व्याकरणमहाभाष्य खण्ड 80

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-१/८) इह कस्मात् न भवति ।

(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-२/८) आशिषा तरति आशिषिकः , उषा तरति औषिकः ।

(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-३/८) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-४/८) अथ इह कथम् भवितव्यम् ।

(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-५/८) दोर्भ्याम् तरति ।

(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-६/८) दौष्कः इति भवितव्यम् ।

(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-७/८) कथम् ।

(पा-७,३.५१; अकि-३, ३२९.७-९; रो-५,२१५.३-५; भा-८/८) यदि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१/५२) किम् इदम् ञ्णिन्नकारग्रहणम् हन्तिविशेषणम् ॒ ञ्णिन्नकारपरस्य हन्तेः यः हकारः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२/५२) आहोस्वित् हकारविशेषणम् ॒ ञ्णिन्नकारपरस्य हकारस्य सः चेत् हन्तेः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३/५२) कः च अत्र विशेषः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४/५२) हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-५/५२) हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-६/५२) घ्नन्ति , घ्नन्तु , अघ्नन् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-७/५२) अस्तु तर्हि हकारविशेषणम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-८/५२) हकारस्य इति चेत् ञ्णिति अप्राप्तिः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-९/५२) हकारस्य इति चेत् ञ्णिति अप्राप्तिः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१०/५२) घातयति घातकः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-११/५२) किम् कारणम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१२/५२) नकारेण व्यवहितत्वात् न प्राप्नोति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१३/५२) वचनात् भविष्यति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१४/५२) इह अपि वचनात् प्राप्नोति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१५/५२) हननम् इच्छति हननीयते हननीयतेः ण्वुल् हननीयकः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१६/५२) स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१७/५२) स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१८/५२) घ्नन्ति , घ्नन्तु ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-१९/५२) वचनात् भविष्यति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२०/५२) वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२१/५२) वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः वक्तव्यः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२२/५२) हन्ता , हन्तुम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२३/५२) नकारग्रहणसामर्थ्यात् अलोपे न भविष्यति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२४/५२) अस्ति अन्यत् नकारग्रहणस्य प्रयोजनम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२५/५२) किम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२६/५२) श्रूयमाणविशेषणम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२७/५२) यत्र नकारः श्रूयते तत्र यथा स्यात् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२८/५२) इह मा भूत् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-२९/५२) हतः हथः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३०/५२) सिद्धम् तु उपधालोपे इति वचनात् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३१/५२) सिद्धम् एतत् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३२/५२) कथम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३३/५२) उपधालोपे च इति वक्तव्यम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३४/५२) सिध्यति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३५/५२) सूत्रम् तर्हि भिद्यते ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३६/५२) यथान्यासम् एव अस्तु ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३७/५२) ननु च उक्तम् हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३८/५२) वचनात् भविष्यति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-३९/५२) अथ वा पुनः अस्तु हकारविशेषणम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४०/५२) ननु च उक्तम् हकारस्य इति चेत् ञ्णिति अप्राप्तिः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४१/५२) वचनात् भविष्यति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४२/५२) ननु च उक्तम् इह अपि वचनात् प्राप्नोति हननीयकः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४३/५२) न एषः दोषः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४४/५२) येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४५/५२) न च क्व चित् धात्ववयवेन अव्यवधानम् एतेन पुनः सङ्घातेन व्यवधानम् भवति न च भवति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४६/५२) यत् अपि उच्यते स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः इति वचनात् भविष्यति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४७/५२) ननु च उक्तम् वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४८/५२) न एषः दोषः ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-४९/५२) आनन्तर्यम् इह आश्रीयते हकारस्य नकारः इति ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-५०/५२) क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न सन्निपातकृतम् न अपि शास्त्रकृतम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-५१/५२) लोपे सन्निपातकृतम् आनन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

(पा-७,३.५४; अकि-३,३२९.११-३३०.१६; रो-५,२१५.७-२१७.१३; भा-५२/५२) यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-१/१६) अभ्यासात् कुत्वम् असुपः ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-२/१६) अभ्यासात् कुत्वम् असुपः इति वक्तव्यम् ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-३/१६) इह मा भूत् ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-४/१६) हननम् इच्छति हननीयति हननीयतेः सन् जिहननीयिषति इति ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-५/१६) तत् तर्हि वक्तव्यम् ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-६/१६) न वक्तव्यम् ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-७/१६) हन्तेः अभ्यासात् इति उच्यते न च एषः हन्तेः अभ्यासः ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-८/१६) हन्तेः एषः अभ्यासः ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-९/१६) कथम् ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-१०/१६) एकाचः द्वे प्रथमस्य इति ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-११/१६) एवम् तर्हि हन्तेः अङ्गस्य यः अभ्यासः तस्मात् इति उच्यते न च एषः हन्तेः अङ्गस्य अभ्यासः ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-१२/१६) हन्तेः अङ्गस्य एषः अभ्यासः ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-१३/१६) कथम् ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-१४/१६) एकाचः द्वे प्रथमस्य इति ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-१५/१६) एवम् तर्हि यस्मिन् हन्तिः अङ्गम् तस्मिन् यः अभ्यासः तस्मात् इति उच्यते ।

(पा-७,३.५५; अकि-३,३३०.१८-२५; रो-५,२१७.१५-२१८.८; भा-१६/१६) यस्मिन् च अत्र हन्तिः अङ्गम् न तस्मिन् अभ्यासः यस्मिन् च अभ्यासः न तस्मिन् हन्तिः अङ्गम् भवति

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-१/१३) अचङि इति किमर्थम् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-२/१३) प्राजीहयत् दूतम् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-३/१३) हेः चङि प्रतिषेधानर्थक्यम् अङ्गान्यत्वात् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-४/१३) हेः चङि प्रतिषेधः अनर्थकः ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-५/१३) किम् कारणम् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-६/१३) अङ्गान्यत्वात् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-७/१३) ण्यन्तम् एतत् अङ्गम् अन्यत् भवति ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-८/१३) लोपे कृते न अङ्गान्यत्वम् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-९/१३) स्थानिवद्भावात् अङ्गान्यत्वम् एव ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-१०/१३) ज्ञापकम् तु अन्य्त्र ण्यधिकस्य कुत्वविज्ञानार्थम् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-११/१३) एवम् तर्हि ज्ञापयति आचार्यः अन्यत्र ण्यधिकस्य कुत्वम् भवति इति ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-१२/१३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,३.५६; अकि-३,३३१.२-८; रो-५,२१९.२-८; भा-१३/१३) प्रजिघाययिषति इति अत्र कुत्वम् सिद्धम् भवति

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-१/८) जिग्रहणे ज्यः प्रतिषेधः ।

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-२/८) जिग्रहणे ज्यः प्रतिषेधः वक्तव्यः ।

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-३/८) जिज्यतुः , जिज्युः इति ।

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-४/८) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-५/८) न वक्तव्यः ।

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-६/८) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् एतस्य न भविष्यति ।

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-७/८) सा तर्हि एषा परिभषा कर्तव्या ।

(पा-७,३.५७; अकि-३,३३१.१०-१४; रो-५,२१९.१०-१४; भा-८/८) अवश्यम् कर्तव्या अध्याप्य गतः इति एवमर्थम्

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-१/१३) क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः निष्ठायाम् अनिटः कुत्ववचनात् ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-२/१३) क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-३/१३) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-४/१३) कुत्वम् कस्मात् न भवति ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-५/१३) निष्ठायाम् अनिटः कुत्ववचनात् ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-६/१३) निष्ठायाम् अनिटः कुत्वम् वक्ष्यामि सेटः च एते निष्ठायाम् ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-७/१३) यदि निष्ठायाम् अनिटः कुत्वम् उच्यते कथम् शोकः समुद्रः इति ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-८/१३) शुच्युब्ज्योः घञि कुत्वम् ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-९/१३) शुच्युब्ज्योः घञि कुत्वम् वक्तव्यम् ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-१०/१३) कथम् अर्कः ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-११/१३) अर्चेः कविधानात् सिद्धम् ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-१२/१३) न एतत् घञन्तम् ।

(पा-७,३.५९; अकि-३,३३१.१६-३३२.२; रो-५,२१९.१६-२२०.७; भा-१३/१३) औणादिकः एषः कशब्दः तस्मिन् आष्टमिकम् कुत्वम्

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-१/१४) भुजः पाणौ ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-२/१४) भुजः पाणौ इति वक्तव्यम् ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-३/१४) कथम् न्युब्जः उपतापे इति ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-४/१४) न्युब्जेः कर्तृत्वात् अप्रतिषेधः ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-५/१४) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-६/१४) कुत्वम् कस्मत् न भवति ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-७/१४) कर्तृत्वात् ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-८/१४) न एतत् घञन्तम् ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-९/१४) कर्तृप्रत्ययः एषः ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-१०/१४) न्युब्जति इति न्युब्जः ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-११/१४) अधिकरणसाधनः वै लक्ष्यते घञ् ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-१२/१४) न्युब्जिताः शेरते अस्मिन् न्युब्जः उपतापे इति ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-१३/१४) एषः अपि हि कर्तृसाधनः एव ।

(पा-७,३.६१; अकि-३,३३२.४-१०; रो-५,२२१.२-८; भा-१४/१४) न्युब्जयति इति न्युब्जः

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१/१७) प्रवचिग्रहणम् अनर्थकम् वचः अशब्दसञ्ज्ञाभावात् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-२/१७) प्रवचिग्रहणम् अनर्थकम् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-३/१७) किम् कारणम् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-४/१७) वचोऽशब्दसञ्ज्ञाभावात् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-५/१७) वचोऽशब्दसञ्ज्ञायाम् प्रतिषेधः उच्यते प्रपूर्वः च वचिः अशब्दसञ्ज्ञायाम् वर्तते ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-६/१७) उपसर्गनियमार्थम् तर्हि इदम् वक्तव्यम् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-७/१७) प्रपूर्वस्य एव वचेः अशब्दसञ्ज्ञायाम् प्रतिषेधः यथा स्यात् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-८/१७) इह मा भूत् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-९/१७) अविवाक्यम् इति ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१०/१७) उपसर्गपूर्वनियमार्थम् इति चेत् अविवाक्यस्य विशेषवचनत् सिद्धम् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-११/१७) विशेषे एतत् वक्तव्यम् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१२/१७) अविवाक्यम् अहः इति ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१३/१७) क्व मा भूत् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१४/१७) अविवाच्यम् एव अन्यत् इति ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१५/१७) ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१६/१७) ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.६६; अकि-३,३३२.१२-२१; रो-५,२२१.१०-२२२.८; भा-१७/१७) त्याज्यम्

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-१/१०) [भोज्यम् अभ्यवहार्ह्ये] ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-२/१०) भोज्यम् अभ्यवहार्ये इति वक्तव्यम् ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-३/१०) इह अपि यथा स्यात् ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-४/१०) भोज्यः सूपः , भोज्या यवागूः इति ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-५/१०) किम् पुनः कारणम् न सिध्यति ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-६/१०) भक्षिः अयम् खरविशदे वर्तते तेन द्रवे न प्राप्नोति ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-७/१०) न अवश्यम् भक्षिः खरविशदे एव वर्तते ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-८/१०) किम् तर्हि अन्यत्र अपि वर्तते ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-९/१०) तत् यथा ।

(पा-७,३.६९; अकि-३,३३३.२-६; रो-५,२२२.१०-१४; भा-१०/१०) अब्भक्षः , वायुभक्षः इति

(पा-७,३.७०; अकि-३,३३३.८-१०; रो-५,२२३.२-४; भा-१/५) वा इति शक्यम् अवक्तुम् ।

(पा-७,३.७०; अकि-३,३३३.८-१०; रो-५,२२३.२-४; भा-२/५) कस्मात् न भवति ।

(पा-७,३.७०; अकि-३,३३३.८-१०; रो-५,२२३.२-४; भा-३/५) तत् अग्निः अग्नये ददात् ।

(पा-७,३.७०; अकि-३,३३३.८-१०; रो-५,२२३.२-४; भा-४/५) अस्तु अत्र लोपः आटः श्रवणम् भविष्यति तेन उभयम् सिध्यति ।

(पा-७,३.७०; अकि-३,३३३.८-१०; रो-५,२२३.२-४; भा-५/५) दधत् रत्नानि दाशुषे , ददात् रत्नानि दाशुषे

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-१/१५) [ओतः शिति] ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-२/१५) ओतः शिति इति वक्तव्यम् ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-३/१५) किम् प्रयोजनम् ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-४/१५) उत्तरत्र शिद्ग्रहणाभावाय ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-५/१५) तत्र अयम् अपि अर्थः ष्ठिवुक्लम्वाचमाम् शिति इति शिद्ग्रहणम् न कर्तव्यम् भवति ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-६/१५) ननु च भोः श्यन्ग्रहणम् अपि तर्हि उत्तरार्थम् कर्तव्यम् ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-७/१५) शमाम् अष्टानाम् दीर्घः श्यनि इति श्यन्ग्रहणम् न कर्तव्यम् भवति ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-८/१५) अत्र अपि अस्तु शिति इति एव ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-९/१५) यदि शिति इति उच्यते अनु त्वा इन्द्रः भ्रमतु मदतु अत्र अपि प्राप्नोति ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-१०/१५) शमादिभिः अत्र शितम् विशेषयिष्यामः ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-११/१५) शमादीनाम् यः शित् इति ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-१२/१५) कः च शमादीनाम् शित् ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-१३/१५) शमादिभ्यः यः विहितः ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-१४/१५) एवम् अपि तस्यति , यस्यति अत्र प्राप्नोति ।

(पा-७,३.७१; अकि-३,३३३.१२-२०; रो-५,२२३.६-२२४.१; भा-१५/१५) अष्टानाम् इति वचनात् न भविष्यति

(पा-७,३.७५; अकि-३,३३४.२-४; रो-५,२२४.३-५; भा-१/५) दीर्घत्वम् आङि चमः ।

(पा-७,३.७५; अकि-३,३३४.२-४; रो-५,२२४.३-५; भा-२/५) दीर्घत्वम् आङि चमः इति वक्तव्यम् ।

(पा-७,३.७५; अकि-३,३३४.२-४; रो-५,२२४.३-५; भा-३/५) आचामति ।

(पा-७,३.७५; अकि-३,३३४.२-४; रो-५,२२४.३-५; भा-४/५) इह मा भूत् ।

(पा-७,३.७५; अकि-३,३३४.२-४; रो-५,२२४.३-५; भा-५/५) उच्चमति , विचमति इति

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१/१८) इषेः छत्वम् अहलि ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-२/१८) इषेः छत्वम् अहलि इति वक्तव्यम् ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-३/१८) इह मा भूत् ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-४/१८) इष्णाति , इष्यति ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-५/१८) तत् तर्हि वक्तव्यम् ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-६/१८) न वक्तव्यम् ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-७/१८) अचि इति वर्तते ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-८/१८) एवम् अपि इषाण इति अत्र प्राप्नोति ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-९/१८) अथ अहलि इति उच्यमाने कस्मात् एव अत्र छत्वम् न भवति ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१०/१८) न एवम् विज्ञायते न हल् अहल् अहलि इति ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-११/१८) कथम् तर्हि ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१२/१८) अविद्यमानः हल् अस्मिन् सः अयम् अहल् अहलि इति ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१३/१८) यदि एवम् अचि इति अपि वर्तमाने न दोषः ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१४/१८) न हि अचा शित् विशेष्यते ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१५/१८) शिति भवति कतर्स्मिन् अचि इति ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१६/१८) कथम् तर्हि ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१७/१८) शिता अच् विशेष्यते ।

(पा-७,३.७७; अकि-३,३३४.६-१२; रो-५,२२४.७-१३; भा-१८/१८) अचि भवति कतर्स्मिन् शिति इति

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-१/१२) पिबेः गुणप्रतिषेधः ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-२/१२) पिबेः गुणप्रतिषेधः वक्तव्यः ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-३/१२) पिबति ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-४/१२) लघूपधगुणः प्राप्नोति ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-५/१२) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-६/१२) न वक्तव्यः ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-७/१२) गुणः कस्मात् न भवति ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-८/१२) पिबिः अदन्तः ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-९/१२) अदन्ते इति चेत् उक्तम् ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-१०/१२) किम् उक्तम् ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-११/१२) धातोः अन्ते इति चेत् अनुदात्तेचबग्रहणम् इति ।

(पा-७,३.७८; अकि-३,३३४.१५-२०; रो-५,२२५.३-८; भा-१२/१२) अथ वा अङ्गवृत्ते पुनर्वृत्तौ अविधिः निष्ठितस्य इति एवम् न भविष्यति

(पा-७,३.७९; अकि-३,३३५.२-६; रो-५,२२५-२२६; भा-१/६) दीर्घोच्चारणम् किमर्थम् न ज्ञाजनोः जः इति एव उच्येत ।

(पा-७,३.७९; अकि-३,३३५.२-६; रो-५,२२५-२२६; भा-२/६) का रूपसिद्धिः ॒ जानाति , जायते ।

(पा-७,३.७९; अकि-३,३३५.२-६; रो-५,२२५-२२६; भा-३/६) अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति ।

(पा-७,३.७९; अकि-३,३३५.२-६; रो-५,२२५-२२६; भा-४/६) एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति ।

(पा-७,३.७९; अकि-३,३३५.२-६; रो-५,२२५-२२६; भा-५/६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,३.७९; अकि-३,३३५.२-६; रो-५,२२५-२२६; भा-६/६) पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१/२५) जुसि गुणे यासुट्प्रतिषेधः ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-२/२५) जुसि गुणे यासुडादौ प्रतिषेधः वक्तव्यः ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-३/२५) चिनुयुः , सुनुयुः इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-४/२५) न वक्तव्यः ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-५/२५) न एवम् विज्ञायते मिदेः गुणः जुसि च इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-६/२५) कथम् तर्हि ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-७/२५) मिदेः गुणः अजुसि च इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-८/२५) किम् इदम् अजुसि इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-९/२५) अजादौ उसि अजुसि इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१०/२५) इह अपि तर्हि प्राप्नोति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-११/२५) चक्रुः , जह्रुः इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१२/२५) एवम् तर्हि शिति इति वर्तते ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१३/२५) एवम् अपि अजुहवुः , अबिभयुः इति अत्र न प्राप्नोति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१४/२५) भूतपूर्वगत्या भविष्यति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१५/२५) न सिध्यति न हि उस् शिद्भूतपूर्वः ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१६/२५) उस् शिद्भूतपूर्वः न अस्ति इति कृत्वा उसि यः शिद्भूतपूर्वः तस्मिन् भविष्यति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१७/२५) अथ वा क्रियते न्यासे एव ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१८/२५) अविभक्तिकः निर्देशः ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-१९/२५) न एवम् विज्ञायते मिदेः गुणः जुसि च इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-२०/२५) कथम् तर्हि ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-२१/२५) मिदेः गुणः उ जुसि इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-२२/२५) किम् इदम् उ जुसि इति ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-२३/२५) उकारादौ जुसि ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-२४/२५) अथ वा अचि इति वर्तते तेन जुसम् विशेषयिष्यामः ।

(पा-७,३.८३; अकि-३,३३५.८-१६; रो-५,२२६; भा-२५/२५) अजादौ जुसि इति

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१/४७) इह जागरयति , जागरकः इति गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधः वक्तव्यः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२/४७) चिण्णलोः प्रतिषेधसामर्थ्यात् अन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३/४७) यत् अयम् अचिण्णलोः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न गुणाभिनिर्वृत्तस्य वृद्धिः भवति इति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४/४७) किम् पुनः अयम् पर्युदासः ॒ यत् अन्यत् विचिण्णल्ङिद्भ्यः इति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-५/४७) आहोस्वित् प्रसज्य अयम् प्रतिषेधः ॒ विचिण्णल्ङित्सु न इति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-६/४७) कः च अत्र विशेषः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-७/४७) प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधप्रसङ्गः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-८/४७) प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-९/४७) अजागरुः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१०/४७) उत्तमे च णलि ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-११/४७) प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१२/४७) अजागरुः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१३/४७) न वा अनन्तरस्य प्रतिषेधात् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१४/४७) न वा एषः दोषः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१५/४७) किम् कारणम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१६/४७) अनन्तरस्य प्रतिषेधात् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१७/४७) अनन्तरम् यत् गुणविधानम् तस्य प्रतिषेधः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१८/४७) जुसि पूर्वेण गुणविधानम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-१९/४७) जुसि पूर्वेण गुणः विधीयते जुसि च इति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२०/४७) णलि च ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२१/४७) किम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२२/४७) न वा अनन्तरस्य प्रतिषेधात् इति एव ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२३/४७) णलि च पूर्वेण गुणः विधीयते सार्वधातुकार्धधातुकयोः इति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२४/४७) अथ वा पुनः अस्तु पर्युदासः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२५/४७) अतः अन्यत्र विधाने वौ अगुणत्वम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२६/४७) अतः अन्यत्र विधाने वौ अगुणत्वम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२७/४७) न वा पर्युदाससामर्थ्यात् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२८/४७) न वा वक्तव्यम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-२९/४७) किम् कारणम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३०/४७) पर्युदाससामर्थ्यात् अत्र गुणः न भविष्यति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३१/४७) अस्ति अन्यत् पर्युदासे प्रयोजनम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३२/४७) किम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३३/४७) क्विबर्थम् पर्युदासः स्यात् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३४/४७) शुद्धपरस्य विशब्दस्य प्रतिषेधे ग्रहणम् अनुनासिकपरः च क्वौ विशब्दः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३५/४७) वस्वर्थम् तर्हि पर्युदासः स्यात् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३६/४७) जागृवांसः अनु ग्मन् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३७/४७) कथम् पुनः वेः पर्युदासः उच्यमानः वस्वर्थः शक्यः विज्ञातुम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३८/४७) सामर्थ्यात् वस्वर्थम् इति विज्ञास्यते ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-३९/४७) वस्वर्थम् इति चेत् न सार्वधातुकत्वात् सिद्धम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४०/४७) वस्वर्थम् इति चेत् न ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४१/४७) किम् कारणम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४२/४७) सार्वधातुकत्वात् सिद्धम् ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४३/४७) कथम् सार्वधातुकसञ्ज्ञा ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४४/४७) छान्दसः क्वसुः ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४५/४७) लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४६/४७) तत्र सार्वधातुकम् अपिन् ङित् इति ङित्त्वात् पर्युदासः भविष्यति ।

(पा-७,३.८५; अकि-३,३३५.१८-३३७.३; रो-५,२२६.१५-२२९.३; भा-४७/४७) अथ वा वकारस्य एव इदम् अशक्तिजेन इकारेण ग्रहणम्

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१/२८) संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२/२८) संयोगे गुरुसञ्ज्ञायाम् भेत्ता , भेत्तुम् इति गुणः न प्राप्नोति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-३/२८) विध्यपेक्षम् लघोः च असौ ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-४/२८) विध्यपेक्षम् लघुग्रहणम् कृतम् लघोः च असौ विहितः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-५/२८) कथम् कुण्डिः न दुष्यति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-६/२८) कुण्डिता , हुण्डिता अत्र कस्मात् न भवति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-७/२८) धातोः नुमः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-८/२८) धातोः नुम्विधौ उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् धातूपदेशावस्थायाम् एव नुम् भवति इति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-९/२८) कथम् रञ्जेः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१०/२८) कथम् रञ्जेः उपधालक्षणा वृद्धिः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-११/२८) आश्चर्यः रागः , विचित्रः रागः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१२/२८) स्यन्दिश्रन्थ्योः निपातनात् ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१३/२८) यत् अयम् स्यन्दिश्रन्थ्योः अवृद्ध्यर्थम् निपातनम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् वृद्धिः इति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१४/२८) अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१५/२८) अनङ्लोपः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१६/२८) दध्ना , सक्थ्ना ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१७/२८) शिदीर्घत्वम् ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१८/२८) कुण्डानि , वनानि ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-१९/२८) एवम् तर्हि अभ्यस्तस्य यत् आह अचि ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२०/२८) यत् अयम् न अभ्यस्तस्य अचि पिति सार्वधातुके इति अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२१/२८) लङर्थम् तत् कृतम् भवेत् ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२२/२८) लङर्थम् एतत् स्यात् ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२३/२८) अनेन इक् ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२४/२८) क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२५/२८) यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२६/२८) संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति , विध्यपेक्षम् लघोः च असौ कथम् कुण्डिः न दुष्यति ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२७/२८) धातोः नुमः कथम् रञ्जेः स्यन्दिश्रन्थ्योः निपातनात् , अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ।

(पा-७,३.८६; अकि-३,३३७.५-३३८.१२; रो-५,२२९.५-२३२.४; भा-२८/२८) अभ्यस्तस्य यत् आह अचि लङर्थम् तत् कृतम् भवेत् , क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१/१८) अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि पस्पशाते , चाकशीमि , वावशतीः इति दर्शनात् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-२/१८) अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि वक्तव्यम् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-३/१८) किम् प्रयोजनम् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-४/१८) पस्पशाते , चाकशीमि ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-५/१८) वावशतीः इति प्रयोगः दृश्यते ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-६/१८) कपोतः शरदम् पस्पशाते ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-७/१८) अहम् भुवनम् चाकशीमि ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-८/१८) वावशतीः उत् आजत् इति ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-९/१८) बहुलम् छन्दसि आनुषक् जुजोषत् इति दर्शनात् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१०/१८) बहुलम् छन्दसि वक्तव्यम् उपधाह्रस्वत्वम् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-११/१८) किम् प्रयोजनम् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१२/१८) आनुषक् जुजोषत् इति दर्शनात् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१३/१८) यः ते आतित्यम् आनुषक् जुजोषत् ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१४/१८) यदि उपधाह्रस्वत्वम् उच्यते , प्रियाम् मयूरः प्रतिनर्नृतीति यद्वत् त्वम् नरवर नर्नृतीषि हृष्टः , अत्र गुणः प्राप्नोति ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१५/१८) तस्मात् न अर्थः उपधाह्रस्वत्वेन ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१६/१८) कस्मात् न भवति ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१७/१८) पस्पशाते , चाकशीमि , वावशतीः इति ।

(पा-७,३.८७; अकि-३,३३८.१४-२६; रो-५,२३२.६-२३३.४; भा-१८/१८) स्पशिकशिवशयः प्रकृत्यन्तराणि

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-१/१६) भूसुवोः प्रतिषेधे एकाज्ग्रहणम् बोभवीत्यर्थम् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-२/१६) भूसुवोः प्रतिषेधे एकाज्ग्रहणम् कर्तव्यम् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-३/१६) किम् प्रयोजनम् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-४/१६) बोभवीत्यर्थम् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-५/१६) इह मा भूत् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-६/१६) बोभवीति ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-७/१६) यदि एकाज्ग्रहणम् क्रियते अभूत् अत्र न प्राप्नोति ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-८/१६) क्व तर्हि स्यात् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-९/१६) मा भूत् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-१०/१६) तस्मात् न अर्थः एकाज्ग्रहणेन ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-११/१६) कस्मात् न भवति ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-१२/१६) बोभवीति इति ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-१३/१६) बोभूतु इति एतत् नियमार्थम् भविष्यति ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-१४/१६) अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-१५/१६) क्व मा भूत् ।

(पा-७,३.८८; अकि-३,३३९.२-७; रो-५,२३३.६-११; भा-१६/१६) बोभवीति इति

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-१/१५) किमर्थम् तृहिरागतश्नम्कः न तृहेः इम् भवति इति एव उच्येत ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-२/१५) तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-३/१५) तृणहिग्रहणम् श्नमि कृते इम् यथा स्यात् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-४/१५) तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-५/१५) तृहिग्रहणे हि सति इम्विषये श्नमः अभावः स्यात् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-६/१५) किम् कारणम् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-७/१५) अनवकाशत्वात् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-८/१५) अनवकाशः इम् श्नमम् बाधेत ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-९/१५) इदम् अयुक्तम् वर्तते ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-१०/१५) किम् अत्र अयुक्तम् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-११/१५) तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् इति उक्त्वा ततः उच्यते तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् इति ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-१२/१५) तत्र वक्तव्यम् तृणहिग्रहणम् श्नमिमोः भावाय तृहिग्रहणे हि इम्विषेये श्नमभावः अनवकाशत्वात् इति ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-१३/१५) तत् तर्हि वक्तव्यम् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-१४/१५) न वक्तव्यम् ।

(पा-७,३.९२; अकि-३,३३९.९; रो-५,२३४.२-१२; भा-१५/१५) व्यवस्थार्थम् इति एव सिद्धम् न हि असतः व्यवस्था इति

(पा-७,३.९५; अकि-३,३३९.२०-२२; रो-५,२३४.१४-२३५.१; भा-१/४) सार्वधातुके इति वर्तमाने पुनः सार्वधातुकग्रहणम् किमर्थम् ।

(पा-७,३.९५; अकि-३,३३९.२०-२२; रो-५,२३४.१४-२३५.१; भा-२/४) पुनः सार्वधातुकग्रहणम् अपिदर्थम् ।

(पा-७,३.९५; अकि-३,३३९.२०-२२; रो-५,२३४.१४-२३५.१; भा-३/४) अपिदर्थः अयम् आरम्भः ।

(पा-७,३.९५; अकि-३,३३९.२०-२२; रो-५,२३४.१४-२३५.१; भा-४/४) अध्रिगो शमीध्वम् सुशमि शमीध्व शमीध्वम् अध्रिगो

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-१/९) अतः दीर्घात् बहुवचने एत्त्वम् विप्रतिषेधेन ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-२/९) अतः दीर्घात् बहुवचने एत्त्वम् भवति विप्रतिषेधेन ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-३/९) अतः दीर्घः यञि सुपि च इति अस्य अवकाशः ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-४/९) वृक्षाभ्याम् , प्लक्षाभ्याम् ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-५/९) बहुवचने झलि एत् इति अस्य अवकाशः ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-६/९) वृक्षेषु , प्लक्षेषु ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-७/९) इह उभयम् प्राप्नोति ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-८/९) वृक्षेभ्यः , प्लक्षेभ्यः ।

(पा-७,३.१०३; अकि-३,३४०.२-५; रो-५,२३५.३-७; भा-९/९) एत्त्वम् भवति विप्रतिषेधेन

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-१/१६) डलकवतीनाम् प्रतिषेधः वक्तव्यः ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-२/१६) अम्बाडे , अम्बाले , अम्बिके ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-३/१६) तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-४/१६) तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः इति वक्तव्यम् ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-५/१६) देवत , देवते ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-६/१६) देवतायाम् , देवते ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-७/१६) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-८/१६) न वक्तव्यः ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-९/१६) सः कथम् न वक्तव्यः भवति ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-१०/१६) अम्बार्थम् द्व्यक्षरम् यदि ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-११/१६) यदि अम्बार्थम् द्व्यक्षरम् गृह्यते ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-१२/१६) तत् तर्हि ह्रस्वत्वम् वक्तव्यम् ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-१३/१६) अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवम् अर्थम् ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-१४/१६) मातृ̄णाम् मातच् पुत्रार्थम् अर्हते ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-१५/१६) मातृ̄णाम् मातजादेशः वक्तव्यः पुत्रार्थम् अर्हते ।

(पा-७,३.१०७; अकि-३,३४०.७-१६; रो-५,२३५.९-२३६.३; भा-१६/१६) गार्गीमात , वात्सीमात

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१/१८) इह कस्मात् न भवति ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-२/१८) नदि, कुमारि , किशोरि , ब्राह्मणि , ब्रह्मबन्धु ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-३/१८) ह्रस्ववचनसामर्थ्यात् ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-४/१८) अस्ति अन्यत् ह्रस्ववचने प्रयोजनम् पृथग्विभक्तिम् मा उच्चीचरम् इति ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-५/१८) शक्यम् पृथग्विभक्तिः अनुच्चारयितुम् ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-६/१८) कथम् ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-७/१८) एवम् अयम् ब्रूयात् ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-८/१८) अम्बार्थानाम् ह्रस्वः नदीह्रस्वयोः गुणः इति ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-९/१८) यदि एवम् उच्यते जसि च इति अत्र नद्याः अपि गुणः प्राप्नोति ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१०/१८) एवम् तर्हि योगविभागः करिष्यते ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-११/१८) अम्बार्थनद्योः ह्रस्वः ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१२/१८) ततः ह्रस्वस्य ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१३/१८) ह्रस्वस्य च ह्रस्वः भवति ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१४/१८) किमर्थम् इदम् ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१५/१८) गुणम् वक्ष्यति तद्बाधनार्थम् ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१६/१८) ततः गुणः ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१७/१८) गुणः च भवति ह्रस्वस्य इति ।

(पा-७,३.१०८; अकि-३,३४०.१८-३४१.२; रो-५,२३६.५-१२; भा-१८/१८) अथ वा ह्रस्वस्य गुणः इति अत्र अम्बार्थनद्योः ह्रस्वः इति एतत् अनुवर्तिष्यते

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-१/८) जसादिषु छन्दसि वावचनम् प्राक् णौ चङि उपधायाः ।

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-२/८) जसादिषु छन्दसि वा इति वक्तव्यम् ।

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-३/८) किम् अविशेषेण ।

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-४/८) न इति आह ।

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-५/८) प्राक् णौ चङ्युपधायाः ।

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-६/८) किम् प्रयोजनम् ।

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-७/८) अम्बे, दर्वि , शतक्रत्वः , पश्वे नृभ्यः , किकिदीव्या ।

(पा-७,३.१०९; अकि-३,३४१.४-९; रो-५,२३७.२-७; भा-८/८) अम्बे , अम्ब , दर्वि , दर्वे , शतक्रवः शतक्रतवः , पश्वे , पशवे , किकिदीव्या , किकिदीविना

(पा-७,३.१११; अकि-३,३४१.११-१५; रो-५,२३७.९-२३८.३; भा-१/७) घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः ।

(पा-७,३.१११; अकि-३,३४१.११-१५; रो-५,२३७.९-२३८.३; भा-२/७) घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः वक्तव्यः ।

(पा-७,३.१११; अकि-३,३४१.११-१५; रो-५,२३७.९-२३८.३; भा-३/७) पट्वी , मृद्वी , कुरुतः इति ।

(पा-७,३.१११; अकि-३,३४१.११-१५; रो-५,२३७.९-२३८.३; भा-४/७) सुबधिकारात् सिद्धम् ।

(पा-७,३.१११; अकि-३,३४१.११-१५; रो-५,२३७.९-२३८.३; भा-५/७) सुप् इति वर्तते ।

(पा-७,३.१११; अकि-३,३४१.११-१५; रो-५,२३७.९-२३८.३; भा-६/७) क्व प्रकृतम् ।

(पा-७,३.१११; अकि-३,३४१.११-१५; रो-५,२३७.९-२३८.३; भा-७/७) सुपि च बहुवचने झलि एत् इति

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-१/१४) इह अतिखट्वाय , अतिमालाय इति ह्रस्वत्वे कृते स्थानिवद्भावात् याट् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-२/१४) न वक्तव्यः ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-३/१४) याड्विधाने अतिखट्वाय इति अप्रतिषेधः ह्रस्वादेशत्वात् ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-४/१४) याड्विधाने अतिखट्वाय , अतिमालाय इति अप्रतिषेधः ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-५/१४) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-६/१४) याट् कस्मात् न भवति ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-७/१४) ह्रस्वादेशत्वात् ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-८/१४) ह्रस्वादेशः अयम् ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-९/१४) उक्तम् एतत् ङ्याब्ग्रहणे अदीर्घः इति ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-१०/१४) अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते आप् च असौ भूतपूर्वः इति कृत्वा याट् कस्मात् न भवति ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-११/१४) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-१२/१४) ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् उपस्थातुम् ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-१३/१४) न इति आह ।

(पा-७,३.११३; अकि-३,३४१.१७-३४२.५; रो-५,२३८.५-१३; भा-१४/१४) न च तदानीम् क्वचित् अपि स्थानिवद्भावः स्यात्

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-१/१३) इदुद्भ्याम् आम्विधानम् औत्त्वस्य परत्वात् ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-२/१३) इदुद्भ्याम् आम् विधेयः ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-३/१३) शकट्याम् , पद्धत्याम् , धेन्वाम् इति ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-४/१३) किम् पुनः कारणम् न सिध्यति ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-५/१३) औत्त्वस्य परत्वात् ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-६/१३) परत्वात् औत्त्वम् प्राप्नोति ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-७/१३) योगविभागात् सिद्धम् ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-८/१३) योगविभागः करिष्यते ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-९/१३) ङेः आम् नद्याम्नीभ्यः ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-१०/१३) ततः इदुद्भ्याम् ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-११/१३) इदुद्भ्याम् उत्तरस्य ङेः आम् भवति इति ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-१२/१३) शकट्याम् , पद्धत्याम् , धेन्वाम् इति ।

(पा-७,३.११६; अकि-३,३४२.७-१२; रो-५,२३९.२-७; भा-१३/१३) ततः औत् अत् च घेः

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१/३४) औत्त्वे योगविभागः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२/३४) औत्त्वे योगविभागः कर्तव्यः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-३/३४) औत् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-४/३४) औत् भवति इदुद्भ्याम् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-५/३४) ततः अत् च घेः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-६/३४) अकारः च भवति घेः इति ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-७/३४) किमर्थः योगविभागः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-८/३४) सखिपतिभ्याम् औत्त्वार्थः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-९/३४) सखिपतिभ्याम् औत्त्वम् यथा स्यात् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१०/३४) सख्यौ , पत्यौ ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-११/३४) एकयोगे हि अप्राप्तिः अत्त्वसन्नियोगात् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१२/३४) एकयोगे हि सति औत्त्वस्य अप्राप्तिः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१३/३४) किम् कारणम् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१४/३४) अत्त्वसन्नियोगात् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१५/३४) अत्त्वसन्नियोगेन औत्त्वम् उच्यते तेन यत्र एव औत्त्वम् स्यात् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१६/३४) न वा अकारस्य अन्वाचयवचनात् यथा क्यङि सलोपः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१७/३४) न वा अर्थ औत्त्वे योगविभागेन ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१८/३४) किम् कारणम् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-१९/३४) अकारस्य अन्वाचयवचनात् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२०/३४) प्रधानशिष्टम् औत्त्वम् अन्वाचयशिष्टम् अत्त्वम् यथा क्यङि सलोपः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२१/३४) तत् यथा ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२२/३४) प्रधानशिष्टः क्यङ् प्रातिपदिकमात्रात् भवति यत्र च स्कारः तत्र लोपः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२३/३४) अत्त्वे टाप्प्रतिषेधः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२४/३४) अत्त्वे टापः प्रतिषेधः वक्तव्यः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२५/३४) शकटौ , पद्धतौ , धेनौ ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२६/३४) अत्त्वे कृते टाप् प्राप्नोति ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२७/३४) न वा सन्निपातलक्षणस्य अनिमित्तत्वात् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२८/३४) न वा वक्तव्यः ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-२९/३४) किम् कारणम् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-३०/३४) सन्निपातलक्षणस्य अनिमित्तत्वात् ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-३१/३४) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति टाप् न भविष्यति ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-३२/३४) डित्करणात् वा ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-३३/३४) अथ वा डित् आउकारः करिष्यते ।

(पा-७,३.११८-११९; अकि-३,३४२.१४-३४३.९; रो-५,२३९.९-२४१.१; भा-३४/३४) औ डित् च घेः

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-१/८) किमर्थम् अस्त्रियाम् इति उच्यते न आङः ना पुंसि इति एव उच्येत ।

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-२/८) का रूपसिद्धिः ॒ त्रपुणा , जतुना ।

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-३/८) नुमा सिद्धम् ।

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-४/८) न एवम् शक्यम् ।

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-५/८) इह हि अमुना ब्राह्मणकुलेन इति मुभावस्य असिद्धत्वात् नुम् न स्यात् ।

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-६/८) अस्त्रियाम् इति पुनः उच्यमाने न दोषः भवति ।

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-७/८) कथम् ।

(पा-७,३.१२०; अकि-३,३४३.११-१४; रो-५,२४१.३-६; भा-८/८) वक्ष्यति एतत् न मु टादेशे