तत् प्राप्ते आरभ्यमाणम् बाधकम् भविष्यति ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१४/१७) इह पुनः अप्राप्तायाम् अन्त्योपधलक्षणायाम् वृद्धौ अचामादिवृद्धिः आरभ्यते ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१५/१७) सुश्रुत् , सौश्रुतः इति ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१६/१७) पुष्करसद्ग्रहणात् वा ।

(पा-७,२.११७.२; अकि-३,३१५.३-१६; रो-५,१८६-१८८; भा-१७/१७) अथ वा यत् अयम् अनुशतिकादिषु पुष्करसच्शब्दम् पठति तत् ज्ञापयति आचार्यः अचामादिवृद्धौ अन्त्योपधलक्षणा वृद्धिः न भवति इति