व्याकरणमहाभाष्य खण्ड 87

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१/४४) रषाभ्याम् णत्वे ऋकारग्रहणम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२/४४) रषाभ्याम् णत्वे ऋकारग्रहणम् कर्तव्यम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३/४४) रषाभ्याम् नः णः समानपदे ऋकारात् च इति वक्तव्यम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-४/४४) इह अपि यथा स्यात् ॒ मातृ̄णाम् , पितृ̄णाम् इति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-५/४४) तत् तर्हि वक्तव्यम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-६/४४) न वक्तव्यम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-७/४४) यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-८/४४) न सिध्यति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-९/४४) किम् कारणम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१०/४४) न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-११/४४) एकदेशे नुडादिषु च उक्तम् । किम् उक्तम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१२/४४) अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् इति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१३/४४) तस्मात् गृह्यन्ते ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१४/४४) एवम् अपि न सिध्यति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१५/४४) किम् कारणम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१६/४४) अननन्तरत्वात् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१७/४४) यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१८/४४) अड्व्यवाये इति एवम् भविष्यति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-१९/४४) न सिध्यति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२०/४४) किम् कारणम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२१/४४) वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२२/४४) ये व्यपवृक्ताः अपि वर्णाः भवन्ति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२३/४४) यत् च अत्र रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२४/४४) एवम् तर्हि योगविभागः करिष्यते ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२५/४४) रषाभ्याम् नः णः समानपदे ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२६/४४) ततः व्यवाये ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२७/४४) व्यवाये च रषाभ्याम् नः णः भवति इति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२८/४४) ततः अट्कुप्वाङ्नुम्भिः इति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-२९/४४) इदम् इदानीम् किमर्थम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३०/४४) नियमार्थम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३१/४४) एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३२/४४) अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् णत्वम् इति यत् अयम् क्षुभ्नादिषु नृनमनशब्दम् पठति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३३/४४) न एतत् अस्ति ज्ञापकम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३४/४४) वृद्ध्यर्थम् एतत् स्यात् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३५/४४) नार्नमनिः इति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३६/४४) यत् तर्हि तत्र एव तृप्नोतिशब्दम् पठति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३७/४४) यत् च अपि नृनमनशब्दम् पठति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३८/४४) ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-३९/४४) बहिरङ्गा वृद्धिः ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-४०/४४) अन्तरङ्गम् णत्वम् ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-४१/४४) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-४२/४४) अथ वा उपरिष्टात् योगविभागः करिष्यते ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-४३/४४) ऋतः नः णः भवति ।

(पा-८,४.१; अकि-३,४५२.१-२०; रो-५,४८८-४९०; भा-४४/४४) ततः छन्दसि अवग्रहात् ऋतः इति एव

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१/२०) अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-२/२०) अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-३/२०) आदर्शेन अक्षदर्शेन ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-४/२०) न वा अन्येन व्यपेतत्वात् । न वा वक्तव्यः ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-५/२०) किम् कारणम् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-६/२०) अन्येन व्यपेतत्वात् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-७/२०) अन्येन अत्र व्यवायः ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-८/२०) यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-९/२०) अटा एव व्यवाये भवति ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१०/२०) किम् वक्तव्यम् एतत् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-११/२०) न हि ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१२/२०) कथम् अनुच्यमानम् गंस्यते ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१३/२०) अड्ग्रहणसामर्थ्यात् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१४/२०) यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१५/२०) व्यवाये नः णः भवति इति एव ब्रूयात् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१६/२०) अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१७/२०) किम् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१८/२०) यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-१९/२०) कृत्स्नम् मृत्स्ना इति ।

(पा-८,४.२.१; अकि-३,४५२.२१-४५३.८; रो-५,४९०-४९१; भा-२०/२०) यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात्

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१/१९) तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-२/१९) तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-३/१९) अर्केण अर्घेण ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-४/१९) यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-५/१९) क्व अन्यत्र ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-६/१९) नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-७/१९) किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-८/१९) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-९/१९) तत् यथा ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१०/१९) गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-११/१९) ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१२/१९) तत् यथा ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१३/१९) गर्गाः शतम् दण्ड्यन्ताम् इति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१४/१९) अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१५/१९) यदि एवम् एकेन व्यवाये न प्राप्नोति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१६/१९) किरिणा रिरिणा इति ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१७/१९) उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१८/१९) तत् यथा ।

(पा-८,४.२.२; अकि-३,४५३.९-१७; रो-५,४९१; भा-१९/१९) गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१/२२) कुव्यवाये हादेशेषु प्रतिषेधः ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-२/२२) कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-३/२२) किम् प्रयोजनम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-४/२२) प्रयोजनम् वृत्रघ्नः स्रुघ्नः प्राघानि इति । हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणम् न कर्तव्यम् भवति ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-५/२२) नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः । नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-६/२२) प्रेन्वनम् प्रेन्वनीयम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-७/२२) अनागमे च णत्वम् । अनागमे च णत्वम् वक्तव्यम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-८/२२) तृम्पणीयम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-९/२२) अनुस्वारव्यवायवचनात् तु सिद्धम् । अनुस्वारव्यवाये नः णः भवति इति वक्तव्यम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१०/२२) तदनुस्वारग्रहणम् कर्तव्यम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-११/२२) न कर्तव्यम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१२/२२) क्रियते न्यासे एव ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१३/२२) नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१४/२२) इह अपि तर्हि प्राप्नोति ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१५/२२) प्रेन्वनम् प्रेन्वनीयम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१६/२२) अनुस्वारविशेषणम् नुम्ग्रहणम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१७/२२) नुमः यः अनुस्वारः इति ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१८/२२) इह अपि तर्हि न प्राप्नोति ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-१९/२२) तृम्पणम् तृम्पणीयम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-२०/२२) एवम् तर्हि अयोगवाहानाम् अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-२१/२२) यदि एवम् न अर्थः नुम्ग्रहणेन ।

(पा-८,४.२.३; अकि-३,४५३.१८-४५४.७; रो-५,४९१-४९२; भा-२२/२२) अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम्

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-१/११) पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-२/११) पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् कर्तव्यम् ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-३/११) किम् प्रयोजनम् ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-४/११) तद्धितपूर्वपदस्थाप्रतिषेधार्थम् । तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत् ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-५/११) खारपायणः करणप्रियः ।. तत् तर्हि वक्तव्यम् ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-६/११) न वक्तव्यम् ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-७/११) पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-८/११) सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् भवति ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-९/११) तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति पूर्वपदम् इति एतत् भवति तत्स्थस्य नियमः इति ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-१०/११) किम् च प्रति एतत् भवति ।

(पा-८,४.३.१; अकि-३,४५४.८-१६; रो-५,४९३; भा-११/११) उत्तरपदम् प्रति

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१/२५) सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमप्रतिषेधः ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-२/२५) सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमस्य अयम् प्रतिषेधः विज्ञायते अगः इति ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-३/२५) तत्र कः दोषः ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-४/२५) तत्र नित्यम् णत्वप्रसङ्गः । तत्र पूर्वेण सञ्ज्ञायाम् च असञ्ज्ञायाम् च नित्यम् णत्वम् प्राप्नोति ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-५/२५) योगविभागात् सिद्धम् । योगविभागः करिष्यते ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-६/२५) पूर्वपदात् सञ्ज्ञायाम् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-७/२५) ततः अगः ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-८/२५) गान्तात् पूर्वपदात् या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-९/२५) अप्रतिषेधः वा यथा सर्वनामसञ्ज्ञायाम् । न वा अर्थः प्रतिषेधेन ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१०/२५) णत्वम् कस्मात् न भवति ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-११/२५) यथा सर्वनामसञ्ज्ञायाम् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१२/२५) उक्तम् च सर्वनामसञ्ज्ञायाम् सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः इति ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१३/२५) यथा पुनः तत्र निपातनम् क्रियते सर्वादीनि सर्वनामानि इति इह इदानीम् किम् निपातनम् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१४/२५) इह अपि निपातनम् अस्ति ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१५/२५) किम् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१६/२५) अणृगयनादिभ्यः इति ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१७/२५) न एव वा पुनः अत्र पूर्वेण णत्वम् प्राप्नोति ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१८/२५) किम् कारणम् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-१९/२५) समानपदे इति उच्यते न च एतत् समानपदम् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-२०/२५) समासे कृते समानपदम् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-२१/२५) समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-२२/२५) किम् वक्तव्यम् एतत् ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-२३/२५) न हि ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-२४/२५) कथम् अनुच्यमानम् गंस्यते ।

(पा-८,४.३.२; अकि-३,४५४.१७-४५५.९; रो-५,४९३-४९४; भा-२५/२५) समानग्रहणसामर्थ्यात्. यदि हि यत् समानम् च असमानम् च तत्र स्यात् समनग्रहणम् अनर्थकम् स्यात्

(पा-८,४.६; अकि-३,४५५.१०-१२; रो-५,४९४; भा-१/५) द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यम् ।

(पा-८,४.६; अकि-३,४५५.१०-१२; रो-५,४९४; भा-२/५) इह मा भूत् ।

(पा-८,४.६; अकि-३,४५५.१०-१२; रो-५,४९४; भा-३/५) देवदारुवनम् ।

(पा-८,४.६; अकि-३,४५५.१०-१२; रो-५,४९४; भा-४/५) इरिकादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-८,४.६; अकि-३,४५५.१०-१२; रो-५,४९४; भा-५/५) इरिकावनम् तिमिरवनम्

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-१/९) अदन्तात् अदन्तस्य इति वक्तव्यम् ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-२/९) इह मा भूत् ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-३/९) दीर्घाह्नी शरत् इति ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-४/९) तत् तर्हि वक्तव्यम् ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-५/९) न वक्तव्यम् ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-६/९) न एषा अहन्शब्दात् षष्ठी ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-७/९) का तर्हि ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-८/९) अह्नशब्दात् प्रथमा पूर्वसूत्रनिर्देशः च ।

(पा-८,४.७; अकि-३,४५५.१३-१६; रो-५,४९४-४९५; भा-९/९) अथ वा युवादिषु पाठः करिष्यते

(पा-८,४.८; अकि-३,४५५.१७-२१; रो-५,४९५; भा-१/६) आहितोपस्थितयोः इति वक्तव्यम् ।

(पा-८,४.८; अकि-३,४५५.१७-२१; रो-५,४९५; भा-२/६) इह अपि यथा स्यात् ।

(पा-८,४.८; अकि-३,४५५.१७-२१; रो-५,४९५; भा-३/६) इक्षुवाहणम् शरवाहणम् ।

(पा-८,४.८; अकि-३,४५५.१७-२१; रो-५,४९५; भा-४/६) अपरः आह ॒ वाहनम् वाह्यात् इति वक्तव्यम् ।

(पा-८,४.८; अकि-३,४५५.१७-२१; रो-५,४९५; भा-५/६) यदा हि गर्गाणाम् वाहनम् अपविद्धम् तिष्ठति तदा मा भूत् ।

(पा-८,४.८; अकि-३,४५५.१७-२१; रो-५,४९५; भा-६/६) गर्गवाहनम् इति

(पा-८,४.१०; अकि-३,४५६.१-४; रो-५,४९५; भा-१/४) वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् ।

(पा-८,४.१०; अकि-३,४५६.१-४; रो-५,४९५; भा-२/४) वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,४.१०; अकि-३,४५६.१-४; रो-५,४९५; भा-३/४) गिरिणदी गिरिनदी ।

(पा-८,४.१०; अकि-३,४५६.१-४; रो-५,४९५; भा-४/४) चक्रणितम्बा चक्रनितम्बा

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-१/१३) प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-२/१३) प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् कर्तव्यम् ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-३/१३) किम् प्रयोजनम् ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-४/१३) असमासान्तप्रतिषेधार्थम् ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-५/१३) असमासान्तस्य मा भूत् ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-६/१३) गर्गभगिनी दक्षभगिनी इति ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-७/१३) न वा भवति गर्गभगिणी इति ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-८/१३) भवति यदा एतत् वाक्यम् गर्गाणाम् भगः गर्गभगः गर्गभगः अस्याः अस्ति इति ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-९/१३) यदा तु एतत् वाक्यम् भवति गर्गाणाम् भगिनी गर्गभगिनी इति तदा न भवितव्यम् ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-१०/१३) तदा मा भूत् इति ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-११/१३) यदि समासान्तग्रहणम् क्रियते माषवापिणी वृईहिवापिणी अत्र न प्राप्नोति ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-१२/१३) लिङ्गविशिष्टग्रहणे च उक्तम् । किम् उक्तम् ।

(पा-८,४.११; अकि-३,४५६.५-१४; रो-५,४९५-४९६; भा-१३/१३) गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् प्राक् सुबुत्पत्तेः इति

(पा-८,४.११; अकि-३,४५६.१५-१७; रो-५,४९६; भा-१/३) तत्र युवादिप्रतिषेधः ।

(पा-८,४.११; अकि-३,४५६.१५-१७; रो-५,४९६; भा-२/३) तत्र युवादीनाम् प्रतिषेदः वक्तव्यः ।

(पा-८,४.११; अकि-३,४५६.१५-१७; रो-५,४९६; भा-३/३) आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरत् इति

(पा-८,४.१३; अकि-३,४५६.१८-४५७.२; रो-५,४९६-४९७; भा-१/५) अथ इह कथम् भवितव्यम् ।

(पा-८,४.१३; अकि-३,४५६.१८-४५७.२; रो-५,४९६-४९७; भा-२/५) माषकुम्भवापेण व्रीहिकुम्भवापेण इति ।

(पा-८,४.१३; अकि-३,४५६.१८-४५७.२; रो-५,४९६-४९७; भा-३/५) किम् नित्यम् णत्वेन भवितव्यम् आहोस्वित् विभाषया ।

(पा-८,४.१३; अकि-३,४५६.१८-४५७.२; रो-५,४९६-४९७; भा-४/५) यदा तावत् एतत् वाक्यम् भवति कुम्भस्य वापः कुम्भवापः माषाणाम् कुम्भवापः माषकुम्भवाप इति तदा नित्यम् णत्वेन भवितव्यम् ।

(पा-८,४.१३; अकि-३,४५६.१८-४५७.२; रो-५,४९६-४९७; भा-५/५) यदा तु एतत् वाक्यम् भवति माषाणाम् कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यम्

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१/२०) असमासग्रहणम् किमर्थम् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-२/२०) समासे इति वर्तते असमासे अपि यथा स्यात् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-३/२०) प्रणमति परिणमति ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-४/२०) क्व पुनः समासग्रहणम् प्रकृतम् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-५/२०) पूर्वपदात्सञ्ज्ञायामगः इति ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-६/२०) कथम् पुनः तेन समासग्रहणम् शक्यम् विज्ञातुम् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-७/२०) पूर्वपदग्रहणसामर्थ्यात् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-८/२०) समासे एव एतत् भवति पूर्वपदम् उत्तरपदम् इति ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-९/२०) अथ अपिग्रहणम् किमर्थम् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१०/२०) समासे अपि यथा स्यात् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-११/२०) प्रणामकः परिणामकः ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१२/२०) यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१३/२०) निवृत्तम् पूर्वपदात् इति ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१४/२०) अविशेषेण उपसर्गात् णत्वम् वक्ष्यामि ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१५/२०) समासे नियमात् न प्राप्नोति ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१६/२०) असिद्धम् उपसर्गात् णत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१७/२०) एवम् तर्हि सिद्धे सति यत् असमासे अपिग्रहणम् करोति तत् ज्ञापयति आचार्यः न योगे योगः असिद्धः ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१८/२०) किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-१९/२०) किम् एतस्य ज्ञपने प्रयोजनम् ।

(पा-८,४.१४.१; अकि-३,४५७.३-१४; रो-५,४९७-४९८; भा-२०/२०) यत् तत् उक्तम् निष्कृतम् निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति सः न दोषः भवति

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१/१७) णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-२/१७) अगमकः निर्देशः अनिर्देशः ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-३/१७) यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशम् प्रति क्रियायोगः ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-४/१७) एवम् तर्हि आह अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति न च णोपदेशम् प्रति उपसर्गः अस्ति तत्र वचनात् भविष्यति ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-५/१७) वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः । वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः वक्तव्यः ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-६/१७) प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः इति ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-७/१७) सिद्धम् तु यम् प्रति उपसर्गः तत्स्थस्य इति वचनात् । सिद्धम् एतत् ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-८/१७) कथम् ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-९/१७) यम् प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यम् ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१०/१७) सिध्यति ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-११/१७) सूत्रम् तर्हि भिद्यते ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१२/१७) यथान्यासम् एव अस्तु ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१३/१७) ननु च उक्तम् णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः इति ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१४/१७) न एषः दोषः ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१५/१७) णोपदेशः इति न एवम् विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१६/१७) कथम् तर्हि ।

(पा-८,४.१४.२; अकि-३,४५७.१५-४५८.२; रो-५,४९८; भा-१७/१७) णः उपदेशः अस्य सः अयम् णोपदेशः णोपदेशस्य इति

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-१/१३) हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-२/१३) हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-३/१३) प्रहिणोति प्रमीणीते ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-४/१३) वचनात् भविष्यति ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-५/१३) अस्ति वचने प्रयोजनम् ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-६/१३) किम् ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-७/१३) प्रहिणुतः प्रमीणाति ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-८/१३) सिद्धम् अचः स्थानिवत्त्वात् । सिद्धम् एतत् ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-९/१३) कथम् ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-१०/१३) अचः स्थानिवत्त्वात् ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-११/१३) स्थानिवद्भावात् अत्र णत्वम् भविष्यति ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-१२/१३) प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवत् इति ।

(पा-८,४.१५; अकि-३,४५८.३-१०; रो-५,४९९; भा-१३/१३) दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१/१७) लोट् इति किमर्थम् ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-२/१७) प्रहिमानि कुलानि ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-३/१७) प्रवपानि मांसानि ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-४/१७) आनि लोड्ग्रहणानर्थक्यम् अर्थवद्ग्रहणात् ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-५/१७) आनि लोड्ग्रहणम् अनर्थकम् ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-६/१७) किम् कारणम् ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-७/१७) अर्थवद्ग्रहणात् ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-८/१७) अर्थवतः आनिशब्दस्य ग्रहणम् न एषः अर्थवान् ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-९/१७) अनुपसर्गात् वा । अथ वा यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् आनिशब्दम् प्रति क्रियायोगः ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१०/१७) इह अपि तर्हि न प्राप्नोति ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-११/१७) प्रयाणि परियाणि इति ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१२/१७) अत्र अपि न आनिशब्दम् प्रति क्रियायोगः ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१३/१७) आनिशब्दम् प्रति अत्र क्रियायोगः ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१४/१७) कथम् ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१५/१७) यत्क्रिययुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१६/१७) कथम् तर्हि ।

(पा-८,४.१६; अकि-३,४५८.११-२२; रो-५,४९९; भा-१७/१७) या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-१/१३) नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-२/१३) नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-३/१३) प्रण्यगदत् परिण्यगदत् ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-४/१३) आङा च इति वक्तव्यम् ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-५/१३) प्रण्यागदत् ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-६/१३) ननु च अयम् अट् गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-७/१३) न सिध्यति ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-८/१३) अङ्गस्य अट् उच्यते विकरणान्तम् च अङ्गम् सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुम् ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-९/१३) एवम् तर्हि अड्व्यवाये इति वर्तते ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-१०/१३) क्व प्रकृतम् ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-११/१३) अट्कुप्वाङ्नुम्व्यवाये अपि इति ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-१२/१३) तत् वै कार्यिविशेषणम् निमित्तविशेषणेन च इह अर्थः ।

(पा-८,४.१७; अकि-३,४५९.१-१०; रो-५,५००; भा-१३/१३) तत्र अपि निमित्तविशेषणम् एव

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१/१८) अन्तग्रहणम् किमर्थम् ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-२/१८) अनितेः अन्तग्रहणम् सम्बुद्ध्यर्थम् ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-३/१८) अनितेः अन्तग्रहणम् क्रियते सम्बुद्ध्यर्थम् ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-४/१८) हे प्राण् ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-५/१८) अप्ररः आह ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-६/१८) अनितेः अन्तः पदान्तस्य ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-७/१८) अनितेः अन्तग्रहणम् क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-८/१८) यः वा तस्मात् अनन्तरः । अथ वा अयम् अन्तशब्दः अस्ति एव अवयववाची ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-९/१८) तत् यथा ॒ वस्त्रान्तः वसनान्तः इति ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१०/१८) अस्ति सामीप्ये वर्तते ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-११/१८) तत् यथा ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१२/१८) उदकान्तम् गतः ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१३/१८) उदकसमीपम् गतः इति गम्यते ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१४/१८) तत् यः सामीप्ये वर्तते तस्य ग्रहणम् विज्ञायते ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१५/१८) अनितेः समीपे यः रेफः तस्मात् नस्य यथा स्यात् ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१६/१८) प्राणिति ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१७/१८) इह मा भूत् ।

(पा-८,४.१९-२०; अकि-३,४५९.११-२२; रो-५,५००-५०१; भा-१८/१८) पर्यनिति

(पा-८,४.२१; अकि-३,४६०.१-३; रो-५,५०१; भा-१/३) साभ्यासस्य द्वयोः इष्टम् ।

(पा-८,४.२१; अकि-३,४६०.१-३; रो-५,५०१; भा-२/३) साभ्यासस्य द्वयोः णत्वम् इष्यते ।

(पा-८,४.२१; अकि-३,४६०.१-३; रो-५,५०१; भा-३/३) प्राणिणिषति

(पा-८,४.२२; अकि-३,४६०.४-७; रो-५,५०१; भा-१/५) अत्पूर्वस्य इति किमर्थम् ।

(पा-८,४.२२; अकि-३,४६०.४-७; रो-५,५०१; भा-२/५) प्रघ्नन्ति परिघ्नन्ति ।

(पा-८,४.२२; अकि-३,४६०.४-७; रो-५,५०१; भा-३/५) हन्तेः अत्पूर्वस्य वचने उक्तम् ।

(पा-८,४.२२; अकि-३,४६०.४-७; रो-५,५०१; भा-४/५) किम् उक्तम् ।

(पा-८,४.२२; अकि-३,४६०.४-७; रो-५,५०१; भा-५/५) कुव्यवाये हादेशेषु प्रतिषेधः इति

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-१/१२) कथम् इदम् विज्ञयते ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-२/१२) ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-३/१२) आहोस्वित् ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-४/१२) किम् च अतः ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-५/१२) यदि विज्ञयते ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतम् अत्र अपि प्राप्नोति ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-६/१२) अथ विज्ञायते ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-७/१२) उभयथा च प्रक्रमे दोषः भवति ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-८/१२) प्र नः* मुञ्चतम् , प्र नः मुञ्चतम् ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-९/१२) प्र* उ नः , प्र उ नः ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-१०/१२) भाविनि अपि ओति न इष्यते ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-११/१२) भाविनि अपि ओकारे णत्वम् न इष्यते ।

(पा-८,४.२८; अकि-३,४६०.८-१६; रो-५,५०२; भा-१२/१२) एवम् तर्हि उपसर्गात् बहुलम् इति वक्तव्यम्

(पा-८,४.२९; अकि-३,४६०.१७-१९; रो-५,५०३; भा-१/३) कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् ।

(पा-८,४.२९; अकि-३,४६०.१७-१९; रो-५,५०३; भा-२/३) कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,४.२९; अकि-३,४६०.१७-१९; रो-५,५०३; भा-३/३) निर्विण्णः अहम् अनेन वासेन

(पा-८,४.३०; अकि-३,४६१.१-७; रो-५,५०३; भा-१/६) णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् ।

(पा-८,४.३०; अकि-३,४६१.१-७; रो-५,५०३; भा-२/६) णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,४.३०; अकि-३,४६१.१-७; रो-५,५०३; भा-३/६) प्राप्यमाणम् प्राप्यमानम् ।

(पा-८,४.३०; अकि-३,४६१.१-७; रो-५,५०३; भा-४/६) तद्विधानात् सिद्धम् । विहितविशेषणम् णिग्रहणम् ।

(पा-८,४.३०; अकि-३,४६१.१-७; रो-५,५०३; भा-५/६) ण्यन्तात् यः विहितः इति ।

(पा-८,४.३०; अकि-३,४६१.१-७; रो-५,५०३; भा-६/६) अडधिकारात् वा । अथ वा अड्व्यवाये इति वर्तते

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१/३७) किमर्थम् इदम् उच्यते न कृत्यचः इति एव सिद्धम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२/३७) नियमार्थः अयम् आरम्भः ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३/३७) इजादेः एव च सनुम्कात् न अन्यस्मात् सनुम्कात् इति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-४/३७) क्व मा भूत् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-५/३७) प्रमङ्कनम् परिमङ्कनम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-६/३७) सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-७/३७) सनुमः णत्वे अवधारणस्य अप्राप्तिः ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-८/३७) किम् कारणम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-९/३७) विधेयभावात् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१०/३७) कैमर्थक्यात् नियमः भवति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-११/३७) विधेयम् न अस्ति इति कृत्वा ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१२/३७) इह च अस्ति विधेयम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१३/३७) किम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१४/३७) ण्यन्तात् विभाषा प्राप्ता तत्र नित्यम् णत्वम् विधेयम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१५/३७) तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१६/३७) सिद्धम् तु प्रतिषेधाधिकारे सनुम्ग्रहणात् । सिद्धम् एतत् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१७/३७) कथम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१८/३७) प्रतिषेधाधिकारे सनुम्ग्रहणात् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-१९/३७) प्रतिषेधाधिकारे सनुम्ग्रहणम् कर्तव्यम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२०/३७) न भाभूपूकमिगमिप्यायिवेपिसनुमाम् इति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२१/३७) इह अपि तर्हि न प्राप्नोति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२२/३७) प्रेङ्गणम् प्रेङ्गणीयम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२३/३७) कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् । कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् कर्तव्यम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२४/३७) सिध्यति सूत्रम् तर्हि भिद्यते ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२५/३७) यथान्यासम् एव अस्तु ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२६/३७) ननु च उक्तम् सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् इति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२७/३७) न एषः दोषः ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२८/३७) हलः इति वर्तते ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-२९/३७) क्व प्रकृतम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३०/३७) हलश्चेजुपधात् इति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३१/३७) तत् वै तत्र आदिविशेषणम् अन्तविशेषणेन च इह अर्थः ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३२/३७) कथम् पुनः ज्ञायते तत्र आदिविशेषणम् इति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३३/३७) इजुपधात् इति उच्यते अत्र न अर्थः अन्तविशेषणेन ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३४/३७) तत्र आदिविशेषणम् सत् इह अन्तविशेषणम् भविष्यति ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३५/३७) कथम् ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३६/३७) इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन ।

(पा-८,४.३२; अकि-३,४६१.८-४६२.६; रो-५,५०३-५०४; भा-३७/३७) अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एतत् अनुवर्तिष्यते

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-१/९) भादिषु पूञ्ग्रहणम् ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-२/९) भादिषु पूञ्ग्रहणम् कर्तव्यम् ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-३/९) इह मा भूत् ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-४/९) प्रपवणम् सोमस्य इति ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-५/९) ण्यन्तस्य च उपसङ्ख्यनम् । ण्यन्तस्य च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-६/९) किम् पूञः एव ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-७/९) न इति आह ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-८/९) अविशेषेण ।

(पा-८,४.३४; अकि-३,४६२.७-१२; रो-५,५०५; भा-९/९) प्रभापनम् परिभापनम्

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-१/११) षात् पदादिपरवचनम् ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-२/११) षात्पदादिपरग्रहणम् कर्तव्यम् ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-३/११) इह एव यथा स्यात् ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-४/११) निष्पानम् दुष्पानम् ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-५/११) इह मा भूत् ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-६/११) ससर्पिष्केण सयजुष्केण ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-७/११) तत् तर्हि वक्तव्यम् ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-८/११) न वक्तव्यम् ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-९/११) न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदान्तात् इति ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-१०/११) कथम् तर्हि ।

(पा-८,४.३५; अकि-३,४६२.१३-१७; रो-५,५०५; भा-११/११) पदे अन्तः पदान्तः पदान्तात् इति

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-१/८) नशेः अशः ।

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-२/८) नशेः अशः इति वक्तव्यम् ।

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-३/८) इह अपि यथा स्यात् ।

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-४/८) प्रनङ्क्ष्यति परिनङ्क्ष्यति ।

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-५/८) तत् तर्हि वक्तव्यम् ।

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-६/८) न वक्तव्यम् ।

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-७/८) इह नशेः षः इति इयता सिद्धम् ।

(पा-८,४.३६; अकि-३,४६२.१८-२२; रो-५,५०५; भा-८/८) सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तस्य एतत् प्रयोजनम् षान्तभूतपूर्वस्य अपि यथा स्यात्

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-१/९) पदव्यवाये अतद्धिते ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-२/९) पदव्यवाये अतद्धिते इति वक्तव्यम् ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-३/९) इह मा भूत् ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-४/९) आर्द्रगोमयेण शुष्कगोमयेण इति ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-५/९) तत् तर्हि वक्तव्यम् ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-६/९) न वक्तव्यम् ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-७/९) न एवम् विज्ञायते पदेन व्यवाये पदव्यवाये इति ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-८/९) कथम् तर्हि ।

(पा-८,४.३८; अकि-३,४६३.१-५; रो-५,५०६; भा-९/९) पदे व्यवायः पदव्यवायः पद्व्यवाये इति

(पा-८,४.३९; अकि-३,४६३.६-७; रो-५,५०६; भा-१/१) अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः

(पा-८,४.४०; अकि-३,४६३.८-११; रो-५,५०६; भा-१/५) किमर्थम् तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत ।

(पा-८,४.४०; अकि-३,४६३.८-११; रो-५,५०६; भा-२/५) आनन्तर्यमात्रे श्चुत्वम् यथा स्यात् ।

(पा-८,४.४०; अकि-३,४६३.८-११; रो-५,५०६; भा-३/५) यज्ञः राज्ञः याच्ञा ।

(पा-८,४.४०; अकि-३,४६३.८-११; रो-५,५०६; भा-४/५) अथ सङ्ख्यातानुदेशः कस्मात् न भवति ।

(पा-८,४.४०; अकि-३,४६३.८-११; रो-५,५०६; भा-५/५) आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यत् अयम् शात् प्रतिषेधम् शास्ति

(पा-८,४.४१; अकि-३,४६३.१२-१५; रो-५,५०७; भा-१/५) किमर्थम् त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत ।

(पा-८,४.४१; अकि-३,४६३.१२-१५; रो-५,५०७; भा-२/५) आनन्तर्यमात्रे ष्टुत्वम् यथा स्यात् ।

(पा-८,४.४१; अकि-३,४६३.१२-१५; रो-५,५०७; भा-३/५) पेष्टा लेढा ।

(पा-८,४.४१; अकि-३,४६३.१२-१५; रो-५,५०७; भा-४/५) अथ सङ्ख्यातानुदेशः कस्मात् न भवति ।

(पा-८,४.४१; अकि-३,४६३.१२-१५; रो-५,५०७; भा-५/५) आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यत् अयम् तोःषि इति प्रतिषेधम् शास्ति

(पा-८,४.४२; अकि-३,४६३.१६-१८; रो-५,५०७; भा-१/४) अनाम् इति किम् ।

(पा-८,४.४२; अकि-३,४६३.१६-१८; रो-५,५०७; भा-२/४) षण्णाम् भवति कश्यपः ।

(पा-८,४.४२; अकि-३,४६३.१६-१८; रो-५,५०७; भा-३/४) अत्यल्पम् इदम् उच्यते अनाम् इति ।

(पा-८,४.४२; अकि-३,४६३.१६-१८; रो-५,५०७; भा-४/४) अनान्नवतिनगरीणाम् च इति वक्तव्यम् ॒ षण्णाम् , षण्णवतिः , षण्णगरी

(पा-८,४.४५; अकि-३,४६४.१-४; रो-५,५०७; भा-१/४) यरः अनुनासिके प्रत्यये भाषायाम् नित्यवचनम् ।

(पा-८,४.४५; अकि-३,४६४.१-४; रो-५,५०७; भा-२/४) यरः अनुनासिके प्रत्यये भाषायाम् नित्यम् इति च वक्तव्यम् ।

(पा-८,४.४५; अकि-३,४६४.१-४; रो-५,५०७; भा-३/४) वाङ्मयम् ।

(पा-८,४.४५; अकि-३,४६४.१-४; रो-५,५०७; भा-४/४) त्वङ्मयम् इति

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१/१९) द्विर्वचने यणः मयः । द्विर्वचने यणः मयः इति वक्तव्यम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-२/१९) किम् उदाहरणम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-३/१९) यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकम् इति उदहरणम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-४/१९) अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-५/१९) शरः खयः ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-६/१९) शरः खयः इति वक्तव्यम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-७/१९) किम् उदाहरणम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-८/१९) यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-९/१९) अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरम् अप्स्सराः इति उदाहरणम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१०/१९) अवसाने च । अवसाने च द्वे भवतः इति वक्तव्यम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-११/१९) वाक्क् वाक् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१२/१९) त्वक्क् त्वक् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१३/१९) स्रुक्क् स्रुक् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१४/१९) तत् तर्हि वक्तव्यम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१५/१९) न वक्तव्यम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१६/१९) न अयम् प्रसज्यप्रतिषेधः ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१७/१९) अचि न इति ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१८/१९) किम् तर्हि पर्युदसः अयम् ।

(पा-८,४.४७; अकि-३,४६४.५-१७; रो-५,५०७-५०८; भा-१९/१९) यत् अन्यत् अचः इति

(पा-८,४.४८; अकि-३,४६४.१८-२०; रो-५,५०८; भा-१/३) न आदिनि आक्रोशे पुत्रस्य इति तत्परे च ।

(पा-८,४.४८; अकि-३,४६४.१८-२०; रो-५,५०८; भा-२/३) न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यम् ।

(पा-८,४.४८; अकि-३,४६४.१८-२०; रो-५,५०८; भा-३/३) पुत्रपुत्रादिनि

(पा-८,४.४८; अकि-३,४६४.२१-२२; रो-५,५०८; भा-१/४) वा हतजग्धपरे च ।

(पा-८,४.४८; अकि-३,४६४.२१-२२; रो-५,५०८; भा-२/४) वा हतजग्धपरे इति वक्तव्यम् ।

(पा-८,४.४८; अकि-३,४६४.२१-२२; रो-५,५०८; भा-३/४) पुत्रहती पुत्त्रहती ।

(पा-८,४.४८; अकि-३,४६४.२१-२२; रो-५,५०८; भा-४/४) पुत्रजग्धी पुत्त्रजग्धी

(पा-८,४.४८; अकि-३,४६५.१-३; रो-५,५०८; भा-१/३) चयः द्वितीयाः शरि पौष्करसादेः ।

(पा-८,४.४८; अकि-३,४६५.१-३; रो-५,५०८; भा-२/३) चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन ।

(पा-८,४.४८; अकि-३,४६५.१-३; रो-५,५०८; भा-३/३) वथ्सः , ख्षीरम् , अफ्सराः

(पा-८,४.६१; अकि-३,४६५.४-६; रो-५,५०९; भा-१/३) उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् ।

(पा-८,४.६१; अकि-३,४६५.४-६; रो-५,५०९; भा-२/३) उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-८,४.६१; अकि-३,४६५.४-६; रो-५,५०९; भा-३/३) अघ्न्ये दूरम् उत्कन्द

(पा-८,४.६१; अकि-३,४६५.७; रो-५,५०९; भा-१/२) रोगे च इति वक्तव्यम् ।

(पा-८,४.६१; अकि-३,४६५.७; रो-५,५०९; भा-२/२) उत्कन्दकः रोगः

(पा-८,४.६३; अकि-३,४६५.८-१०; रो-५,५०९; भा-१/५) छत्वम् अमि तच्छ्लोकेन तच्छ्मश्रुणा इति प्रयोजनम् ।

(पा-८,४.६३; अकि-३,४६५.८-१०; रो-५,५०९; भा-२/५) छत्वम् अमि इति वक्तव्यम् ।

(पा-८,४.६३; अकि-३,४६५.८-१०; रो-५,५०९; भा-३/५) किम् प्रयोजनम् ।

(पा-८,४.६३; अकि-३,४६५.८-१०; रो-५,५०९; भा-४/५) तच्छ्लोकेन ।

(पा-८,४.६३; अकि-३,४६५.८-१०; रो-५,५०९; भा-५/५) तच्छ्मश्रुणा इति

(पा-८,४.६५; अकि-३,४६५.११-१५; रो-५,५०९; भा-१/७) सवर्णग्रहणम् किमर्थम् ।

(पा-८,४.६५; अकि-३,४६५.११-१५; रो-५,५०९; भा-२/७) झरः झरि सवर्णग्रहणम् समसङ्ख्यप्रतिषेधार्थम् ।

(पा-८,४.६५; अकि-३,४६५.११-१५; रो-५,५०९; भा-३/७) झरः झरि सवर्णग्रहणम् क्रियते समसङ्ख्यप्रतिषेधार्थम् ।

(पा-८,४.६५; अकि-३,४६५.११-१५; रो-५,५०९; भा-४/७) सङ्ख्यातानुदेशः मा भूत् इति ।

(पा-८,४.६५; अकि-३,४६५.११-१५; रो-५,५०९; भा-५/७) किम् च स्यात् ।

(पा-८,४.६५; अकि-३,४६५.११-१५; रो-५,५०९; भा-६/७) इह न स्यात् ।

(पा-८,४.६५; अकि-३,४६५.११-१५; रो-५,५०९; भा-७/७) शिण्ढि पिण्ढि इति

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१/५१) किमर्थम् इदम् उच्यते ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२/५१) अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३/५१) किम् पुनः कारणम् विवृतः उपदिश्यते ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४/५१) आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-५/५१) आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-६/५१) आदेशार्थम् तावत् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-७/५१) वृक्षाभ्याम् , देवदत्ता३ ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-८/५१) आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-९/५१) सवर्णार्थम् च ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१०/५१) अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-११/५१) आकारस्य तथा ह्रस्वः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१२/५१) तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१३/५१) अस्ति प्रयोजनम् एतत् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१४/५१) किम् तर्हि इति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१५/५१) अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१६/५१) खट्वा माला ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१७/५१) न एषः दोषः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१८/५१) यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-१९/५१) आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् । आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२०/५१) केषाम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२१/५१) उदात्तानुदात्तस्वरितानुनासिकानाम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२२/५१) सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२३/५१) कथम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२४/५१) तपरनिर्देशात् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२५/५१) तपरनिर्देशः कर्तव्यः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२६/५१) अत् अ* इति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२७/५१) अपरः आह ॒ अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२८/५१) अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः ॒ खट्वा माला ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-२९/५१) न एषः दोषः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३०/५१) दीर्घोच्चारणसामर्थ्यात् न भविष्यति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३१/५१) इदम् तर्हि प्रयोजनम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३२/५१) वृक्षाभ्याम् प्लक्षाभ्याम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३३/५१) अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३४/५१) इदम् तर्हि ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३५/५१) अपि काकः श्येनायते ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३६/५१) ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३७/५१) अस्ति अन्यत् दीर्घवचने प्रयोजनम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३८/५१) किम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-३९/५१) दधीयति मधूयति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४०/५१) अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४१/५१) केषाम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४२/५१) उदात्तानुदात्तस्वरितानुनासिकानाम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४३/५१) सिद्धम् तु तपरनिर्देशात् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४४/५१) सिद्धम् एतत् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४५/५१) कथम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४६/५१) तपरनिर्देशात् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४७/५१) तपरनिर्देशः कर्तव्यः ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४८/५१) अत् अत् इति ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-४९/५१) एकशेषनिर्देशात् वा स्वरभिन्नानाम् भगवतः पाणिनेः सिद्धम् । एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-५०/५१) एकशेषनिर्देसः अयम् ।

(पा-८,४.६८; अकि-३,४६५.१६-४६७.३; रो-५,५०९-५१२; भा-५१/५१) अ , अ , अ इति