व्याकरणमहाभाष्य खण्ड 81

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१/५४) अथ णिग्रहणम् किमर्थम् न चङि उपधायाः ह्रस्वः इति एव उच्येत ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२/५४) चङि उपधायाः ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , ऊकारस्य एव ह्रस्वत्वम् प्रसज्येत ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३/५४) न एतत् अस्ति प्रयोजनम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४/५४) वृद्धिः अत्र बाधिका भविष्यति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-५/५४) वृद्धौ तर्हि कृतायाम् औकारस्य एव ह्रस्वत्वम् प्रसज्येत ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-६/५४) न एतत् अस्ति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-७/५४) अन्तरङ्गत्वात् अत्र आवादेशः भविष्यति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-८/५४) न हि इदानीम् ह्रस्वभाविनी उपधा भवति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-९/५४) तस्मात् णिग्रहणम् कर्तव्यम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१०/५४) अथ चङ्ग्रहणम् किमर्थम् न णौ उपधायाः इति एव सिद्धम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-११/५४) णौ उपधायाः ह्रस्वः इति इयति उच्यमाने , कारयति , हारयति इति अत्र अपि प्रसज्येत ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१२/५४) न एतत् अस्ति प्रयोजनम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१३/५४) आचार्यप्रवृत्तिः ज्ञापयति न णौ एव ह्रस्वत्वम् भवति इति यत् अयम् मिताम् ह्रस्वत्वम् शास्ति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१४/५४) इह अपि तर्हि न प्राप्नोति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१५/५४) अचीकरत् , अजीहरत् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१६/५४) वचनात् भविष्यति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१७/५४) इह अपि तर्हि वचनात् प्राप्नोति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१८/५४) कारयति , हारयति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-१९/५४) तस्मात् चङ्ग्रहणम् कर्तव्यम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२०/५४) अथ उपधाग्रहणम् किमर्थम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२१/५४) णौ चङि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२२/५४) णौ चङि उपधाग्रहणम् क्रियते अन्त्यस्य ह्रस्त्वत्वम् मा भूत् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२३/५४) णौ चङि ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , अन्त्यस्य एव ह्रस्वत्वम् प्रसज्येत ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२४/५४) न एतत् अस्ति प्रयोजनम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२५/५४) अन्तरङ्गत्वात् अत्र आवादेशः भवति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२६/५४) न हि इदानीम् ह्रस्वभावी अन्त्यः अस्ति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२७/५४) अन्त्यः ह्रस्वभावी न अस्ति इति कृत्वा वचनात् अनन्त्यस्य भविष्यति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२८/५४) इह अपि वचनात् प्राप्नोति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-२९/५४) अचकाङ्क्षत् , अववाञ्छत् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३०/५४) येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३१/५४) केन च न अव्यवधानम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३२/५४) वर्णेन ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३३/५४) एतेन पुनः सङ्घतेन वय्वधानम् भवति न भवति च ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३४/५४) उत्तरार्थम् तर्हि उपधाग्रहणम् कर्तव्यम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३५/५४) लोपः पिबतेः ई च अभ्यासस्य उपधायाः यथा स्यात् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३६/५४) अपीप्यत् , अपीप्यताम् , अपीप्यन् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३७/५४) अथ इह कथम् भवितव्यम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३८/५४) मा भवान् अटिटत् इति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-३९/५४) आहोस्वित् मा भवान् आटिटत् इति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४०/५४) मा भवान् आटिटत् इति भवितव्यम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४१/५४) ह्रस्वत्वम् कस्मात् न भवति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४२/५४) द्विर्वचने कृते परेण रूपेण व्यवहितम् इति कृत्वा ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४३/५४) इदम् इह सम्प्रधार्यम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४४/५४) द्विर्वचनम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४५/५४) परत्वात् ह्रस्वत्वम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४६/५४) नित्यम् द्विर्वचनम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४७/५४) कृते ह्रस्वत्वे प्राप्नोति अकृते अपि ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४८/५४) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति द्विर्वचनात् ह्रस्वत्वम् बलीयः इति यत् अयम् ओणिम् ऋदितम् करोति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-४९/५४) कथम् कृत्वा ज्ञापकम् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-५०/५४) ऋदित्करणे एतत् प्रयोजनम् ऋदिताम् न इति प्रतिषेधः यथा स्यात् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-५१/५४) यदि च अत्र पूर्वम् द्विर्वचनम् स्यात् ऋदित्करणम् अनर्थकम् स्यात् ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-५२/५४) द्विर्वचने कृते परेण व्यवहितत्वात् ह्रस्वत्वम् न भविष्यति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-५३/५४) पश्यति तु आचार्यः द्विर्वचनात् ह्रस्वत्वम् बलीयः इति ततः ओणिम् ऋदितम् करोति ।

(पा-७,४.१.१; अकि-३,३४४.२-३४५.७; रो-५,२४२-२४५; भा-५४/५४) तस्मात् मा भवान् अटिटत् इति एव भवितव्यम्

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१/२९) उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानात् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२/२९) उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् ॒ वादितवन्तम् प्रयोजितवान् अवीवदद्वीणाम् परिवादकेन ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-३/२९) किम् पुनः कारणम् न सिध्यति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-४/२९) णिचा व्यवहितत्वात् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-५/२९) णिलोपे कृते न अस्ति व्यवधानम् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-६/२९) स्थानिवद्भावात् व्यवधानम् एव ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-७/२९) प्रतिषिध्यते अत्र स्थानिवद्भावः चङ्परनिर्ह्रासे न स्थानिवत् इति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-८/२९) एवम् अपि अग्लोपिनाम् न इति प्रतिषेधः प्राप्नोति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-९/२९) वृद्धौ कृतायाम् लोपः तत् न अग्लोपै अङ्गम् भवति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१०/२९) इदम् इह सम्प्रधार्यम् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-११/२९) वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१२/२९) परत्वात् वृद्धिः ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१३/२९) नित्यः लोपः ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१४/२९) कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१५/२९) अनित्यः लोपः ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१६/२९) अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१७/२९) उभयोः अनित्ययोः परत्वात् वृद्धिः ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१८/२९) वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-१९/२९) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति वृद्धेः लोपः बलीयान् इति यत् अयम् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२०/२९) न एतत् अस्ति ज्ञापकम् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२१/२९) अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२२/२९) किम् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२३/२९) यत्र वृद्धौ अपि कृतायाम् एव लुप्यते ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२४/२९) अत्यरराजत् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२५/२९) यत् तर्हि प्रत्याहारग्रहणम् करोति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२६/२९) इतरथा हि अलोपिनाम् न इति ब्रूयात् ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२७/२९) एवम् वा वृद्धेः लोपः बलीयान् इति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२८/२९) अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् इति ।

(पा-७,४.१.२; अकि-३,३४५.८-२२; रो-५,२४५-२४७; भा-२९/२९) तस्मात् उपसङ्ख्यानम् कर्तव्यम् इति

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१/२८) अग्लोपिप्रतिषेधानर्थक्यम् च स्थानिवद्भावात् ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२/२८) अग्लोपिप्रतिषेधः च अनर्थकः ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-३/२८) किम् कारणम् ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-४/२८) स्थानिवद्भावात् ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-५/२८) स्थानिवद्भावात् अत्र ह्रस्वत्वम् न भविष्यति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-६/२८) यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-७/२८) क्व स्थानिवद्भावः न अस्ति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-८/२८) यः हलचोः आदेशः ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-९/२८) अत्यरराजत् ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१०/२८) किम् पुनः कारणम् हलचोः आदेशः न स्थानिवत् इति उच्यते ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-११/२८) अजादेशः स्थानिवत् इति उच्यते न च अयम् अचः एव आदेशः ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१२/२८) किम् तर्हि अचः अन्यस्य च ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१३/२८) अग्लोपिनाम् न इति अपि तर्हि प्रतिषेधः न प्राप्नोति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१४/२८) किम् कारणम् ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१५/२८) अग्लोपिनाम् न इति उच्यते न च अत्र अच् एव लुप्यते ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१६/२८) किम् तर्हि ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१७/२८) अच् च अन्यः च ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१८/२८) यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भविष्यति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-१९/२८) यथा एव तर्हि यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भवति एवम् यः अत्र अच् लुप्यते तदाश्रयः स्थानिवद्भावः भविष्यति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२०/२८) एवम् तर्हि सिद्धे सति यत् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः इतः उत्तरम् स्थानिवद्भावः न भवति इति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२१/२८) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२२/२८) पूर्वत्र असिद्धे न स्थानिवत् इति उक्तम् तत् न वक्तव्यम् भवति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२३/२८) यदि एतत् ज्ञाप्यते , आदीधयतेः आदीधकः , आवेवयतेः आवेवकः ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२४/२८) यीवर्णयोः दीधीवेव्योः इति लोपः न प्राप्नोति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२५/२८) इह च यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२६/२८) न एषः दोषः ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२७/२८) यत् तावत् उच्यते आदीधयतेः आदीधकः , आवेवयतेः आवेवकः , यीवर्णयोः इति लोपः न प्राप्नोति इति यीवर्णयोः इति अत्र वर्णग्रहणसामर्थ्यात् भविष्यति ।

(पा-७,४.२; अकि-३,३४५.२४-३४६.१६; रो-५,२४७.४-२४९.४; भा-२८/२८) यत् अपि उच्यते यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति इति बहिरङ्गः यणादेशः अन्तरङ्गः स्वरः असिद्धम् बहिरङ्गम् अन्तरङ्गे

(पा-७,४.३; अकि-३,३४६.१८-२०; रो-५,२४९.६-२५०.३; भा-१/४) काण्यादीनाम् च इति वक्तव्यम् ।

(पा-७,४.३; अकि-३,३४६.१८-२०; रो-५,२४९.६-२५०.३; भा-२/४) के पुनः काण्यादयः ।

(पा-७,४.३; अकि-३,३४६.१८-२०; रो-५,२४९.६-२५०.३; भा-३/४) काणिराणिश्राणिभाणिहेठिलोपयः ।

(पा-७,४.३; अकि-३,३४६.१८-२०; रो-५,२४९.६-२५०.३; भा-४/४) अचकाणत् , अचीकणत् , अरराणत् , अरीरणत् , अशश्राणत् , अशीश्रणत् , अबभाणत् , अबीभणत् , अजिहेठत् , अजीहिठत् , अलुलोपत् , अलूलुपत्

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१/२५) इह अवदिग्ये , अवदिग्याते , अवदिग्यरे दिग्यादेशे कृते द्विर्वचनम् प्राप्नोति तत्र साभ्यासस्य इति वक्तव्यम् ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-२/२५) ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशः भविष्यति ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-३/२५) न सिध्यति ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-४/२५) किम् कारणम् ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-५/२५) दिग्यादेशस्य परत्वात् साभ्यासस्य आदेशवचनम् ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-६/२५) दिग्यादेशः क्रियताम् द्विर्वचनम् इति परत्वात् दिग्यादेशेन भवितव्यम् ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-७/२५) तत्र साभ्यासस्य इति वक्तव्यम् ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-८/२५) एवम् तर्हि दिग्यादेशः द्विर्वचनम् बाधिष्यते ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-९/२५) पुनःप्रसङ्गविज्ञानात् द्विर्वचनम् प्राप्नोति ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१०/२५) पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-११/२५) पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् एतत् भवति ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१२/२५) तत् यथा ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१३/२५) अमादिषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुमः न भवन्ति ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१४/२५) एवम् दिग्यादेशे कृते पुनःप्रसङ्गात् द्विर्वचनम् न भविष्यति ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१५/२५) अथ वा विप्रतिषेधे पुनःप्रसङ्गः इति उच्यते विप्रतिषेधः च द्वयोः सावकशयोः ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१६/२५) इह पुनः अनवकाशः दिग्यादेशः द्विर्वचनम् बाधिष्यते ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१७/२५) यदि तर्हि अनवकाशाः विधयः बाधकाः भवन्ति , बभूव , भूभावः द्विर्वचनम् बाधेत ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१८/२५) सावकाशः भूभावः ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-१९/२५) कः अवकाशः ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-२०/२५) भविता , भवितुम् ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-२१/२५) इह तर्हि चक्षिङः ख्याञ् वा लिटि इति ख्याञ् द्विर्वचनम् बाधेत ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-२२/२५) इह च अपि बभूव इति यदि तावत् स्थाने द्विर्वचनम् भूभावः सर्वादेशः प्राप्नोति अथ द्विःप्रयोगः द्विर्वचनम् परस्य भूभावे कृते पूर्वस्य श्रवणम् प्राप्नोति ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-२३/२५) न एषः दोषः ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-२४/२५) आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

(पा-७,४.९; अकि-३,३४६.२२-३४७.१५; रो-५,२५०.५-२५२.५; भा-२५/२५) तत्र आर्धधातुकसामान्ये भूभावे कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१/३०) संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२/३०) संयोगादेः गुणविधाने संयोगोपधग्रहणम् कर्तव्यम् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-३/३०) किमर्थम् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-४/३०) कृञर्थम् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-५/३०) इह अपि यथा स्यात् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-६/३०) सञ्चस्करतुः , सञ्चस्करुः ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-७/३०) यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-८/३०) इह अपि सस्वरतुः , सस्वरुः संयोगोपधस्य इति एव सिद्धम् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-९/३०) भवेत् सिद्धम् सस्वरतुः , सस्वरुः इति इदम् तु न सिध्यति सञ्चस्करतुः , सञ्चस्करुः इति ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१०/३०) किम् कारणम् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-११/३०) सुटः बहिरङ्गलक्षणत्वात् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१२/३०) बहिरङ्गम् सुट् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१३/३०) अन्तरङ्गः गुणः ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१४/३०) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१५/३०) संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणम् अनन्यार्थम् विज्ञायते ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१६/३०) ऋतः लिटि गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१७/३०) ऋतः लिटि गुणाञ् ञ्ङिति वृद्धिः भवति पूर्वविप्रतिषेधेन ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१८/३०) ऋतः लिटि गुणस्य अवकाशः ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-१९/३०) सस्वरतुः , सस्वरुः ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२०/३०) ञ्णिति वृद्धेः अवकाशः ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२१/३०) स्वारकः , ध्वारकः ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२२/३०) इह उभयम् प्राप्नोति ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२३/३०) सस्वार , दध्वार ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२४/३०) ञ्णिति वृद्धिः भवति पूर्वविप्रतिषेधेन ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२५/३०) पुनःप्रसङ्गविज्ञानात् वा सिद्धम् ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२६/३०) अथ वा पुनःप्रसङ्गात् गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः भविष्यति ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२७/३०) न एषः युक्तः परिहारः ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२८/३०) पुनःप्रसङ्गः नाम सः भवति यत्र तेन एव कृते प्राप्नोति तेन एव च अकृते ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-२९/३०) अत्र खलु गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति अकृते च अचः ञ्णिति इति ।

(पा-७,४.१०; अकि-३,३४७.१७-३४८.७; रो-५,२५२.७-२५४.३; भा-३०/३०) तस्मात् सुष्ठु उच्यते लिति गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन इति

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-१/१०) किमर्थम् ह्रस्वः वा इति उच्यते न गुणः वा इति उच्येत ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-२/१०) तत्र अयम् अपि अर्थः गुणग्रहणम् न कर्तव्यम् भवति ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-३/१०) प्रकृतम् अनुवर्तते ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-४/१०) क्व प्रकृतम् ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-५/१०) ऋतः च संयोगादेः गुणः इति ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-६/१०) ऋतः ह्रस्वत्वम् इत्त्वप्रतिषेधार्थम् ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-७/१०) ऋतः ह्रस्वत्वम् उच्यते इत्त्वप्रतिषेधार्थम् ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-८/१०) इत्त्वम् मा भूत् इति ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-९/१०) गुणः वा इति इयति उच्यमाने गुणेन मुक्ते इत्त्वम् प्रसज्येत ।

(पा-७,४.१२; अकि-३,३४८.९-१४; रो-५,२५४.५-१०; भा-१०/१०) ह्रस्वः वा इति उच्यमाने ह्रस्वेन मुक्ते यथाप्राप्तः गुणः भविष्यति

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-१/९) के अणः ह्रस्वत्वे तद्धितग्रहणम् कृन्निवृत्त्यर्थम् ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-२/९) के अणः ह्रस्वत्वे तद्धितग्रहणम् कर्तव्यम् ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-३/९) किम् प्रयोजनम् ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-४/९) कृन्निवृत्त्यर्थम् ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-५/९) कृति मा भूत् ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-६/९) राका , धाका इति ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-७/९) तत् तर्हि वक्तव्यम् ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-८/९) न वक्तव्यम् ।

(पा-७,४.१३; अकि-३,३४८.१६-१९; रो-५,२५५.२-५; भा-९/९) उणादयः अव्युत्पन्नानि प्रातिपदिकानि

(पा-७,४.२३; अकि-३,३४८.२१-२२; रो-५,२५५.७-८; भा-१/५) इह कस्मात् न भवति ।

(पा-७,४.२३; अकि-३,३४८.२१-२२; रो-५,२५५.७-८; भा-२/५) प्रोह्यते , उपोह्यते ।

(पा-७,४.२३; अकि-३,३४८.२१-२२; रो-५,२५५.७-८; भा-३/५) एकादेशे कृते व्यपवर्गाभावात् ।

(पा-७,४.२३; अकि-३,३४८.२१-२२; रो-५,२५५.७-८; भा-४/५) एवम् अपि आ , ऊह्यते , ओह्यते , समोह्यते ।

(पा-७,४.२३; अकि-३,३४८.२१-२२; रो-५,२५५.७-८; भा-५/५) अणः इति वर्तते

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-१/१०) एतेः लिङि उपसर्गात् ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-२/१०) एतेः लिङि उपसर्गात् इति वक्तव्यम् ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-३/१०) इह मा भूत् ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-४/१०) ईयात् ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-५/१०) तत् तर्हि वक्तव्यम् ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-६/१०) न वक्तव्यम् ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-७/१०) उपसर्गात् इति वर्तते ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-८/१०) एवम् तर्हि आचार्यः अन्वाचष्टे उपसर्गात् इति अनुवर्तते इति ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-९/१०) न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।

(पा-७,४.२४; अकि-३,३४९.२-६; रो-५,२५६.१-५; भा-१०/१०) एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन्

(पा-७,४.२७; अकि-३,३४९.८-१२; रो-५,२५६.७-११; भा-१/६) दीर्घोच्चारणम् किमर्थम् न रिङ् ऋतः इति एव उच्यते ।

(पा-७,४.२७; अकि-३,३४९.८-१२; रो-५,२५६.७-११; भा-२/६) का रूपसिद्धिः ॒ मात्रीयति , पित्रीयति ।

(पा-७,४.२७; अकि-३,३४९.८-१२; रो-५,२५६.७-११; भा-३/६) अकृत्सार्वधातुकयोः इति दीर्घत्वम् भविष्यति ।

(पा-७,४.२७; अकि-३,३४९.८-१२; रो-५,२५६.७-११; भा-४/६) एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति ।

(पा-७,४.२७; अकि-३,३४९.८-१२; रो-५,२५६.७-११; भा-५/६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,४.२७; अकि-३,३४९.८-१२; रो-५,२५६.७-११; भा-६/६) पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति

(पा-७,४.३०; अकि-३,३४९.१४-१६; रो-५,२५६.१३-२५७.३; भा-१/७) यङ्प्रकरणे हन्तेः हिंसायाम् ईट् ।

(पा-७,४.३०; अकि-३,३४९.१४-१६; रो-५,२५६.१३-२५७.३; भा-२/७) यण्प्रकरणे हन्तेः हिंसायाम् ईट् वक्तव्यः ।

(पा-७,४.३०; अकि-३,३४९.१४-१६; रो-५,२५६.१३-२५७.३; भा-३/७) जेघ्नीयते ।

(पा-७,४.३०; अकि-३,३४९.१४-१६; रो-५,२५६.१३-२५७.३; भा-४/७) यदि ईट् अभ्यासरूपम् न सिध्यति ।

(पा-७,४.३०; अकि-३,३४९.१४-१६; रो-५,२५६.१३-२५७.३; भा-५/७) एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् ईक् ।

(पा-७,४.३०; अकि-३,३४९.१४-१६; रो-५,२५६.१३-२५७.३; भा-६/७) एवम् अपि उपधालोपः न प्राप्नोति ।

(पा-७,४.३०; अकि-३,३४९.१४-१६; रो-५,२५६.१३-२५७.३; भा-७/७) एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-१/९) अत्यल्पम् इदम् उच्यते ॒ अपुत्रस्य इति ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-२/९) अपुत्रादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् ॒ जनीयन्तः न्वग्रवः पुत्रीयन्तः सुदानवः ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-३/९) छन्दसि प्रतिषेधे दीर्घप्रतिषेधः ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-४/९) छन्दसि प्रतिषेधे दीर्घत्वस्य प्रतिषेधः वक्तव्यः ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-५/९) संस्वेदयुः , मित्रयुः ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-६/९) न वा अश्वाघस्य आद्वचनम् अवधारणार्थम् ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-७/९) न वा वक्तव्यम् ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-८/९) किम् कारणम् ।

(पा-७,४.३५; अकि-३,३४९.१९-३५०.५; रो-५,२५७.५-११; भा-९/९) अश्वाघस्य आद्वचनम् अवधारणार्थम् भविष्यति अश्वाघयोः एव छन्चसि दीर्घः भविष्यति न अन्यस्य इति

(पा-७,४.४१; अकि-३,३५०.७-११; रो-५,२५८.२-६; भा-१/६) श्यतेः इत्त्वम् व्रते नित्यम् ।

(पा-७,४.४१; अकि-३,३५०.७-११; रो-५,२५८.२-६; भा-२/६) श्यतेः इत्त्वम् व्रते नित्यम् इति वक्तव्यम् ।

(पा-७,४.४१; अकि-३,३५०.७-११; रो-५,२५८.२-६; भा-३/६) संशितव्रतः ।

(पा-७,४.४१; अकि-३,३५०.७-११; रो-५,२५८.२-६; भा-४/६) तत् तर्हि वक्तव्यम् ।

(पा-७,४.४१; अकि-३,३५०.७-११; रो-५,२५८.२-६; भा-५/६) न वक्तव्यम् ।

(पा-७,४.४१; अकि-३,३५०.७-११; रो-५,२५८.२-६; भा-६/६) देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः , मिथः ते न विभाष्यन्ते गवाक्षः संशितव्रतः

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-१/११) अवदत्तम् विदत्तम् च प्रदत्तम् च आदिकर्मणि , सुदत्तम् अनुदत्तम् च निदत्तम् इति च इष्यते ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-२/११) किम् पुनः अयम् तकारान्तः आहोस्वित् दकारान्तः उत धकारान्तः अथ वा थकारान्तः ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-३/११) कः च अत्र विशेषः ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-४/११) तान्ते दोषः दीर्घत्वम् स्यात् ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-५/११) यदि तकारान्तः दस्ति इति दीर्घत्वम् प्राप्नोति ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-६/११) दान्ते दोषः निष्ठानत्वम् ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-७/११) अथ दकारान्तः रदाभ्याम् निष्ठातः इति नत्वम् प्राप्नोति ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-८/११) धान्ते दोषः धत्वप्राप्तिः ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-९/११) अथ धान्तः झषः तथोः धः अधः इति धत्वम् प्राप्नोति ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-१०/११) थान्ते अदोषः तस्मात् थान्तः ।

(पा-७,४.४६; अकि-३,३५०.१५-३५१.२; रो-५,२५९.२-१५; भा-११/११) अथ थकारान्तः न दोषः भवति

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१/३८) अचः उपसर्गात् तत्वे आकारग्रहणम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२/३८) अचः उपसर्गात् तत्वे आकारग्रहणम् कर्तव्यम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३/३८) न कर्तव्यम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-४/३८) अलः अन्त्यस्य विधयः भवन्ति इति आकारस्य भविष्यति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-५/३८) न सिध्यति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-६/३८) किम् कारणम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-७/३८) आदेः हि परस्य ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-८/३८) अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति दकारस्य प्राप्नोति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-९/३८) न एषः दोषः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१०/३८) अवर्णप्रकरणात् सिद्धम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-११/३८) अस्य इति वर्तते ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१२/३८) क्व प्रकृतम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१३/३८) अस्य द्वौ इति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१४/३८) यदि अवर्णग्रहणम् अनुवर्तते दद्भावे दोषः भवति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१५/३८) एवम् तर्हि एवम् वक्ष्यामि दः अद्घोः इति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१६/३८) दः यः आकारः तस्य अत् भवति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१७/३८) ततः अचः उपसर्गात् तः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१८/३८) अस्य इति एव ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-१९/३८) एवम् अपि सूत्रभेदः कृतः भवति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२०/३८) न असौ सूत्रभेदः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२१/३८) सूत्रभेदम् कम् उपाचरन्ति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२२/३८) यत्र तत् एव अन्यत् सूत्रम् क्रियते भूयः वा ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२३/३८) यत् हि तत् एव उपसंहृत्य क्रियते न असौ सूत्रभेदः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२४/३८) अथ वा द्वितकारकः निर्देशः क्रियते सः अनेकाल् शित् सर्वस्य इति सर्वस्य भविष्यति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२५/३८) इह अपि तर्हि प्राप्नोति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२६/३८) अद्भिः , अद्भ्यः इति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२७/३८) अचः इति वर्तते ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२८/३८) तत् च अवश्यम् अज्ग्रहणम् अनुवर्त्यम् लवाभ्याम् इति एवमर्थम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-२९/३८) अथ वा त्रितकारकः निर्देशः करिष्यते इहार्थौ द्वौ उत्तरार्थः च एकः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३०/३८) द्यतेः इत्त्वात् अचः तः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३१/३८) द्यतेः इत्त्वात् अचः तः इति एतत् भवति विप्रतिषेधेन ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३२/३८) द्यतेः इत्त्वस्य अवकाशः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३३/३८) निर्दितम् , निर्दितवान् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३४/३८) अचः तः इति अस्य अवकाशः ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३५/३८) प्रत्तम् , अवत्तम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३६/३८) इह उभयम् प्राप्नोति ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३७/३८) नीत्तम् , वीत्तम् ।

(पा-७,४.४७; अकि-३,३५१.४-२२; रो-५,२६०.२-२६१.४; भा-३८/३८) अचः तः इति एतत् भवति विप्रतिषेधेन

(पा-७,४.४८; अकि-३,३५१.२४-३५२.३; रो-५,२६१.६-१०; भा-१/४) अपः भि मासः छन्दसि ।

(पा-७,४.४८; अकि-३,३५१.२४-३५२.३; रो-५,२६१.६-१०; भा-२/४) अपः भि इति अत्र मासः छन्दसि उपसङ्ख्यानम् कर्तव्यम् ॒ मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा ।

(पा-७,४.४८; अकि-३,३५१.२४-३५२.३; रो-५,२६१.६-१०; भा-३/४) अत्यल्पम् इदम् उच्यते ।

(पा-७,४.४८; अकि-३,३५१.२४-३५२.३; रो-५,२६१.६-१०; भा-४/४) स्ववस्स्वतवसोः मासः उषसः च तः इष्यते ॒ स्ववद्भिः , स्वतवद्भिः , समुषद्भिः अजायथाः , मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा

(पा-७,४.५४; अकि-३,३५२.५-७; रो-५,२६१.१२-१४; भा-१/५) इस्त्वम् सनि राधः हिंसायाम् ।

(पा-७,४.५४; अकि-३,३५२.५-७; रो-५,२६१.१२-१४; भा-२/५) इस्त्वम् सनि राधः हिंसायाम् इति वक्तव्यम् ।

(पा-७,४.५४; अकि-३,३५२.५-७; रो-५,२६१.१२-१४; भा-३/५) प्रतिरित्सति ।

(पा-७,४.५४; अकि-३,३५२.५-७; रो-५,२६१.१२-१४; भा-४/५) हिंसायाम् इति किमर्थम् ।

(पा-७,४.५४; अकि-३,३५२.५-७; रो-५,२६१.१२-१४; भा-५/५) आरिरात्सति

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१/१९) ज्ञपेः ईत्त्वम् अनन्त्यस्य ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-२/१९) ज्ञपेः ईत्त्वम् अनन्त्यस्य इति वक्तव्यम् ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-३/१९) ज्ञीप्सति ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-४/१९) तत् तर्हि वक्तव्यम् ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-५/१९) न वक्तव्यम् ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-६/१९) लोपः अन्त्यस्य बाधकः भविष्यति ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-७/१९) अनवकाशाः विधयः बाधकाः भवन्ति सावकाशः च णिलोपः ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-८/१९) कः अवकाशः ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-९/१९) कारणा , हारणा ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१०/१९) एवम् अपि ईत्त्वम् अन्त्यस्य लोपस्य बाधकम् स्यात् ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-११/१९) अनवकाशाः हि विधयः बाधकाः भवन्ति ईत्त्वम् अपि सावकाशम् ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१२/१९) कः अवकाशः ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१३/१९) अनन्त्यः ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१४/१९) कथम् पुनः सति अन्त्ये अनन्त्यस्य ईत्त्वम् स्यात् ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१५/१९) भवेत् यः अचा आङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१६/१९) वयम् तु खलु अङेन अचम् विशेषयिष्यामः ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१७/१९) अङ्गस्य अचः यत्रतत्रस्थस्य इति ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१८/१९) एवम् अपि उभयोः सावकाशयोः परत्वात् ईत्त्वम् प्राप्नोति ।

(पा-७,४.५५; अकि-३,३५२.९-१७; रो-५,२६२.१-९; भा-१९/१९) तस्मात् अनन्त्यस्य इति वक्तव्यम्

(पा-७,४.५८; अकि-३,३५२.१९-२०; रो-५,२६२.११-१२; भा-१/३) अभ्यासस्य अनचि ।

(पा-७,४.५८; अकि-३,३५२.१९-२०; रो-५,२६२.११-१२; भा-२/३) अभ्यासस्य इति यत् उच्यते तत् अनचि द्रष्टव्यम् ।

(पा-७,४.५८; अकि-३,३५२.१९-२०; रो-५,२६२.११-१२; भा-३/३) पतापतः , चराचरः , वदावदः

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१/३७) किम् अयम् षष्ठीसमासः ॒ हलाम् आदिः हलादिः हलादिः शिष्यते इति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२/३७) आहोस्वित् कर्मधारयः ॒ हल् आदिः हलादिः हलादिः शिष्यते इति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३/३७) कः च अत्र विशेषः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-४/३७) हलादिशेषे षष्ठीसमासः इति चेत् अजादिषु शेषप्रसङ्गः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-५/३७) हलादिशेषे षष्ठीसमासः इति चेत् अजादिषु शेषः प्राप्नोति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-६/३७) आनक्ष , आनक्षतुः , आनक्षुः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-७/३७) अस्तु तर्हि कर्मधारयः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-८/३७) कर्मधारयः इति चेत् आदिशेषनिमित्तत्वात् लोपस्य तदभावे लोपवचनम् ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-९/३७) कर्मधारयः इति चेत् आदिशेषनिमित्तत्वात् लोपस्य तदभावे आद्यस्य हलः अभवे लोपः वक्तव्यः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१०/३७) आटतुः , आटुः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-११/३७) तस्मात् अनादिलोपः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१२/३७) तस्मात् अनादिः हल् लुप्यते इति वक्तव्यम् ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१३/३७) उक्तम् वा ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१४/३७) किम् उक्तम् ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१५/३७) प्रतिविधास्यते हलादिशेषः इति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१६/३७) अयम् इदानीम् सः प्रतिविधानकालः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१७/३७) इदम् प्रतिविधीयते ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१८/३७) इदम् प्रकृतम् अत्र लोपः अभ्यासस्य इति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-१९/३७) ततः वक्ष्यामि ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२०/३७) ह्रस्वः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२१/३७) ह्रस्वः भवति आदेशः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२२/३७) अभ्यासस्य लोपः इति अनुवर्तते ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२३/३७) तत्र ह्रस्वभाविनाम् ह्रस्वः लोपभाविनाम् लोपः भविष्यति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२४/३७) ततः हलादिः शेषः च इति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२५/३७) अथ वा एवम् वक्ष्यामि ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२६/३७) ह्रस्वः अहल् ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२७/३७) ह्रस्वः भवति अभ्यासस्य इति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२८/३७) ततः अहल् ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-२९/३७) अहल् च भवति अभ्यासः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३०/३७) ततः आदिः शेषः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३१/३७) आदिः शेषः भवति अभ्यासस्य इति ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३२/३७) अथ वा योगविभागः करिष्यते ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३३/३७) ह्रस्वादेशः भवति अभ्यासस्य ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३४/३७) ततः हल् ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३५/३७) हल् च लुप्यते अभ्यासस्य ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३६/३७) ततः आदिः शेषः ।

(पा-७,४.६०; अकि-३,३५३.२-२०; रो-५,२६३.२-२६४.६; भा-३७/३७) आदिः शेषः च भवति अभ्यासस्य

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१/३९) शर्पूर्वशेषे खर्पूर्वग्रहणम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२/३९) शर्पूर्वशेषे खर्पूर्वग्रहणम् कर्तव्यम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३/३९) खर्पूर्वाः खयः शिष्यन्ते खरः लुप्यन्ते इति वक्तव्यम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-४/३९) किम् प्रयोजनम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-५/३९) उचिच्छिषति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-६/३९) व्युचिच्छिषति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-७/३९) तुकः श्रवणम् मा भूत् इति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-८/३९) तत् तर्हि वक्तव्यम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-९/३९) न वक्तव्यम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१०/३९) चर्त्वे कृते तुक् न भविष्यति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-११/३९) असिद्धम् चर्त्वम् तस्य असिद्धत्वात् तुक् प्राप्नोति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१२/३९) सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१३/३९) एवम् अपि अन्तरङ्गत्वात् प्राप्नोति तस्मात् खर्पूर्वग्रहणम् कर्तव्यम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१४/३९) न कर्तव्यम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१५/३९) एत्त्वतुग्ग्रहणम् न करिष्यते ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१६/३९) अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१७/३९) आदिशेषप्रसङ्गः तु ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१८/३९) आदिशेषः तु प्राप्नोति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-१९/३९) तिष्ठासति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२०/३९) ननु च अनादिशेषः आदिशेषम् बाधिष्यते ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२१/३९) कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२२/३९) असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२३/३९) यदि आदिशेषः अपि भवति शर्पूर्ववचनम् इदानीम् किमर्थम् स्यात् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२४/३९) शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपप्रतिषेधार्थम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२५/३९) शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपः मा भूत् इति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२६/३९) व्यपकर्षविज्ञानात् सिद्धम् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२७/३९) व्यपकर्षविज्ञानात् सिद्धम् एतत् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२८/३९) किम् इदम् व्यपकर्षविज्ञानात् इति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-२९/३९) अपवादविज्ञानात् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३०/३९) अपवादत्वात् अत्र अनादिशेषः आदिशेषम् बाधिष्यते ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३१/३९) ननु च उक्तम् कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् इति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३२/३९) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३३/३९) यदि तत् न उच्येत किम् इह स्यात् ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३४/३९) हलादिशेषः ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३५/३९) हलादिशेषः चेत् न अप्राप्ते हलादिशेषे इदम् उच्यते तत् बाधकम् भविष्यति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३६/३९) यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति सति अपि सम्भवे बाधनम् भवति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३७/३९) तत् यथा ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३८/३९) दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् बाधकम् भवति ।

(पा-७,४.६१; अकि-३,३५३.२२-३५४.२०; रो-५,२६४.८-२६६.१०; भा-३९/३९) एवम् इह अपि सति अपि सम्भवे अनादिशेषः आदिशेषम् बाधिष्यते

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१/३०) दाधर्ति इति किम् निपात्यते ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२/३०) धारयतेः श्लौ अभ्यासस्य दीर्घत्वम् णिलुक् च ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-३/३०) अनिपात्यम् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-४/३०) तूतुजानवदभ्यासस्य दीर्घत्वम् पर्णशुषिवत् णिलुक् भविष्यति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-५/३०) धृङः वा अभ्यासस्य दीर्घत्वम् परस्मैपदम् च ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-६/३०) अनिपात्यम् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-७/३०) तूतुजानवदभ्यासस्य दीर्घत्वम् युध्यतिवत् परस्मैपदम् भविष्यति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-८/३०) दर्धर्ति इति किम् निपात्यते ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-९/३०) धारयतेः श्लौ अभ्यासस्य रुक् णिलुक् च ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१०/३०) अनिपात्यम् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-११/३०) देवाअदुह्रवद्रुट् पर्णश्रुषिवत् णिलुक् भविष्यति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१२/३०) धृङः वा अभ्यासस्य रुक् परस्मैपदम् च ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१३/३०) अनिपात्यम् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१४/३०) देवाअदुह्रवत् रुड्युध्यतिवत् परस्मैपदम् च भविष्यति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१५/३०) बोभूतु इति किम् निपात्यते ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१६/३०) भवतेः यङ्लुगन्तस्य अगुणत्वम् निपात्यते ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१७/३०) न एतत् अस्ति प्रयोजनम् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१८/३०) सिद्धम् अत्र अगुणत्वम् भूसुवोः तिङि इति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-१९/३०) एवम् तर्हि नियमार्थम् भविष्यति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२०/३०) अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२१/३०) क्व मा भूत् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२२/३०) बोभवीति इति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२३/३०) तेतिक्ते इति किम् निपात्यते ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२४/३०) तिजेः यङ्लुगन्तस्य आत्मनेपदम् निपात्यते ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२५/३०) न एतत् अस्ति प्रयोजनम् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२६/३०) सिद्धम् अत्र आत्मनेपदम् अनुदात्तङितः आत्मनेपदम् इति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२७/३०) नियमार्थम् तर्हि भविष्यति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२८/३०) अत्र एव यङ्लुगन्तस्य आत्मनेपदम् भवति न अन्यत्र इति ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-२९/३०) क्व मा भूत् ।

(पा-७,४.६५; अकि-३,३५४.२४-३५५.१६; रो-५,२६६.१४-२६७.१५; भा-३०/३०) बेभिदि इति चेच्छिदि इति

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१/२१) किमर्थम् स्वपेः अभ्यासस्य सम्प्रसारणम् उच्यते यदा सर्वेषु अभ्यासस्थानेषु स्वपेः सम्प्रसारणम् उक्तम् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-२/२१) स्वापिग्रहणम् व्यपेतार्थम् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-३/२१) स्वापिग्रहणम् क्रियते व्यपेतार्थम् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-४/२१) व्यपेतार्थः अयम् आरम्भः ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-५/२१) सुष्वापयिषति इति ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-६/२१) अस्ति प्रयोजनम् एतत् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-७/२१) किम् तर्हि इति ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-८/२१) तत्र क्यजन्ते अतिप्रसङ्गः ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-९/२१) तत्र क्यजन्ते अतिप्रसङ्गः भवति ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१०/२१) इह अपि प्राप्नोति ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-११/२१) स्वापकम् इच्छति स्वापकीयति स्वापकीयतेः सन् सिस्वापकीयिषति इति ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१२/२१) सिद्धम् तु णिग्रहणात् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१३/२१) सिद्धम् एतत् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१४/२१) कथम् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१५/२१) णिग्रहणम् कर्तव्यम् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१६/२१) न कर्तव्यम् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१७/२१) निर्देशात् एव हि व्यक्तम् ण्यन्तस्य ग्रहणम् इति ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१८/२१) न अत्र निर्देशः प्रमाणम् शक्यम् कर्तुम् ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-१९/२१) यथा हि निर्देशः तथा इह अपि प्रसज्येत ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-२०/२१) स्वापम् करोति स्वापयति स्वापयतेः सन् सिस्वापयिषति इति ।

(पा-७,४.६७; अकि-३,३५५.१८-३५६.५; रो-५,२६८.२-२६९.२; भा-२१/२१) तस्मात् णिग्रहणम् कर्तव्यम्

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-१/१०) त्रिग्रहणानर्थक्यम् गणान्तत्वात् ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-२/१०) त्रिग्रहणम् अनर्थकम् ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-३/१०) किम् कारणम् ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-४/१०) गणान्तत्वात् ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-५/१०) त्रयः एव निजादयः ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-६/१०) उत्तरार्थम् तु ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-७/१०) उत्तरार्थम् तर्हि त्रिग्रहणम् कर्तव्यम् ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-८/१०) भृञाम् इत् त्रयाणाम् यथा स्यात् ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-९/१०) इह मा भूत् ।

(पा-७,४.७५; अकि-३,३५६.७-११; रो-५,२६९.४-८; भा-१०/१०) जहाति

(पा-७,४.७७; अकि-३,३५६.१३-१५; रो-५,२६९.१०-२७०.३; भा-१/५) अर्तिग्रहणम् किमर्थम् न बहुलम् छन्दसि इति एव सिद्धम् ।

(पा-७,४.७७; अकि-३,३५६.१३-१५; रो-५,२६९.१०-२७०.३; भा-२/५) न हि अन्तरेण छन्दः अर्तेः श्लुः लभ्यः ।

(पा-७,४.७७; अकि-३,३५६.१३-१५; रो-५,२६९.१०-२७०.३; भा-३/५) एवम् तर्हि सिद्धे यत् अर्तिग्रहणम् करोति तत् ज्ञापयति आचार्यः भाषायाम् श्लुः भवति इति ।

(पा-७,४.७७; अकि-३,३५६.१३-१५; रो-५,२६९.१०-२७०.३; भा-४/५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,४.७७; अकि-३,३५६.१३-१५; रो-५,२६९.१०-२७०.३; भा-५/५) इयर्ति इति एतत् सिद्धम् भवति

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१/३६) ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२/३६) ऐचोः यङि दीर्घत्वम् प्राप्नोति ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३/३६) डोढौक्यते , तोत्रौक्यते इति ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-४/३६) ननु च ह्रस्वत्वे कृते दीर्घत्वम् न भविष्यति ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-५/३६) न सिध्यति ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-६/३६) किम् कारणम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-७/३६) ह्रस्वात् हि परम् दीर्घत्वम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-८/३६) ह्रस्वत्वम् क्रियताम् दीर्घत्वम् इति किम् अत्र कर्तव्यम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-९/३६) परत्वात् दीर्घत्वेन भवितव्यम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१०/३६) न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-११/३६) न वा एषः दोषः ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१२/३६) किम् कारणम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१३/३६) अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१४/३६) अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एषा परिभाषा कर्तव्या ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१५/३६) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१६/३६) प्रयोजनम् सन्वद्भावस्य दीर्घत्वम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१७/३६) अचीकरत् , अजीहरत् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१८/३६) सन्वद्भावम् अपवादत्वात् दीर्घत्वम् न बाधते ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-१९/३६) मान्प्रभृतीनाम् दीर्घत्वम् इत्त्वस्य ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२०/३६) मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् इत्त्वम् न बाधते ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२१/३६) गणेः ईत्वम् हलादिशेषस्य ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२२/३६) गणेः ईत्वम् अपवादत्वात् हलादिशेषम् न बाधते ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२३/३६) इदम् अयुक्तम् वर्तते ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२४/३६) किम् अत्र अयुक्तम् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२५/३६) ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्त्वा ततः उच्यते न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२६/३६) तस्याः च परिभाषायाः प्रयोजनानि नाम उच्यन्ते प्रयोजनम् सन्वद्भावस्य दीर्घत्वम् मान्प्रभृतीनाम् दीर्घत्वम् इत्त्वस्य गणेः ईत्वम् हलादिशेषस्य इति च ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२७/३६) न च सन्वद्भावम् अपवादत्वात् दीर्घत्वम् बाधते ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२८/३६) किम् तर्हि परत्वात् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-२९/३६) न खलु अपि मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् दीर्घत्वम् बाधते ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३०/३६) किम् तर्हि अन्तरङ्गत्वात् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३१/३६) न खलु अपि गणेः ईत्त्वम् अपवादत्वात् हलादिशेषम् बाधते ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३२/३६) किम् तर्हि अनवकाशत्वात् ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३३/३६) एवम् तर्हि इयम् परिभाषा कर्तव्या अभ्यासविकारेषु बाधकाः न बाधन्ते इति ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३४/३६) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३५/३६) न कर्तव्या ।

(पा-७,४.८२; अकि-३,३५६.१७-३५७.१९; रो-५,२७०.५-२७२.२; भा-३६/३६) आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् अकितः इति प्रतिषेधम् शास्ति

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१/३६) अकितः इति किमर्थम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२/३६) यंयम्यते , रंरम्यते ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३/३६) अकितः इति शक्यम् अकर्तुम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-४/३६) कस्मात् न भवति यंयम्यते , रंरम्यते इति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-५/३६) नुकि कृते अनजन्तत्वात् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-६/३६) अतः उत्तरम् पठति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-७/३६) अकिद्वचनम् अन्यत्र किदन्तस्य अलः अन्त्यनिवृत्त्यर्थम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-८/३६) अकिद्वचनम् क्रियते ज्ञापकार्थम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-९/३६) किम् ज्ञाप्यम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१०/३६) एतत् ज्ञापयति आचार्यः अन्यत्र किदन्तस्य अभ्यासस्य अलोन्त्यविधिः न भवति इति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-११/३६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१२/३६) प्रयोजनम् ह्रस्वत्वात्त्वेत्त्वगुणेषु ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१३/३६) ह्रस्वत्वम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१४/३६) अवचच्छतुः , अवचच्छुः ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१५/३६) अत्त्वम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१६/३६) चच्छृदतुः , चच्छृदुः ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१७/३६) इत्त्वम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१८/३६) चिच्छादयिषति , चिच्छर्दयिषति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-१९/३६) गुणः ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२०/३६) चेच्छिद्यते , चोच्छुष्यते ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२१/३६) तुकि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२२/३६) विप्रतिषेधात् सिद्धम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२३/३६) न एतानि सन्ति प्रयोजनानि ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२४/३६) विप्रतिषेधेन अपि एतानि सिद्धानि ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२५/३६) तुक् क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२६/३६) परत्वात् एते विधयः इति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२७/३६) तदन्ताग्रहणात् वा ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२८/३६) अथ वा न एवम् विज्ञायते अभ्यासस्य अजन्तस्य ऋकारान्तस्य अकारान्तस्य इगन्तस्य इति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-२९/३६) कथम् तर्हि ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३०/३६) अभ्यासे यः अच् अभ्यासे यः ऋकारः अभ्यासे यः अकारः अभ्यासे यः इच् इति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३१/३६) एवम् च कृत्वा दीर्घत्वम् प्राप्नोति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३२/३६) एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३३/३६) किम् अपवादः नुक् दीर्घत्वस्य इति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३४/३६) एवम् तर्हि सिद्धे सति यत् अकितः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अभ्यासविकारेषु बाधकाः न बाधन्ते इति ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३५/३६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,४.८३; अकि-३,३५७.२१-३५८.१८; रो-५,२७२.४-२७४.२; भा-३६/३६) ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्तम् सः न दोषः भवति

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-१/८) नुकि यंयम्यते , रंरम्यते इति रूपासिद्धिः ।

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-२/८) नुकि सति यंयम्यते , रंरम्यते इति रूपम् न सिध्यति ।

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-३/८) अनुस्वारागमवचनात् सिद्धम् ।

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-४/८) अनुस्वारागमः वक्तव्यः ।

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-५/८) एवम् अपि इदम् एव रूपम् स्यात् यम्̐य्यम्यते , इदम् न स्यात् यंयम्यते ।

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-६/८) पदान्तवत् च ।

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-७/८) पदान्तात् च इति वक्तव्यम् ।

(पा-७,४.८५; अकि-३,३५८.२०-३५९.२; रो-५,२७४.४-१०; भा-८/८) वा पदान्तस्य इति

(पा-७,४.९०; अकि-३,३५९.४-६; रो-५,२७४.१२-१४; भा-१/६) रीक् ऋत्वतः संयोगार्थम् ।

(पा-७,४.९०; अकि-३,३५९.४-६; रो-५,२७४.१२-१४; भा-२/६) रीक् ऋत्वतः इति वक्तव्यम् ।

(पा-७,४.९०; अकि-३,३५९.४-६; रो-५,२७४.१२-१४; भा-३/६) किम् प्रयोजनम् ।

(पा-७,४.९०; अकि-३,३५९.४-६; रो-५,२७४.१२-१४; भा-४/६) संयोगार्थम् ।

(पा-७,४.९०; अकि-३,३५९.४-६; रो-५,२७४.१२-१४; भा-५/६) संयोगान्ताः प्रयोजयन्ति ।

(पा-७,४.९०; अकि-३,३५९.४-६; रो-५,२७४.१२-१४; भा-६/६) वरीवृश्च्यते , परीपृच्छ्यते , बरीभृज्ज्यते

(पा-७,४.९१; अकि-३,३५९.८-९; रो-५,२७५.२-४; भा-१/३) मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम् ।

(पा-७,४.९१; अकि-३,३५९.८-९; रो-५,२७५.२-४; भा-२/३) मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,४.९१; अकि-३,३५९.८-९; रो-५,२७५.२-४; भा-३/३) मर्मृज्यते , मर्मृज्यमानासः

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-१/१३) किम् इदम् ऋकारग्रहणम् अङ्गविशेषणम् ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-२/१३) ऋकारान्तस्य अङ्गस्य इति ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-३/१३) आहोस्वित् अभ्यासविशेषणम् ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-४/१३) ऋकारान्तस्य अभ्यासस्य इति ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-५/१३) अङ्गविशेषणम् इति आह ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-६/१३) कथम् ज्ञायते ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-७/१३) यत् अयम् तपरकरणम् करोति ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-८/१३) कथम् कृत्वा ज्ञापकम् ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-९/१३) न हि कः चित् अभ्यासे दीर्घः अस्ति यदर्थम् तपरकरणम् क्रियेत ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-१०/१३) अथ अङ्गविशेषणे ऋकारग्रहणे सति तपरकरणे किम् प्रयोजनम् ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-११/१३) इह मा भूत् ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-१२/१३) चाकीर्ति , चाकीर्तः , चाकिरति ।

(पा-७,४.९२; अकि-३,३५९.११-१७; रो-५,२७५.६-१२; भा-१३/१३) किरतिम् चर्करीतान्तम् पचति इति अत्र यः नयेत् , प्राप्तिज्ञम् तम् अहम् मन्ये प्रारब्धः तेन सङ्ग्रहः

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१/४८) इह कस्मात् न भवति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२/४८) अजजागरत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३/४८) लघुनि चङ्परे इति उच्यते व्यवहितम् च अत्र लघु चङ्परम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४/४८) इह अपि तर्हि न प्राप्नोति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-५/४८) अचीकरत् , अजीहरत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-६/४८) वचनात् भविष्यति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-७/४८) इह अपि वचनात् प्राप्नोति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-८/४८) अजजागरत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-९/४८) येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१०/४८) केन च न अव्यवधानम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-११/४८) वर्णेन ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१२/४८) एतेन पुनः सङ्घातेन व्यवधानम् भवति न भवति च ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१३/४८) एवम् अपि अचिक्षणत् अत्र न प्राप्नोति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१४/४८) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् इत्त्वम् इति यत् अयम् अत्स्मृदृ̄त्वरप्रथम्रदस्तृ̄स्पशाम् इति इत्त्वबाधनार्थम् अत्त्वम् शास्ति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१५/४८) सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१६/४८) सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् ॒ वादितवन्तम् प्रयोजितवान् , अवीवदत् वीणाम् परिवादकेन ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१७/४८) किम् पुनः कारणम् न सिध्यति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१८/४८) णिचा व्यवहितत्वात् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-१९/४८) लोपे कृते न अस्ति व्यवधानम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२०/४८) स्थानिवद्भावात् व्यवधानम् एव ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२१/४८) प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२२/४८) एवम् अपि अनग्लोपः इति प्रतिषेधम् प्राप्नोति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२३/४८) वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२४/४८) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२५/४८) वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२६/४८) परत्वात् वृद्धिः ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२७/४८) नित्यः लोपः ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२८/४८) कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-२९/४८) लोपः अपि अनित्यः ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३०/४८) अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अकृतायाम् अन्यस्य शब्दान्तस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३१/४८) उभयोः अनित्ययोः परत्वात् वृद्धिः ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३२/४८) वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३३/४८) मीमादीनाम् तु लोपप्रसङ्गः ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३४/४८) मीमादीनाम् तु लोपः प्राप्नोति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३५/४८) अमीमपत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३६/४८) सिद्धम् तु रूपातिदेशात् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३७/४८) सिद्धम् एतत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३८/४८) कथम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-३९/४८) रूपातिदेशः अयम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४०/४८) सनि यादृशम् अभ्यासरूपम् तत् सन्वद्भावेन अतिदिश्यते न च मीमादीनाम् सनि अभ्यासरूपम् अस्ति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४१/४८) अङ्गान्यत्वात् वा सिद्धम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४२/४८) अथ वा ण्यन्तम् एतत् अङ्गम् अन्यत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४३/४८) लोपे कृते न अङ्गान्यत्वम् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४४/४८) स्थानिवद्भावात् अङ्गम् अन्यत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४५/४८) कथम् अजिज्ञपत् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४६/४८) अत्र सनि अपि ण्यन्तस्य एव उपादानम् आप्ज्ञप्यृधाम् ईत् इति ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४७/४८) अत्र अङ्गान्यत्वाभावात् अभ्यासलोपः स्यात् ।

(पा-७,४.९३; अकि-३,३५९.१९-३६०.२४; रो-५,२७६.१-२७८.३; भा-४८/४८) तस्मात् पूर्वः एव परिहारः सिद्धम् तु रूपातिदेशात् इति