व्याकरणमहाभाष्य खण्ड 85

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-८,३.१.१; अकि-३,४२४.१-६; रो-५,४३१; भा-१/७) मतुवसः रादेशे वनः उपसङ्ख्यानम् ।

(पा-८,३.१.१; अकि-३,४२४.१-६; रो-५,४३१; भा-२/७) मतुवसः रादेशे वनः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,३.१.१; अकि-३,४२४.१-६; रो-५,४३१; भा-३/७) यः त्वा आयन्तम् वसुना प्रातरित्वः ।

(पा-८,३.१.१; अकि-३,४२४.१-६; रो-५,४३१; भा-४/७) इभाषा भवद्भगवदघवताम् ओत् च अवस्य । छन्दसि भाषायाम् च भवत् भगवत् अघवत् इति एतेषाम् विभाषा रुः वक्तव्यः ओत् च अवस्य वक्तव्यः ।

(पा-८,३.१.१; अकि-३,४२४.१-६; रो-५,४३१; भा-५/७) भोः , भवन् ।

(पा-८,३.१.१; अकि-३,४२४.१-६; रो-५,४३१; भा-६/७) भगोः , भगवन् ।

(पा-८,३.१.१; अकि-३,४२४.१-६; रो-५,४३१; भा-७/७) अघोः , अघवन् इति

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-१/८) सम्बुद्धौ इति उच्यते तत्र इदम् न सिध्यति ।

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-२/८) भोः ब्राह्मणाः इति ।

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-३/८) तथा विभक्तौ लिङ्गविशिष्टग्रहणम् न इति इह न प्राप्नोति ।

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-४/८) भोः ब्राह्मणि ।

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-५/८) न एषः दोषः ।

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-६/८) अव्ययम् एषः भोःशब्दः न एषा भवतः प्रवृत्तिः ।

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-७/८) कथम् अव्ययत्वम् ।

(पा-८,३.१.२; अकि-३,४२४.६-१०; रो-५,४३१-४३२; भा-८/८) विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा निपातः अव्ययम् इति अव्ययसञ्ज्ञा

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१/२१) सम्पुङ्कानाम् सत्वम् ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-२/२१) सम्पुङ्कानाम् सत्वम् वक्तव्यम् ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-३/२१) संस्कर्ता पुंस्कामा कांस् कान् इति ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-४/२१) रुविधौ हि अनिष्टप्रसङ्गः । रुविधौ हि सति अनिष्टम् प्रसज्येत ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-५/२१) इह तावत् संस्कर्ता इति वा शरि इति प्रसज्येत ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-६/२१) पुंस्कामा इति इदुदुपधस्य इति षत्वम् प्रसज्येत ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-७/२१) कांस् कान् इति कुप्वोः ह्कः प्रसज्येत ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-८/२१) तत् तर्हि वक्तव्यम् ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-९/२१) न वक्तव्यम् ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१०/२१) क्रियते न्यासे एव ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-११/२१) समः सुटि इति द्विसकारकः निर्देशः ॒ समः सुटि सकारः भवति ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१२/२१) तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१३/२१) यदि तत् अनुवर्तते नश्छव्यप्रशान् इति अत्र अपि प्राप्नोति ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१४/२१) सम्बन्धम् अनुवर्तिष्यते ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१५/२१) समःसुटि ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१६/२१) पुमः खयि अम्परे सः भवति ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१७/२१) नः छवि अप्रशान् रुः भवति पुमः खयि अम्परे सकारः ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१८/२१) उभयथर्क्षु दीर्घादटिसमानपादे नृ̄न्पे स्वतवान्पायौ रुः भवति पुमः खयि अम्परे सकारः ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-१९/२१) कान् आम्रेडिते सकारः ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-२०/२१) पुमः खयि अम्परे इति निवृत्तम् ।

(पा-८,३.५-६, १२; अकि-३,४२४.११-४१६.८; रो-५,४३२-४३४; भा-२१/२१) समः वा लोपम् एके इच्छन्ति ॒ संस्कर्ता सम्̐स्कर्ता

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१/२२) ढलोपे अपदान्तग्रहणम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-२/२२) ढलोपे अपदान्तग्रहणम् कर्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-३/२२) इह मा भूत् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-४/२२) श्वलिट् ढौकते ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-५/२२) गुडलिट् ढौकते ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-६/२२) तत् तर्हि वक्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-७/२२) न वक्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-८/२२) जश्त्वम् अत्र बाधकम् भविष्यति ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-९/२२) जश्भावात् इति चेत् उत्तरत्र ढस्य अभावात् अपवादप्रसङ्गः । जश्भावात् इति चेत् उत्तरत्र ढकारस्य अभावात् असिद्धत्वात् अपवादः अयम् विज्ञायते ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१०/२२) कस्य ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-११/२२) जश्त्वस्य ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१२/२२) तस्मात् सिद्धवचनम् । तस्मात् सिद्धत्वम् वक्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१३/२२) कस्य ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१४/२२) ष्टुत्वस्य ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१५/२२) सङ्ग्रहणम् वा । सङ्ग्रहणम् वा कर्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१६/२२) सङि ढः इति वक्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१७/२२) तत्तर्हि वक्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१८/२२) न वक्तव्यम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-१९/२२) आनन्तर्यम् इह आश्रीयते ढकारस्य ढकारे इति ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-२०/२२) क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-२१/२२) ष्टुत्वे सन्निपातकृतम् आनन्तर्यम् जश्त्वे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।

(पा-८,३.१३; अकि-३,४२५.९-२३; रो-५,४३४-४३५; भा-२२/२२) यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१/२९) विसर्जनीयः अनुत्तरपदे ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२/२९) विसर्जनीयः अनुत्तरपदे इति वक्तव्यम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-३/२९) इह मा भूत् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-४/२९) नार्कुटः नार्पत्यः इति ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-५/२९) न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-६/२९) किम् कारणम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-७/२९) बहिरङलक्षणत्वात् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-८/२९) बहिरङ्गः रेफः ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-९/२९) अन्तरङ्गः विसर्जनीयः ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१०/२९) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-११/२९) न एषः युक्तः परिहारः ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१२/२९) अन्तरङ्गम् बहिरङ्गम् इति प्रतिद्वन्द्वभाविनौ एतौ पक्षौ ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१३/२९) सति अन्तरङ्गे बहिरङ्गम् सति बहिरङ्गे अन्तर्गम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१४/२९) न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१५/२९) किम् कारणम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१६/२९) असिद्धत्वात् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१७/२९) न च अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१८/२९) तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-१९/२९) अनिमित्तम् बहिरङ्गम् अन्तरङ्गस्य ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२०/२९) किम् कारणम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२१/२९) असिद्धत्वात् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२२/२९) कथम् असिद्धत्वम् यावता पूर्वत्र असिद्धम् इति असिद्धा परिभाषा ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२३/२९) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२४/२९) कथम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२५/२९) कार्यकालम् सञ्ज्ञापरिभाषम् इति खरवसानयोर्विसर्जनीयः उपस्थितम् इदम् भवति असिद्धम् बहिरङ्गम् अन्तरङ्गे इति ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२६/२९) एवम् एषा सिद्धा परिभाषा भवति ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२७/२९) कुतः नु खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्र असिद्धम् इति च असिद्धम् बहिरङ्गम् अन्तरङ्गे इति च पूर्वत्रासिद्धम् इति एताम् उपमृद्य असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एतया व्यवस्था भविष्यति न पुनः असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एताम् उपमृद्य पुर्वत्रासिद्धम् इति एतया व्यवस्था स्यात् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२८/२९) अतः किम् ।

(पा-८,३.१५; अकि-३,४२६.१-१९; रो-५,४३५-४३९; भा-२९/२९) अतः अयुक्तः परिहारः न वा बहिरङ्गलक्षणत्वात् इति

(पा-८,३.१६; अकि-३,४२६.२०-२२; रो-५,४३९; भा-१/५) किमर्थम् इदम् उच्यते न खरवसानयोः विसर्जनीयः इति एव सिद्धम् ।

(पा-८,३.१६; अकि-३,४२६.२०-२२; रो-५,४३९; भा-२/५) नियमार्थः अयम् आरम्भः ।

(पा-८,३.१६; अकि-३,४२६.२०-२२; रो-५,४३९; भा-३/५) रोः एव सुपि न अन्यस्य सुपि ।

(पा-८,३.१६; अकि-३,४२६.२०-२२; रो-५,४३९; भा-४/५) क्व मा भूत् ।

(पा-८,३.१६; अकि-३,४२६.२०-२२; रो-५,४३९; भा-५/५) गीर्षु धूर्षु

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१/२४) अश्ग्रहणम् अनर्थकम् अन्यत्र अभावात् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-२/२४) अश्ग्रहणम् अनर्थकम् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-३/२४) किम् कारणम् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-४/२४) अन्यत्र अभावात् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-५/२४) न हि अन्यत्र रुः अस्ति अन्यत् अतः अशः ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-६/२४) ननु च अयम् अस्ति. छन्दःसु पयःसु इति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-७/२४) किम् पुनः कारणम् सुकारपरः एव उदाह्रियते न पुनः अयम् वृक्षः तत्र प्लक्षः तत्र इति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-८/२४) अस्ति अत्र विशेषः ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-९/२४) विसर्जनीये कृते न भविष्यति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१०/२४) इह अपि तर्हि विसर्जनीये कृते न भविष्यति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-११/२४) छन्दःसु पयःस्विति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१२/२४) स्थानिवद्भावात् प्राप्नोति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१३/२४) ननु च इह अपि स्थानिवद्भावात् प्राप्नोति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१४/२४) वृक्षः तत्र प्लक्षः तत्र इति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१५/२४) अनल्विधौ स्थानिवद्भावः ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१६/२४) अथ अयम् अल्विधिः स्यात् शक्यम् अश्ग्रहणम् अवक्तुम् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१७/२४) बाढम् शक्यम् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१८/२४) अल्विधिः तर्हि भविष्यति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-१९/२४) कथम् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-२०/२४) इदम् अस्ति रोरि इति ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-२१/२४) ततः वक्ष्यामि खरवसानयोः विसर्जनीयः रः ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-२२/२४) ततः रोः सुपि विसर्जनीयः रः इति एव ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-२३/२४) उत्तरार्थम् तर्हि अश्ग्रहणम् कर्तव्यम् हलिसर्वेषाम् हलि अशि इति यथा स्यात् ।

(पा-८,३.१७; अकि-३,४२७.१-१२; रो-५,४४०-४४१; भा-२४/२४) इह मा भूत् ॒ वृक्षवयतेः अप्रत्ययः वृक्षव् करोति

(पा-८,३.२०; अकि-३,४२७.१३-१६; रो-५,४४२; भा-१/४) किमर्थम् इदम् उच्यते न लोपः शाकल्यस्य इति एव सिद्धम् ।

(पा-८,३.२०; अकि-३,४२७.१३-१६; रो-५,४४२; भा-२/४) ओकारात् लोपवचनम् नित्यार्थम् ।

(पा-८,३.२०; अकि-३,४२७.१३-१६; रो-५,४४२; भा-३/४) ओकारात् लोपवचनम् क्रियते ।

(पा-८,३.२०; अकि-३,४२७.१३-१६; रो-५,४४२; भा-४/४) नित्यार्थः अयम् आरम्भः

(पा-८,३.२१; अकि-३,४२७.१७-२१; रो-५,४४२; भा-१/७) पदे इति किमर्थम् ।

(पा-८,३.२१; अकि-३,४२७.१७-२१; रो-५,४४२; भा-२/७) तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् ।

(पा-८,३.२१; अकि-३,४२७.१७-२१; रो-५,४४२; भा-३/७) पदे इति शक्यम् अवक्तुम् ।

(पा-८,३.२१; अकि-३,४२७.१७-२१; रो-५,४४२; भा-४/७) कस्मात् न भवति तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् इति ।

(पा-८,३.२१; अकि-३,४२७.१७-२१; रो-५,४४२; भा-५/७) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-८,३.२१; अकि-३,४२७.१७-२१; रो-५,४४२; भा-६/७) उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ङमोह्रस्वादचिङमुण्नित्यम् इति अपदे मा भूत् ।

(पा-८,३.२१; अकि-३,४२७.१७-२१; रो-५,४४२; भा-७/७) दण्डिना शकटिना

(पा-८,३.२६; अकि-३,४२८.१-४; रो-५,४४३; भा-१/५) यवलपरे यवलाः वा ।

(पा-८,३.२६; अकि-३,४२८.१-४; रो-५,४४३; भा-२/५) यवलपरे हकारे यवलाः वा इति वक्तव्यम् ।

(पा-८,३.२६; अकि-३,४२८.१-४; रो-५,४४३; भा-३/५) किय्ह्यः किम् ह्यः ।

(पा-८,३.२६; अकि-३,४२८.१-४; रो-५,४४३; भा-४/५) किव्ह्वलयति किम् ह्वलयति ।

(पा-८,३.२६; अकि-३,४२८.१-४; रो-५,४४३; भा-५/५) किल्ह्लादयति किम् ह्लादयति

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१/३०) इह धुडादिषु केचित् पूर्वान्ताः केचित् परादयः ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२/३०) यदि पुनः सर्वे एव पूर्वान्ताः स्युः सर्वे एव परादयः ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-३/३०) कः च अत्र विशेषः ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-४/३०) धुगादिषु ष्टुत्वणत्वप्रतिषेधः ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-५/३०) धुगादिषु सत्सु ष्टुत्वणत्वयोः प्रतिषेधः वक्तव्यः ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-६/३०) ष्टुत्वस्य तावत् ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-७/३०) श्वलिट्त्साये ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-८/३०) मधुलिट्त्साये ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-९/३०) ष्टुनाष्टुः इति ष्टुत्वम् प्राप्नोति ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१०/३०) परादौ पुनः सति नपदान्ताट्टोरनाम् इति प्रतिषेधः सिद्धः भवति ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-११/३०) णत्वस्य ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१२/३०) कुर्वन्नास्ते ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१३/३०) कृषन्नास्ते ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१४/३०) रषाभ्यान्नोणःसमानपदे इत् णत्वम् प्राप्नोति ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१५/३०) परादौ पुनः सति पदान्तस्य न इति प्रतिषेधः सिद्धः भवति ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१६/३०) सन्तु तर्हि परादयः ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१७/३०) परादौ छत्वषत्वविधिप्रतिषेधः । यदि परादयः छत्वम् विधेयम् षत्वम् च प्रतिषेध्यम् ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१८/३०) छत्वम् विधेयम् ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-१९/३०) कुर्वञ्च्छेते ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२०/३०) कृषञ्च्छेते ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२१/३०) यत् हि तत् शश्छोऽटि इति झयः पदान्तात् इति एवम् तत् ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२२/३०) किम् पुनः कारणम् झयः पदान्तात् इति एवम् तत् ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२३/३०) इह मा भूत् ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२४/३०) पुरा क्रूरस्य विसृपः विरप्शिन् इति ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२५/३०) षत्वम् च प्रतिषेध्यम् ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२६/३०) प्रत्यङ्क्सिञ्च ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२७/३०) उदङ्क्सिञ्च ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२८/३०) आदेशप्रत्यययोः इति षत्वम् प्राप्नोति ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-२९/३०) पूर्वान्ते पुनः सति सात्पदाद्योः इति प्रतिषेधः सिद्धः भवति ।

(पा-८,३.२८-३२; अकि-३,४२८.५-४२९.६; रो-५,४४३-४४४; भा-३०/३०) तस्मात् सन्तु यथान्यासम् एव केचित् पूर्वान्ताः केचित् परादयः ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-१/८) अयम् तु खलु शि तुक् छत्वार्थम् नियोगतः पूर्वान्तः कर्तव्यः तत्र कुर्वञ्च्छेते कृषञ्च्छेते इति रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-२/८) न एषः दोषः ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-३/८) श्चुत्वे योगविभागः करिष्यते ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-४/८) इदम् अस्ति क्षुभ्नादिषु न णकारः भवति ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-५/८) ततः स्तोः श्चुना ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-६/८) स्तोः श्चुना सन्निपाते न णकारः भवति ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-७/८) ततः श्चुः ।

(पा-८,३.३२.१; अकि-३,४२९.६-१०; रो-५,४४४; भा-८/८) श्चुः च भवति स्तोः श्चुना सन्निपाते

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१/२८) ङमुटि पदादिग्रहणम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२/२८) ङमुटि पदादिग्रहणम् कर्तव्यम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-३/२८) इह मा भूत् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-४/२८) दण्डिना शकटिना इति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-५/२८) तत् तर्हि वक्तव्यम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-६/२८) न वक्तव्यम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-७/२८) पदात् इति वर्तते ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-८/२८) एवम् अपि परमदण्डिना परमच्छत्त्रिणा इति प्राप्नोति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-९/२८) न एषः दोषः ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१०/२८) उक्तम् एतत् उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-११/२८) एवम् अपि पदात् इति वक्तव्यम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१२/२८) यत् हि तत् प्रकृतम् प्राक् सुपि कुत्सनात् इति एवम् तत् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१३/२८) एवम् तर्हि ङमः एव अयम् ङमुट् क्रियते ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१४/२८) कथम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१५/२८) पदस्य इति वर्तते ङमः इति च न एषा पञ्चमी ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१६/२८) का तर्हि ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१७/२८) सम्बन्धषष्ठी ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१८/२८) पदान्तस्य ङमः ङमुट् भवति ह्रस्वात् उत्तरस्य अचि इति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-१९/२८) यदि ङमः एव ङमुट् क्रियते कुर्वन्नास्ते कृषन्नास्ते रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२०/२८) पदान्तस्य न इति प्रतिषेधः भविष्यति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२१/२८) पदान्तस्य इति उच्यते न एषः पदान्तः ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२२/२८) पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२३/२८) एवम् अपि न सिध्यति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२४/२८) किम् कारणम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२५/२८) उक्तम् एतत् न वा पदाधिकारस्य विशेषणत्वात् इति ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२६/२८) एवम् तर्हि पदे इति वर्तते ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२७/२८) क्व प्रकृतम् ।

(पा-८,३.३२.२; अकि-३,४२९.११-२४; रो-५,४४४-४४६; भा-२८/२८) उञि च पदे इति

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-१/९) किमर्थम् मयः उत्तरस्य उञः वः वा इति उच्यते न इकः यणचि इति एव सिद्धम् ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-२/९) न सिध्यति ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-३/९) प्रगृह्यः प्रकृत्या इति प्रकृतिभावः प्राप्नोति ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-४/९) यदि पुनः तत्र एव उच्येत इकः यणचि मयः उञः वा इति ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-५/९) न एवम् शक्यम् ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-६/९) इह हि दोषः स्यात् ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-७/९) किम्वावपनम् महत् ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-८/९) मः अनुस्वारः हलि इति अनुस्वारः प्रसज्येत ।

(पा-८,३.३३; अकि-३,४३०.१-६; रो-५,४४६; भा-९/९) वत्वे पुनः सति असिद्धत्वात् न भविष्यति

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१/३१) इह कस्मात् न भवति ॒ वृक्षः , प्लक्षः इति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२/३१) संहितायाम् इति वर्तते ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-३/३१) एवम् अपि अत्र प्राप्नोति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-४/३१) किम् कारणम् ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-५/३१) परः सन्निकर्षः संहिता इति उच्यते ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-६/३१) सः यथा एव परेण परः सन्निकर्षः एवम् पूर्वेण अपि ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-७/३१) एवम् तर्हि अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधिष्यते ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-८/३१) अथ वा संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः परः सन्निकर्षः इति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-९/३१) कः च साधीयः ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१०/३१) यः पूर्वपरयोः ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-११/३१) यदि एव अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधते अथ अपि संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञायते उभयथा दोषः भवति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१२/३१) इष्यन्ते इतः उत्तरम् अवसाने संहिताकार्याणि तानि न सिध्यन्ति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१३/३१) अणः अप्रगृह्यस्य अनुनासिकः इति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१४/३१) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् खरवसानयोर्विस्जनीयः इति आह ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१५/३१) इतरथा खरवसानयोः सः भवति इति एव ब्रूयात् ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१६/३१) तत् च लघु भवति विसर्जनीयस्य सः इति एतत् च न वक्तव्यं भवति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१७/३१) अवश्यम् शर्परेविसर्जनीयः इति अत्र प्रकृतिनिर्देशार्थम् विसर्जनीयग्रहणम् कर्तव्यम् ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१८/३१) अथ इदानीम् एतत् अपि रसान्निध्यार्थम् पुरस्तात् अपक्रक्ष्यते खरवसानयोः सः इति अत्र एव एवम् अपि कुप्वोः Xक्कXप्पौ च इति एवमादिना अनुक्रमणेन व्यवच्छिन्नम् भोभगोअघोअपूर्वस्ययोऽशि इति अत्र रुग्रहणम् कर्तव्यम् स्यात् ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-१९/३१) एवम् अपि एकम् विसर्जनीयग्रहणम् व्याजः भवति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२०/३१) सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२१/३१) एवम् अपि अनैकान्तिकम् ज्ञापकम् ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२२/३१) एतावत् ज्ञाप्यते न सर्वस्य विजनीयस्य सत्वम् भवति इति तत्र कुतः एतत् इह भविष्यति वृक्षः तत्र प्लक्षः तत्र इति इह न भविष्यति वृक्षः प्लक्षः इति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२३/३१) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न अस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् शर्परे विसर्जनीयः इति आह ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२४/३१) अथ वा हलि इति वर्तते ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२५/३१) क्व प्रकृतम् ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२६/३१) हलि सर्वेषाम् इति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२७/३१) यदि तत् अनुवर्तते मयः उञः वः वा हलि च इति हलि अपि वत्वम् प्राप्नोति ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२८/३१) शमु नः ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-२९/३१) शमु योः अस्तु ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-३०/३१) एवम् तर्हि विसर्जनीयस्यसः इति अत्र खरि इति अनुवर्तिष्यते ।

(पा-८,३.३४; अकि-३,४३०.७-४३१.६; रो-५,४४७-४५०; भा-३१/३१) अथ वा सम्बन्धम् अनुवर्तिष्यते

(पा-८,३.३६; अकि-३,४३१.७-९; रो-५,४५०; भा-१/४) वाशर्प्रकरणे खर्परे लोपः ।

(पा-८,३.३६; अकि-३,४३१.७-९; रो-५,४५०; भा-२/४) वाशर्प्रकरणे खर्परे लोपः वक्तव्यः ।

(पा-८,३.३६; अकि-३,४३१.७-९; रो-५,४५०; भा-३/४) वृक्षाः स्थातारः ।

(पा-८,३.३६; अकि-३,४३१.७-९; रो-५,४५०; भा-४/४) वृक्षाः स्थातारः

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१/३२) सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२/३२) सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः वक्तव्याः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-३/३२) विसर्जनीयादेशे हि शर्परयोः एव आदेशप्रसङ्गः । विसर्जनीयादेशे हि सति शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-४/३२) अद्भिः प्सातम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-५/३२) वासः क्षौमम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-६/३२) वचनात् न भविष्यतः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-७/३२) अस्ति वचने प्रयोजनम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-८/३२) किम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-९/३२) पुरुषः त्सरुकः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१०/३२) तत् तर्हि वक्तव्यम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-११/३२) न वक्तव्यम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१२/३२) यत् एतत् विसर्जनीयस्य सः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवर्तिष्यते तस्मिन् च शर्परे विसर्जनीयः असिद्धः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१३/३२) न असिद्धः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१४/३२) कथम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१५/३२) अधिकारः नाम त्रिप्रकारः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१६/३२) कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वम् वेश्म अभिज्वलयति ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१७/३२) अपरः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१८/३२) अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-१९/३२) तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एतत् विसर्जनीयस्यसः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवृत्तम् सत् अन्यत् सम्पद्यते तस्मिन् च शर्परे विसर्जनीयः सिद्धः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२०/३२) एवम् च क्र्त्वा शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२१/३२) अद्भिः प्सातम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२२/३२) वासः क्षौमम् इति ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२३/३२) एवम् तर्हि योगविभागः करिष्यते ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२४/३२) शर्परे विसर्जनीयः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२५/३२) वा शरि ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२६/३२) ततः कुप्वोः ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२७/३२) कुप्वोः च शर्परयोः विसर्जनीयस्य विसर्जनीयः भवति इति ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२८/३२) किमर्थम् इदम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-२९/३२) कुप्वोः ह्क्कह्प्पौ वक्ष्यति तद्बाधनार्थम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-३०/३२) ततः ह्क्कह्प्पौ भवतः कुप्वोः इति एव ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-३१/३२) शर्परयोः इति निवृत्तम् ।

(पा-८,३.३७; अकि-३,४३१.१०-४३२.७; रो-५,४५०-४५३; भा-३२/३२) अथ वा शर्परेविसर्जनीयः इति एतत् कुप्वोः ह्क्कह्प्पौ च इति अत्र अनुवर्तिष्यते

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१/३४) सः अपदादौ अनव्ययस्य ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२/३४) सः अपदादौ अनव्ययस्य इति वक्तव्यम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-३/३४) इह मा भूत् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-४/३४) प्रातःकल्पम् पुनःकल्पम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-५/३४) रोः काम्ये नियमार्थम् । रोः काम्ये इति वक्तव्यम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-६/३४) किम् प्रयोजनम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-७/३४) नियमार्थम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-८/३४) रोः एव काम्ये न अन्यस्य ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-९/३४) पयस्काम्यति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१०/३४) क्व मा भूत् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-११/३४) गीःकाम्यति पूःकाम्यति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१२/३४) उपध्मानीयस्य च सत्वम् वक्तव्यम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१३/३४) किम् प्रयोजनम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१४/३४) अयम् उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत् रूपम् यथा स्यात् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१५/३४) यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनम् प्राप्नोति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१६/३४) दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१७/३४) यदि दकारोपधः पठ्यते का रूपसिद्धिः ॒ उब्जिता उब्जितुम् इति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१८/३४) असिद्धे भः उद्जेः ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-१९/३४) इदम् अस्ति स्तोःश्चुनाश्चुः ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२०/३४) ततः वक्ष्यामि ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२१/३४) भः उद्जेः ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२२/३४) उद्जेः च श्चुना सन्निपाते भः भवति इति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२३/३४) तत् तर्हि वक्तव्यम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२४/३४) न वक्तव्यम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२५/३४) निपातनात् एतत् सिद्धम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२६/३४) किम् निपातनम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२७/३४) भुजन्युब्जौपाण्युपतापयोः इति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२८/३४) इह अपि प्राप्नोति ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-२९/३४) अभ्युद्गः समुद्गः ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-३०/३४) अकुत्वविषये निपातनम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-३१/३४) अथ वा न एतत् उब्जेः रूपम् ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-३२/३४) किम् तर्हि गमेः द्व्युपसर्गात् डः विधीयते ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-३३/३४) अभ्युद्गतः अभ्युद्गः ।

(पा-८,३.३८; अकि-३,४३२.८-२३; रो-५,४५३-४५४; भा-३४/३४) समुद्गतः समुद्गः

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१/४१) किम् अविशेषेण सत्वम् उक्त्वा ततः इणः उत्तरस्य सकारस्य षत्वम् उच्यते आहोस्वित् इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२/४१) किम् च अतः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३/४१) यदि अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-४/४१) अथ इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते सत्वम् अपि अनुवर्तते उताहो न ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-५/४१) किम् च अतः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-६/४१) यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-७/४१) अथ निवृत्तम् नमस्पुरसोर्गत्योः इति अत्र सकारग्रहणम् कर्तव्यम् ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-८/४१) तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-९/४१) किम् च अतः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१०/४१) यदि अनुवर्तते षत्वम् अपि प्राप्नोति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-११/४१) अथ निवृत्तम् इदुदुपधस्य च अप्रत्यस्य इति अत्र षकारग्रहणम् कर्तव्यम् ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१२/४१) तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१३/४१) किम् च अतः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१४/४१) यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१५/४१) अथ निवृत्तम् तिरसः अन्यतरस्याम् इति अत्र सकारग्रहणम् कर्तव्यम् ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१६/४१) तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१७/४१) किम् च अतः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१८/४१) यदि अनुवर्तते षत्वम् अपि प्राप्नोति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-१९/४१) अथ निवृत्तम् द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यंसमासे अनुत्तरपदस्थस्य इति षकारग्रहणम् कर्तव्यम् ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२०/४१) तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२१/४१) किम् च अतः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२२/४१) यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२३/४१) अथ निवृत्तम् अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इति सकारग्रहणम् कर्तव्यम् ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२४/४१) यथा इच्छसि तथा अस्तु ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२५/४१) अस्तु तावत् अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२६/४१) ननु च उक्तम् निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२७/४१) न एषः दोषः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२८/४१) आचार्यप्रवृत्तिः ज्ञापयति न योगे योगः असिद्धः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-२९/४१) किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति यत् अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति असमासेपिग्रहणम् करोति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३०/४१) अथ वा पुनः अस्तु इणः उत्तरस्य विसर्जनीयस्य षत्वम् विधीयते ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३१/४१) ननु च उक्तम् सत्वम् अपि अनुवर्तते उताहो न किम् च अतः यदि अनुवर्तते सत्वम् अपि प्राप्नोति इति ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३२/४१) न एषः दोषः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३३/४१) सम्बन्धम् अनुवर्तिष्यते ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३४/४१) सः अपदादौ ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३५/४१) इणःषः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३६/४१) नमस्पुरसोः गत्योः सकारः इणः उत्तरस्य षकारः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३७/४१) इदुदुपधस्य च अप्रत्ययस्य षकारः नमस्पुरसोः गत्योः सकारः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३८/४१) तिरसः अन्यतरस्याम् सकारः इदुदुपधस्य च अप्रत्ययस्य षकारः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-३९/४१) द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोःसामर्थ्ये नित्यम्समासेऽनुत्तरपदस्थस्य इति षकारः तिरसः अन्यतरस्याम् सकारः ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-४०/४१) अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।

(पा-८,३.३९; अकि-३,४३२.२४-४३३.२८; रो-५,४५४-४५६; भा-४१/४१) सकारः अनुवर्तते षकारग्रहणम् निवृत्तम्

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-१/१२) इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-२/१२) इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः वक्तव्यः ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-३/१२) पुंस्कामा मुहुःकामः इति ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-४/१२) वृद्धिभूतानाम् षत्वम् वक्तव्यम् ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-५/१२) दौष्कुल्यम् नैष्पुरुष्यम् ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-६/१२) प्लुतानाम् तादौ च । प्लुतानाम् तादौ च कुप्वोः च इति वक्तव्यम् ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-७/१२) सर्पि३ष्टर ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-८/१२) बर्ही३ष्टर नि३ष्कुल दु३ष्पुरुष ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-९/१२) न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-१०/१२) किम् कारणम् ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-११/१२) बहिरन्गलक्षणत्वात् वृद्धेः ।

(पा-८,३.४१.१; अकि-३,४३४.१-१०; रो-५,४५६-४५७; भा-१२/१२) बहिरङ्गलक्षणा वृद्धिः

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-१/९) इह कस्मात् न भवति ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-२/९) पितुः करोति ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-३/९) मातुः करोति ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-४/९) अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-५/९) अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-६/९) लुप्यते अत्र प्रत्ययविसर्जनीयः रात्सस्य इति ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-७/९) एवम् तर्हि ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-८/९) भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।

(पा-८,३.४१.२; अकि-३,४३४.१०-१६; रो-५,४५७-४५८; भा-९/९) यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१/३९) द्विस्त्रिश्चतुर्ग्रहणम् किमर्थम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२/३९) इह मा भूत् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३/३९) पञ्चकृत्वः करोति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-४/३९) अथ कृत्वोर्थग्रहणम् किमर्थम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-५/३९) इह मा भूत् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-६/३९) चतुष्कपालः चतुष्कण्टकः इति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-७/३९) न एतत् अस्ति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-८/३९) अस्तु एतेन विभाषा पूर्वेण नित्यः विधिः भविष्यति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-९/३९) न अप्राप्ते पूर्वेण इयम् विभाषा आरभ्यते सा यथा एव इह बाधिका भवति चतुः करोति चतुष्करोति इति एवम् चतुष्कपाले अपि बाधिका स्यात् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१०/३९) न अत्र पूर्वेण षत्वम् प्राप्नोति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-११/३९) किम् कारणम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१२/३९) अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१३/३९) लुप्यते प्रत्ययविसर्जनीयः रात्सस्य इति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१४/३९) तस्मात् कृत्वोर्थग्रहणम् कर्तव्यम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१५/३९) द्विस्त्रिश्चतुर्ग्रहणम् शक्यमवक्तुम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१६/३९) कस्मात् न भवति पञ्चकृत्वः करोति इति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१७/३९) इदुदुपधस्य इति वर्तते ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१८/३९) न एवम् शक्यम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-१९/३९) अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोऽर्थग्रहणेन विसर्जनीयः विशेष्येत ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२०/३९) तत्र कः दोषः ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२१/३९) इह एव स्यात् द्विष्करोति द्विः करोति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२२/३९) इह न स्यात् चतुष्करोति चतुः करोति इति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२३/३९) द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोऽर्थग्रहणे द्विस्त्रिश्चतुरः विशेष्यन्ते ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२४/३९) द्विस्त्रिश्चतुर्णाम् कृत्रोऽर्थे वर्तमानानाम् यः विसर्जनीयः इति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२५/३९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२६/३९) पदस्य इति वर्तते तत् कृत्वोऽर्थग्रहणेन विशेषयिष्यः ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२७/३९) पदस्य कृत्वोऽर्थे वर्तमानस्य यः विसर्जनीयः इति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२८/३९) कृत्वसुजर्थे षत्वम् ब्रवीति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-२९/३९) कस्मात् चतुष्कपाले मा ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३०/३९) षत्वम् विभाषया भूत् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३१/३९) ननु सिद्धम् तत्र पूर्वेण ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३२/३९) सिद्धे हि अयम् विधत्ते चतुरः षत्वम् तदा अपि क्र्त्वोऽर्थे ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३३/३९) लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयः हि ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३४/३९) एवम् सति तु इदानीम् द्विः त्रिः चतुः इति अनेन किम् कार्यम् ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३५/३९) अन्यः हि न इदुदुपधः कृत्वोऽर्थे कः चित् अपि अस्ति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३६/३९) अक्रियमाणे ग्रहणे विसर्जनीयः तदा विशेष्येत ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३७/३९) चतुरः न सिध्यति तदा रेफस्य विसर्जनीयः हि ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३८/३९) तस्मिन् तु गृह्यमाणे युक्तम् चतुरः विशेषणम् भवति ।

(पा-८,३.४३; अकि-३,४३४.१७-१८; रो-५,४५८-४६०; भा-३९/३९) प्रकृतम् पदम् तदन्तम् तस्य अपि विशेषणम् न्याय्यम्

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१/२९) अनुत्तरपदस्थस्य इति किमर्थम् ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२/२९) परमसर्पिःकुण्डिका ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-३/२९) अथ इदानीम् अनेन मुक्ते पूर्वेण षत्वम् विभाषा कस्मात् न भवति इसुसोः सामर्थ्ये इति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-४/२९) नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-५/२९) तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-६/२९) व्यपेक्षासामर्थ्ये पूर्वयोगः न च अत्र व्यपेक्षासामर्थ्यम् ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-७/२९) किम् पुनः कारणम् व्यपेक्षासामर्थ्यम् आश्रीयते न पुनः एकार्थीभावः यथा अन्यत्र ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-८/२९) ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत । ऐकार्थ्ये सामर्थ्ये सति वाक्ये षत्वम् न स्यात् ॒ सर्पिष् करोति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-९/२९) सर्पिः करोति इति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१०/२९) तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-११/२९) अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः । यदि कृदन्तम् एतत् ततः अधिकस्य षत्वम् न प्राप्नोति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१२/२९) किम् कारणम् ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१३/२९) प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१४/२९) वाक्ये अपि तर्हि न प्राप्नोति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१५/२९) परमसर्पिष्करोति परमसर्पिः करोति इति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१६/२९) वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत । यत् अयम् अनुत्तरपदस्थस्य इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वाक्ये विभाषा इति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१७/२९) अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् । अथ अव्युत्पन्नम् प्रातिपदिकम् ततः नित्ये षत्वे प्राप्ते इयम् विभाषा आरभ्यते ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१८/२९) सिद्धम् च मे समासे ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-१९/२९) षत्वम् ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२०/२९) किमर्थम् तर्हि इदम् उच्यते ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२१/२९) प्रतिषेधार्थः तु यत्नः अयम् । अनुत्तरपदस्थस्य इति प्रतिषेधम् वक्ष्यामि इति ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२२/२९) नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२३/२९) तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२४/२९) ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२५/२९) तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२६/२९) अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२७/२९) वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२८/२९) अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् ।

(पा-८,३.४५; अकि-३,४३५.२०-४३६.२४; रो-५,४६०-४६२; भा-२९/२९) सिद्धम् च मे समासे प्रतिषेधार्थः तु यत्नः अयम् ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-१/१२) अथ मूर्धन्यग्रहणम् किमर्थम् न अपदान्तस्य षः भवति इति एव उच्येत ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-२/१२) तत्र अयम् अपि अर्थः षकारग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-३/१२) क्व प्रकृतम् ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-४/१२) इणःषः इति ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-५/१२) न एवम् शक्यम् ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-६/१२) अवश्यम् मूर्धन्यग्रहणम् कर्तव्यम् इहार्थम् उत्तरार्थम् च ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-७/१२) इहार्थम् तावत् ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-८/१२) इणःषीध्वंलुङ्लिटाम्धोऽङ्गात् इति अत्र ंऊर्धन्यग्रहणम् न कर्तव्यम् भवति ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-९/१२) उत्तरार्थम् च ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-१०/१२) रषाभ्यान्नोणःसमानपदे इति अत्र णकारग्रहणम् न कर्तव्यम् भवति ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-११/१२) तत्र अयम् अपि अर्थः पदान्तस्य न इति प्रतिषेधः न वक्तव्यः भवति ।

(पा-८,३.५५; अकि-३,४३६.२५-४३७.६; रो-५,४६३; भा-१२/१२) अपदान्ताभिसम्बद्धम् मूर्धन्यग्रहणम् अनुवर्तते ।