व्याकरणमहाभाष्य खण्ड 84

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-१/८) इह दोग्धा दोग्धुम् इति घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति ।

(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-२/८) न एषः दोषः ।

(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-३/८) उक्तम् एतत् अपवादः वचनप्रामाण्यात् इति ।

(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-४/८) अथ वा एवम् वक्ष्यामि ।

(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-५/८) हः ढः अदादेः ।

(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-६/८) हः ढः भवति अदादेः ।

(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-७/८) ततः धातोः घः इति ।

(पा-८,२.३२.१; अकि-३,४०३.२५-४०४.२; रो-५,३९२; भा-८/८) दादेः इति अनुवर्तते न इति निवृत्तम्

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-१/१४) दादेः इति उच्यते तत्र इदम् न सिध्यति ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-२/१४) अधोक् ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-३/१४) क्व तर्हि स्यात् ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-४/१४) मा स्म धोक्. न एषः दोषः ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-५/१४) धातोः इति न एषा दादिसमानाधिकरणा षष्ठी ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-६/१४) दादेः धातोः इति ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-७/१४) का तर्हि ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-८/१४) अवयवयोगा एषा षष्ठी ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-९/१४) धातोः यः दादिः अवयवः इति ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-१०/१४) सा च अवश्यम् अवयवयोगा षष्ठी विज्ञेया उत्तरार्था ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-११/१४) किम् प्रयोजनम् ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-१२/१४) एकाचः बशः भष् झषन्तस्य स्ध्वोः इति इह अपि यथा स्यात् ॒ गर्दभयतेः अप्रत्ययः गर्धप् इति ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-१३/१४) यदि अवयवयोगा षष्ठी दोग्धा दोग्धुम् इति अत्र न प्राप्नोति ।

(पा-८,२.३२.२; अकि-३,४०४.३-८; रो-५,३९२-३९३; भा-१४/१४) एषः अपि व्यपदेशिवद्भावेन धातोः दादिः अवयवः भवति ।

(पा-८,२.३२.३; अकि-३,४०४.९-११; रो-५,३९३; भा-१/६) हृग्रहोः भः छन्दसि हस्य ।

(पा-८,२.३२.३; अकि-३,४०४.९-११; रो-५,३९३; भा-२/६) हृग्रहोः छन्दसि हस्य भत्वम् वक्तव्यम् ।

(पा-८,२.३२.३; अकि-३,४०४.९-११; रो-५,३९३; भा-३/६) गर्दभेन सम्भरति ।

(पा-८,२.३२.३; अकि-३,४०४.९-११; रो-५,३९३; भा-४/६) मरुत् अस्य ग्रभीता ।

(पा-८,२.३२.३; अकि-३,४०४.९-११; रो-५,३९३; भा-५/६) सामिधेन्यः जभ्रिरे ।

(पा-८,२.३२.३; अकि-३,४०४.९-११; रो-५,३९३; भा-६/६) उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन्

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१/२२) किमर्थः चकारः ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-२/२२) स्ध्वोः इति एतत् अनुकृष्यते ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-३/२२) न एतत् अस्ति प्रयोजनम् ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-४/२२) सिद्धम् स्ध्वोः पूर्वेण एव ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-५/२२) न सिध्यति ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-६/२२) किम् कारणम् ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-७/२२) अबशादित्वात् ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-८/२२) ननु च जश्त्वे कृते बशादिः ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-९/२२) असिद्धम् जश्त्वम् तस्य असिद्धत्वात् न बशादिः ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१०/२२) एवम् तर्हि सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-११/२२) एत्त्वतुकोः ग्रहणम् न करिष्यते ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१२/२२) अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१३/२२) एवम् अपि अझषन्तत्वात् न प्राप्नोति ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१४/२२) लोपे कृते झषन्तः ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१५/२२) स्थानिवद्भावात् न झषन्तः ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१६/२२) अतः उत्तरम् पठति ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१७/२२) दधः तथोः अनुकर्षणानर्थक्यम् स्थानिवत्प्रतिषेधात् । दधः तथोः अनुकर्षणम् अनर्थकम् ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१८/२२) किम् कारणम् ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-१९/२२) स्थानिवत्प्रतिषेधात् ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-२०/२२) प्रतिषिध्यते अत्र स्थनिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-२१/२२) स च अवश्यम् प्रतिषेधः आश्रयितव्यः ।

(पा-८,२.३८.१; अकि-३,४०४.१२-२४; रो-५,३९३; भा-२२/२२) इतरथा हि अलोपे प्रतिषेधः । यः हि मन्यते अनुकर्षणसामर्थ्यात् मे अत्र भवति अलोपे तेन प्रतिषेधः वक्तव्यः स्यात् ॒ दधाति दधासि

(पा-८,२.३८.२; अकि-३,४०५.१-२; रो-५,३९४; भा-१/३) तथोः च अपि ग्रहणम् शक्यम् अकर्तुम् ।

(पा-८,२.३८.२; अकि-३,४०५.१-२; रो-५,३९४; भा-२/३) कथम् ।

(पा-८,२.३८.२; अकि-३,४०५.१-२; रो-५,३९४; भा-३/३) झलि झषन्तस्य इति उच्यते तथोः च अयम् झलि झषन्तः भवति न अन्यत्र

(पा-८,२.३८.३; अकि-३,४०५.३-७; रो-५,३९४; भा-१/५) अथ अपि एतत् न अस्ति पूर्वत्रासिद्धे न स्थानिवत् इति एवम् अपि न एव अर्थः अनुकर्षणार्थेन चकारेण न अपि तथोः ग्रहणेन ।

(पा-८,२.३८.३; अकि-३,४०५.३-७; रो-५,३९४; भा-२/५) आनन्तर्यम् इह आश्रीयते झलि झषन्तस्य इति ।

(पा-८,२.३८.३; अकि-३,४०५.३-७; रो-५,३९४; भा-३/५) क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

(पा-८,२.३८.३; अकि-३,४०५.३-७; रो-५,३९४; भा-४/५) लोपे सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

(पा-८,२.३८.३; अकि-३,४०५.३-७; रो-५,३९४; भा-५/५) यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-१/१२) अधः इति किमर्थम् ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-२/१२) धत्तः ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-३/१२) धत्थः ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-४/१२) अधः इति शक्यम् अकर्तुम् ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-५/१२) कस्मात् न भवति धत्तः धत्थः इति ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-६/१२) जश्त्वे योगविभागः करिष्यते ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-७/१२) इदम् अस्ति दधस्तथोश्च इति ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-८/१२) ततः वक्ष्यामि झलाम् जशः ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-९/१२) झलाम् जशः भवन्ति दधः तथोः ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-१०/१२) ततः अन्ते ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-११/१२) अन्ते च झलाम् जशः भवन्ति ।

(पा-८,२.४०; अकि-३,४०५.८-१२; रो-५,३९४; भा-१२/१२) तत्र जश्त्वे कृते अझषन्तत्वात् न भविष्यति ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-१/१३) रदाभ्याम् इति किमर्थम् ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-२/१३) चरितम् मुदितम् ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-३/१३) ननु च रदाभ्याम् इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-४/१३) अत्र अपि रेफदकाराभ्याम् परा निष्ठा ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-५/१३) न रेफदकाराभ्याम् निष्ठा विशेष्यते ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-६/१३) किम् तर्हि ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-७/१३) तकारः विशेष्यते ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-८/१३) रफदकाराभ्याम् उत्तरस्य तकारस्य नः भवति स चेत् निष्ठायाः इति ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-९/१३) अथ पूर्वग्रहणम् किमर्थम् ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-१०/१३) निष्ठादेशे पूर्वग्रहणम् परस्य आदेशप्रतिषेधार्थम् ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-११/१३) निष्ठादेशे पूर्वग्रहणम् क्रियते परस्य आदेशः मा भूत् इति ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-१२/१३) भिन्नवद्भ्याम् भिन्नवद्भिः ।

(पा-८,२.४२.१; अकि-३,४०६.१-१०; रो-५,३९५; भा-१३/१३) पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य इति परस्य प्राप्नोति

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१/३२) वृद्धिनिमित्तात् प्रतिषेधः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२/३२) वृद्धिनिमित्तात् प्रतिषेधः वक्तव्यः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-३/३२) किम् प्रयोजनम् ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-४/३२) प्रयोजनम् कार्तिक्षैतिफौल्लयः । कार्तिः इति वृद्धौ कृतायाम् रदाभ्याम् इति नत्वम् प्राप्नोति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-५/३२) क्षैतिः इति वृद्धौ कृतायाम् क्षियोदीर्घात् इति नत्वम् प्राप्नोति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-६/३२) फौल्लिः इति वृद्धौ कृतायाम् उदुपधत्वसन्नियोगेन लत्वम् उच्यमानम् न प्राप्नोति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-७/३२) अथ उच्यमाने अपि प्रतिषेधे वृद्धिनिमित्तात् इति कथम् इदम् विज्ञायते ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-८/३२) वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-९/३२) आहोस्वित् वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१०/३२) किम् च अतः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-११/३२) यदि विज्ञायते वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति क्षैतिः सङ्गृहीतः कार्तिः असङ्गृहीतः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१२/३२) अथ विज्ञायते वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१३/३२) उभयथा च फौल्लिः असङ्गृहीतः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१४/३२) यथा इच्छसि तथा अस्तु ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१५/३२) अस्तु तावत् वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१६/३२) ननु च उक्तम् क्षैतिः सङ्ग्र्हीतः कार्तिः असङ्गृहीतः इति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१७/३२) कार्तिः च सङ्गृहीतः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१८/३२) कथम् ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-१९/३२) वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२०/३२) अथ वा पुनः अस्तु वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२१/३२) ननु च उक्तम् कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः इति ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२२/३२) क्षैतिः च सङ्गृहीतः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२३/३२) कथम् ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२४/३२) यत् तत् वृद्धिशास्त्रम् तस्मिन् वृद्धिशब्दः वर्तते ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२५/३२) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२६/३२) न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२७/३२) किम् कारणम् ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२८/३२) बहिरङ्गलक्षणत्वात् ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-२९/३२) बहिरङ्गा वृद्धिः ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-३०/३२) अन्तरङ्गम् नत्वम् ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-३१/३२) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-८,२.४२.२; अकि-३,४०६.११-४०७.७; रो-५,३९६-३९७; भा-३२/३२) एवम् च कृत्वा लत्वम् अपि सिद्धम् भवति फौल्लिः इति

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-१/१४) ऋकारल्वादिभ्यः क्तिन्निष्ठावत् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-२/१४) ऋकारल्वादिभ्यः क्तिन् निष्ठावत् भवति इति वक्तव्यम् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-३/१४) कीर्णिः गीर्णिः ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-४/१४) लूनिः धूनिः ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-५/१४) दुग्वोः दीर्घः च । दुग्वोः दीर्घः च इति वक्तव्यम् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-६/१४) आदूनः विगूनः ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-७/१४) पूञः विनाशे । पूञः विनाशे इति वक्तव्यम् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-८/१४) पूनाः यवाः ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-९/१४) विनाशे इति किमर्थम् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-१०/१४) पूतम् धान्यम् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-११/१४) सिनोतेः ग्रासकर्मकर्तृकस्य । सिनोतेः ग्रासकर्मकर्तृकस्य इति वक्तव्यम् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-१२/१४) सिनः ग्रासः ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-१३/१४) ग्रासकर्मकर्तृकस्य इति किमर्थम् ।

(पा-८,२.४४; अकि-३,४०७.८-१८; रो-५,३९७-३९८; भा-१४/१४) सिता पाशेन सूकरी

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१/२४) दीर्घात् इति किमर्थम् ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-२/२४) अक्षितम् असि मा मे क्षेष्ठाः ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-३/२४) दीर्घात् इति शक्यम् अकर्तुम् ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-४/२४) कस्मात् न भवति अक्षितम् असि मा मे क्षेष्ठाः इति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-५/२४) निर्देशात् एव इदम् अभिव्यक्तम् दीर्घस्य ग्रहणम् इति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-६/२४) यदि ह्रस्वस्य ग्रहणम् स्यात् क्षेः इति एव ब्रूयात् ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-७/२४) न अत्र निर्देशः प्रमाणं शक्यम् कर्तुम् ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-८/२४) यथा एव अत्र अप्राप्ता विभक्तिः एवम् इयङादेशः अपि ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-९/२४) न अत्र अप्राप्ता विभक्तिः ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१०/२४) सिद्धा अत्र विभक्तिः प्रातिपदिकात् इति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-११/२४) कथम् प्रातिपदिकसञ्ज्ञा ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१२/२४) अर्थवत् प्रातिपदिकम् इति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१३/२४) ननु च अधातुः इति प्रतिषेधः प्राप्नोति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१४/२४) न एषः धातुः धातोः एषः अनुकरणः ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१५/२४) यदि अनुकरणः इयङादेशः न प्राप्नोति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१६/२४) प्रकृतिवत् अनुकरणम् भवति इति एवम् इयङादेशः भविष्यति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१७/२४) यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते स्वाद्युत्पत्तिः न प्राप्नोति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१८/२४) एवम् तर्हि आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-१९/२४) अथ अपि एतत् न अस्ति आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते इति एवम् अपि न दोषः ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-२०/२४) अवश्यम् अत्र सर्वतः नैर्देशिकी विभक्तिः वक्तव्या ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-२१/२४) तत् यथा ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-२२/२४) नेर्विशः परिव्यवेभ्यःक्रियः विपराभ्याञ्जेः इति ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-२३/२४) अथ अपि एतत् न अस्ति प्रकृतिवत् अनुकरणम् भवति इति एवम् अपि न दोषः ।

(पा-८,२.४६; अकि-३,४०७.१९-४०८.१०; रो-५,३९८-३९९; भा-२४/२४) धातोः अजादौ यत् रूपम् तत् अनुक्रियते

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१/२८) अञ्चेः नत्वे व्यक्तप्रतिषेधः ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२/२८) अञ्चेः नत्वे व्यक्तस्य प्रतिषेधः वक्तव्यः ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-३/२८) व्यक्तम् अनृतम् कथयति इति ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-४/२८) अञ्जिविज्ञानात् सिद्धम् । न एतत् अञ्चेः रूपम् ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-५/२८) अञ्जेः एतत् रूपम् ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-६/२८) अञ्चत्यर्थः वै गम्यते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-७/२८) कः पुनः अञ्चत्यर्थः ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-८/२८) अञ्चतिः प्रकाशने वर्तते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-९/२८) अञ्चितम् गच्छति ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१०/२८) प्रकाशयति आत्मानम् इति गम्यते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-११/२८) न वै लोके अञ्चितम् गच्छति इति प्रकाशनम् गम्यते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१२/२८) किम् तर्हि ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१३/२८) समाधानम् गम्यते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१४/२८) समाहितः भूत्वा गच्छति इति ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१५/२८) एवम् तर्हि अञ्चतेः अङ्कः अङ्कः च प्रकाशनम् ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१६/२८) अङ्किताः गावः इति उच्यते अन्याभ्यः गोभ्यः प्रकाश्यन्ते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१७/२८) अञ्चत्यर्थः इति चेत् अञ्जेः तदर्थत्वात् सिद्धम् । अञ्चत्यर्थः इति चेत् अञ्जिः अपि अञ्चत्यर्थे वर्तते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१८/२८) कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-१९/२८) कथम् अञ्जिः अञ्चत्यर्थे वर्तते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२०/२८) अनेकार्थाः अपि धातवः भवन्ति ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२१/२८) अस्ति पुनः क्व चित् अन्यत्र अपि अञ्जिः अञ्चत्यर्थे वर्तते ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२२/२८) अस्ति इति आह ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२३/२८) अञ्जेः अञ्जनम् अञ्जनम् च प्रकाशनम् ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२४/२८) अङ्क्तेषिणी इति उच्यते यत् तत् सितम् च असितम् च एतत् प्रकाशयति ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२५/२८) तथा अञ्जेः व्यञ्जनम् व्यञ्जनम् च प्रकाशनम् ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२६/२८) यत् तत् स्नेहेन मधुरेण च जडीकृतानाम् इन्द्रियाणाम् स्वस्मिन् आत्मनि व्यवस्थापनम् सः रागः तत् व्यञ्जनम् ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२७/२८) अन्वर्थम् खलु अपि निर्वचनम् ।

(पा-८,२.४८; अकि-३,४०८.११-४०९.२; रो-५,४००-४०१; भा-२८/२८) व्यज्यते अनेन इति व्यञ्जनम् इति

(पा-८,२.५०; अकि-३,४०९.३-६; रो-५,४०१-४०२; भा-१/५) अवाताभिधाने ।

(पा-८,२.५०; अकि-३,४०९.३-६; रो-५,४०१-४०२; भा-२/५) अवाताभिधाने इति वक्तव्यम् ।

(पा-८,२.५०; अकि-३,४०९.३-६; रो-५,४०१-४०२; भा-३/५) इह अपि यथा स्यात् ।

(पा-८,२.५०; अकि-३,४०९.३-६; रो-५,४०१-४०२; भा-४/५) निर्वाणः अग्निः वातेन ।

(पा-८,२.५०; अकि-३,४०९.३-६; रो-५,४०१-४०२; भा-५/५) निर्वाणः प्रदीपः वातेन इति

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-१/११) अनुपसर्गात् इति उच्यते तत्र इदम् न सिध्यति परिकृशम् इति ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-२/११) कृशेः कः एषः विहितः इगुपधात् ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-३/११) न एतत् निष्ठान्तम् ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-४/११) किम् तर्हि कृशः एषः इगुपधात् कः विहितः ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-५/११) स्वरे हि दोषः भवति परिकृशे । न एवम् शक्यम् ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-६/११) इह हि परिकृशः इति स्वरे दोषः स्यात् ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-७/११) अन्तस्थाथघञ्क्ताजबित्रकाणाम् ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-८/११) इति एषः स्वरः प्रसज्येत ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-९/११) पदस्य लोपः विहितः इति मतम् । एवम् तर्हि पदस्य लोपः द्रष्टव्यः ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-१०/११) पर्यागतः कार्श्येन परिकृशः ।

(पा-८,२.५५.१; अकि-३,४०९.७-१६; रो-५,४०२-४०३; भा-११/११) जगती अनूना भवति हि रुचिरा ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-१/८) फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-२/८) फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् कर्तव्यम् ॒ उत्फुल्लः अनृतम् कथयति ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-३/८) अत्यल्पम् इदम् उच्यते उत्पूर्वात् इति ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-४/८) उत्फुल्लसम्फुल्लयोः इति वक्तव्यम् ॒ उत्फुल्लः , सम्फुल्लः ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-५/८) कृशेः कः एषः विहितः इगुपधात् ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-६/८) स्वरे हि दोषः भवति परिकृशे ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-७/८) पदस्य लोपः विहितः इति मतम् ।

(पा-८,२.५५.२; अकि-३,४०९.१७-२४; रो-५,४०३; भा-८/८) जगति अनूना भवति हि रुचिरा ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१/२५) किम् अयम् विधिः आहोस्वित् प्रतिषेधः ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-२/२५) किम् च अतः ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-३/२५) यदि तावत् विधिः नकारग्रहणम् कर्तव्यम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-४/२५) न कर्तव्यम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-५/२५) प्रकृतम् अनुवर्तते ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-६/२५) क्व प्रकृतम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-७/२५) रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-८/२५) तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-९/२५) अथ प्रतिषेधः ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१०/२५) यथा इच्छसि तथा अस्तु ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-११/२५) अस्तु तावत् विधिः ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१२/२५) ननु च उक्तम् नकारग्रहणम् कर्तव्यम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१३/२५) न कर्तव्यम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१४/२५) प्रकृतम् अनुवर्तते ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१५/२५) क्व प्रकृतम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१६/२५) रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१७/२५) तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१८/२५) सम्बन्धम् अनुवर्तिष्यते ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-१९/२५) अथ वा क्रियते न्यासे एव ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-२०/२५) द्विनकारकः निर्देशः ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-२१/२५) नुदविदोन्दत्राघ्राह्रीभ्यः अन्यतरस्याम् न् न ध्याख्यापृ̄मूर्छिमदाम् इति ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-२२/२५) अथ वा पुनः अस्तु प्रतिषेधः ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-२३/२५) ननु च उक्तम् ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति इति ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-२४/२५) न अनर्थकम् ।

(पा-८,२.५६; अकि-३,४१०.१-११; रो-५,४०३-४०४; भा-२५/२५) एतत् एव ज्ञापयति आचार्यः भवति एतस्मात् विधिः इति यत् अयम् ह्रीग्रहणम् करोति

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-१/१३) बहवः इमे विदयः पठ्यन्ते ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-२/१३) तत्र न ज्ञायते कस्य नित्यम् नत्वम् कस्य विभाषा कस्य प्रतिषेधः कस्य इट् इति ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-३/१३) अतः उत्तरम् पठति ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-४/१३) यस्य विदेः श्नशकौ तपरत्वे तनवचने तद् उ वाप्रतिषेधौ ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-५/१३) श्नविकरणस्य विभाषा शविकरणस्य प्रतिषेधः ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-६/१३) श्यविकरणात् नविधिः छिदितुल्यः । श्यन्विकरणात् विदेः नविधिः छिदिना तुल्यः ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-७/१३) लुग्विकरणः वलि पर्यवपन्नः । लुग्विकरणः विदिः वलादौ पर्यवपन्नः ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-८/१३) एष एवार्थः ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-९/१३) ययोः विद्योः श्नशौ उक्तौ तयोः नत्वस्य वानञौ ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-१०/१३) ययोः तु श्यम्̐ल्लुकौ ताभ्याम् छिदिवच् च इट् च इष्यते । अपरः आह ॒ वेत्तेः तु विदितः निष्ठा ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-११/१३) विद्यतेः विन्नः इष्यते ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-१२/१३) विन्त्तेः विन्नः च वित्तः च वित्तः भोगेषु विन्दतेः ।

(पा-८,२.५८; अकि-३,४१०.१२-४११.२; रो-५,४०४-४०५; भा-१३/१३) भित्तम् शकलम्

(पा-८,२.५९; अकि-३,४११.३-८; रो-५,४०५-४०६; भा-१/७) भित्तम् शकलम् इति उच्यते तत्र इदम् न सिध्यति भित्तम् भिन्नम् इति ।

(पा-८,२.५९; अकि-३,४११.३-८; रो-५,४०५-४०६; भा-२/७) न एषः दोषः ।

(पा-८,२.५९; अकि-३,४११.३-८; रो-५,४०५-४०६; भा-३/७) सर्वत्र एव अत्र भिदिः विदारणसामान्ये वर्तते तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(पा-८,२.५९; अकि-३,४११.३-८; रो-५,४०५-४०६; भा-४/७) भिन्नम् किम् भित्तम् इति ।

(पा-८,२.५९; अकि-३,४११.३-८; रो-५,४०५-४०६; भा-५/७) तत्वम् अभिधायकम् चेत् शकलस्य अनर्थकः प्रयोगः स्यात् ।

(पा-८,२.५९; अकि-३,४११.३-८; रो-५,४०५-४०६; भा-६/७) शकलेन च अपि अभिहिते न भवति तत्वम् निगमयामः ।

(पा-८,२.५९; अकि-३,४११.३-८; रो-५,४०५-४०६; भा-७/७) क्विन् प्रत्ययस्य कुः

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-१/१५) प्रत्ययग्रहणम् किमर्थम् न क्विनः कुः इति एव उच्येत ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-२/१५) क्विनः कुः इति इयति उच्यमाने वकारस्य एव कुत्वम् प्रसज्येत ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-३/१५) ननु च लोपे कृते न भविष्यति ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-४/१५) अनवकाशम् कुत्वम् लोपम् बाधेत ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-५/१५) सावकाशम् कुत्वम् ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-६/१५) कः अवकाशः ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-७/१५) अनन्त्यः ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-८/१५) कथम् पुनः सति अन्त्ये अनन्त्यस्य कुत्वम् स्यात् ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-९/१५) आचार्यप्रवृत्तिः ज्ञापयति नान्त्यस्य कुत्वम् भवति इति यत् अयम् क्विनः कुः इति कवर्गनिर्देशम् करोति ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-१०/१५) इतरथा हि तद्गुणम् एव अयम् निर्दिशेत् ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-११/१५) इदम् तर्हि प्रयोजनम् येभ्यः क्विन्प्रत्ययः विधीयते तेषाम् अन्यप्रत्ययान्तानाम् अपि पदान्ते कुत्वम् यथा स्यात् ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-१२/१५) मा नः अस्राक् ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-१३/१५) मा नः अद्राक् ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-१४/१५) क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणम् कृतम् ।

(पा-८,२.६२; अकि-३,४११.९-१८; रो-५,४०७; भा-१५/१५) क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते ।

(पा-८,२.६८; अकि-३,४११.१९-२२; रो-५,४०८; भा-१/३) रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् ।

(पा-८,२.६८; अकि-३,४११.१९-२२; रो-५,४०८; भा-२/३) रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,२.६८; अकि-३,४११.१९-२२; रो-५,४०८; भा-३/३) अहोरूपम् अहोरात्रः अहोरथन्तरम् साम

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-१/१२) असुपि रादेशे उपसर्जनसमासे प्रतिषेधः अलुकि ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-२/१२) असुपि रादेशे उपसर्जनसमासे अलुकि प्रतिषेधः वक्तव्यः ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-३/१२) दीर्घाहा निदाघः इति ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-४/१२) सिद्धम् तु सुपि प्रतिषेधात् । सिद्धम् एतत् ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-५/१२) कथम् ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-६/१२) सुपि प्रतिषेधात् ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-७/१२) प्रसज्य अयम् प्रतिषेधः सुपि न इति ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-८/१२) इह अपि तर्हि न प्राप्नोति ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-९/१२) अहन् ददाति ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-१०/१२) अहन् भुङ्क्ते इति ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-११/१२) लुकि च उक्तम् । किम् उक्तम् ।

(पा-८,२.६९; अकि-३,४१२.१-९; रो-५,४०८-४०९; भा-१२/१२) अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-१/८) छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् ।

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-२/८) छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-३/८) प्रचेतः राजन् ।

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-४/८) प्रचेतर् राजन् ।

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-५/८) अहरादीनाम् पत्यादिषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-६/८) अहर्पतिः अहःपतिः ।

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-७/८) अहर्पुत्रः अहःपुत्रः ।

(पा-८,२.७०; अकि-३,४१२.१०-१५; रो-५,४०९; भा-८/८) गीर्पतिः गीःपतिः

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१/२८) इह कस्मात् न भवति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२/२८) पपिवान् तस्थिवान् इति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-३/२८) सस्य इति वर्तते ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-४/२८) एवम् अपि अत्र प्राप्नोति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-५/२८) लोपे कृते न भविष्यति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-६/२८) अनवकाशम् दत्वम् लोपम् बाधेत ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-७/२८) सावकाशम् दत्वम् ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-८/२८) कः अवकाशः ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-९/२८) पपिवद्भ्याम् पपिवद्भिः इति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१०/२८) अत्र अपि रुः प्राप्नोति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-११/२८) तत् यथा एव रुम् बाधते एवम् लोपम् अपि बाधेत ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१२/२८) न बाधते ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१३/२८) किम् कारणम् ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१४/२८) येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते रौ दत्वम् आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१५/२८) यदि तर्हि सस्य इति वर्तते अनडुद्भ्याम् अनडुद्भिः इति अत्र न प्राप्नोति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१६/२८) वचनात् अनडुहि भविष्यति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१७/२८) यदि एवम् ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१८/२८) अनडुहः दत्वे नकारप्रतिषेधः ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-१९/२८) अनडुहः दत्वे नकारस्य प्रतिषेधः वक्तव्यः ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२०/२८) अनड्वान् ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२१/२८) सिद्धम् तु प्रतिपदविधानात् नुमः । सिद्धम् एतत् ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२२/२८) कथम् ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२३/२८) नुमः प्रतिपदविधानसामर्थ्यात् दत्वम् न भविष्यति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२४/२८) यदि तर्हि यत् यत् अनडुहः प्राप्तम् तत् तत् नुमः प्रतिपदविधानसामर्थ्यात् बाध्यते रुत्वम् अपि न प्राप्नोति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२५/२८) अनड्वान् तत्र इति ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२६/२८) न एषः दोषः ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२७/२८) यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।

(पा-८,२.७२; अकि-३,४१२.१६-४१३.१०; रो-५,४०९-४१०; भा-२८/२८) दत्वम् च प्रति नुमः प्रतिपदविधिः अनर्थकः रोः पुनः निमित्तम् एव

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-१/१५) किमर्थम् इदम् उच्यते न हलि इति एव सिद्धम् ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-२/१५) न सिध्यति ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-३/१५) धातोः इति तत्र वर्तते तत्र रेफवकाराभ्याम् धातुः विशेष्यते ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-४/१५) रेफवकारान्तस्य धातोः इति ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-५/१५) किम् पुनः कारणम् पूर्वस्मिन् योगे रेफवकाराभ्याम् धातुः विशेष्यते ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-६/१५) इह मा भूत् ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-७/१५) अग्निः वायुः इति ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-८/१५) एवम् तर्हि पूर्वस्मिन् योगे यत् धातुग्रहणम् तत् उत्तरत्र निवृत्तम् ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-९/१५) एवम् अपि कुर्कुरः मुर्मुरः इति अत्र अपि प्राप्नोति ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-१०/१५) एवम् तर्हि अनुवर्तते तत्र धातुग्रहणम् न तु रेफवकाराभ्याम् धातुः विशेष्यते ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-११/१५) किम् तर्हि ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-१२/१५) इक् विशेष्यते ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-१३/१५) रेफवकारान्तस्य इकः धातोः इति ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-१४/१५) एवम् अपि कुर्कुरीयति मुर्मुरीयति इति अत्र प्राप्नोति ।

(पा-८,२.७८.१; अकि-३,४१३.११-१९; रो-५,४११; भा-१५/१५) तस्मात् धातुः एव विशेष्यः धातौ च विशेष्यमाणे उपधायाम् च इति वक्तव्यम्

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१/२१) उपधादीर्घत्वे अभ्यासजिव्रिचतुर्णाम् प्रतिषेधः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-२/२१) उपधादीर्घत्वे अभ्यासजिवृइचतुर्णाम् प्रतिषेधः वक्तव्यः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-३/२१) रिर्यतुः रिर्युः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-४/२१) संविव्यतुः संविव्युः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-५/२१) जिव्रः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-६/२१) चतुर्यिता चतुर्यितुम् ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-७/२१) उणादिप्रतिषेधः च । उणादीनाम् च प्रतिषेधः वक्तव्यः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-८/२१) किर्योः गिर्योः इति ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-९/२१) अभ्यासप्रतिषेधः तावत् न वक्तव्यः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१०/२१) हलि इति उच्यते न च अत्र हलादिम् पश्यामः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-११/२१) यणादेशे कृते प्राप्नोति ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१२/२१) स्थानिवद्भावात् न भविष्यति ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१३/२१) प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१४/२१) न एषः अस्ति प्रतिषेधः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१५/२१) उक्तम् एतत् प्रतिषेधे स्वरदिर्घयलोपेषु लोपाजादेशः इति ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१६/२१) जिव्रिप्रतिषेधः च न वक्तव्यः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१७/२१) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१८/२१) चतुर्यिता चतुर्यितुम् इति सुपि न इति वर्तते ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-१९/२१) यदि एवम् गीर्भ्याम् गीर्भिः इति अप्रसिद्धिः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-२०/२१) न सुपः विभक्तिविपरिणामात् गीर्भ्याम् गीर्भिः इति अदोषः ।

(पा-८,२.७८.२; अकि-३,४१३.२०-४१४.७; रो-५,४११-४१२; भा-२१/२१) उणादिप्रतिषेधः वक्तव्यः इति परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१/२८) अदसः अनोस्रेः ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२/२८) अदसः अनोस्रेः इति वक्तव्यम् ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-३/२८) किम् इदम् अनोस्रेः इति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-४/२८) अनोकारस्य असकारस्य अरेफकस्य इति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-५/२८) अनोकारस्य ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-६/२८) अदः अत्र ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-७/२८) असकारस्य ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-८/२८) अदस्यते ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-९/२८) अरेफकस्य ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१०/२८) अदः ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-११/२८) तत् तर्हि वक्तव्यम् ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१२/२८) न वक्तव्यम् ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१३/२८) क्रियते न्यासे एव ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१४/२८) अविभक्तिकः निर्देशः ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१५/२८) अदस् , ओ , इति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१६/२८) ओकारात् परः पतिषेधः पूर्वभूतः ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१७/२८) ततः सकारः ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१८/२८) ततः रेफः इति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-१९/२८) अथ वा न एवम् विज्ञायते अदसः असकारस्य इति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२०/२८) कथम् तर्हि ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२१/२८) अकारः अस्य सकारस्य सः अयम् असिः असेः इति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२२/२८) यदि एवम् अमुमुयङ् इति न सिध्यति अदद्र्यङ् इति प्राप्नोति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२३/२८) अदमुयङ् इति भवितव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२४/२८) अदसः अद्रेः पृथक् मुत्वम् केचित् इच्छन्ति लत्ववत् ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२५/२८) केचित् अन्त्यसदेशस्य ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२६/२८) न इति एके ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२७/२८) असेः हि दृश्यते ।

(पा-८,२.८०.१; अकि-३,४१४.८-१९; रो-५,४१२-४१३; भा-२८/२८) ।

(पा-८,२.८०.२; अकि-३,४१४.२०-२४; रो-५,४१३; भा-१/७) तत्र पदाधिकारात् अपदान्तस्य अप्राप्तिः ।

(पा-८,२.८०.२; अकि-३,४१४.२०-२४; रो-५,४१३; भा-२/७) तत्र पदाधिकारात् अपदान्तस्य न प्राप्नोति ।

(पा-८,२.८०.२; अकि-३,४१४.२०-२४; रो-५,४१३; भा-३/७) अमुया अमुयोः इति ।

(पा-८,२.८०.२; अकि-३,४१४.२०-२४; रो-५,४१३; भा-४/७) सिद्धम् तु सकारप्रतिषेधात् । सिद्धम् एतत् ।

(पा-८,२.८०.२; अकि-३,४१४.२०-२४; रो-५,४१३; भा-५/७) कथम् ।

(पा-८,२.८०.२; अकि-३,४१४.२०-२४; रो-५,४१३; भा-६/७) सकारप्रतिषेधात् ।

(पा-८,२.८०.२; अकि-३,४१४.२०-२४; रो-५,४१३; भा-७/७) यत् अयम् असेः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अपदान्तस्य अपि भवति इति

(पा-८,२.८०.३; अकि-३,४१५.१-४; रो-५,४१४; भा-१/५) अथ दाद्ग्रहणम् किमर्थम् ।

(पा-८,२.८०.३; अकि-३,४१५.१-४; रो-५,४१४; भा-२/५) दाद्ग्रहणम् अन्त्यप्रतिषेधार्थम् ।

(पा-८,२.८०.३; अकि-३,४१५.१-४; रो-५,४१४; भा-३/५) दाद्ग्रहणम् क्रियते अन्त्यप्रतिषेधार्थम् ।

(पा-८,२.८०.३; अकि-३,४१५.१-४; रो-५,४१४; भा-४/५) अलः अन्त्यस्य मा भूत् इति ।

(पा-८,२.८०.३; अकि-३,४१५.१-४; रो-५,४१४; भा-५/५) अमुया अमुयोः इति

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-१/१२) ईत्त्वम् बहुवचनान्तस्य ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-२/१२) ईत्त्वम् बहुवचनान्तस्य इति वक्तव्यम् ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-३/१२) बहुवचने इति इयति उच्यमाने इह एव स्यात् ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-४/१२) अमीभिः अमीषु. इह न स्यात् ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-५/१२) अमी अत्र ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-६/१२) अमी आसते ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-७/१२) तत् तर्हि वक्तव्यम् ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-८/१२) न वक्तव्यम् ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-९/१२) न इदम् पारिभाषिकस्य बहुवचनस्य ग्रहणम् ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-१०/१२) किम् तर्हि ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-११/१२) अन्वर्थग्रहणम् एतत् ।

(पा-८,२.८१; अकि-३,४१५.५-१०; रो-५,४१४; भा-१२/१२) बहूनाम् अर्थानाम् वचनम् बहुवचनम् बहुवचने इति

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१/२२) वाक्याधिकारः किमर्थः ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-२/२२) वाक्याधिकारः पदनिवृत्त्यर्थः ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-३/२२) वाक्याधिकारः क्रियते पदनिवृत्त्यर्थः ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-४/२२) पदाधिकारः निवर्त्यते ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-५/२२) न हि काकः वाश्यते इति अधिकाराः निवर्तन्ते ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-६/२२) दोषः खलु अपि स्यात् यदि वाक्याधिकारः पदाधिकारम् निवर्तयेत् ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-७/२२) इष्यन्ते एव उत्तरत्र पदकार्याणि तानि न सिध्यन्ति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-८/२२) नश्छव्यप्रशान् इति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-९/२२) पदनिवृत्त्यर्थम् इति न एवम् विज्ञायते पदस्य निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१०/२२) किम् तर्हि. पदे निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-११/२२) वाक्ये यावन्ति पदानि तेषाम् सर्वेषाम् टेः प्लुतः प्राप्नोति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१२/२२) इष्यते च वाक्यपदयोः अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थः वाक्याधिकारः ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१३/२२) अथ टिग्रहणम् किमर्थम् ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१४/२२) टिग्रहणम् अलः अन्त्यनियमे व्यञ्जनान्तार्थम् । टिग्रहणम् क्रियते अलः अन्त्यनियमे व्यञ्जनान्तस्य अपि यथा स्यात् ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१५/२२) अग्निचि३त् सोमसु३त् ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१६/२२) अस्ति प्रयोजनम् एतत् ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१७/२२) किम् तर्हि इति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१८/२२) सर्वादेशप्रसङ्गः तु । सर्वादेशः तु टेः प्लुतः प्राप्नोति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-१९/२२) किम् कारणम् ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-२०/२२) अचः इति वचनात् अन्त्यस्य न अन्त्यस्य इति वचनात् अचः न उच्यते च प्लुतः सः सर्वादेशः प्राप्नोति ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-२१/२२) उक्तम् वा । किम् उक्तम् ।

(पा-८,२.८२; अकि-३,४१५.११-४१६.६; रो-५,४१४-४१६; भा-२२/२२) ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-१/१४) अशूद्रे इति किमर्थम् ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-२/१४) कुशली असि तुषजक ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-३/१४) अत्यल्पम् इदम् उच्यते ॒ असूद्रे इति ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-४/१४) अशूद्रस्त्र्यसूयकेषु । अशूद्रस्त्र्यसूयकेषु इति वक्तव्यम् ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-५/१४) तत्र शूद्रे उदाहृतम् ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-६/१४) स्त्रियाम् ॒ गार्गी अहम् , भोः आयुष्मती भव गार्गि ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-७/१४) असूयके ॒ स्थाली अहम् , भोः आयुष्मान् एधि स्थालि३न् ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-८/१४) न एषा मम सञ्ज्ञा स्थाली इति ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-९/१४) किम् तर्हि दण्डिन्यायः मम विवक्षितः ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-१०/१४) सः वक्तव्यः ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-११/१४) स्थाली अहम् भोः आयुष्मान् एधि स्थालिन् ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-१२/१४) न मम दण्डिन्यायः विवक्षितः ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-१३/१४) किम् तर्हि सञ्ज्ञा मम एषा ।

(पा-८,२.८३.१; अकि-३,४१६.७-१५; रो-५,४१६-४१७; भा-१४/१४) असूयकः त्वम् असि जाल्म न त्वम् प्रत्यभिवादम् अर्हसि भिद्यस्व वृषल स्थालिन्

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-१/१६) भोराजन्यविशाम् वा ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-२/१६) भोराजन्यविशाम् वा इति वक्तव्यम् ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-३/१६) देवदत्तः अहम् भोः आयुष्मान् एधि देवदत्त भो३ः ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-४/१६) देवदत्त भोः ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-५/१६) भोः ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-६/१६) राजन्य ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-७/१६) इन्द्रवर्मा अहम् भोः आयुष्मान् एधि इन्द्रवर्म३न् ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-८/१६) इन्द्रवर्मन् ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-९/१६) राजन्य ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-१०/१६) विट् ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-११/१६) इन्द्रपालितः अहम् भोः आयुष्मान् एधि इन्द्रपालित३ ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-१२/१६) इन्द्रपालित ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-१३/१६) अपरः आह ॒ ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-१४/१६) सर्वस्य एव नाम्नः प्रत्यभिवादे भोःशब्दः आदेशः वक्तव्यः ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-१५/१६) देवदत्तः अहम् भोः आयुष्मान् एधि भो३ः ।

(पा-८,२.८३.२; अकि-३,४१६.१६-२२; रो-५,४१७; भा-१६/१६) आयुष्मान् एधि देवदत्त३ इति वा

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१/१८) इह कस्मात् न भवति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-२/१८) देवदत्त कुशली असि इति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-३/१८) इह किम् चित् उच्यते किम् चित् प्रत्युच्यते ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-४/१८) अप्रधानम् उच्यते प्रधानम् प्रत्युच्यते ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-५/१८) तत्र प्रधानस्थस्य टिसञ्ज्ञकस्य प्लुत्या भवितव्यम् न च अत्र प्रधानस्थम् टिसञ्ज्ञम् ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-६/१८) इह अपि तर्हि न प्राप्नोति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-७/१८) आधेयः अग्नि३ः न आधेय३ः इति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-८/१८) न एतत् विचार्यते आधेयः न आधेयः अग्निः चेत् भवति इति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-९/१८) किम् तर्हि ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१०/१८) इह अग्निसाधना क्रिया विचार्यते आधेयः अग्निः न आधेयः इति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-११/१८) यदि एवम् द्वितीयः अग्निशब्दस्य प्रयोगः प्राप्नोति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१२/१८) उक्तार्थानाम् अप्रयोगः इति न भविष्यति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१३/१८) यदि एवम् आधेयशब्दस्य अपि तर्हि द्वितीयस्य प्रयोगः न प्राप्नोति उक्तार्थानाम् अप्रयोगः नाम भवति इति ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१४/१८) न एषः दोषः ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१५/१८) उक्तार्थानाम् अपि प्रयोगः दृश्यते ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१६/१८) तत् यथा ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१७/१८) अपूपौ द्वौ आनय ।

(पा-८,२.८३.३; अकि-३,४१६.२३-४१७.५; रो-५,४१७-४१८; भा-१८/१८) ब्राह्मणौ द्वौ आनय इति

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-१/१४) दूरात् हूते इति उच्यते दूरशब्दः च अयम् अनवस्थितपदार्थकः ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-२/१४) तत् एव हि कम् चित् प्रति दूरम् कम् चित् प्रति अन्तिकम् भवति ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-३/१४) एवम् हि कः चित् कम् चित् आह ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-४/१४) एषः पार्श्वतः करकः तम् आनय इति ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-५/१४) सः आह ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-६/१४) उत्थाय गृहाण दूरम् न शक्ष्यामि इति ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-७/१४) अपरः आह ॒ दूरम् मथुरायाः पाटलिपुत्रम् इति ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-८/१४) सः आह ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-९/१४) न दूरम् इदम् अन्तिकम् इति ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-१०/१४) एवम् एषः दूरशब्दः अनवस्थितपदार्थकः तस्य अनवस्थितपदार्थकत्वात् न ज्ञायते कस्याम् अवस्थायाम् प्लुत्या भवितव्यम् इति ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-११/१४) एवम् तर्हि ह्वयतिना अयम् निर्देशः क्रियते ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-१२/१४) ह्वयतिप्रसङ्गे यत् दूरम् ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-१३/१४) किम् पुनः तत् ।

(पा-८,२.८४; अकि-३,४१७.६-१४; रो-५,४१९; भा-१४/१४) तत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेषे उपादीयमाने सन्देहः भवति श्रोष्यति न श्रोष्यति इति तत् दूरम् इह अवगम्यते

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-१/१४) हैहेग्रहणम् किमर्थम् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-२/१४) हैहेप्रयोगे हैहेग्रहणम् हैहयोः प्लुत्यर्थम् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-३/१४) हैहेप्रयोगे ःैहेग्रहणम् क्रियते हैहयोः प्लुतिः यथा स्यात् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-४/१४) देवदत्त है३ ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-५/१४) देवदत्त हे३ ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-६/१४) अक्रियमाणे हि हैहेग्रहणे तयोः प्रयोगे अन्यस्य स्यात् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-७/१४) अथ प्रयोगग्रहणम् किमर्थम् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-८/१४) प्रयोगग्रहणम् अर्थवद्ग्रहणे अनर्थकार्थम् । प्रयोगग्रहणम् क्रियते अर्थवद्ग्रहणे अनर्थकयोः अपि यथा स्यात् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-९/१४) देवदत्त है३ ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-१०/१४) देवदत्त हे३ ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-११/१४) अथ पुनः हैहेग्रहणम् किमर्थम् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-१२/१४) पुनः हैहेग्रहणम् अनन्त्यार्थम् । पुनः हैहेग्रहणम् क्रियते अनन्त्ययोः अपि यथा स्यात् ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-१३/१४) है३ देवदत्त ।

(पा-८,२.८५; अकि-३,४१७.१५-२४; रो-५,४१९-४२०; भा-१४/१४) हे३ देवदत्त इति

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-१/१५) गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतप्रसङ्गः अन्येन विहितत्वात् ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-२/१५) गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतः प्राप्नोति ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-३/१५) दे३वदत्त ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-४/१५) किम् कारणम् ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-५/१५) अन्येन विहितत्वात् ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-६/१५) अन्येन हि लक्षणेन लघोः अन्त्यस्य प्लुतः विधीयते दूराद्धूतेच इति ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-७/१५) न वा अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् । न वा एषः दोषः ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-८/१५) किम् कारणम् ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-९/१५) अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् भविष्यति ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-१०/१५) अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-११/१५) ननु च एतत् गुर्वपेक्षम् स्यात् ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-१२/१५) अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि गुरोः इति ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-१३/१५) न इति आह ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-१४/१५) द्व्यपेक्षम् एतत् ।

(पा-८,२.८६.१; अकि-३,४१८.१-१०; रो-५,४२०-४२१; भा-१५/१५) अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१/२८) अथ प्राग्वचनम् किमर्थम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२/२८) प्राग्वचनम् विभाषार्थम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-३/२८) प्राग्वचनम् क्रियते विभाषा यथा स्यात् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-४/२८) प्राग्वचनानर्थक्यम् च एकैकस्य इति वचनात् । प्राग्वचनम् अनर्थकम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-५/२८) किम् कारणम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-६/२८) एकैकस्य इति वचनात् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-७/२८) एकैकग्रहणम् क्रियते तत् विभाषार्थम् भविष्यति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-८/२८) अस्ति अन्यत् एकैकग्रहणस्य प्रयोजनम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-९/२८) किम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१०/२८) युगपत् प्लुतः मा भूत् इति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-११/२८) अनुदात्तम् पदम् एकवर्जम् इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१२/२८) असिद्धः प्लुतः तस्य असिद्धत्वात् नियमः न प्राप्नोति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१३/२८) न एषः दोषः ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१४/२८) यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१५/२८) कथम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१६/२८) कार्यकालम् सञ्ज्ञापरिभाषम् इति यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१७/२८) गुरोः अनृतः अनन्त्यस्य अपि एकैकस्य प्राचाम् ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१८/२८) उपस्थितम् इदम् भवति अनुदात्तम्पदमेकवर्जम् इति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-१९/२८) इह अपि तर्हि समावेशः न प्राप्नोति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२०/२८) देवदत्त३ ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२१/२८) सिद्धासिद्धौ एतौ ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२२/२८) यौ हि सिद्धौ एव असिद्धौ एव वा तयोः नियमः ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२३/२८) यः तर्हि स्वरितप्लुतः तेन समावेशः प्राप्नोति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२४/२८) स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु इति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२५/२८) स्वरिते अपि उदात्तः अस्ति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२६/२८) यः तर्हि अनुदात्तप्लुतः तेन समावेशः प्राप्नोति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२७/२८) अनुदात्तम्प्रश्नान्ताभिपूजितयोः इति ।

(पा-८,२.८६.२; अकि-३,४१८.१०-२४; रो-५,४२१-४२२; भा-२८/२८) तस्मात् प्राग्वचनम् कर्तव्यम्

(पा-८,२.८८; अकि-३,४१९.१-५; रो-५,४२२; भा-१/७) ये यज्ञकर्मणि इति अतिप्रसङ्गः ।

(पा-८,२.८८; अकि-३,४१९.१-५; रो-५,४२२; भा-२/७) ये यज्ञकर्मणि इति अतिप्रसङ्गः भवति ।

(पा-८,२.८८; अकि-३,४१९.१-५; रो-५,४२२; भा-३/७) इह अपि प्राप्नोति ।

(पा-८,२.८८; अकि-३,४१९.१-५; रो-५,४२२; भा-४/७) ये देवासः दिव्येकादश स्थ इति ।

(पा-८,२.८८; अकि-३,४१९.१-५; रो-५,४२२; भा-५/७) सिद्धम् तु ये यजामहे इति ब्रूह्यादिषु उपसङ्ख्यानात् । सिद्धम् एतत् ।

(पा-८,२.८८; अकि-३,४१९.१-५; रो-५,४२२; भा-६/७) कथम् ।

(पा-८,२.८८; अकि-३,४१९.१-५; रो-५,४२२; भा-७/७) येयजामहेशब्दः ब्रूह्यादिषु उपसङ्ख्येयः

(पा-८,२.८९; अकि-३,४१९.६-९; रो-५,४२३; भा-१/६) प्रणवः इति उच्यते कः प्रणवः नाम ।

(पा-८,२.८९; अकि-३,४१९.६-९; रो-५,४२३; भा-२/६) पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रम् ओङ्कारम् त्रिमात्रम् ओकारम् वा विदधति तम् प्रणवः इति आचक्षते ।

(पा-८,२.८९; अकि-३,४१९.६-९; रो-५,४२३; भा-३/६) अथ टिग्रहणम् किमर्थम् ।

(पा-८,२.८९; अकि-३,४१९.६-९; रो-५,४२३; भा-४/६) टिग्रहणम् सर्वादेशार्थम् ।

(पा-८,२.८९; अकि-३,४१९.६-९; रो-५,४२३; भा-५/६) यदा ओकारः तदा सर्वादेशः यथा स्यात् ।

(पा-८,२.८९; अकि-३,४१९.६-९; रो-५,४२३; भा-६/६) यदा ओङ्कारः तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति

(पा-८,२.९०; अकि-३,५१९.१३-१६; रो-५,४२४; भा-१/३) अन्तग्रहणम् किमर्थम् ।

(पा-८,२.९०; अकि-३,५१९.१३-१६; रो-५,४२४; भा-२/३) याज्या नाम ऋचः वाक्यसमुदायः तत्र यावन्ति वाक्यानि सर्वेषाम् टेः प्लुतः प्राप्नोति ।

(पा-८,२.९०; अकि-३,५१९.१३-१६; रो-५,४२४; भा-३/३) इष्यते च अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अन्तग्रहणम्

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-१/१२) अग्नीत्प्रेषणे इति अतिप्रसङ्गः ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-२/१२) अग्नीत्प्रेषणे इति अतिप्रसङ्गः भवति ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-३/१२) इह अपि प्राप्नोति ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-४/१२) अग्नीदग्नीन्विहर ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-५/१२) सिद्धम् तु ओश्रावये परस्य च इति वचनात् । सिद्धम् एतत् ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-६/१२) कथम् ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-७/१२) ओश्रावये परस्य इति वक्तव्यम् ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-८/१२) ओ३ श्रा३वय ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-९/१२) आ३ श्रा३वय ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-१०/१२) अपरः आह ॒ ओश्रावयाश्रावययोः इति वक्तव्यम् ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-११/१२) ओ३ श्रा३वय ।

(पा-८,२.९२.१; अकि-३,४१९.१७-४२०.४; रो-५,४२४; भा-१२/१२) अ३ श्र३वय

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-१/१०) बहुलम् अन्यत्र इति वक्तव्यम् ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-२/१०) उद्धर३ उद्धर ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-३/१०) आहर३ आहर ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-४/१०) तत् तर्हि वक्तव्यम् ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-५/१०) न वक्तव्यम् ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-६/१०) योगविभागः करिष्यते ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-७/१०) अग्नीत्प्रेषणे परस्य च विभाषा ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-८/१०) ततः पृष्ठप्रतिवचने हेः ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-९/१०) विभाषा इति एव ।

(पा-८,२.९२.२; अकि-३,४२०.५-८; रो-५,४२४-४२५; भा-१०/१०) अपरः आह ॒ सर्वः एव प्लुतः साहसम् अनिच्छता विभाषा वक्तव्यः

(पा-८,२.९५; अकि-३,४२०.९-१२; रो-५,४२५; भा-१/६) भर्त्सने पर्यायेण ।

(पा-८,२.९५; अकि-३,४२०.९-१२; रो-५,४२५; भा-२/६) भर्त्सने पर्यायेण इति वक्तव्यम् ।

(पा-८,२.९५; अकि-३,४२०.९-१२; रो-५,४२५; भा-३/६) चौर३ चौर ।

(पा-८,२.९५; अकि-३,४२०.९-१२; रो-५,४२५; भा-४/६) चौर चौर३ ।

(पा-८,२.९५; अकि-३,४२०.९-१२; रो-५,४२५; भा-५/६) कुशील३ कुशील ।

(पा-८,२.९५; अकि-३,४२०.९-१२; रो-५,४२५; भा-६/६) कुशील कुशील३

(पा-८,२.१०३; अकि-३,४२०.१३-१६; रो-५,४२५; भा-१/६) असूयादिषु वावचनम् ।

(पा-८,२.१०३; अकि-३,४२०.१३-१६; रो-५,४२५; भा-२/६) असूयादिषु वा इति वक्तव्यम् ।

(पा-८,२.१०३; अकि-३,४२०.१३-१६; रो-५,४२५; भा-३/६) कन्ये३ कन्ये ।

(पा-८,२.१०३; अकि-३,४२०.१३-१६; रो-५,४२५; भा-४/६) कन्ये कन्ये ।

(पा-८,२.१०३; अकि-३,४२०.१३-१६; रो-५,४२५; भा-५/६) शक्तिके३ शक्तिके ।

(पा-८,२.१०३; अकि-३,४२०.१३-१६; रो-५,४२५; भा-६/६) शक्तिके शक्तिके

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१/२७) किमर्थम् इदम् उच्यते ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२/२७) ऐचोः उभयविवृद्धिप्रसङ्गात् इदुतोः प्लुतवचनम् ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-३/२७) ऐचोः उभयविऋद्धिप्रसङ्गात् इदुतोः प्लुतः उच्यते ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-४/२७) किम् उच्यते उभयविवृद्धिप्रसङ्गात् इति यदा नित्याः शब्दाः नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-५/२७) न एषः दोषः ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-६/२७) उभयविवृद्धिप्रसङ्गात् इति न एवम् विज्ञायते उभयोः विवृद्धिः उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-७/२७) कथम् तर्हि ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-८/२७) उभयोः विवृद्धिः अस्मिन् सः अयम् उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-९/२७) इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः इति तयोः प्लुतः उच्यमाने उभयविवृद्धिः प्राप्नोति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१०/२७) तत् यथा ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-११/२७) अभिवर्धमानः गर्भः सर्वाङ्गपरिपूर्णः वर्धते ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१२/२७) अस्ति प्रयोजनम् एतत् ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१३/२७) किम् तर्हि इति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१४/२७) तत्र अयथेष्टप्रसङ्गः । तत्र अयथेष्टम् प्रसज्येत ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१५/२७) चतुर्मात्रः प्लुतः प्राप्नोति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१६/२७) सिद्धम् तु इदुतोः दीर्घवचनात् । सिद्धम् एतत् ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१७/२७) कथम् ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१८/२७) इदुतोः दीर्घः भवति इति वक्तव्यम् ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-१९/२७) तत् एतत् कथम् कृत्वा सिद्धम् भवति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२०/२७) यदि समः प्रविभागः मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२१/२७) अथ हि अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः अर्धतृतीयमात्रः प्राप्नोति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२२/२७) अथ हि अध्यर्धमात्रा अवर्णस्य अर्धमात्रा इवर्णोवर्णयोः अर्धचतुर्थमात्रः प्राप्नोति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२३/२७) सूत्रम् च भिद्यते ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२४/२७) यथान्यासम् एव अस्तु ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२५/२७) ननु च उक्तम् तत्र अयथेष्टप्रसङ्गः इति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२६/२७) तत्र सौर्यभगवता उक्तम् अनिष्टिज्ञः वाडवः पठति ।

(पा-८,२.१०६; अकि-३,४२०.१७-४२१.१४; रो-५,४२६-४२७; भा-२७/२७) इष्यते एव चतुर्मात्रः प्लुतः

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१/२१) एचः प्लुतविकारे पदान्तग्रहणम् । एचः प्लुतविकारे पदान्तग्रहणम् कर्तव्यम् इह मा भूत् ॒ भद्रम् करोषि गौ३ः इति ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-२/२१) विषयपरिगणनम् च ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-३/२१) विषयपरिगणनम् च कर्तव्यम् ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-४/२१) प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेषु इति वक्तव्यम् ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-५/२१) प्रश्नान्त ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-६/२१) अगम३ः पूर्व३न् ग्राम३न् अग्निभूत३इ ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-७/२१) पट३उ ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-८/२१) प्रश्नान्त ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-९/२१) अभिपूजित ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१०/२१) सिद्धः असि माणवक अग्निभूत३इ ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-११/२१) पट३उ ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१२/२१) अभिपूजित ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१३/२१) विचार्यमाण ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१४/२१) होतव्यम् दीक्षितस्य गृह३इ ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१५/२१) विचार्यमाण ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१६/२१) प्रत्यभिवाद ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१७/२१) आयुष्मान् एधि अग्निभूत३इ ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१८/२१) प्रत्यभिवाद ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-१९/२१) याज्यान्त ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-२०/२१) उक्षन्नाय वशन्नाय सोमपृष्ठाय वेधसे ।

(पा-८,२.१०७.१; अकि-३,४२१.१५-४२२.२; रो-५,४२७-४२८; भा-२१/२१) स्तोमैः विधेम अग्नय३इ

(पा-८,२.१०७.२; अकि-३,४२२.३-५; रो-५,४२८; भा-१/३) आमन्त्रिते छन्दसि उपसङ्ख्यानम् ।

(पा-८,२.१०७.२; अकि-३,४२२.३-५; रो-५,४२८; भा-२/३) आमन्त्रिते छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,२.१०७.२; अकि-३,४२२.३-५; रो-५,४२८; भा-३/३) अग्न३इ पत्नीव३ः सजुः देवेन त्वष्ट्रा सोमम् पिब

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-१/९) अथ कयोः इमौ य्वौ उच्येते ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-२/९) इदुतोः इति आह ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-३/९) तत् इदुतोः ग्रहणम् कर्तव्यम् ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-४/९) न कर्तव्यम् ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-५/९) प्र्कृतम् अनुवर्तते ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-६/९) क्व प्रकृतम् ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-७/९) पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ इति ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-८/९) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-८,२.१०८.१; अकि-३,४२२.६-१०; रो-५,४२८-४२९; भा-९/९) अचि इति एषा सप्तमी इदुतौ इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन्नितिनिर्दिष्टेपूर्वस्य इति

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१/३१) किमर्थम् इदम् उच्यते न इकः यण् अचि इति एव सिद्धम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२/३१) न सिध्यति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-३/३१) असिद्धः प्लुतः प्लुतविकारौ च इमौ ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-४/३१) सिद्धः प्लुतः स्वरसन्धिषु ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-५/३१) कथम् ज्ञायते ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-६/३१) यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-७/३१) कथम् कृत्वा ज्ञापकम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-८/३१) सतः हि कार्यिणः कार्येण भवितव्यम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-९/३१) इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१०/३१) दीर्घत्वम् शाकलम् च मा भूत् इति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-११/३१) अग्ना३यिन्द्रम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१२/३१) पटा३वुदकम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१३/३१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१४/३१) आरभ्यते प्लुतपूर्वस्य यणादेशः प्लुतपुर्वस्य दीर्घशाकलप्रतिषेधार्थम् इति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१५/३१) तत् न वक्तव्यम् भवति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१६/३१) अवश्यम् तत् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१७/३१) भो३यिन्द्र ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१८/३१) भो३यिह इति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-१९/३१) यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२०/३१) इदम् अपि अवश्यम् वक्तव्यम् स्वरार्थम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२१/३१) तेन हि सति उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य इति एषः स्वरः प्रसज्येत ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२२/३१) अनेन पुनः सति असिद्धत्वात् न भविष्यति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२३/३१) यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् तत् न वक्तव्यम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२४/३१) ननु च उक्तम् तत् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् भो३यिन्द्र भो३यिह इति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२५/३१) छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२६/३१) यत् तर्हि न छान्दसम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२७/३१) भो३यिन्द्रम् साम गायति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२८/३१) एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः इति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-२९/३१) किम् नु यणा भवति इह न सिद्धम् य्वौ इदुतोः यत् अयम् विदधाति ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-३०/३१) तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ।१. इक् तु यदा भवति प्लुतपूर्वः तस्य यणम् विदधाति अपवादम् ।

(पा-८,२.१०८.२; अकि-३,४२२.११-४२३.४; रो-५,४२९-४३०; भा-३१/३१) तेन तयोः च न शाकलदीर्घौ यण्स्वरबाधनम् एव तु हेतुः