व्याकरणमहाभाष्य खण्ड 82

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१/१२१) सर्ववचनम् किमर्थम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२/१२१) सर्ववचनम् अलोन्त्यनिवृत्त्यर्थम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३/१२१) सर्वग्रहणम् क्रियते अलोन्त्यनिवृत्त्यर्थम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४/१२१) अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य द्विर्वचनम् मा भूत् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५/१२१) क्व पुनः अलोन्त्यनिवृत्त्यर्थेन अर्थः सर्वग्रहणेन ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६/१२१) नित्यवीप्सयोः इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७/१२१) नित्यवीप्सयोः इति उच्यते न च अन्त्यस्य द्विर्वचनेन नित्यता वीप्सा वा गम्यते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८/१२१) इह तर्हि परेः वर्जने इति अन्त्यस्य अपि द्विर्वचनेन वर्ज्यमानता गम्येत ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९/१२१) षष्ठीनिर्देशार्थम् च । षष्ठीनिर्देशार्थम् च सर्वग्रहणम् कर्तव्यम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०/१२१) षष्ठीनिर्देशः यथा प्रकल्पेत ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११/१२१) अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे सर्वग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१२/१२१) कस्य ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१३/१२१) स्थानेयोगत्वस्य ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१४/१२१) क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः सर्वग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१५/१२१) परेर्वर्जने प्रसमुपोदःपादपूरणे उपर्यध्यधसःसामीप्ये वाक्यादेरामन्त्रितस्य इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१६/१२१) इह न का चित् षष्ठी नित्यवीप्सयोः इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१७/१२१) ननु च एषा एव षष्ठी ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१८/१२१) न एषा षष्ठी ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१९/१२१) किम् तर्हि ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२०/१२१) अर्थनिर्देशः एषः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२१/१२१) नित्ये च अर्थे वीप्सायाम् च इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२२/१२१) अलोन्त्यनिवृत्त्यर्थेन तावत् न अर्थः सर्वग्रहणेन ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२३/१२१) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२४/१२१) नित्यवीप्सयोः द्वे भवतः इति उच्यते द्विशब्दः आदेशः कस्मात् न भवति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२५/१२१) आचार्यप्रवृत्तिः ज्ञापयति न द्विशब्दः आदेशः भवति इति यत् अयम् तस्यपरमाम्रेडितम् अनुदात्तम्च इति आह ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२६/१२१) कथम् कृत्वा ज्ञापकम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२७/१२१) द्विशब्दः अयम् एकाच् तस्य एकाच्त्वात् तस्यपरमाम्रेडितम् अनुदात्तम्च इति एतत् न अस्ति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२८/१२१) पश्यति तु आचार्यः न द्विशब्दः आदेशः भवति इति ततः तस्य परमाम्रेडितम् अनुदात्तम्च इति आह ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-२९/१२१) यदि तर्हि न द्विशब्दः आदेशः भवति के तर्हि इदानीम् द्वे भवतः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३०/१२१) द्विशब्देन यत् उच्यते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३१/१२१) किम् पुनः तत् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३२/१२१) द्विशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३३/१२१) सङ्ख्येये द्वे भविष्यतः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३४/१२१) के पुनः ते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३५/१२१) पदे वाक्ये मात्रे वा ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३६/१२१) तत् यदा तावत् पदे वाक्ये वा तदा अनेकाल्त्वात् सर्वादेशः सिद्धः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३७/१२१) यदा मात्रे अपि तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३८/१२१) यदा तर्हि अर्धमात्रे तदा सर्वादेशः न सिध्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-३९/१२१) न एषः दोषः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४०/१२१) न च अर्धमात्रे द्विः उच्येते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४१/१२१) किम् कारणम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४२/१२१) इह व्याकरेणे यः सर्वाल्पीयान् स्वरव्यवहारः सः मात्रया भवति न अर्धमात्रया व्यवहारः अस्ति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४३/१२१) तेन अर्धमात्रे न भविष्यतः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४४/१२१) एवम् अपि कुतः एतत् पदे द्वे भविष्यतः इति न पुनः वाक्ये स्याताम् मात्रे वा ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४५/१२१) नित्यवीप्सयोः द्वे भवतः इति उच्यते न च वाक्यद्विर्वचनेन मात्राद्विर्वचनेन वा नित्यता वीप्सा वा गम्यते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४६/१२१) षष्ठीनिर्देशार्थम् एव तर्हि सर्वग्रहणम् कर्तव्यम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४७/१२१) न वा पदाधिकारात् । न वा वक्तव्यम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४८/१२१) किम् कारणम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-४९/१२१) पदाधिकारात् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५०/१२१) पदस्य इति प्रकृत्य द्विर्वचनम् वक्ष्यामि ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५१/१२१) तत् च समासतद्धितवाक्यनिवृत्त्यर्थम् । तत् च अवश्यम् पदग्रहणम् कर्तव्यम् समासनिवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् च ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५२/१२१) समासनिवृत्त्यर्थम् तावत् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५३/१२१) सप्तपर्णः अष्टापदम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५४/१२१) तद्धितनिवृत्त्यर्थम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५५/१२१) द्विपदिका त्रिपदिका ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५६/१२१) माषशः कार्षापणशः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५७/१२१) वाक्यनिवृत्त्यर्थम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५८/१२१) ग्रामे ग्रामे पानीयम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-५९/१२१) माषम् माषम् देहि ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६०/१२१) अथ क्रियमाणे अपि वै पदग्रहणे समासनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६१/१२१) समसस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६२/१२१) आहोस्वित् समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६३/१२१) किम् च अतः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६४/१२१) यदि विञायते समासस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सिद्धम् सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति सप्तपर्णाभ्याम् सप्तपर्णेभ्यः इति अत्र प्राप्नोति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६५/१२१) अथ विज्ञायते समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति अत्र अपि प्राप्नोति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६६/१२१) तथा तद्धितनिवृत्त्यर्थम् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६७/१२१) कथम् इदम् विज्ञायते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६८/१२१) तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-६९/१२१) आहोस्वित् तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७०/१२१) किम् च अतः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७१/१२१) यदि विज्ञायते तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति सिद्धम् द्विपदिकाः त्रिपदिकाः द्विपदिकाभ्याम् त्रिपदिकाभ्याम् माषशः कार्षापणशः इति अत्र प्राप्नोति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७२/१२१) अथ विज्ञायते तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति द्विपदिकाः त्रिपदिकाः इति अत्र अपि प्राप्नोति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७३/१२१) तथा वाक्यनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७४/१२१) वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७५/१२१) आहोस्वित् वाक्ये निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७६/१२१) किम् च अतः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७७/१२१) यदि विज्ञायते वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति यदि वाक्यम् वीप्सायुक्तम् भवितव्यम् एव द्विर्वचनेन ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७८/१२१) अथ अपि अवयवः भवतु एव ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-७९/१२१) तत् एतत् क्रियमाणे अपि पदग्रहणे आलूनविशीर्णम् भवति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८०/१२१) किम् चित् सङ्गृहीतम् किम् चित् असङ्गृहीतम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८१/१२१) सगतिग्रहणम् च । सगतिग्रहणम् च कर्तव्यम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८२/१२१) प्रपचति प्रपचति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८३/१२१) प्रकरोति प्रकरोति इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८४/१२१) किम् पुनः कारणम् न सिध्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८५/१२१) न हि सगतिकम् पदम् भवति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८६/१२१) समासनिवृत्त्यर्थेन तावत् न अर्थः पदग्रहणेन ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८७/१२१) समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भविष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८८/१२१) किम् च भोः समासः वीप्सायाम् इति उच्यते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-८९/१२१) न खलु वीप्सायाम् इति उच्यते गम्यते तु सः अर्थः ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९०/१२१) तत्र उक्तः समासेन इति कृत्वा द्विर्वचनम् न भविष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९१/१२१) यत्र च समासेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९२/१२१) तत् यथा ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९३/१२१) एकैकविचिताः अन्योन्यसहायाः इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९४/१२१) अथ वा यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९५/१२१) किम् पुनः तत् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९६/१२१) पर्वणि पर्वणि सप्त पर्णानि अस्य ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९७/१२१) पङ्क्तौ पङ्क्तौ अष्टौ पदानि अस्य इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९८/१२१) तद्धितनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-९९/१२१) तद्धितेन उकत्वात् वीप्सायाः द्विर्वचनम् न भविष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१००/१२१) तद्धितः खलु अपि वीप्सायाम् इति उच्यते ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०१/१२१) यत्र च तद्धितेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०२/१२१) तत् यथा ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०३/१२१) एकैकशः ददाति इति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०४/१२१) वाक्यनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०५/१२१) पदद्विर्वचनेन उक्तत्वात् वीप्सायाः वाक्यद्विर्वचनम् न भविष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०६/१२१) यत्र च पदद्विर्वचनेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०७/१२१) तत् यथा ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०८/१२१) प्रपचति प्रपचति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१०९/१२१) प्रकरोति प्रकरोति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११०/१२१) उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१११/१२१) तस्यपरमाम्रेडितम् अनुदात्तम्च इति वक्ष्यति तत् पदद्विर्वचने यथा स्यात् वाक्यद्विर्वचनेमा भूत् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११२/१२१) मह्यम् ग्रहीष्यति मह्यम् ग्रहीष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११३/१२१) माम् अभिव्याहरिष्यति माम् अभ्व्याहरिष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११४/१२१) कथम् च अत्र द्विर्वचनम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११५/१२१) छान्दसत्वात् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११६/१२१) स्वरः अपि तर्हि छान्दसत्वात् एव न भविष्यति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११७/१२१) उत्तरार्थम् एव तर्हि पदग्रहणम् कर्तव्यम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११८/१२१) पदस्य पदात् इति वक्ष्यति तत् पदग्रहणम् न कर्तव्यम् भवति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-११९/१२१) सर्वग्रहणम् अपि तर्हि उत्तरार्थम् ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१२०/१२१) अनुदात्तंसर्वमपादादौ इति वक्ष्यति तत् सर्वग्रहणम् कर्तव्यम् भवति ।

(पा-८,१.१.१; अकि-३,३६१.१-३६४.१२; रो-५,२७९-२८८; भा-१२१/१२१) उभयम् क्रियते तत्र एव

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१/२५) इहार्थम् एव तर्हि षष्ठीनिर्देशार्थम् अन्यतरत् कर्तव्यम् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-२/२५) षष्ठीनिर्दिष्टस्य स्थाने द्विर्वचनम् यथा स्यात् द्विःप्रयोगः मा भूत् इति ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-३/२५) किम् च स्यात् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-४/२५) आम् पचसि देवदत्ता३ आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता न स्यात् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-५/२५) इह च पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न स्यात् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-६/२५) यदि तर्हि स्थाने द्विर्वचनम् राजा राजा वाक् वाक् पदस्य इति नलोपादीनि न सिध्यन्ति ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-७/२५) इदम् इह सम्प्रधार्यम् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-८/२५) द्विर्वचनम् क्रियताम् नलोपादीनि इति किम् अत्र कर्तव्यम् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-९/२५) परत्वात् नलोपादीनि ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१०/२५) पूर्वत्र असिद्धे नलोपादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-११/२५) एवम् तर्हि पूर्वत्र असिद्धीयम् अद्विर्वचने इति वक्ष्यामि ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१२/२५) तत् च अवश्यम् वक्तव्यम् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१३/२५) किम् प्रयोजनम् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१४/२५) विभाषिताः प्रयोजयन्ति ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१५/२५) द्रोग्धा द्रोग्धा ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१६/२५) द्रोढा द्रोढा इति ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१७/२५) इह तर्हि बिसम् बिसम् मुसलम् मुसलम् आदेशप्रत्यययोः इति षत्वम् प्राप्नोति ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१८/२५) आदेशः यः सकारः प्रतयः यः सकारः इति एवम् एतत् विज्ञायते ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-१९/२५) इह तर्हि नृभिः नृभिः रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-२०/२५) समानपदे इति उच्यते समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-२१/२५) किम् वक्तव्यम् एतत् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-२२/२५) न हि ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-२३/२५) कथम् अनुच्यमानम् गंस्यते ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-२४/२५) समानग्रहणसामर्थ्यात् ।

(पा-८,१.१.२; अकि-३,३६३.२८-३६४.१३; रो-५,२८८-२९२; भा-२५/२५) यदि हि यत् समानम् च असमानम् च तत्र स्यात् समानग्रहणम् अनर्थकं स्यात्

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-१/१४) अथ वा पुनः अस्तु द्विःप्रयोगः द्विर्वचनम् ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-२/१४) ननु च उक्तम् आम् पचसि पचसि देवदत्ता३ आमः एकान्तरम् आमन्त्रितम् अनन्तिके इति एकान्तरता न प्राप्नोति ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-३/१४) न एषः दोषः ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-४/१४) सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-५/१४) सुप्तिङन्तम्पदम् ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-६/१४) यस्मात् सुप्तिङ्विधिः तदादि सुप्तिङन्तम् च ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-७/१४) ननु च एकैकस्मात् एव अत्र सुप्तिङ्विधिः ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-८/१४) समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-९/१४) कुतः एतत् ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-१०/१४) शास्त्राहानेः ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-११/१४) एवम् हि शास्त्रम् अहीनम् भवति ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-१२/१४) यत् अपि उच्यते इह पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न प्राप्नोति इति मा भूत् एवम् ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-१३/१४) समर्थात् इति एवम् भविष्यति ।

(पा-८,१.१.३; अकि-३,३६४.१४-२१; रो-५,२९२-२९४; भा-१४/१४) अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकेभ्यः तद्धितोत्पत्तिः इति यत् अयम् कस्कादिषु कौतस्कुतशब्दम् पठति

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-१/९) इह कस्मात् न भवति ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-२/९) हिमवान् खाण्डवः पारियात्रः समुद्रः इति ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-३/९) नित्ये द्वे भवतः इति प्राप्नोति ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-४/९) न एषः दोषः ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-५/९) अयम् नित्यशब्दः अस्ति एव कूटस्थेषु अविचालिषु भावेषु वर्तते ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-६/९) तत् यथा ॒ नित्या द्यौः नित्या पृथिवी नित्यम् आकाशम् इति ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-७/९) अस्ति आभीक्ष्ण्ये वर्तते ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-८/९) तत् यथा ॒ नित्यप्रहसितः नित्यप्रजल्पितः इति ।

(पा-८,१.४.१; अकि-३,३६४.२२-२६; रो-५,२९४-२९६; भा-९/९) तत् यः आभीक्ष्ण्ये वर्तते तस्य इदम् ग्रहणम् ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१/३२) अथ किम् इदम् वीप्सा इति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२/३२) आप्नोतेः अयम् विपूर्वाइ इच्छायाम् अर्थे सन् विधीयते ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-३/३२) यदि एवम् चिकीर्षति जिहीर्षति इति अत्र अपि प्राप्नोति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-४/३२) न एषः दोषः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-५/३२) न एवम् विज्ञायते वीप्सायाम् अभिधेयायाम् इति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-६/३२) कथम् तर्हि ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-७/३२) कर्तृविशेषणम् एतत् ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-८/३२) वीप्सति इति वीप्सः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-९/३२) वीप्सः चेत् कर्ता भवति इति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१०/३२) कः पुनः वीप्सार्थः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-११/३२) अनवयवाभिधानम् वीप्सार्थः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१२/३२) अनवयवेन द्रव्याणाम् अभिधानम् एषः वीप्सार्थः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१३/३२) अनवयवाभिधानम् वीप्सार्थः इति चेत् जात्याख्यायाम् द्विर्वचनप्रसङ्गः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१४/३२) अनवयवाभिधानम् वीप्सार्थः इति चेत् जात्याख्यायाम् द्विर्वचनम् प्राप्नोति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१५/३२) व्रीहिभिः यवैः वा इति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१६/३२) न वा एकार्थत्वात् जातेः । न वा एषः दोषः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१७/३२) किम् कारणम् ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१८/३२) एकार्थत्वात् जातेः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-१९/३२) एकार्थः हि जातिः ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२०/३२) एकम् अर्थम् प्रत्याययिष्यामि इति जातिशब्दः प्रयुज्यते ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२१/३२) अनेकार्थाश्रयत्वात् च वीप्सायाः । अनेकार्थाश्रया च पुनः वीप्सा ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२२/३२) अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति वीप्सा प्रयुज्यते ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२३/३२) एकार्थत्वात् जातेः अनेकार्थाश्रयत्वात् च वीप्सायाः जात्याख्यायाम् द्विर्वचनम् न भविष्यति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२४/३२) निवर्तकत्वाद्वा । अथ वा न अनेन द्विर्वचनम् निर्वर्त्यते ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२५/३२) किम् तर्हि अद्विर्वचनम् अनेन निवर्त्यते ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२६/३२) यावन्तः ते अर्थाः तावताम् शब्दानाम् प्रयोगः प्राप्नोति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२७/३२) तत्र अनेन निवृत्तिः क्रियते ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२८/३२) नित्यवीप्सयोः अर्थयोः द्वे एव शब्दरूपे प्रयोक्तव्ये न अतिबहु प्रयोक्तव्यम् इति ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-२९/३२) सर्वपदसगतिग्रहणानर्थक्यम् च अर्थाभिधाने द्विर्वचनविधानात् । सर्वग्रहणम् च अनर्थकम् ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-३०/३२) किम् कारणम् ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-३१/३२) सर्वस्य एव हि द्विर्वचनेन अर्थः गम्यते न अवयवस्य ।

(पा-८,१.४.२; अकि-३,३६५.१-२१; रो-५,२९७-३००; भा-३२/३२) पदग्रहणम् च अनर्थकम् पदस्य एव हि द्विर्वचनेन अर्थः गम्यते न अगतिकस्य

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१/२७) किम् पुनः इदम् वीप्सायाम् सर्वम् अभिधीयते आहोस्वित् एकम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२/२७) कः च अत्र विशेषः ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-३/२७) वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-४/२७) वीप्सायाम् सर्वाभिधाने वचनम् न सिध्यति ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-५/२७) ग्रामः ग्रामः ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-६/२७) जनपदः जनपदः ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-७/२७) बहवः ते अर्थाः तत्र बहुषुबहुवचनम् इति बहुवचनम् प्राप्नोति ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-८/२७) अस्तु तर्हि एकम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-९/२७) एकाभिधाने असर्वद्रव्यगतिः । एकाभिधाने सर्वद्रव्यगतिः न सिध्यति ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१०/२७) अस्तु तर्हि सर्वम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-११/२७) ननु च उक्तम् वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः इति ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१२/२७) न वा पदार्थत्वात् । न वा एषः दोषः ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१३/२७) किम् कारणम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१४/२७) पदार्थत्वात् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१५/२७) पदस्य अर्थः वीप्सा ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१६/२७) सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१७/२७) यत् तर्हि प्रातिपदिकम् ॒ दृषत् दृषत् समित् समित् इति ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१८/२७) एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-१९/२७) अपर आह ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२०/२७) न वा पदार्थत्वात् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२१/२७) न वा एषः दोषः ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२२/२७) किम् कारणम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२३/२७) पदार्थत्वात् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२४/२७) पदस्य अर्थः वीप्सा सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२५/२७) यत् तर्हि प्रातिपदिकम् ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२६/२७) दृषत् दृषत् समित् समित् इति ।

(पा-८,१.४.३; अकि-३,३६५.२२-३६६.११; रो-५,३००-३०२; भा-२७/२७) एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम्

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१/२१) अथ इह कथम् भवितव्यम् ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-२/२१) पचति पचतितराम् तिष्ठति ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-३/२१) आहोस्वित् पचतितराम् पचतितराम् तिष्ठति इति ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-४/२१) पचति पचतितराम् तिष्ठतीति भवितव्यम् ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-५/२१) कथम् ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-६/२१) द्विर्वचनम् क्रियताम् आतिशायिकः इति द्विर्वचनम् भविष्यति विप्रतिषेधेन ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-७/२१) इह अपि तर्हि आतिशायिकात् द्विर्वचनम् स्यात् ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-८/२१) आद्यतरम् आद्यतरम् आनय इति ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-९/२१) अस्ति अत्र विशेषः ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१०/२१) अन्तरङ्गः आतिशायिकः ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-११/२१) का अन्तरङ्गता ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१२/२१) ङ्याप्प्रातिपदिकात् आतिशायिकः पदस्य द्विर्वचनम् ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१३/२१) आतिशायिकः अपि न अन्तरङ्गः ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१४/२१) कथम् ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१५/२१) समर्थात् तद्धितः असौ उत्पद्यते सामर्थ्यम् च सुबन्तेन ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१६/२१) अथ वा स्पर्धायाम् आतिशायिकः विधीयते न च अन्तरेण प्रतियोगिनम् स्पर्धा गम्यते ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१७/२१) एवम् तर्हि इह द्वौ अर्थौ वक्तव्यौ नित्यवीप्से च अतिशयः च न च एकस्य प्रयोक्तुः अनेकम् अर्थम् युगपत् वक्तुम् सम्भवः अस्ति ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१८/२१) तत् एतत् प्रयोक्तरि अधीनम् भवति ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-१९/२१) एतस्मिन् च प्रयोक्तरि अधीने क्व चित् का चित् प्रसृततरा गतिः भवति ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-२०/२१) इह तावत् पचति पचतितराम् तिष्ठति इति एषा प्रसृततरा गतिः यत् नित्यम् उक्त्वा अतिशयः उच्यते ।

(पा-८,१.४.४; अकि-३,३६६.१२-३६६.२३; रो-५,३०२-३०४; भा-२१/२१) इह इदानीम् आद्यतरम् आद्यतरम् आनय इति एषा प्रसृततरा गतिः यत् अतिशयम् उक्त्वा वीप्साद्विर्वचनम् उच्यते

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-१/१२) परेः असमासे ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-२/१२) परेः असमासे इति वक्तव्यम् ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-३/१२) इह मा भूत् ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-४/१२) परित्रिगर्तम् वृष्टः देवः ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-५/१२) तत् तर्हि वक्तव्यम् ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-६/१२) न वक्तव्यम् ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-७/१२) परेः वर्जने इति उच्यते न च अत्र परिः वर्जने वर्तते ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-८/१२) कः तर्हि ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-९/१२) समासः ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-१०/१२) परेर्वर्जने वावचनम् । परेर्वर्वने वा इति वक्तव्यम् ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-११/१२) परि त्रिगर्तेभ्यः वृष्टः देवः ।

(पा-८,१.५; अकि-३,३६६.२४-३६७.५; रो-५,३०४-३०५; भा-१२/१२) परि परि त्रिगर्तेभ्यः वृष्टः देवः

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-१/११) असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात् पृथक्त्वनिर्देशानर्थक्यम् ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-२/११) असूया कुत्सनम् इति एकः अर्थः ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-३/११) कोपः भर्त्सनम् इति एकः अर्थः ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-४/११) असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात् पृथक्त्वनिर्देशः अनर्थकः ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-५/११) न हि अनसूयन् कुत्सयति न च अपि अकुपितः भर्त्सयते ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-६/११) ननु च भोः अकुपिताः अपि दृश्यन्ते दारकान् भर्त्सयमानाः ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-७/११) अन्ततः ते ताम् शरीराकृतिम् कुर्वन्ति या कुपितस्य भवति ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-८/११) एवम् तर्हि आह ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-९/११) सामृतैः पाणिभिः घ्नन्ति गुरवः न विषोकितैः ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-१०/११) लाडनाश्रयिणः दोषाः ताडनाश्रयिणः गुणाः ।

(पा-८,१.८; अकि-३,३६७.६-१३; रो-५,३०५-३०६; भा-११/११) एकम् बहुव्रीहिवत्

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-१/११) इह कस्मात् बहुव्रीहिवद्भावः न भवति ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-२/११) एकः इति ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-३/११) एकस्य द्विर्वचनसम्बन्धेन बहुव्रीहिवद्भावः उच्यते न च अत्र द्विर्वचनम् पश्यामः ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-४/११) एकस्य द्विर्वचनसम्बन्धेन इति चेत् अर्थनिर्देशः ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-५/११) एकस्य द्विर्वचनसम्बन्धेन इति चेत् अर्थनिर्देशः कर्तव्यः ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-६/११) द्विर्वचनम् अपि हि अत्र कस्मात् न भवति ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-७/११) तस्मात् वाच्यम् अस्मिन् अर्थे द्वे भवतः बहुव्रीहिवत् च इति ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-८/११) न वा वीप्साधिकारात् । न वा वक्तव्यम् ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-९/११) किम् कारणम् ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-१०/११) वीप्साधिकारात् ।

(पा-८,१.९; अकि-३,३६७.१४-२२; रो-५,३०६-३०७; भा-११/११) नित्यवीप्सयोः इति वर्तते

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१/२२) अथ बहुव्रीहिवत्त्वे किम् प्रयोजनम् ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-२/२२) बहुव्रीहिवत्त्वे प्रयोजनम् सुब्लोपपुंवद्भावौ ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-३/२२) सुब्लोपः ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-४/२२) एकैकम् ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-५/२२) पुंवद्भावः ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-६/२२) गतगता ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-७/२२) यदि एवम् सर्वनामस्वरसमासान्तेषु दोषः । सर्वनामस्वरसमासान्तेषु दोषः भवति ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-८/२२) सर्वनामविधौ दोषः भवति ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-९/२२) एकैकस्मै ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१०/२२) नबहुव्रीहौ इति प्रतिषेधः प्राप्नोति ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-११/२२) सर्वनाम ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१२/२२) स्वर ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१३/२२) नन सुसु ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१४/२२) नञ्सुभ्याम् इति एषः स्वरः प्राप्नोति ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१५/२२) स्वर ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१६/२२) समासान्त ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१७/२२) ऋगृक् पूःपूः ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१८/२२) ऋक्पूरब्धूःपथामानक्षे इति समासान्तः प्राप्नोति ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-१९/२२) सर्वनामविधौ तावत् न दोषः ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-२०/२२) उक्तम् तत्र बहुव्रीहिग्रहणस्य प्रयोजनम् बहुव्रीहिः एव यः बुहुव्रीहिः तत्र प्रतिषेधः यथा स्यात् बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-२१/२२) स्वरसमासान्तयोः अपि प्रकृतम् समासग्रहणम् अनुवर्तते तेन एव बहुव्रीहिम् विशेषयिष्यामः ।

(पा-८,१.९; अकि-३,३६७.२२-३६८.११; रो-५,३०७-३०९; भा-२२/२२) समासः यः बहुव्रीहिः इति

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-१/८) कर्मधारयवत्त्वे कानि प्रयोजनानि ।

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-२/८) कर्मधारयवत्त्वे प्रयोजनम् सुब्लोपपुंवद्भावान्तोदात्तत्वानि ।

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-३/८) सुब्लोपः ।

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-४/८) पटुपटुः ।

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-५/८) पुंवद्भावः ।

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-६/८) पटुपट्वी ।

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-७/८) अन्तोदात्तत्वम् ।

(पा-८,१.११; अकि-३,३६८.१२-३६८.१५; रो-५,३१०; भा-८/८) पटुपटुः

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१/१८) गुणवचनस्य इति किमर्थम् ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-२/१८) अग्निः माणवकः ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-३/१८) गौः वाहीकः ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-४/१८) प्रकारे सर्वेषाम् गुणवचनत्वात् सर्वप्रसङ्गः ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-५/१८) सर्वे हि शब्दाः प्रकारे वर्तमानाः गुणवचनाः सम्पद्यन्ते तेन इह अपि प्राप्नोति ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-६/१८) अग्निः माणवकः ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-७/१८) गौः वाहीकः इति ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-८/१८) सिद्धम् तु प्रकृत्यर्थविशेषणत्वात् । सिद्धम् एतत् ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-९/१८) कथम् ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१०/१८) प्रकृत्यर्थविशेषणत्वात् ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-११/१८) प्रकृत्यर्थः विशेष्यते ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१२/१८) न एवम् विज्ञायते प्रकारे गुणवचनस्य इति ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१३/१८) कथम् तर्हि ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१४/१८) गुणवचनस्य शब्दस्य द्वे भवतः प्रकारे वर्तमानस्य इति ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१५/१८) अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः गुणवचनः इति ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१६/१८) कः च साधीयः ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१७/१८) यः प्रकारे च प्राक् च प्रकारात् ।

(पा-८,१.१२.१; अकि-३,३६८.१६-३६९.८; रो-५,३१०-३१२; भा-१८/१८) अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते ते एवम् विज्ञास्यामः प्राक् प्रकारात् यः गुणवचनः इति

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१/४५) [आनुपूर्व्ये ।] आनुपूर्व्ये द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२/४५) मूले मूले स्थूलाः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३/४५) अग्रे अग्रे सूक्ष्माः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-४/४५) स्वार्थे अवधार्यमाणे अनेकस्मिन् । स्वार्थे अवधार्यमाणे अनेकस्मिन् द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-५/४५) अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-६/४५) अवधार्यमाणे इति किमर्थम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-७/४५) अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि द्वौ देहि त्रीन् देहि ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-८/४५) अनेकस्मिन् इति किमर्थम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-९/४५) अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१०/४५) माषम् एव देहि ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-११/४५) किम् पुनः कारणम् न सिध्यति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१२/४५) अनवयवाभिधानम् वीप्सार्थः इति उच्यते अवयवाभिधानम् च अत्र गम्यते ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१३/४५) आतः च अवयवाभिधानम् यः हि उच्यते अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा शेषम् पृच्छति किम् अनेन क्रियताम् इति. यः पुनः उच्यते इमम् कार्षापणम् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा तूष्णीम् आस्ते ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१४/४५) [चापले ।] चापले द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१५/४५) अहिः अहिः बुध्यस्व बुध्यस्व ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१६/४५) न च अवश्यम् द्वे एव ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१७/४५) यावद्भिः शब्दैः सः अर्थः गम्यते तावन्तः प्रयोकव्याः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१८/४५) अहिः अहिः अहिः बुध्यस्व बुध्यस्व बुध्यस्व इति ।क्रियासमभिहारे । क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-१९/४५) सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२०/४५) [आभीक्ष्ण्ये ।] आभीक्ष्ण्ये द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२१/४५) भुक्त्वा भुक्त्वा व्रजति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२२/४५) भोजम् भोजम् व्रजति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२३/४५) डाचि च । डाचि च द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२४/४५) पटपटायति मटमटायति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२५/४५) पूर्वप्रथमयोः अर्थातिशयविवक्षायाम् । पूर्वप्रथमयोः अर्थातिशयविवक्षायाम् द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२६/४५) पूर्वम् पूर्वम् पुष्प्यन्ति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२७/४५) प्रथमम् प्रथमम् पच्यन्ते ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२८/४५) डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे । डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे द्वे भवतः इति वक्तव्यम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-२९/४५) उभौ इमौ आढ्यौ कतरा कतरा अनयोः आढ्यता ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३०/४५) सर्वे इमे आढ्याः कतमा कतमा एषाम् इति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३१/४५) कर्मव्यतिहारे सर्वनाम्नः समासवत् च बहुलम् यदा न समासवत् प्रथमैकवचनम् तदा पूर्वपदस्य । कर्मव्यतिहारे सर्वनाम्नः द्वे भवतः इति वक्तव्यम् समासवत् च बहुलम् ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३२/४५) यदा न समासवत् प्रथमैकवचनम् भवति तदा पूर्वपदस्य ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३३/४५) अन्योऽन्यम् इमे ब्राह्मणाः भोजयन्ति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३४/४५) अन्योऽन्यस्य भोजयन्ति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३५/४५) इतरेतरम् भोजयन्ति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३६/४५) इतरेतरस्य भोजयन्ति ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३७/४५) स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः । स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः वक्तव्यः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३८/४५) अन्योऽन्यम् इमे ब्राह्मण्यौ भोजयतः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-३९/४५) अन्योऽन्याम् भोजयतः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-४०/४५) इतरेतरम् भोजयतः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-४१/४५) इतरेतराम् भोजयतः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-४२/४५) अन्योऽन्यम् इमे ब्राह्मणकुले भोजयतः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-४३/४५) अन्योऽन्याम् भोजयतः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-४४/४५) इतरेतरम् भोजयतः ।

(पा-८,१.१२.२; अकि-३,३६९.९-१०-३७०.१९; रो-५,३१२-३१८; भा-४५/४५) इतरेतराम् भोजयतः

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-१/८) अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् ।

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-२/८) अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-३/८) द्वन्द्वम् स्कन्दविशाखौ ।

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-४/८) द्वन्द्वम् नारदपर्वतौ ।

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-५/८) अत्यन्तसहचरिते इति किमर्थम् ।

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-६/८) द्वौ युधिष्ठिरार्जुनौ ।

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-७/८) लोकविज्ञाते इति किमर्थम् ।

(पा-८,१.१५; अकि-३,३७०.२०-३७१.२; रो-५,३१९; भा-८/८) द्वौ देवदत्तयज्ञदत्तौ

(पा-८,१.१५; अकि-३,३७१.२-७; रो-५,३१९; भा-१/५) अथ द्वन्द्वम् इति किम् निपात्यते ।

(पा-८,१.१५; अकि-३,३७१.२-७; रो-५,३१९; भा-२/५) द्वन्द्वम् इति पूर्वपदस्य च अम्भावः उत्तरपदस्य च अत्वम् नपुंसकत्वम् च ।

(पा-८,१.१५; अकि-३,३७१.२-७; रो-५,३१९; भा-३/५) पूर्वपदस्य च अम्भावः निपात्यते उत्तरपदस्य च अत्वम् नपुंसकत्वम् च ।

(पा-८,१.१५; अकि-३,३७१.२-७; रो-५,३१९; भा-४/५) उक्तम् वा । किम् उक्तम् ।

(पा-८,१.१५; अकि-३,३७१.२-७; रो-५,३१९; भा-५/५) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति तत्र नपुंसकत्वम् अनिपात्यम्

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१/२१) आ कुतः पदाधिकारः ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-२/२१) पदाधिकारः प्राक् अपदान्ताधिकारात् ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-३/२१) अपदान्तस्यमूर्धन्यः इति अतः प्राक् पदाधिकारः ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-४/२१) अथ पदात् इति अधिकारः आ कुतः ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-५/२१) पदात् प्राक् सुपि कुत्सनात् । पदात् इति अधिकारः प्राक् सुपि कुत्सनात् ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-६/२१) कुत्सने च सुप्य् अगोत्रादौ इति अतः प्राक् ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-७/२१) यणेकादेशस्वरः तु ऊर्ध्वम् पदाधिकारात् । यणेकादेशस्वरः तु ऊर्ध्वम् पदाधिकारात् कर्तव्यः ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-८/२१) इह वचने हि अपदान्तस्य अप्राप्तिः । इह हि क्रियमाणे अपदान्तस्य अप्राप्तिः स्यात् ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-९/२१) उदात्तस्वरितयोर् यणःस्वरितः अनुदात्तस्य इति इह एव स्यात् कुमार्यौ किशोर्यौ इह न स्यात् कुमार्यः किशोर्यः ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१०/२१) एकादेशे उदात्तेनोदात्तः इह एव स्यात् वृक्षौ प्लक्षौ इह न स्यात् वृक्षाः प्लक्षाः ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-११/२१) न वा पदाधिकारस्य विशेषणत्वात् । न वा ऊर्ध्वम् पदाधिकारात् कर्तव्यः यणेकादेशस्वरः ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१२/२१) किम् कारणम् ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१३/२१) पदाधिकारस्य विशेषणत्वात् ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१४/२१) पदस्य इति न एषा स्थानषष्ठी ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१५/२१) का तर्हि ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१६/२१) विशेषणषष्ठी ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१७/२१) किम् वक्तव्यम् एतत् ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१८/२१) न हि ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-१९/२१) कथम् अनुच्यमानम् गंस्यते ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-२०/२१) प्रत्याख्यायते स्थनषष्ठी ।

(पा-८,१.१६-१७; अकि-३,३७१.८-३७२.७; रो-५,३२०-३२२; भा-२१/२१) अन्तग्रहणात् वा नलोपे । अथ वा यत् अयम् नलोपःप्रातिपदिकान्तस्य इति अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः विशेषणषष्ठी एषा न स्थानषष्ठी इति

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१/३४) सर्ववचनम् किमर्थम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२/३४) सर्ववचनम् अनादेः अनुदात्तार्थम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-३/३४) सर्वग्रहणम् क्रियते अनादेः अपि अनुदात्तत्वम् यथा स्यात् इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-४/३४) तिङतिङः इह एव स्यात् देवदत्तः ॒ पचति इति इह न स्यात् ॒ देवदत्तः करोति इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-५/३४) सर्ववचनम् अनादेः अनुदात्तार्थम् इति चेत् लुटि प्रतिषेधात् सिद्धम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-६/३४) सर्ववचनम् अनादेः अनुदात्तार्थम् इति चेत् तत् न ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-७/३४) किम् कारणम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-८/३४) लुटि प्रतिषेधात् सिद्धम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-९/३४) यत् अयम् लुटि प्रतिषेधम् शास्ति नलुट् इति तत् ज्ञापयति आचार्यः अनादेः अपि अनुदात्तत्वम् भवति इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१०/३४) कथम् कृत्वा ज्ञापकम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-११/३४) न हि लुडन्तम् आद्युदात्तम् अस्ति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१२/३४) अलोऽन्त्यविधिप्रसङ्गः तु । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य विधिः प्राप्नोति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१३/३४) यत्र हि आदिविधिः न अस्ति अलोऽन्त्यविधिना तत्र भवितव्यम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१४/३४) तत्र कः दोषः ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१५/३४) तिङतिङः इति इह एव स्यात् देवदत्तयज्ञदत्तौ कुरुतः इह न स्यात् देवदत्तः करोति इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१६/३४) लृटि प्रतिषेधात् सिद्धम् । यत् अयम् लृटि प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनन्त्यस्य अपि अनुदात्तत्वम् भवति इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१७/३४) कथम् कृत्वा ज्ञापकम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१८/३४) न हि लृडन्तम् अन्तोदात्तम् अस्ति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-१९/३४) ननु च इदम् अस्ति भोक्ष्ये इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२०/३४) उक्तम् वा । किम् उक्तम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२१/३४) न वा पदाधिकारस्य विशेषणत्वात् इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२२/३४) इदम् तर्हि प्रयोजनम् युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति वाम्नौ आदयः सविभक्तिकस्य यथा स्युः इति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२३/३४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२४/३४) पदस्य इति हि वर्तते विभक्त्यन्तम् च पदम् तत्र अन्तरेण सर्वग्रहणम् सविभक्तिकस्य भविष्यति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२५/३४) भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२६/३४) ग्रामः वाम् दीयते ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२७/३४) ग्रामः नौ दीयते ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२८/३४) जनपदः वाम् दीयते ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-२९/३४) जनपदः नौ दीयते ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-३०/३४) ननु च स्थग्रहणम् क्रियते तेन सविभक्तिकस्य एव भविष्यति ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-३१/३४) अस्ती अन्यत् स्थग्रहणस्य प्रयओजनम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-३२/३४) किम् ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-३३/३४) श्रूयमाणविभकिविशेषणम् यथा विज्ञायेत ।

(पा-८,१.१८.१; अकि-३,३७२.८-३७३.९; रो-५,३२२-३२४; भा-३४/३४) यत्र विभक्तिः श्रूयते तत्र यथा स्यात् इह मा भूत् इति युष्मत्पुत्रः ददाति इति अस्मत्पुत्रः ददाति इति

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-१/१२) समानवाक्ये निघातयुष्मदस्मदादेशाः ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-२/१२) समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-३/१२) किम् प्रयोजनम् ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-४/१२) नानावाक्ये मा भूवन् इति ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-५/१२) अयम् दण्डः हर अनेन ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-६/१२) ओदनम् पच तव भविष्यति मम भविष्यति ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-७/१२) पश्यार्थैः च प्रतिषेधः । पश्यार्थैः च प्रतिषेधः समानवाक्ये इति प्रकृत्य वक्तव्यः ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-८/१२) इतरथा हि यत्र एव पश्यार्थानाम् युष्मदस्मदी साधनम् तत्र प्रतिषेधः स्यात् ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-९/१२) ग्रामः त्वाम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-१०/१२) ग्रामः माम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः. इह न स्यात् ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-११/१२) ग्रामः तव स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः ।

(पा-८,१.१८.२; अकि-३,३७३.१०-१९; रो-५,३२४-३२५; भा-१२/१२) ग्रामः मम स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१/२६) युष्मदस्मदोः अन्यतरस्याम् अनन्वादेशे ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२/२६) युष्मदस्मदोः अन्यतरस्याम् अनन्वादेशे इति वक्तव्यम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-३/२६) ग्रामे कम्बलः ते स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-४/२६) ग्रामे कम्बलः तव स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-५/२६) ग्रामे कम्बलः मे स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-६/२६) ग्रामे कम्बलः मम स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-७/२६) अनन्वादेशे इति किमर्थम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-८/२६) अथो ग्रामे कम्बलः ते स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-९/२६) अथो ग्रामे कम्बलः मे स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१०/२६) अपरः आह ॒ सर्वे एव वाम्नावादयः अनन्वादेशे विभाषा वक्तव्याः ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-११/२६) कम्बलः ते स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१२/२६) कम्बलः तव स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१३/२६) कम्बलः मे स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१४/२६) कम्बलः मम स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१५/२६) अनन्वादेशे इति किमर्थम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१६/२६) अथो कम्बलः ते स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१७/२६) अथो कम्बलः मे स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१८/२६) न तर्हि इदानीम् इदम् वक्तव्यम् सपूर्वायाः प्रथमायाः विभाषा इति ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-१९/२६) वक्तव्यम् च ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२०/२६) किम् प्रयोजनम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२१/२६) अन्वादेशार्थम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२२/२६) अन्वादेशे विभाषा यथा स्यात् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२३/२६) अथो ग्रामे कम्बलः ते स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२४/२६) अथो ग्रामे कम्बलः तव स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२५/२६) अथो ग्रामे कम्बलः मे स्वम् ।

(पा-८,१.२६; अकि-३,३७३.२०-३७४.६; रो-५,३२६; भा-२६/२६) अथो ग्रामे कम्बलः मम स्वम्

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-१/११) किम् इदम् तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-२/११) कुत्सनाभीक्ष्ण्ययोः अर्थयोः गोत्रादीनि भवन्ति तिङः पराणि अनुदात्तानि इति ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-३/११) आहोस्वित् अनुदात्तविशेषणम् ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-४/११) तिङः पराणि गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः अर्थयोः अनुदात्तानि भवन्ति इति ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-५/११) तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-६/११) तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् क्रियते पाठविशेषणम् ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-७/११) पाठः विशेष्यते ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-८/११) अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् । अनुदात्तविशेषणे हि सति अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् कर्तव्यम् स्यात् ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-९/११) चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः इति कुत्सनाभीक्ष्ण्ययोः इति वक्तव्यम् स्यात् ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-१०/११) अनुदात्तग्रहणम् वा । अथ वा यानि अनुदात्तानि इति वक्तव्यम् स्यात् ।

(पा-८,१.२७; अकि-३,३७४.७-२०; रो-५,३२७; भा-११/११) तस्मात् सुष्ठु उच्यते तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् अनुदात्तग्रहणम् वा इति

(पा-८,१.२८; अकि-३,३७४.२१-२५; रो-५,३२७-३२८; भा-१/७) अतिङः इति किमर्थम् ।

(पा-८,१.२८; अकि-३,३७४.२१-२५; रो-५,३२७-३२८; भा-२/७) पचति करोति ।

(पा-८,१.२८; अकि-३,३७४.२१-२५; रो-५,३२७-३२८; भा-३/७) अतिङ्वचनम् अनर्थकम् समानवाक्याधिकारात् ।

(पा-८,१.२८; अकि-३,३७४.२१-२५; रो-५,३२७-३२८; भा-४/७) अतिङ्वचनम् अनर्थकम् ।

(पा-८,१.२८; अकि-३,३७४.२१-२५; रो-५,३२७-३२८; भा-५/७) किम् कारणम् ।

(पा-८,१.२८; अकि-३,३७४.२१-२५; रो-५,३२७-३२८; भा-६/७) समानवाक्याधिकारात् ।

(पा-८,१.२८; अकि-३,३७४.२१-२५; रो-५,३२७-३२८; भा-७/७) समानवाक्ये इति वर्तते न च समानवाक्ये द्वे तिङन्ते स्तः

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-१/१३) निपातैः इति किमर्थम् ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-२/१३) यत् कूजति शकटम् ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-३/१३) यती कूजति शकटी ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-४/१३) यन् रथः कूजति ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-५/१३) निपातैः इति शक्यम् अवक्तुम् ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-६/१३) कस्मात् न भवति ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-७/१३) यत् कूजति शकटम् ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-८/१३) यती कूजति शकटी ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-९/१३) यन् रथः कूजति ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-१०/१३) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-११/१३) न एषा परिभाषा इह शक्या विज्ञातुम् ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-१२/१३) इह हि दोषः स्यात् ।

(पा-८,१.३०.१; अकि-३,३७५.१-६; रो-५,३२८; भा-१३/१३) यावद्यथाभ्याम् इह न स्यात् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत्

(पा-८,१.३०.२; अकि-३,३७५.७-९; रो-५,३२९; भा-१/६) चण् णिद्विशिष्टः चेदर्थे ।

(पा-८,१.३०.२; अकि-३,३७५.७-९; रो-५,३२९; भा-२/६) चण् णिद्विशिष्टः चेदर्थे द्रष्टव्यः ।

(पा-८,१.३०.२; अकि-३,३७५.७-९; रो-५,३२९; भा-३/६) अयम् च वै मरिष्यति ।

(पा-८,१.३०.२; अकि-३,३७५.७-९; रो-५,३२९; भा-४/६) अयम् चेत् मरिष्यति ।

(पा-८,१.३०.२; अकि-३,३७५.७-९; रो-५,३२९; भा-५/६) न च पितृभ्यः पूर्वेभ्यः दास्यति ।

(पा-८,१.३०.२; अकि-३,३७५.७-९; रो-५,३२९; भा-६/६) अप्रायश्चित्तिकृतौ च स्याताम्

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-१/८) अनेकम् इति किम् उदाहरणम् ।

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-२/८) यदा हि असौ मत्तः भवति अथ यत् तपति ।

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-३/८) न एतत् अस्ति ।

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-४/८) एकम् अत्र हियुक्तम् अपरम् यद्युक्तम् ततः उभयोः अपि अनिघातः ।

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-५/८) इदम् तर्हि ।

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-६/८) अनृतम् हि मत्तः वदति पाप्मा एनम् विपुनाति ।

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-७/८) एकम् खलु अपि ।

(पा-८,१.३५; अकि-३,३७५.१०-१३; रो-५,३२९; भा-८/८) अग्निः हि पूर्वम् उदजयत् तम् इन्द्रः अनूदजयत् इति

(पा-८,१.३९; अकि-३,३७५.१४-१९; रो-५,३३०; भा-१/६) पूजायाम् इति वर्तमाने पुनः पूजाग्रहणम् किमर्थम् ।

(पा-८,१.३९; अकि-३,३७५.१४-१९; रो-५,३३०; भा-२/६) अनिघातप्रतिषेधाभिसम्बद्धम् तत् ।

(पा-८,१.३९; अकि-३,३७५.१४-१९; रो-५,३३०; भा-३/६) यदि तत् अनुवर्तेत इह अपि अनिघातप्रतिषेधः प्रसज्येत ।

(पा-८,१.३९; अकि-३,३७५.१४-१९; रो-५,३३०; भा-४/६) इष्यते च अत्र निघातप्रतिषेधः ।

(पा-८,१.३९; अकि-३,३७५.१४-१९; रो-५,३३०; भा-५/६) यथा पुनः तत्र यावत् यथा इति एताभ्याम् अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्यते इह इदानीम् केन अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्येत ।

(पा-८,१.३९; अकि-३,३७५.१४-१९; रो-५,३३०; भा-६/६) इह अपि यद्वृत्तान्नित्यम् इति एवमादिभिः

(पा-८,१.४६; अकि-३,३७५.२०-२२; रो-५,३३०; भा-१/५) किमर्थम् इदम् उच्यते न गत्यर्थलोटा लृट् इति एव सिद्धम् ।

(पा-८,१.४६; अकि-३,३७५.२०-२२; रो-५,३३०; भा-२/५) नियमार्थः अयम् आरम्भः ।

(पा-८,१.४६; अकि-३,३७५.२०-२२; रो-५,३३०; भा-३/५) एहि मन्ये प्रहासे एव यथा स्यात् ।

(पा-८,१.४६; अकि-३,३७५.२०-२२; रो-५,३३०; भा-४/५) क्व मा भूत् ।

(पा-८,१.४६; अकि-३,३७५.२०-२२; रो-५,३३०; भा-५/५) एहि मन्ये रथेन यास्यसि इति

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१/२३) किम् इदम् अपूर्वग्रहणम् जातुविशेषणम् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-२/२३) जातुशब्दात् अपूर्वात् तिङन्तम् इति ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-३/२३) आहोस्वित् तिङन्तविशेषणम् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-४/२३) जातुशब्दात् तिङन्तम् अपूर्वम् इति ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-५/२३) जातुविशेषणम् इति आह ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-६/२३) कथम् ज्ञायते ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-७/२३) यत् अयम् किंवृत्तञ्चचिदुत्तरम् इति आह ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-८/२३) कथम् कृत्वा ज्ञापकम् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-९/२३) अत्र अपि अपूर्वम् इति एतत् अनुवर्तते न च अस्ति सम्भवः यत् किंवृत्तम् च चिदुत्तरम् स्यात् तिङन्तम् च अपूर्वम् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१०/२३) अत्र अपि तिङन्तविशेषणम् एव ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-११/२३) कथम् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१२/२३) किंवृत्तात् चिदुत्तरात् तिङन्तम् अपूर्वम् इति ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१३/२३) यत् तर्हि आहोउताहोचानन्तरम् इति अनन्तरग्रहणम् करोति ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१४/२३) एतस्य अपि अस्ति वचने प्रयोजनम् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१५/२३) किम् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१६/२३) शेषप्रक्ल्̥प्त्यर्थम् एतत् स्यात् ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१७/२३) शेषेविभाषा कः च शेषः ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१८/२३) सान्तरम् शेषः इति ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-१९/२३) अन्तरेण अपि अनन्तरग्रहणम् प्रक्ल्̥प्तः शेषः ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-२०/२३) कथम्. अपूर्वः इति वर्तते ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-२१/२३) शेषे विभाषा ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-२२/२३) कः च शेषः ।

(पा-८,१.४७; अकि-३,३७६.१-१०; रो-५,३३१; भा-२३/२३) सपूर्वः शेषः इति

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१/१७) लृटः प्रकृतिभावे कर्तुः अन्यत्वे उपसङ्ख्यानम् कारकान्यत्वात् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-२/१७) लृटः प्रकृतिभावे कर्तुः यत् कारकम् अन्यत् तस्य अन्यत्वे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-३/१७) आगच्छ देवदत्त ग्रामम् ओदनम् भोक्ष्यसे ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-४/१७) किम् पुनः कारणम् न सिध्यति ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-५/१७) कारकान्यत्वात् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-६/१७) न चेत् कारकम् सर्वान्यत् इति उच्यते सर्वान्यत् च अत्र कारकम् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-७/१७) किम् पुनः कारणम् सर्वान्यत्प्रतिषेधेन आश्रीयते न पुनः असर्वान्यद्विधानेन आश्रीयेत ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-८/१७) कर्ता च अत्र असर्वान्यः ततः कर्तृसामान्यात् सिद्धम् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-९/१७) कर्तृसामान्यात् सिद्धम् इति चेत् तद्भेदे अन्यसामान्ये प्रकृतिभावप्रसङ्गः । कर्तृसामान्यात् सिद्धम् इति चेत् तद्भेदे कर्तृभेदे अन्यस्मिन् कारकसामान्ये प्रकृतिभावः प्राप्नोति ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१०/१७) आहर देवदत्त शालीन् यज्ञदत्त एनान् भोक्ष्यते ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-११/१७) एवम् तर्हि व्यक्तम् एव पठितव्यम् न चेत् कर्ता सर्वान्यः इति ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१२/१७) न चेत् कर्ता सर्वान्यः इति चेत् अन्याभिधाने प्रतिषेधम् एके । न चेत् कर्ता सर्वान्यः इति चेत् अन्याभिधाने प्रतिषेधम् एके इच्छन्ति ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१३/१७) उह्यन्ताम् देवदत्तेन शालयः यज्ञदत्तेन भोक्ष्यन्ते इति प्राप्नोति भोक्ष्यन्ते इति च इष्यते ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१४/१७) सिद्धम् तु तिङोः एकद्रव्याभिधानात् । सिद्धम् एतत् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१५/१७) कथम् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१६/१७) तिङोः एकद्रव्याभिधानात् ।

(पा-८,१.५१; अकि-३,३७७.१-१७; रो-५,३३२-३३३; भा-१७/१७) यत्र तिङ्भ्याम् एकम् द्रव्यम् अभिधीयते तत्र इति वक्तव्यम्

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१/२२) कस्य अयम् प्रतिषेधः ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-२/२२) आमः एकान्तरे ऐकश्रुत्यप्रतिषेधः ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-३/२२) आमः एकान्तरे ऐकश्रुत्यस्य अयम् प्रतिषेधः ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-४/२२) कथम् पुनः अप्रकृतस्य असंशब्दितस्य ऐकश्रुत्यस्य प्रतिषेधः शक्यः विज्ञातुम् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-५/२२) अनन्तिके इति उच्यते ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-६/२२) अनन्तिकम् च किम् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-७/२२) दूरम् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-८/२२) दूरात् सम्बुद्धौ एकश्रुतिः उच्यते ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-९/२२) अस्ति प्रयोजनम् एतत् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१०/२२) किम् तर्हि इति ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-११/२२) निघातप्रसङ्गः तु । निघातः तु प्राप्नोति ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१२/२२) आम् भोः देवदत्त३ ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१३/२२) आमन्त्रितस्य अनुदात्तत्वम् प्राप्नोति ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१४/२२) सिद्धम् तु प्रतिषेधाधिकारे प्रतिषेधवचनात् । सिद्धम् एतत् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१५/२२) कथम् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१६/२२) प्रतिषेधाधिकारे प्रतिषेधवचनसामर्थ्यात् निघातः न भविष्यति ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१७/२२) न एव वा पुनः अत्र ऐकश्रुत्यम् प्राप्नोति ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१८/२२) किम् कारणम् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-१९/२२) अनन्तिके इति उच्यते अन्यत् च दूरम् अन्यत् अनन्तिकम् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-२०/२२) यदि एवम् प्लुतः अपि तर्हि न प्राप्नोति प्लुतः अपि हि दूरात् इति उच्यते ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-२१/२२) इष्टम् एव एतत् सङ्गृहीतम् ।

(पा-८,१.५५; अकि-३,३७७.१८-३७८.७; रो-५,३३४-३३६; भा-२२/२२) आम् भोः देवदत्त इति एव भवितव्यम्

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१/१७) किमर्थम् इदम् उच्यते ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-२/१७) यदादैः एव सर्वैः एतैः अनिघातकारणैः योगे अनिघातः उच्यते ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-३/१७) यथा एव पूर्वैः योगे एवम् परैः अपि ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-४/१७) अतः उत्तरम् पठति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-५/१७) यद्धितुपरस्य छन्दसि अनिघातः अन्यपरप्रतिषेधार्थः ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-६/१७) यद्धितुपरस्य छन्दसि अनिघातः उच्यते अन्यपरप्रतिषेधार्थः ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-७/१७) अन्यपरस्य प्रतिषेधः मा भूत् इति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-८/१७) जाये स्वः रोहाव एहि ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-९/१७) अथ इदानीम् रोहाव इति अनेन युक्ते एहि इति अस्य कस्मात् न भवति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१०/१७) लोट् च गत्यर्थलोटा युक्तः इति प्राप्नोति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-११/१७) न रुहिः गत्यर्थः ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१२/१७) कथम् ज्ञायते ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१३/१७) यत् अयम् गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च इति पृथक् रुहिग्रहणम् करोति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१४/१७) यदि न रुहिः गत्यर्थः आरोहन्ति हस्तिनम् मनुष्याः आरोहयति हस्ती स्थलम् मनुष्यान् गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ इति कर्मसञ्ज्ञा न प्राप्नोति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१५/१७) तस्मात् न एतत् शक्यम् वक्तुम् न रुहिः गत्यर्थः इति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१६/१७) कस्मात् तर्हि रोहाव इति अनेन युक्ते एहि इति अस्य न भवति ।

(पा-८,१.५६; अकि-३,३७८.८-१९; रो-५,३३६-३३८; भा-१७/१७) छान्दसत्वात्

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-१/९) आम्रेडितेषु अगतेः सगतिः अपि तिङ् इति अत्र गतिग्रहणे उपसर्गग्रहङम् ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-२/९) आम्रेडितेषु अगतेः सगतिरपितिङ् इति अत्र गतिग्रहणे उपसर्गग्रहणम् द्रष्टव्यम् ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-३/९) इह मा भूत् ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-४/९) शुक्लीकरोति चन ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-५/९) क्र्ष्णीकरोति चन ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-६/९) यत्काष्ठा शुक्लीकरोति ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-७/९) यत्काष्ठा कृष्णीकरोति ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-८/९) अपर आह ।

(पा-८,१.५७; अकि-३,३७८.२०-३७९.४; रो-५,३३८; भा-९/९) सर्वत्र एव आष्टमिके गतिग्रहणे उपसर्गग्रहणम् द्रष्तव्यम् गतिर्गतौतिङिचोदात्तवतिवर्जम् इति

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-१/१३) यद्वृत्तात् इति उच्यते तत्र इदम् न सिध्यति यः पचति यम् पचति इति ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-२/१३) वृत्तग्रहणेन तद्विभक्त्यन्तम् प्रतीयात् ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-३/१३) कथम् यतरः पचति यतमः पचति इति ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-४/१३) डतरडतमौ च प्रतीयात् ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-५/१३) कथम् यदा ददाति इति ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-६/१३) एषः अपि विभक्तिसञ्ज्ञः ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-७/१३) कथम् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत् ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-८/१३) यावद्यथाभ्याम् इति एवम् भविष्यति ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-९/१३) कथम् यद्र्यङ् वायुः पवते यत्कामाः ते जुहुमः ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-१०/१३) एवम् तर्हि यत् अस्मिन् वर्तते यद्वृत्तम् यद्वृत्तात् इति एवम् भविष्यति ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-११/१३) वा याथाकाम्ये ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-१२/१३) वा याथाकाम्ये इति वक्तव्यम् ।

(पा-८,१.६६; अकि-३,३७९.५-१३; रो-५,३३९; भा-१३/१३) यत्र क्व चन यजते देवयजने एव यजते

(पा-८,१.६७; अकि-३,३७९.१४-१९; रो-५,३४०; भा-१/७) पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम् ।

(पा-८,१.६७; अकि-३,३७९.१४-१९; रो-५,३४०; भा-२/७) पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम् कर्तव्यम् ।

(पा-८,१.६७; अकि-३,३७९.१४-१९; रो-५,३४०; भा-३/७) काष्ठादिभ्यः पूजनात् इति वक्तव्यम् ।

(पा-८,१.६७; अकि-३,३७९.१४-१९; रो-५,३४०; भा-४/७) इह मा भूत् ।

(पा-८,१.६७; अकि-३,३७९.१४-१९; रो-५,३४०; भा-५/७) शोभनः अध्यापकः ।

(पा-८,१.६७; अकि-३,३७९.१४-१९; रो-५,३४०; भा-६/७) मलोपवचनम् च । मलोपः च वक्तव्यः ।

(पा-८,१.६७; अकि-३,३७९.१४-१९; रो-५,३४०; भा-७/७) दारुणाध्यापकः दारुणाभिरूपः

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१/१९) सगतिग्रहणम् किमर्थम् ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-२/१९) सगतिग्रहणम् अपदत्वात् ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-३/१९) सगतिग्रहणम् क्रियते अपदत्वात् ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-४/१९) पदस्य इति वर्तते न हि सगतिकम् पदम् भवति ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-५/१९) उत्तरार्थम् च । उत्तरार्थम् च सगतिग्रहणम् क्रियते ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-६/१९) कुत्सने च सुपि अगोत्रादौ सगतिः अपि ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-७/१९) प्रपचति पूति ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-८/१९) अथ अपिग्रहणम् किमर्थम् ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-९/१९) अगतिकस्य अपि यथा स्यात् ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१०/१९) यत् काष्ठा पचति ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-११/१९) न एतत् अस्ति प्रयोजनम् ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१२/१९) सिद्धम् पूर्वेण अगतिकस्य ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१३/१९) न सिध्यति ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१४/१९) मलोपाभिसम्बद्धम् तत् ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१५/१९) यदि तत् अनुवर्तेत इह अपि मलोपः प्रसज्येत ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१६/१९) दारुणम् पचति इति ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१७/१९) उत्तरार्थम् च अपिग्रहणम् क्रियते ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१८/१९) कुत्सने च सुपि अगोत्रादौ अगतिः अपि इति ।

(पा-८,१.६८.१; अकि-३,३७९.२०-३८०.१०; रो-५,३४०-३४१; भा-१९/१९) पचति पूति इति

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-१/१४) तिङ्निघातात् पूजनात् पूजितम् अनुदात्तम् विप्रतिषेधेन ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-२/१४) तिङ्निघातात् पूजनात् पूजितम् अनुदात्तम् इति एतत् भवति विप्रतिषेधेन ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-३/१४) तिङ्निघातस्य अवकाशः ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-४/१४) देवदत्तः पचति ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-५/१४) पूजनात् पूजितम् अनुदात्तम् इति अस्य अवकाशः ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-६/१४) काष्टाध्यापकः ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-७/१४) इह उभयम् प्राप्नोति ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-८/१४) काष्ठा पचति ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-९/१४) पूजनात् पूजितम् इति एतत् भवति विप्रतिषेधेन ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-१०/१४) कः पुनः अत्र विशेषः तेन वा सति अनेन वा ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-११/१४) अयम् अस्ति विशेषः ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-१२/१४) सापवादकः सः विधिः अयम् पुनः निरपवादकः ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-१३/१४) यदि हि तेन स्यात् इह न स्यात् ।

(पा-८,१.६८.२; अकि-३,३८०.११-१६; रो-५,३४१-३४२; भा-१४/१४) यत् काष्ठा पचति

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-१/१३) सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थम् ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-२/१३) क्रियायाः कुत्सने इति वक्तव्यम् ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-३/१३) कर्तुः कुत्सने मा भूत् ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-४/१३) पचति पुतिः ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-५/१३) पूतिः च चानुबन्धः ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-६/१३) पूतिः च चानुबन्धः द्रष्टव्यः ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-७/१३) पचति पूति ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-८/१३) विभाषितम् च अपि बह्वर्थम् । विभाषितम् च अपि बह्वर्थम् द्रष्टव्यम् ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-९/१३) पचन्ति पुति ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-१०/१३) पचन्ति पुति ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-११/१३) सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थम् ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-१२/१३) पूतिः च चानुबन्धः ।

(पा-८,१.६९; अकि-३,३८०.१७-२५; रो-५,३४२-३४४; भा-१३/१३) विभाषितम् च अपि बह्वर्थम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१/३९) गतौ इति किमर्थम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२/३९) प्रपचति प्रकरोति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३/३९) गतेः अनुदात्तत्वे गतिग्रहणानर्थक्यम् तिङि अवधारणात् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-४/३९) गतेः अनुदात्तत्वे गतिग्रहणम् अनर्थकम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-५/३९) किम् कारणम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-६/३९) तिङि अवधारणात् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-७/३९) तिङिच उदात्तवति इति एतत् नियमार्थम् भविष्यति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-८/३९) तिङि उदात्तवति एव गतिः अनुदात्तः भवति न अन्यत्र इति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-९/३९) छन्दोर्थम् तर्हि गतिग्रहणम् कर्तव्यम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१०/३९) छन्दसि गतौ परतः अनुदात्तत्वम् यथा स्यात् मन्द्रशब्दे मा भूत् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-११/३९) अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१२/३९) छन्दोर्थम् इति चेत् न अगतित्वात् । छन्दोर्थम् इति चेत् तत् न ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१३/३९) किम् कारणम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१४/३९) अगतित्वात् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१५/३९) यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र आङः मन्द्रशब्दम् प्रति क्रियायोगः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१६/३९) किम् तर्हि याहिशब्दम् प्रति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१७/३९) इह अपि तर्हि न प्राप्नोति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१८/३९) अभ्युद्धरति उपसमादधाति इति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-१९/३९) अत्र अपि न अभेः उदम् प्रति क्रियायोगः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२०/३९) किम् तर्हि हरतिम् प्रति क्रियायोगः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२१/३९) न एषः दोषः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२२/३९) उदम् प्रति क्रियायोगः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२३/३९) कथम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२४/३९) उद्धरतिक्रियाम् विशिनष्टि ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२५/३९) उदा विशिष्टाम् अभिः विशिनष्टि ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२६/३९) तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२७/३९) इह अपि तर्हि मन्द्रसाधना क्रिया आङा व्यज्यते ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२८/३९) आ याहि मन्द्रैः इति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-२९/३९) ननु पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३०/३९) न एतत् सारम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३१/३९) पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३२/३९) किम् कारणम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३३/३९) साधनम् हि क्रियाम् निर्वर्तयति ताम् उपसर्गः विशिनष्टि अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३४/३९) सत्यम् एवम् एतत् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३५/३९) यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरे कृत्वा धातुः साधनेन युज्यते ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३६/३९) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३७/३९) यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३८/३९) गतिना तु विशिष्टस्य गतिः एव विशेषकः ।

(पा-८,१.७०; अकि-३,३८१.१-२३; रो-५,३४४-३४७; भा-३९/३९) साधने केन ते न स्यात् बाह्यम् आभ्यन्तरः हि सः ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१/२४) तिङ्ग्रहणम् किमर्थम् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-२/२४) तिङ्ग्रहणम् उदात्तवतः परिमाणार्थम् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-३/२४) तिङ्ग्रहणम् क्रियते उदात्तवतः परिमाणार्थम् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-४/२४) तिङि उदात्तवति यथा स्यात् मन्द्रशब्दे मा भूत् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-५/२४) आ मन्द्रैः इन्द्र हरिभिः याहि ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-६/२४) यद्योगात् गतिः ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-७/२४) यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च आङः मन्द्रशब्दम् प्रति क्रियायोगः ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-८/२४) किम् तर्हि याहिशब्दम् प्रति ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-९/२४) यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः । यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः स्यात् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१०/२४) यत्प्रकरोति ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-११/२४) तस्मात् तिङ्ग्रहणम् कर्तव्यम् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१२/२४) यदि तिङ्ग्रहणम् क्रियते आमन्ते न प्राप्नोति ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१३/२४) प्रपचतितराम् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१४/२४) प्रजल्पतितराम् ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१५/२४) असति पुनः तिङ्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्मात् अतिशये तरप् उत्पद्यते तरबन्तात् स्वार्थे आम् तत्र यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति भवति एतम् सङ्घातम् प्रति क्रियायोगः ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१६/२४) तस्मात् न अर्थः तिङ्ग्रहणेन ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१७/२४) कस्मात् न भवति ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१८/२४) अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-१९/२४) यद्योगात् गतिः इति ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-२०/२४) ननु च उक्तम् यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः इति ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-२१/२४) न एषः दोषः ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-२२/२४) यद्क्रियायुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-२३/२४) कथम् तर्हि ।

(पा-८,१.७१; अकि-३,३८१.२४-३८२.१५; रो-५,३४७-३४९; भा-२४/२४) या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति

(पा-८,१.७२.१; अकि-३,३८२.१६-३८२.१८; रो-५,३४९; भा-१/३) वत्करणम् किमर्थम् ।

(पा-८,१.७२.१; अकि-३,३८२.१६-३८२.१८; रो-५,३४९; भा-२/३) स्वाश्रयम् अपि यथा स्यात् ।

(पा-८,१.७२.१; अकि-३,३८२.१६-३८२.१८; रो-५,३४९; भा-३/३) आम् भोः देवदत्त इति अत्र आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता यथा स्यात्

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-१/१०) पूर्वम् प्रति विद्यमानवत्त्वात् उत्तरत्र आनन्तर्याप्रसिद्धिः ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-२/१०) पूर्वम् प्रति विद्यमानवत्त्वात् उत्तरत्र आनन्तर्यस्य अप्रसिद्धिः स्यात् ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-३/१०) इमम् मे गङ्गे यमुने सरस्वति ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-४/१०) गङ्गेशब्दः अयम् यमुनेशब्दम् प्रति अविद्यमानवत् भवति ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-५/१०) तत्र आमन्त्रितस्य पदात् परस्य इति अनुदात्तत्वम् न स्यात् ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-६/१०) सिद्धम् तु पदपूर्वस्य इति वचनात् ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-७/१०) सिद्धम् एतत् ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-८/१०) कथम् ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-९/१०) पदपूर्वस्य इति वचनात् ।

(पा-८,१.७२.२; अकि-३,३८२.१९-३८२.२५; रो-५,३४९-३५०; भा-१०/१०) पदपूर्वस्य च आमन्त्रितस्य अविद्यमानवद्भावः भवति इति वक्तव्यम्

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१/२२) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-२/२२) अविद्यमानवत्त्वे प्रयोजनम् आमन्त्रितयुष्मदस्मत्तिङ्निघाताः ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-३/२२) आमन्त्रितस्य पदात् परस्य अनुदात्तः भवति इति इह एव भवति पचसि देवदत्त ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-४/२२) देवदत्त यज्ञदत्त इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-५/२२) युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति इह एव भवति ग्रामः वाम् स्वम् जनपदः नौ स्वम् ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-६/२२) देवदत्तयज्ञदत्तौ युवयोः स्वम् इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-७/२२) तिङतिङः इति इह एव भवति देवदत्तः पचति ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-८/२२) देवदत्त पचसि इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-९/२२) पूजायाम् अनन्तरप्रतिषेधः । पूजायाम् अनन्तरप्रतिषेधः प्रयोजनम् ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१०/२२) यावत् पचति शोभनम् ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-११/२२) यावत् देवदत्त पचति इति अत्र अपि सिद्धम् भवति ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१२/२२) जातु अपूर्वम् । जातु अपूर्वम् प्रयोजनम् ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१३/२२) जातु पचति ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१४/२२) देवदत्त जातु पचसि इति अत्र अपि सिद्धम् भवति ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१५/२२) आहो उताहो च अनन्तरविधौ । आहो उताहो च अनन्तरविधौ प्रयोजनम् ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१६/२२) आहो पचसि ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१७/२२) आहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१८/२२) उताहो पचसि ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-१९/२२) उताहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-२०/२२) आमः एकान्तरविधौ । आमः एकान्तरविधौ प्रयोजनम् ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-२१/२२) आम् पचसि देवदत्त ।

(पा-८,१.७२.३; अकि-३,३८३.१-३८३.२०; रो-५,३५०-३५२; भा-२२/२२) आम् भोः पचसि देवदत्त अत्र अपि सिद्धम् भवति

(पा-८,१.७३; अकि-३,३८३.२१-२४; रो-५,३५२; भा-१/५) इह कस्मात् न भवति ।

(पा-८,१.७३; अकि-३,३८३.२१-२४; रो-५,३५२; भा-२/५) अघ्न्ये देवि सरस्वति इडे कव्ये विहव्ये एतनि ते अघ्न्ये नमानि ।

(पा-८,१.७३; अकि-३,३८३.२१-२४; रो-५,३५२; भा-३/५) योगविभागः करिष्यते ।

(पा-८,१.७३; अकि-३,३८३.२१-२४; रो-५,३५२; भा-४/५) न आमन्त्रिते समानाधिकरणे सामान्यवचनम् ।

(पा-८,१.७३; अकि-३,३८३.२१-२४; रो-५,३५२; भा-५/५) ततः विभाषितम् विशेषवचने इति

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-१/१४) इह कस्मात् न भवति ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-२/१४) ब्रह्मण वैयाकरण ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-३/१४) बहुवचनम् इति वक्ष्यामि ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-४/१४) सामान्यवचनम् इति शक्यम् अवक्तुम् ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-५/१४) कथम् ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-६/१४) विभाषितम् विशेषवचने इति उच्यते तेन यत् प्रति विशेषवचनम् इति एतत् भवति तस्य भविष्यति ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-७/१४) किम् च प्रति एतत् भवति ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-८/१४) सामान्यवचनम् ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-९/१४) अपरः आह ॒ विशेषवचने इति शक्यम् अवक्तुम् ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-१०/१४) कथम् ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-११/१४) सामान्यवचनम् विभाषितम् इति उच्यते तेन यत् प्रति सामान्यवचनम् इति एतत् भवति ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-१२/१४) किम् च प्रति एतत् भवति ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-१३/१४) विशेषवचनम् ।

(पा-८,१.७४; अकि-३,३८४.१-८; रो-५,३५३; भा-१४/१४) सामान्यवचनम् विभाषितम् विशेषवचने इति