व्याकरणमहाभाष्य खण्ड 83
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१/२४) या इयम् सपादसप्ताध्यायी अनुक्रान्ता एतस्याम् अयम् पादोनः अध्यायः असिद्धः वेदितव्यः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-२/२४) यदि सपादायाम् सप्ताध्याय्याम् अयम् पादोनः अध्यायः असिद्धः इति उच्यते यः इह सप्तमीनिर्देशाः पञ्चमीनिर्देशाः च उच्यन्ते षष्ठीनिर्देशाः च उच्यन्ते ते अपि असिद्धाः स्यूः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-३/२४) तत्र कः दोषः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-४/२४) झलोझलि ह्रस्वादङ्गात् संयोगान्तस्यलोपः इति एतेषाम् निर्देशानाम् असिद्धत्वात् तस्मिन्नितिनिर्देष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति एताः परिभाषाः न प्रकल्पेरन् ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-५/२४) न एषः दोषः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-६/२४) यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-७/२४) कथम् ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-८/२४) कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-९/२४) झलोझलि ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१०/२४) ह्रस्वादङ्गात् ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-११/२४) संयोगान्तस्यलोपः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१२/२४) उपस्थितम् इदम् भवति तस्मिन्नितिनिर्दिष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१३/२४) यदि कार्यकालम् सञ्ज्ञापरिभाषम् इति उच्यते इयम् अपि परिभाषा अस्ति विप्रतिषेधे परम् इति सा अपि इह उपतिष्ठेत ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१४/२४) तत्र कः दोषः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१५/२४) विस्फोर्यम् अवगोर्यम् इति गुणात् दीर्घत्वम् स्यात् विप्रतिषेधेन ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१६/२४) अतः उत्तरम् पठति ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१७/२४) पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१८/२४) पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-१९/२४) किम् कारणम् ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-२०/२४) अभावात् उत्तरस्य ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-२१/२४) द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति न च पूर्वत्रासिद्धे परम् पूर्वम् प्रति भवति ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-२२/२४) यदि एवम् दोग्धा दोग्धुम् घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति काष्ठतट् कूटतट् संयोगादिलोप्स्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-२३/२४) अपवादः वचनप्रामाण्यात् । अनवकाशौ एतौ वचनप्रामाण्यात् भविष्यतः ।
(पा-८,२.१.१; अकि-३,३८५.१-२१; रो-५,३५४-३५६; भा-२४/२४) तस्मात् कार्यकालम् सञ्ज्ञापरिभाषम् इति न दोषः
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-१/१०) पूर्वत्रासिद्धम् अधिकारः ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-२/१०) पूर्वत्रासिद्धम् इति अधिकारः अयम् द्रष्टव्यः ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-३/१०) किम् प्रयोजनम् ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-४/१०) परस्य परस्य पूर्वत्र पूर्वत्र असिद्धविज्ञानार्थम् । परः परः योगः पूर्वम् पूर्वम् योगम् प्रति असिद्धः यथा स्यात् ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-५/१०) अनधिकारे हि समुदाये असिद्धविज्ञानम् । अनधिकारे हि सति समुदायस्य समुदाये असिद्धत्वम् विज्ञायेत ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-६/१०) तत्र कः दोषः ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-७/१०) तत्र अयथेष्टप्रसङ्गः । तत्र अयथेष्टम् प्रसज्येत ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-८/१०) योधुङ्मान् गुडलिण्मान् इति ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-९/१०) घत्वढत्वयोः कृतयोः झयः इति वत्वम् प्रसज्येत ।
(पा-८,२.१.२; अकि-३,३८६.१-११; रो-५,३५६-३५७; भा-१०/१०) तस्मात् अधिकारः । तस्मात् अधिकारः अयम् द्रष्टव्यः
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-१/१४) असिद्धवचनम् किमर्थम् ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-२/१४) असिद्धवचने उक्तम् ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-३/१४) किम् उक्तम् ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-४/१४) तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च इति ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-५/१४) एवम् इह अपि पूर्वत्रासिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-६/१४) आदेशलक्षणप्रतिषेधार्थम् तावत् ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-७/१४) राजभिः तक्षभिः राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते अतः इति ऐस्भावादयः प्राप्नुवन्ति ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-८/१४) असिद्धत्वात् न भवन्ति ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-९/१४) उत्सर्गलक्षणभावार्थम् च ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-१०/१४) अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति अत्र मुभावे कृते अतः इति स्मायादयः न प्राप्नुवन्ति ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-११/१४) असिद्धत्वात् भवन्ति ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-१२/१४) सुपर्वाणौ सुपर्वाणः ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-१३/१४) णत्वे कृते नोपधायाः इति दीर्घत्वम् न प्रप्नोति ।
(पा-८,२.१.३; अकि-३,३८६.१२-२१; रो-५,३५७-३५८; भा-१४/१४) असिद्धत्वात् भवति
(पा-८,२.२.१; अकि-३,३८६.२२-३८७.३; रो-५,३५८; भा-१/४) सुब्विधिम् प्रति नलोपः असिद्धः भवति इति उच्यते ।
(पा-८,२.२.१; अकि-३,३८६.२२-३८७.३; रो-५,३५८; भा-२/४) भवेत् इह राजभिः तक्षभिः इति नलोपे कृते अतः इति ऐस्भावः न स्यात् ।
(पा-८,२.२.१; अकि-३,३८६.२२-३८७.३; रो-५,३५८; भा-३/४) इह तु खलु राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः. न एषः दोषः ।
(पा-८,२.२.१; अकि-३,३८६.२२-३८७.३; रो-५,३५८; भा-४/४) सुब्विधिः इति सर्वविभक्त्यन्तः समासः ॒ सुपः विधिः सुब्विधिः , सुपि विधिः सुब्विधिः इति
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१/२४) अथ सञ्ज्ञाविधौ किम् उदाहरणम् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-२/२४) पञ्च सप्त ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-३/२४) पञ्च सप्त इति अत्र नलोपे कृते ष्णान्ताषट् इति षट्सञ्ज्ञा न प्राप्नोति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-४/२४) असिद्धत्वात् भवति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-५/२४) सञ्ज्ञाग्रहणानर्थक्यम् च तन्निमित्तत्वात् लोपस्य ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-६/२४) सञ्ज्ञाग्रहणम् च अनर्थकम् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-७/२४) किम् कारणम् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-८/२४) तन्निमित्तत्वात् लोपस्य ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-९/२४) न अकृतायाम् षट्सञ्ज्ञायाम् जश्शसोः लुक् न च अकृते लुकि पदसञ्ज्ञा न च अकृतायाम् पदसञ्ज्ञायाम् नलोपः प्राप्नोति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१०/२४) तत् एतत् आनुपूर्व्या सिद्धम् भवति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-११/२४) इदम् तर्हि प्रयोजनम् पञ्चभिः सप्तभिः इति षट्त्रिचतुर्भ्योहलादिः झल्युपोत्तमम् इति एषः स्वरः यथा स्यात् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१२/२४) स्वरे अवधारणात् च । स्वरे अवधारणात् च सञ्ज्ञाग्रहणम् अनर्थकम् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१३/२४) स्वरे अवधारणम् क्रियते स्वरविधिम् प्रति इति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१४/२४) तुग्विधौ किम् उदाहरणम् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१५/२४) वृत्रहभ्याम् वृत्रहभिः ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१६/२४) नलोपे कृते ह्रस्वस्यपितिकृतितुक् इति तुक् प्राप्नोति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१७/२४) असिद्धत्वात् न भवति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१८/२४) तुग्विधौ च उक्तम् । किम् उक्तम् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-१९/२४) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-२०/२४) इदम् तर्हि प्रयोजनम् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-२१/२४) कृति इति वक्ष्यामि ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-२२/२४) इह मा भूत् ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-२३/२४) ब्रह्महच्छत्रम् भ्रूणहच्छाया ।
(पा-८,२.२.२; अकि-३,३८७.४-१८; रो-५,३५९-३६१; भा-२४/२४) न एषः सन्निपातलक्षणः
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१/२९) इह ने यत् कार्यम् प्राप्नोति तत् प्रति मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२/२९) एवम् तर्हि न मु टादेशे ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-३/२९) न मु टादेशे इति वक्तव्यम् ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-४/२९) किम् इदम् टादेशः इति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-५/२९) टायाः आदेशः टादेशः इति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-६/२९) यदि तर्हि टायाः आदेशे इति उच्यते टायाम् आदेशे अप्रसिद्धिः ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-७/२९) तत्र कः दोषः ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-८/२९) अमुना इति अत्र मुभावस्य असिद्धत्वात् अतोदीर्घोयञि सुपिच इति दीर्घत्वम् प्रसज्येत ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-९/२९) न एषः दोषः ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१०/२९) सर्वविभक्त्यन्तः समासः ॒ टायाः आदेशः टादेशः , टायाम् आदेशः टादेशः इति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-११/२९) सिध्यति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१२/२९) सूत्रम् तर्हि भिद्यते ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१३/२९) यथान्यासम् एव अस्तु ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१४/२९) ननु च उक्तम् ने यत् कार्यम् प्राप्नोति तस्मिन् मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति इति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१५/२९) न एषः दोषः ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१६/२९) इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रनिबन्धेन आचार्याणाम् अभिप्रायः लक्ष्यते ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१७/२९) एतत् एव ज्ञापयति भवति अत्र नाभावः इति यत् अयम् ने परतः असिद्धत्वप्रतिषेधम् शास्ति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१८/२९) अथ वा द्विगताः अपि हेतवः भवन्ति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-१९/२९) तत् यथा ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२०/२९) आम्राः च सिक्ताः पितरः च प्रीणिताः भवन्ति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२१/२९) तथा वाक्यानि अपि द्विगतानि दृश्यन्ते ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२२/२९) श्वेतः धावति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२३/२९) अलम्बुसानाम् याता इति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२४/२९) अथ वा वृद्धकुमारीवाक्यवत् इदम् द्रष्टव्यम् ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२५/२९) तत् यथा ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२६/२९) वृद्धकुमारी इन्द्रेण उक्ता वरम् वृणीष्व इति सा वरम् अवृणीत पुत्राः मे बहुक्षीरघृतम् ओदनम् कांस्यपात्र्याम् भुञ्जीरन् इति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२७/२९) न च तावत् अस्याः पतिः भवति कुतः पुत्राः कुतः गावः कुतः धान्यम् ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२८/२९) तत्र्स् अनया एकेन वाक्येन पतिः पुत्राः गावः धान्यम् इति सर्वम् सङ्गृहीतम् भवति ।
(पा-८,२.३; अकि-३,३८७.१९; रो-५,३६१-३६२; भा-२९/२९) एवम् इह अपि ने असिद्धत्वप्रतिषेधम् ब्रुवता नाभावः अपि सङ्गृहीतः भवति
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१/२६) यण्स्वरः यणादेशे स्वरितयणः स्वरितार्थम् ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२/२६) यण्स्वरः यणादेशे सिद्धः वक्तव्यः ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-३/२६) किम् प्रयोजनम् ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-४/२६) स्वरितयणः स्वरितार्थम् ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-५/२६) स्वरितयणः स्वरितत्वम् यथा स्यात् ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-६/२६) खलप्वि अटति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-७/२६) खल्प्वि अश्नाति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-८/२६) तत् तर्हि वक्तव्यम् ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-९/२६) न वक्तव्यम् ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१०/२६) आह अयम् स्वरितयणः इति न च अस्ति सिद्धः स्वरितः तत्र आश्रयात् सिद्धत्वम् भविष्यति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-११/२६) आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः । आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः भवति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१२/२६) दध्याश ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१३/२६) मध्वाश ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१४/२६) एवम् तर्हि योगविभागः करिष्यते ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१५/२६) उदात्तयणः परस्य अनुदात्तस्य स्वरितः भवति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१६/२६) ततः स्वरितयणः ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१७/२६) स्वरितयणः च परस्य अनुदात्तस्य स्वरितः भवति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१८/२६) उदात्तयणः इति एव ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-१९/२६) अथ वा स्वरितग्रहणम् न करिष्यते ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२०/२६) केन इदानीम् स्वरितयणः परस्य अनुदात्तस्य स्वरितः भविष्यति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२१/२६) उदात्तयणः इति एव ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२२/२६) ननु च स्वरितयणा व्यवहितत्वात् न प्राप्नोति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२३/२६) स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२४/२६) अथ वा न एवम् विज्ञायते स्वरितस्य यण् स्वरितयण् स्वरितयणः इति ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२५/२६) कथम् तर्हि ।
(पा-८,२.४; अकि-३,३८८.१६-३८९.६; रो-५,३६२-३६४; भा-२६/२६) स्वरिते यण् स्वरितयण् स्वरितयणः इति
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-१/१४) स्वरितग्रहणम् शक्यम् अकर्तुम् ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-२/१४) कथम् ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-३/१४) अनुदात्ते परतः पदादौ वा उदात्तः इति एव सिद्धम् ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-४/१४) केन इदानीम् स्वरितः भविष्यति ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-५/१४) गाङ्गे अनूपे इति ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-६/१४) आन्तर्यतः उदात्तानुदात्तयोः एकादेशः स्वरितः भविष्यति ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-७/१४) इदम् तर्हि प्रयोजनम् तेन वर्ज्यमानता मा भूत् ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-८/१४) अथ क्रियमाणे अपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मात् न भवति ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-९/१४) कन्या अनूपे इति ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-१०/१४) बहिरङ्गलक्षणत्वात् ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-११/१४) असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एवम् न भविष्यति ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-१२/१४) यथा एव तर्हि क्रियमाणे स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता न भवति एवम् अक्रियमाणे अपि न भविष्यति ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-१३/१४) तस्मात् न अर्थः स्वरितग्रहणेन ।
(पा-८,२.६.१; अकि-३,३८९.७-१५; रो-५,३६४-३६५; भा-१४/१४) बहिरङ्गलक्षणत्वात् सिद्धम्
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१/२०८) एकादेशस्वरः अन्तरङ्गः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२/२०८) एकादेशस्वरः अन्तरङ्गः सिद्धः वक्तव्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३/२०८) किम् प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४/२०८) अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् । अय् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५/२०८) वृक्षे इदम् प्लक्षे इदम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६/२०८) उदात्तानुदात्तयोः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७/२०८) तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८/२०८) तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः अयादेशः यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९/२०८) अवादेशः न अस्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०/२०८) आय् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११/२०८) कुमार्यै इदम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२/२०८) उदात्तानुदात्तयोः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३/२०८) तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४/२०८) तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आयादेशः यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५/२०८) न एतत् अस्ति प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६/२०८) एकादेशे कृते उदात्तयणोहल्पूर्वात् इति उदात्तत्वम् भविष्यति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७/२०८) इदम् इह सम्प्रधार्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८/२०८) उदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९/२०८) परत्वात् उदात्तत्वम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०/२०८) नित्यः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२१/२०८) कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२२/२०८) एकादेशः अपि अनित्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२३/२०८) अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२४/२०८) अन्तरङ्गः तर्हि एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२५/२०८) का अन्तरङ्गता ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२६/२०८) वर्णौ आश्रित्य एकादेशः पदस्य उदात्तत्वम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२७/२०८) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२८/२०८) आट् क्रियताम् उदात्तत्वम् इति किम् अत्र कर्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२९/२०८) परत्वात् आडागमः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३०/२०८) नित्यम् उदात्तत्वम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३१/२०८) कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३२/२०८) आट् अपि नित्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३३/२०८) कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३४/२०८) अनित्यः आट् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३५/२०८) अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३६/२०८) उदात्तत्वम् अपि अनित्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३७/२०८) अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते प्राप्नोति शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३८/२०८) उभयोः अनित्ययोः परत्वात् आडागमः आटि कृते अन्तरङ्गः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-३९/२०८) आव् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४०/२०८) वृक्षविदम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४१/२०८) उदात्तानुदात्तयोः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४२/२०८) तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४३/२०८) तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आवादेशः यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४४/२०८) एकादेशस्वर ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४५/२०८) गाङ्गे अनूपे इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४६/२०८) उदात्तानुदात्तयोः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४७/२०८) तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४८/२०८) तस्य सिद्धत्वम् वक्तव्यम् स्वरितोवानुदात्तेपदादौ इति एतत् यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-४९/२०८) शतृस्वर ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५०/२०८) तुदति नुदति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५१/२०८) उदात्तानुदात्तयोः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५२/२०८) तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५३/२०८) तस्य सिद्धत्वम् वक्तव्यम् शतुः अनुमः नद्यजादिः अन्तोदात्तात् इति एषः स्वरः यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५४/२०८) न एतत् अस्ति प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५५/२०८) आचार्यप्रवृत्तिः ज्ञापयति सिद्धः एकादेशस्वरः शतृस्वरः इति यत् अयम् अनुमः इति प्रतिषेधम् शास्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५६/२०८) कथम् कृत्वा ज्ञापकम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५७/२०८) न हि अन्तरेण उदात्तानुदात्तोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५८/२०८) ननु च इदम् अस्ति यन्ती वन्ती ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-५९/२०८) एतत् अपि निघाते कृते न अन्तरेण उदात्तानुदात्तयोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६०/२०८) इदम् इह सम्प्रधार्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६१/२०८) निघातः क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६२/२०८) परत्वात् निघातः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६३/२०८) नित्यः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६४/२०८) कृते अपि निघाते प्राप्नोति अकृते अपि प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६५/२०८) एकादेशः अपि अनित्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६६/२०८) अन्यथास्वरस्य कृते निघाते प्राप्नोति अन्यथास्वरस्य अकृते निघाते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६७/२०८) अन्तरङ्गः तर्हि एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६८/२०८) का अन्तरङ्गता ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-६९/२०८) वर्णौ आश्रित्य एकादेशः पदस्य निघातः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७०/२०८) निघातः अपि अन्तरङ्गः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७१/२०८) कथम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७२/२०८) उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७३/२०८) उभयोः अन्तरङ्गयोः परत्वात् निघातः निघाते कृते एतत् अपि न अन्तरेण उदात्तानुदात्तयोः एकादेशम् अन्तोदात्तम् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७४/२०८) शतृस्वर ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७५/२०८) एकानुदात्त ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७६/२०८) तुदन्ति लिखन्ति. उदात्तानुदात्तयोः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७७/२०८) तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७८/२०८) तस्य सिद्धत्वम् वक्तव्यम् तेन वर्ज्यमानता यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-७९/२०८) सर्वानुदात्त ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८०/२०८) ब्राह्मणाः तुदन्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८१/२०८) ब्राह्मणाः लिखन्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८२/२०८) उदात्तानुदात्तयोः एकादेशः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८३/२०८) तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८४/२०८) तस्य सिद्धत्वम् वक्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८५/२०८) किम् प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८६/२०८) तिङतिङः इति निघातः यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८७/२०८) किम् उच्यते अन्तरङ्गः इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८८/२०८) यः हि बहिरङ्गः असिद्धः एव असौ भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-८९/२०८) प्रपचतिति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९०/२०८) सोमसुत् पचतिति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९१/२०८) तत् तर्हि वक्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९२/२०८) न वक्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९३/२०८) सर्वत्र एव नुम्प्रतिषेधः ज्ञापकः सिद्धः एकादेशस्वरः अन्तरङ्गः इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९४/२०८) संयोगान्तलोपः रोः उत्त्वे हरिवः मेदिनम् त्वा । संयोगान्तलोपः रोः उत्त्वे सिद्धः वक्तव्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९५/२०८) किम् प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९६/२०८) हरिवः मेदिनम् त्वा ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९७/२०८) संयोगान्तलोपस्य असिद्धत्वात् हशि इति उत्त्वम् न प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९८/२०८) प्लुतिः च । प्लुतिः च उत्त्वे सिद्धा वक्तव्या ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-९९/२०८) सुस्रोत३ अत्र नु असि इति अत्र प्लुतेः असिद्धत्वात् अतः अति इति उत्त्वम् प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१००/२०८) अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०१/२०८) न एतत् अस्ति प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०२/२०८) क्रियते न्यासे एव ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०३/२०८) सिज्लोपः एकादेशे । सिज्लोपः एकादेशे सिद्धः वक्तव्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०४/२०८) अलावीत् अपावीत् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०५/२०८) सिज्लोपस्य असिद्धत्वात् सवर्णदीर्घत्वम् न प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०६/२०८) यदि पुनः इडादेः सिचः लोपः उच्येत ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०७/२०८) न एवम् शक्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०८/२०८) इह हि मा हि लावित् मा हि पावित् यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१०९/२०८) इटि पुनः सति उक्तम् एतत् अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशे उदात्तेनोदात्तः इति उदात्तत्वम् सिद्धम् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११०/२०८) संयोगादिलोपः संयोगान्तलोपे । संयोगादिलोपः संयोगान्तस्य लोपे सिद्धः वक्तव्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१११/२०८) काष्ठतट् कूटतट् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११२/२०८) संयोगादिलोपस्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११३/२०८) न एषः दोषः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११४/२०८) उकम् एतत् अपवादः वचनप्रामाण्यात् इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११५/२०८) निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु । निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धः वक्तव्यः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११६/२०८) वृक्णः वृक्णवान् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११७/२०८) निष्ठादेशस्य असिद्धत्वात् झलि इति षत्वम् प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११८/२०८) स्वर ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-११९/२०८) क्षिवः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२०/२०८) निष्ठादेशस्य असिद्धत्वात् निष्ठाचद्व्यजनात् इति एषः स्वरः न प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२१/२०८) प्रत्यय ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२२/२०८) क्षीवेण तरति क्षीविकः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२३/२०८) निष्ठादेशस्य असिद्धत्वात् द्व्यचः ठन् इति ठन् न प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२४/२०८) इड्विधि ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२५/२०८) निष्ठादेशस्य असिद्धत्वात् वलादिलक्षणः इट् प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२६/२०८) ननु च यः प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२७/२०८) इदम् तर्हि प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२८/२०८) ओलस्जी लग्नः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१२९/२०८) निष्ठादेशः सिद्धः वक्तव्यः नेड्वशिकृति इति इट्प्रतिषेधः यथा स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३०/२०८) ईदित्करणम् न कर्तव्यम् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३१/२०८) एतत् अपि न अस्ति प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३२/२०८) क्रियते एतत् न्यासे एव ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३३/२०८) वस्वादिषु दत्वम् सौ दीर्घत्वे । वस्वादिषु दत्वम् सौ दीर्घत्वे सिद्धम् वक्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३४/२०८) उखास्रत् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३५/२०८) पर्णध्वत् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३६/२०८) दत्वस्य असिद्धत्वात् अत्वसन्तस्य इति दीर्घत्वम् प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३७/२०८) अधातोः इति न वक्तव्यम् भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३८/२०८) न एतत् अस्ति प्रयोजनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१३९/२०८) क्रियते न्यासे एव ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४०/२०८) अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे । अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४१/२०८) अमी अत्र ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४२/२०८) अमी आसते ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४३/२०८) अमू अत्र ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४४/२०८) अमू आसाते ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४५/२०८) ईत्त्वोत्वयोः असिद्धत्वात् एचः इति अयावेकादेशाः प्राप्नुवन्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४६/२०८) किम् उच्यते बहिष्पदलक्षणे इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४७/२०८) यः हि अन्यः असिद्धः एव असौ भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४८/२०८) अमुया अमुयोः इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१४९/२०८) प्रगृह्यसञ्ज्ञायाम् च । प्रगृह्यसञ्ज्ञायाम् च सिद्धे वक्तव्ये ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५०/२०८) अमी अत्र ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५१/२०८) अमी आसते ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५२/२०८) अमू अत्र ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५३/२०८) अमू आसाते ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५४/२०८) ईत्त्वोत्वयोः असिद्धत्वात् अदसोमात् इति प्रगृह्यसञ्ज्ञा न प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५५/२०८) किम् अर्थम् इदम् उभयम् उच्यते न प्रगृह्यसञ्ज्ञायाम् इति एव स्वरे अपि बहिष्पदलक्षणे चोदितम् स्यात् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५६/२०८) पुरस्तात् इदम् आचार्येण दृष्टम् स्वरे बहिष्पदलक्षणे इति तत् पठितम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५७/२०८) ततः उत्तरकालम् इदम् दृष्टम् प्रगृह्यसञ्ज्ञायाम् च इति तद् अपि पठितम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५८/२०८) न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१५९/२०८) प्लुतिः तुग्विधौ छे । प्लुतिः तुग्विधौ छे सिद्धा वकव्या ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६०/२०८) अग्न३इ च्छत्त्रम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६१/२०८) पट३उ च्छत्त्रम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६२/२०८) प्लुतेः असिद्धत्वात् छेच इति तुक् न प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६३/२०८) किम् उच्यते छे इति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६४/२०८) यः हि अन्यः असिद्धः एव असौ भवति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६५/२०८) अग्निचि३त् सोमसु३त् ।श्चुत्वम् धुट्त्वे । श्चुत्वम् धुट्त्वे सिद्धम् वक्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६६/२०८) अट् श्च्योतति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६७/२०८) पट् स्च्योतति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६८/२०८) श्चुत्वस्य असिद्धत्वात् डःसिधुट् इति धुट् प्रसज्येत ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१६९/२०८) अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः । अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः सिद्धम् वक्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७०/२०८) बभणतुः बभणुः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७१/२०८) अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७२/२०८) उचिच्छिषति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७३/२०८) अभ्यासादेशस्य असिद्धत्वात् छेच इति तुक् प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७४/२०८) द्विर्वचने परसवर्णत्वम् । द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७५/२०८) सय्म्̐यन्ता सव्म्̐वत्सरः तल्म्̐ लोकम् यल्म्̐ लोकम् इति परसवर्णस्य असिद्धत्वात् यरः इति द्विर्वचनम् न प्राप्नोति ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७६/२०८) पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि । पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७७/२०८) लत्व गरः गरः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७८/२०८) गलः गलः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१७९/२०८) लत्व. घत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८०/२०८) द्रोग्धा द्रोग्धा ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८१/२०८) द्रोढा द्रोढा ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८२/२०८) घत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८३/२०८) नत्व. नुन्नः नुन्नः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८४/२०८) नुत्तः नुत्तः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८५/२०८) नत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८६/२०८) रुत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८७/२०८) अभिनः अभिनः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८८/२०८) अभिनत् अभिनत् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१८९/२०८) रुत्व षत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९०/२०८) मातुःष्वसा मातुःष्वसा ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९१/२०८) मातुःस्वसा मातुःस्वसा पितुःष्वसा पितुःष्वसा ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९२/२०८) पितुःस्वसा पितुःस्वसा ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९३/२०८) षत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९४/२०८) णत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९५/२०८) माषवापाणि माषवापाणि ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९६/२०८) माषवापानि माषवापानि ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९७/२०८) णत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९८/२०८) अनुनासिक ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-१९९/२०८) नाङ्नयनम् नाङ्नयनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२००/२०८) वाग्नयनम् वाग्नयनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०१/२०८) अनुनासिक ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०२/२०८) छत्व ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०३/२०८) वाक्छयनम् वाक्छयनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०४/२०८) वाक्शयनम् वाक्शयनम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०५/२०८) उभयथा च अयम् दोषः यदि अपि स्थाने द्विर्वचनम् अथ अपि द्विःप्रयोगः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०६/२०८) कथम् ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०७/२०८) यदि तावत् स्थाने द्विर्वचनम् सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य लत्वाद्यभावः ।
(पा-८,२.६.२; अकि-३,३८९.१६-३९४.४; रो-५,३६५-३७५; भा-२०८/२०८) अथ द्विःप्रयोगः असिद्धत्वात् लत्वादीनि निवर्तेरन्
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-१/१०) अन्तग्रहणम् किमर्थम् ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-२/१०) नलोपे अन्तग्रहणम् पदाधिकारस्य विशेषणत्वात् ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-३/१०) नलोपे अन्तग्रहणम् क्रियते ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-४/१०) किम् कारणम् ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-५/१०) पदाधिकारस्य विशेषणत्वात् ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-६/१०) पदाधिकारः विशेषणम् ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-७/१०) कथम् ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-८/१०) पदस्य इति न एषा स्थानषष्ठी ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-९/१०) का तर्हि ।
(पा-८,२.७.१; अकि-३,३९४.५-९; रो-५,३७५; भा-१०/१०) विशेषणषष्ठी
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१/२०) अह्नः नलोपप्रतिषेधः ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-२/२०) अह्नः नलोपप्रतिषेधः वक्तव्यः ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-३/२०) अहोभ्याम् अहोभिः इति ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-४/२०) सः तर्हि प्रतिषेधः वक्तव्यः ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-५/२०) न वक्तव्यः ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-६/२०) रुः अत्र बाधकः भविष्यति ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-७/२०) असिद्धः रुः तस्य असिद्धत्वात् नलोपः प्राप्नोति ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-८/२०) अनवकाशः रुः नलोपम् बाधिष्यते ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-९/२०) सावकाशः रुः ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१०/२०) कः अवकाशः ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-११/२०) अनन्त्यः अकारः ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१२/२०) आचार्यप्रवृत्तिः ज्ञापयति न अनन्त्यस्य रुः भवति इति यत् अयम् अहन्ग्रहणम् करोति ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१३/२०) अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् वचनम् । अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् एतत् स्यात् ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१४/२०) हे अहः इति ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१५/२०) यत् तर्हि रुत्वम् शास्ति ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१६/२०) एतत् अपि सम्बुद्ध्यर्थम् एव स्यात् ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१७/२०) हे दीर्घाहः अत्र ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१८/२०) यत् तर्हि रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् करोति तत् ज्ञापयति आचार्यः न अनन्त्यस्य रुः भवति इति ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-१९/२०) कथम् कृत्वा ज्ञापकम् ।
(पा-८,२.७.२; अकि-३,३९४.१०-१९; रो-५,३७५-३७६; भा-२०/२०) न हि अस्ति विशेषः रूपरात्रिरथन्तरेषु अनन्त्यस्य रौ वा रे वा
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१/३६) न ङिसम्बुद्ध्योः अनुत्तरपदे ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२/३६) न ङिसम्बुद्ध्योः अनुत्तरपदे इति वक्तव्यम् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३/३६) इह मा भूत् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-४/३६) चर्मणि तिला अस्य चर्मतिलः इति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-५/३६) राजन् वृन्दारक राजवृन्दारक इति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-६/३६) वा नपुंसकानाम् । वा नपुंसकानाम् इति वक्तव्यम् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-७/३६) हे चर्म हे चर्मन् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-८/३६) हे वर्म हे वर्मन् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-९/३६) तत् तर्हि अनुत्तरपदे इति वक्तव्यम् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१०/३६) न वक्तव्यम् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-११/३६) न ङिसम्बुद्ध्योः इति उच्यते न च अत्र ङिसम्बुद्धी पश्यामः ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१२/३६) प्रत्ययलक्षणेन ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१३/३६) न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१४/३६) न क्वचित् ङिः लोपेन लुप्यते सर्वत्र लुमता एव ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१५/३६) यथा एव इह भवति आर्द्रे चर्मन् लोहिते चर्मन् इति एवम् इह अपि स्यात् चर्मणि तिला अस्य चर्मतिलः इति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१६/३६) तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१७/३६) एवम् तर्हि ङ्यर्थेन तावत् न अर्थः ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१८/३६) भत्वात् तु ङौ प्रतिषेधानर्थक्यम् । ङौ प्रतिषेधः अनर्थकः ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-१९/३६) किम् कारणम् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२०/३६) भत्वात् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२१/३६) भसञ्ज्ञा अत्र भविष्यति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२२/३६) यदि तर्हि भसञ्ज्ञा अत्र भवति रथन्तरे सामन् इति अत्र अल्लोपः अनः इति अल्लोपः प्राप्नोति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२३/३६) न एषः दोषः ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२४/३६) उक्तम् उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते तद् यथा सः सुष्टुभा सः ऋक्वता गणेन पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२५/३६) एवम् इह अपि पदत्वात् अल्लोपः न भत्वात् नलोपः न भविष्यति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२६/३६) तस्मात् न अर्थः ङिग्रहणेन ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२७/३६) सम्बुद्ध्यर्थेन च अपि न अर्थः ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२८/३६) कथम् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-२९/३६) सम्बुद्ध्यन्तानाम् असमासः ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३०/३६) राजवृन्दारक इति ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३१/३६) किम् वक्तव्यम् एतत् ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३२/३६) न हि ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३३/३६) कथम् अनुच्यमानम् गंस्यते ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३४/३६) इह समानार्थेन वाक्येन भवितव्यम् समासेन च यः च इह अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन गम्यते ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३५/३६) अवयवसम्बोधनम् वाक्येन गम्यते समुदायसम्बोधनम् समासेन ।
(पा-८,२.८; अकि-३,३९४.२०-३९५.१८; रो-५,३७७-३७८; भा-३६/३६) वा नपुंसकानाम् इति एतत् वक्तव्यम् एव
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-१/१०) अनन्त्ययोः अपि निष्ठामतुपोः आदेशः ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-२/१०) निष्ठामतुपोः आदेशः अनन्त्ययोः अपि इति वक्तव्यम् ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-३/१०) भिन्नवन्तौ भिन्नवन्तः ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-४/१०) वृक्षवन्तौ वृक्षवन्तः ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-५/१०) न वक्तव्यम् ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-६/१०) वचनात् भविष्यति ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-७/१०) अस्ति वचने प्रयोजनम् ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-८/१०) किम् ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-९/१०) भिन्नवान् छिन्नवान् ।
(पा-८,२.९, ४२; अकि-३,३९५.१९-२४; रो-५,३७८; भा-१०/१०) वृक्षवान् प्लक्षवान्
(पा-८,२.९; अकि-३,३९६.१-५; रो-५,३७८-३७९; भा-१/६) नार्मते प्रतिषेधः ।
(पा-८,२.९; अकि-३,३९६.१-५; रो-५,३७८-३७९; भा-२/६) नार्मते प्रतिषेधः वक्तव्यः ।
(पा-८,२.९; अकि-३,३९६.१-५; रो-५,३७८-३७९; भा-३/६) नृमतः नार्मतः इति ।
(पा-८,२.९; अकि-३,३९६.१-५; रो-५,३७८-३७९; भा-४/६) उक्तम् वा । किम् उक्तम् ।
(पा-८,२.९; अकि-३,३९६.१-५; रो-५,३७८-३७९; भा-५/६) निष्ठामतुपोः तावत् उक्तम् न वा पदाधिकारस्य विशेषणत्वात् इति ।
(पा-८,२.९; अकि-३,३९६.१-५; रो-५,३७८-३७९; भा-६/६) नार्मते अपि उक्तम् न वा बहिरङ्गलक्षणत्वात् इति
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-१/११) किम् अयम् एकयोगः आहोस्वित् नानायोगौ ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-२/११) किम् च अतः ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-३/११) यदि एकयोगः हीवती कपीवती अत्र न प्राप्नोति ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-४/११) अथ नानायोगौ इक्षुमती द्रुमती अत्र अपि प्राप्नोति ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-५/११) यथा इच्छसि तथा अस्तु ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-६/११) अस्तु तावत् एकयोगः ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-७/११) कथम् अहीवती कपीवती ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-८/११) आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् वत्वम् इति यत् अयम् अन्तोऽवत्याः ईवत्याः इति आह ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-९/११) अथ वा पुनः अस्तु नानायोगौ ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-१०/११) ननु च उक्तम् इक्षुमती द्रुमती अत्र अपि प्राप्नोति इति ।
(पा-८,२.११-१२; अकि-३,३९६.६-१३; रो-५,३७९; भा-११/११) यवादिषु पाथः करिष्यते
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१/२८) छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणम् ते सप्तर्षिमन्तम् इति अत्र अपि प्राप्नोति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२/२८) न एषः दोषः ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-३/२८) न एवम् विज्ञायते छन्दसि इरः इति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-४/२८) कथम् तर्हि ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-५/२८) छन्दसि ईरः इति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-६/२८) एवम् अपि त्विषीमान् पतीमान् इति अत्र अपि प्राप्नोति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-७/२८) न एषः दोषः ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-८/२८) विहितविशेषणम् ईकारग्रहङम् ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-९/२८) ईकारान्तात् यः विहितः इति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१०/२८) एवम् अपि सूरम् ते द्यावापृथिवीमन्तम् इति अत्र अपि प्राप्नोति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-११/२८) इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१२/२८) एवम् तर्हि परिगणनम् कर्तव्यम् ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१३/२८) त्रिहर्यधिपत्यग्निरे ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१४/२८) त्रिवतीः याज्यानुवाक्याः भवन्ति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१५/२८) त्रि ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१६/२८) हरि ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१७/२८) हरिवः मेदिनम् त्वा ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१८/२८) हरि ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-१९/२८) अधिपति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२०/२८) अधिपतिवतीः जुहोति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२१/२८) अधिपति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२२/२८) अग्नि ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२३/२८) चरुः अग्निवान् इव ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२४/२८) अग्नि ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२५/२८) रे ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२६/२८) आ रेवन् एतु नो विश इति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२७/२८) यदि तर्हि परिगणनम् क्रियते सरस्वतीवान् भारतीवान् अपूपवान् दधिवान् चरुः इति अत्र न प्राप्नोति ।
(पा-८,२.१५; अकि-३,३९६.१४-३९७.२; रो-५,३७९-३८०; भा-२८/२८) एवम् तर्हि छन्दसि इरः बहुलम् इति वक्तव्यम्
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१/४६) यदि पुनः अयम् नुट् पूर्वान्तः क्रियेत ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२/४६) अनः नुकि विनामरुविधिप्रतिषेधः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३/४६) अनः नुकि सति विनामः विधेयः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४/४६) अक्षण्वान् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-५/४६) पदान्तस्य न इति प्रतिषेधः प्राप्नोति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-६/४६) रुः च प्रतिषेध्यः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-७/४६) सुपथिन्तरः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-८/४६) नश्छव्यप्रशान् इति रुः प्राप्नोति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-९/४६) अस्तु तर्हि परादिः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१०/४६) परादौ वत्वप्रतिषेधः अवग्रहः च । यदि परादिः वत्वस्य प्रतिषेधः वक्तव्यः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-११/४६) अक्षण्वान् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१२/४६) मादुपधायाश्चमतोर्वोऽयवादिभ्यः इति वत्वम् प्राप्नोति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१३/४६) अवग्रहः च अनिष्टे देशे प्राप्नोति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१४/४६) अक्षण्वान् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१५/४६) अस्तु तर्हि पूर्वान्तः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१६/४६) ननु च उक्तम् अनः नुकि विनामरुविधिप्रतिषेधः इति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१७/४६) भत्वात् सिद्धम् । भसञ्ज्ञा वक्तव्या ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१८/४६) यदि तर्हि भसञ्ज्ञा अल्लोपोऽनः इति अल्लोपः प्राप्नोति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-१९/४६) अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि । अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२०/४६) इह तर्हि सुपथिन्तरः नान्तस्य टिः तद्धिते लुप्यते इति लोपः प्राप्नोति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२१/४६) घग्रहणम् च । घग्रहणम् च कर्तव्यम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२२/४६) तत् तर्हि इदम् बहु वक्तव्यम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२३/४६) नुक् वक्तव्यः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२४/४६) भसञ्ज्ञा च वक्तव्या ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२५/४६) अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२६/४६) घग्रहणम् च कर्तव्यम् इति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२७/४६) न कर्तव्यम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२८/४६) यत् तावत् उच्यते नुक् वक्तव्यः इति नुकः एषः परिहारः भत्वात् सिद्धम् इति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-२९/४६) भसञ्ज्ञा वक्तव्या इति क्रियते न्यासे एव अयस्मयादीनि छन्दसि इति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३०/४६) यत् अपि उच्यते अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि घग्रहणम् च कर्तव्यम् इति न कर्तव्यम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३१/४६) उभयसञ्ज्ञानि अपि हि छन्दांसि दृश्यन्ते ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३२/४६) तत् यथा ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३३/४६) सः सुष्टुभा स ऋक्वता गणेन ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३४/४६) पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३५/४६) एवम् इह अपि पदत्वात् अल्लोपटिलोपौ न भत्वात् विनामरुविधिप्रतिषेधौ भविष्यतः ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३६/४६) सिध्यति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३७/४६) सूत्रम् तर्हि भिद्यते ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३८/४६) यथान्यासम् एव अस्तु ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-३९/४६) ननु च उक्तम् परादौ वत्वप्रतिषेधः अवग्रहः च इति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४०/४६) यत् तावत् उच्यते वत्वप्रतिषेधः इति निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४१/४६) यः तर्हि निर्दिश्यते तस्य न प्राप्नोति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४२/४६) किम् कारणम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४३/४६) नुटा व्यवहितत्वात् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४४/४६) असिद्धः नुट् तस्य असिद्धत्वात् भविष्यति ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४५/४६) अवग्रहे अपि न लक्षणेन पदकाराः अनुवर्त्याः पदकारैः नाम लक्षणम् अनुवर्त्यम् ।
(पा-८,२.१६; अकि-३,३९७.३-३९८.१०; रो-५,३८०-३८२; भा-४६/४६) यथालक्षणम् पदम् कर्तव्यम्
(पा-८,२.१७; अकि-३,३९८.११-१५; रो-५,३८२; भा-१/५) ईत् रथिनः ।
(पा-८,२.१७; अकि-३,३९८.११-१५; रो-५,३८२; भा-२/५) रथिनः ईत् वक्तव्यः ।
(पा-८,२.१७; अकि-३,३९८.११-१५; रो-५,३८२; भा-३/५) रथीतरः ।
(पा-८,२.१७; अकि-३,३९८.११-१५; रो-५,३८२; भा-४/५) भूरिदाव्नः तुट् । भुरिदाव्नः तुट् वक्तव्यः ।
(पा-८,२.१७; अकि-३,३९८.११-१५; रो-५,३८२; भा-५/५) भूरिदावत्तरः जनः
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-१/१५) कृपणादीनाम् प्रतिषेधः वक्तव्यः ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-२/१५) कृपणः कृपाणः कृपीटम् ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-३/१५) वालमूललघ्वलमड्गुलीनाम् वा लः रम् आपद्यते इति वक्तव्यम् ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-४/१५) अश्ववालः अश्ववारः ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-५/१५) मूलदेवः मूरदेवः ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-६/१५) वरुणस्य लघुस्यदः वरुणस्य रघुस्यदः ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-७/१५) अलम् भक्ताय अरम् भक्ताय ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-८/१५) सुबाहुः स्वङ्गुलिः सुबाहुः स्वङ्गुरिः ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-९/१५) सञ्ज्ञाछन्दसोः वा कपिलकादीनाम् इति वक्तव्यम् ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-१०/१५) कपिरकः कपिलकः ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-११/१५) तिल्विरीकः तिल्विलीकः ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-१२/१५) रोमाणि लोमानि ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-१३/१५) पांसुरम् पांसुलम् ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-१४/१५) कर्म कल्म ।
(पा-८,२.१८; अकि-३,३९८.१६-२३; रो-५,३८२-३८३; भा-१५/१५) शुक्रः शुक्लः
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१/२८) किम् इदम् अयतिग्रहणम् रेफविशेषणम् ॒ अयतिपरस्य रेफस्य लः भवति सः चेत् उपसर्गस्य भवति इति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२/२८) आहोस्वित् उपसर्गविशेषणम् ॒ अयतिपरस्य उपसर्गस्य यः रेफः तस्य लः भवति इति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-३/२८) कः च अत्र विशेषः ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-४/२८) रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-५/२८) रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् कर्तव्यम् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-६/२८) पल्ययते ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-७/२८) वचनात् भविष्यति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-८/२८) अस्ति वचने प्रयोजनम् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-९/२८) किम् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१०/२८) प्लायते पलायते ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-११/२८) अस्तु तर्हि उपसर्गविशेषणम् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१२/२८) उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः । उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः भवति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१३/२८) प्लायते पलायते ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१४/२८) एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१५/२८) अन्तादिवत् भावेन व्यपवर्गः ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१६/२८) उभयतः आश्रये न अन्तादिवत् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१७/२८) एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१८/२८) प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-१९/२८) दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२०/२८) अथ वा पुनः अस्तु रेफविशेषणम् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२१/२८) ननु च उक्तम् रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् इति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२२/२८) वचनात् भविष्यति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२३/२८) ननु च उक्तम् अस्ति वचने प्रयोजनम् किम् प्लायते पलायते इति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२४/२८) अत्र अपि अकारेण व्यवहितत्वात् न प्राप्नोति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२५/२८) एकादेशे कृते न अस्ति व्यवधानम् ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२६/२८) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२७/२८) प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।
(पा-८,२.१९; अकि-३,३९९.१-१९; रो-५,३८३-३८४; भा-२८/२८) दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-१/१३) णौ उपसङ्ख्यानम् कर्तव्यम् ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-२/१३) इह अपि यथा स्यात् ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-३/१३) निगार्यते निगाल्यते ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-४/१३) किम् पुनः कारणम् न सिध्यति ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-५/१३) अचि इति उच्यते न च अत्र अजादिम् पश्यामः ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-६/१३) प्रत्ययलक्षणेन ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-७/१३) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-८/१३) एवम् तर्हि स्थानिवद्भावात् भविष्यति ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-९/१३) प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-१०/१३) अतः उत्तरम् पठति ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-११/१३) गिरतेः लत्वे णौ उक्तम् ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-१२/१३) किम् उक्तम् ।
(पा-८,२.२१; अकि-३,३९९.२०-४००.२; रो-५,३८५; भा-१३/१३) तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति
(पा-८,२.२२.१; अकि-३,४००.३-४; रो-५,३८५; भा-१/३) योगे च इति वक्तव्यम् ।
(पा-८,२.२२.१; अकि-३,४००.३-४; रो-५,३८५; भा-२/३) इह अपि यथा स्यात् ।
(पा-८,२.२२.१; अकि-३,४००.३-४; रो-५,३८५; भा-३/३) परियोगः पलियोगः
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१/२७) सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२/२७) सङि इति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-३/२७) किम् प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-४/२७) प्रयोजनम् गिरौ गिरः पयः धावति द्विष्टराम् दृषत्स्थानम् काष्ठशक्स्थाता क्रुञ्चा धुर्यः इति । गिऋऔ गिरः इति अत्र अचिविभाषा इति लत्वम् प्राप्नोति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-५/२७) सङि इति वचनात् न भवति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-६/२७) न एतत् अस्ति प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-७/२७) उक्तम् एतत् धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-८/२७) पयः धावति इति अत्र धिच इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-९/२७) एतत् अपि न अस्ति प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१०/२७) वक्ष्यति एतत् धिसकारे सिचः लोपः इति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-११/२७) द्विष्टराम् इति अत्र ह्रस्वात् अङ्गात् इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१२/२७) एतत् अपि न अस्ति प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१३/२७) अत्र अपि सिचः इति एव अनुवर्तिष्यते ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१४/२७) दृषत्स्थानम् इति अत्र झलोझलि इति सलोपः प्राप्नोति सङि इति वचनात् न भवति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१५/२७) एतत् अपि न अस्ति प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१६/२७) अत्र अपि सिचः इति एव अनुवर्तिष्यते ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१७/२७) काष्ठशक्स्थाता इति अत्र स्कोःसंयोगाद्योरन्तेच इति ककारलोपः प्राप्नोति सङि इति वचनात् न भवति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१८/२७) एतत् अपि न अस्ति प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-१९/२७) काष्ठशक् एव न अस्ति कुतः यः काष्ठशकि तिष्ठेत् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२०/२७) क्रुञ्चा इति अत्र चोःकुः झलि इति कुत्वम् प्राप्नोति सङि इति वचनात् न भवति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२१/२७) एतत् अपि न अस्ति प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२२/२७) निपातनात् एतत् सिद्धम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२३/२७) किम् निपातनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२४/२७) ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् इति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२५/२७) धुर्यः इति अत्र हलिच इति दीर्घत्वम् प्राप्नोति सङि इति वचनात् न भवति ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२६/२७) एतत् अपि न अस्ति प्रयोजनम् ।
(पा-८,२.२२.२; अकि-३,४००.५-२४; रो-५,३८५-३८७; भा-२७/२७) नभकुर्छुराम् इति प्रतिषेधः भविष्यति ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-१/१०) संयोगान्तस्य लोपे यणः प्रतिषेधः । संयोगान्तस्य लोपे यणः प्रतिषेधः वक्तव्यः ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-२/१०) दधि अत्र मधु अत्र इति ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-३/१०) संयोगादिलोपे च यणः प्रतिषेधः वक्तव्यः ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-४/१०) काकी अर्थम् वासी अर्थम् ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-५/१०) न वा झलः लोपात् ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-६/१०) न वा वक्तव्यः ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-७/१०) किम् कारणम् ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-८/१०) झलः लोपात् ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-९/१०) झलः लोपः संयोगान्तलोपः वक्तव्यः ।
(पा-८,२.२३.१; अकि-३,४०१.१-९; रो-५,३८७-३८८; भा-१०/१०) बहिरङ्गलक्षणत्वात् वा । अथ वा बहिरङ्गः यणादेशः अन्तरङ्गः लोपः असिद्धम् बहिरङ्गम् अन्तरङ्गे
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१/३४) संयोगान्तलोपे सग्रहणम् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२/३४) संयोगान्तलोपे सग्रहणम् कर्तव्यम् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-३/३४) संयोगान्तलोपः सस्य च इति वक्तव्यम् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-४/३४) इह अपि यथा स्यात् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-५/३४) श्रेयान् भूयान् ज्यायान् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-६/३४) किम् पुनः कारणम् न सिध्यति ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-७/३४) परत्वात् रुः प्राप्नोति ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-८/३४) असिद्धः रुः तस्य असिद्धत्वात् लोपः भविष्यति ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-९/३४) न सिध्यति ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१०/३४) किम् कारणम् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-११/३४) रुविधानस्य अनवकाशत्वात् । अनवकासः रुः लोपम् बाधेत ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१२/३४) सावकाशः रुः ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१३/३४) कः अवकाशः ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१४/३४) पयः शिरः ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१५/३४) ननु च अत्र अपि जश्त्वम् प्राप्नोति ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१६/३४) सः यथा एव रुः जश्त्वम् बाधते एवम् लोपम् अपि बाधेत ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१७/३४) न बाधते ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१८/३४) किम् कारणम् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-१९/३४) येन नाप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते जश्त्वे रुः आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२०/३४) योगविभागात् सिद्धम् । अथ वा योगविभागः करिष्यते ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२१/३४) एवम् वक्ष्यामि ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२२/३४) संयोगान्तस्य लोपः अरात् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२३/३४) संयोगान्तस्य लोपः भवति अरात् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२४/३४) ततः सस्य ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२५/३४) सस्य च लोपः भवति संयोगान्तस्य ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२६/३४) किम् अर्थम् पुनः इदम् उच्यते ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२७/३४) प्रतिषिद्धार्थम् रुबाधनार्थम् च ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२८/३४) अथ वा यत् एतत् रात् सस्य इति सग्रहणम् तत् पुरस्तात् अपक्रक्ष्यते ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-२९/३४) संयोगान्तस्य लोपः ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-३०/३४) ततः सस्य ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-३१/३४) सस्य च संयोगान्तस्य लोपः भवति ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-३२/३४) ततः रात् ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-३३/३४) रात् सस्य एव संयोगान्तस्य लोपः भवति ।
(पा-८,२.२३.२; अकि-३,४०१.१०-४०२.२; रो-५,३८८-३८९; भा-३४/३४) अथ वा रात् सस्य इति अत्र संयोगान्तस्य लोपः इति एतत् अनुवर्तिष्यते
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१/६२) धि सकारे सिचः लोपः ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२/६२) धि सकारे सिचः लोपः वक्तव्यः ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३/६२) किम् प्रयोजनम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४/६२) चकाद्धि इति प्रयोजनम् । इह मा भूत् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५/६२) चकाद्धि पलितम् शिरः ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-६/६२) यदि तर्हि सिचः लोपः इति उच्यते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-७/६२) आशाध्वम् तु कथम् ते स्यात् । आशाध्वम् इति अत्र न प्राप्नोति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-८/६२) जश्त्वम् सस्य भविष्यति । जश्त्वम् अत्र सकारस्य भविष्यति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-९/६२) सर्वत्र एवम् प्रसिद्धम् स्यात् । सर्वत्र एवम् जश्त्वेन सिद्धम् स्यात् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१०/६२) इह अपि आयन्ध्वम् अरन्ध्वम् इति जश्त्वेन एव सिद्धम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-११/६२) श्रुतिः च अपि न भिद्यते । श्रुतिकृतः च अपि न कः चित् भेदः भवति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१२/६२) लुङः च अपि न मूर्धन्ये ग्रहणम् । तत्र अयम् अपि अर्थः इणःषीध्वंलुङ्लिटान्धोऽङ्गात् इति अत्र लुङ्ग्रहणम् न कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१३/६२) इह अपि अच्योड्ढ्वम् अप्लोड्ढ्वम् इति षत्वे सिचः धस्य ष्टुत्वे च कृते जश्त्वेन सिद्धम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१४/६२) सेटि दुष्यति । सेटि दोषः भवति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१५/६२) इदम् एव रूपम् स्यात् अलविड्ढ्वम् इदम् न स्यात् अलविध्वम् इति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१६/६२) तस्मात् सिचः ग्रहणम् कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१७/६२) यदि तर्हि सिचः ग्रहणम् क्रियते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१८/६२) घसिभस्योः न सिध्येत् तु । घसिभस्योः न सिध्यति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-१९/६२) सग्धिः च मे सपीतिः च मे, बब्धाम् ते हरी धानाः इति अत्र न प्राप्नोति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२०/६२) तस्मात् सिज्ग्रहणम् न तत् । तस्मात् धिच इति अत्र सिचः ग्रहणम् न कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२१/६२) कथम् चकाद्धि पलितम् शिरः इति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२२/६२) एवम् तर्हि सिज्ग्रहणम् कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२३/६२) कथम् सग्धिः च मे सपीतिः च मे , बब्धम् ते हरी धानाः इति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२४/६२) इह तावत् सग्धिः इति न एतत् घसेः रूपम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२५/६२) किम् तर्हि सघेः एतत् रूपम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२६/६२) बब्धाम् ते हरी धानाः इति न एतत् भसेः रूपम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२७/६२) किम् तर्हि बन्धेः एतत् रूपम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२८/६२) छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे । अथ वा छान्दसः वर्णलोपः भविष्यति यथा इष्कर्तारमध्वरे ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-२९/६२) तत् यथा ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३०/६२) तुभ्येदम् अग्ने ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३१/६२) तुभ्यम् इदम् अग्ने इति प्राप्ते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३२/६२) आम्बानाम् चरुः ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३३/६२) नाम्बानाम् चरुः इति प्राप्ते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३४/६२) आव्याधिनीः उगणाः ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३५/६२) आव्याधिनीः सुगणाः इति प्राप्ते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३६/६२) इष्कर्तारम् अध्वरस्य ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३७/६२) निष्कर्तारम् इति प्राप्ते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३८/६२) शिवा उद्रस्य भेषजी ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-३९/६२) शिवा रुद्रस्य भेषजीति प्राप्ते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४०/६२) तस्मात् सिज्ग्रहणम् कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४१/६२) न कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४२/६२) यत् एतत् रात्सस्य इति सकारग्रहणम् तत् सिचः ग्रहणम् विज्ञास्यते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४३/६२) कथम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४४/६२) रात्सस्य इति उच्यते न च अन्यः रेफात् परः सकारः अस्ति अन्यत् अतः सिचः ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४५/६२) ननु च अयम् अस्ति मातुः पितुः इति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४६/६२) तस्मात् सिचः ग्रहणम् कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४७/६२) न कर्तव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४८/६२) कस्मात् न भवति चकाद्धि पलितम् शिरः इति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-४९/६२) इष्टम् एव एतत् सङ्गृहीतम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५०/६२) चकाधि इति एव भवितव्यम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५१/६२) धि सकारे सिचः लोपः ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५२/६२) चकाद्धि इति प्रयोजनम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५३/६२) आशाध्वम् तु कथम् ते स्यात् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५४/६२) जश्त्वम् सस्य भविष्यति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५५/६२) सर्वत्र एवम् प्रसिद्धम् स्यात् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५६/६२) श्रुतिः च अपि न भिद्यते ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५७/६२) लुङः च अपि न मूर्धन्ये ग्रहणम् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५८/६२) सेटि दुष्यति ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-५९/६२) घसिभस्योः न सिध्येत् तु ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-६०/६२) तस्मात् सिज्ग्रहणम् न तत् ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-६१/६२) छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे ।
(पा-८,२.२५; अकि-३,४०२.३-४०३.२४; रो-५,३८९-३९१; भा-६२/६२) दादेः धातोः घः ।