व्याप्त्यधिकरणं...

विकिपुस्तकानि तः
Jump to navigation Jump to search

उ.- अधिकरणसङ्गति:- पूर्वाधिकरणे ‘ओमित्येतदक्षरमुद्गीथम् ...’ इत्यत्र ओङ्कार: तथा उद्गीथ: इत्येतयो: विशेषणविशेष्यभावं गृहीत्वा अग्रिमं प्रतिपादनं कृतम्।अत्र स: एव भाव: आक्षिप्यते इति आक्षेपसङ्गत्या इदमधिकरणमारभ्यते तृतीयाध्याये तृतीयपादे।
विषय:- ओमित्येतदक्षरमुद्गीथम् .(छा.१.१.१)
विशय:- ओङ्कारस्तथा उद्गीथ: इत्येतयो:
१ अध्यास: विवक्षित:
२ अथवा अपवाद:
३ अथवा ऐक्यम्
४ अथवा विशेषणविशेष्यभाव:?
पूर्वपक्ष: (अध्यासपक्ष:)-अध्यास: विवक्षित:।यथा ‘नाम ब्रह्म इत्युपासीत’ इति वचने नाम्नि ब्रह्माध्यास: विवक्षित:। तत्र नाम्नि नामबुद्धि: न लुप्यति। तया सह ब्रह्मबुद्धि: अप्यनुवर्तते। एवमेव अत्र उद्गीथे अक्षरबुद्धि: अथवा अक्षरे उद्गीथबुद्धि: अध्यस्या।
२ अपवादपक्ष:
यथा ‘रजतत्वेन गृहीत: पदार्थ: शुक्तिका अस्ति’ इत्यत्र रजतनिषेधेन शुक्तिका व्यवस्थाप्यते। तथा अत्र अक्षरनिषेधेन उद्गीथ: व्यवस्थाप्यते।
३ ऐक्यपक्ष:-
यथा ‘भूदेव: ब्राह्मण:’ इत्यत्र भूदेवब्राह्मणयो: ऐक्यं विवक्षितं तथा अत्र उद्गिथाक्षरयो: ऐक्यं विवक्षितम्।
उत्तरपक्ष:-
१ उद्गीथोङ्कारयो: विशेषणविशेषभाव: मन्तव्य:।त्रिषु अपि वेदेषु ओङ्कारो विद्यते। अत: कतम: ओङ्कार: उपास्य: इति आकाङक्षायाम् उद्गीथावयव: ओङ्कार: उपास्य: इति लभ्यते।एतदेव समञ्जसम्।
२ अध्यासपक्षे अपवादपक्षे च स्वतन्त्रमध्यासस्य अपवादस्य वा पृथक् फलं कल्पनीयम्।तथा कल्पना विशेषणपक्षे नावश्यकी।
३ मिथ्याज्ञाननिवृत्ति: इति अपवादस्य फलमपि न सम्भवति, पुरुषार्थोपयोगानुपगमात्। ओङ्कारे ओङ्कारज्ञानापवादेन उद्गीथज्ञाने सति न कश्चन पुरुषार्थे उपकार: भवति।नच वस्तुप्रतिपादनपरमिदं वचनम्। इदं तूपासनाप्रतिपादनपरं वचनम्।तत्र मिथ्याज्ञानस्य निवृत्ति: नैव काङ्क्ष्यते।
३ अथापि अपवादे नोङ्कारबुद्धि: ओङ्कारात् निवर्तयितुं शक्या, न वोद्गीथबुद्धि: उद्गीथात् निवर्तयितुं शक्या।
४ ऐक्यपक्ष: अपि नोचित:। उद्गीथोङ्कारयो: ऐक्ये उभयोरुच्चारणम् अनर्थकं स्यात्।
५ ऐक्यार्थम् उभयो: पदार्थयो: अनतिरिक्तवृत्तिता आवश्यकी। यथा यत्र भूदेवत्वं तत्र ब्राह्मणत्वं तथा यत्र ब्राह्मणत्वं तत्र भूदेवत्वम्।(ब्राह्मणत्वानधिकरणावृत्तित्वं भूदेवत्वे। भूदेवत्वा-नधिकरणावृत्तित्वं ब्राह्मणत्वे)उद्गीथोङ्कारयो: तथा न सम्भवति।उद्गीथातिरिक्ते ऋग्वेदीये यजुर्वेदीये च ओङ्कारे ओङ्कारत्वं वर्तते।सकले उद्गीथे च ओङ्कारशब्द: प्रसिद्ध: इत्यपि नास्ति। अत: ओङ्कारत्वानधिकरणे साम्नि उद्गीथत्वमस्ति।
६ परिशेषाद् विशेषणपक्ष: एव ग्राह्य:।सर्वेषु वेदेषु ओङ्कारस्य व्याप्ति: दृश्यते अत: अत्र उपासनायाम् उद्गीथावयव ओङ्कार: एव ग्राह्य: इत्यर्थ:। अस्मिन् पक्षे अपि ओङ्कारस्य ओङ्कारावयवे लक्षणा क्रियते।तथापि अध्यासपक्षगतलक्षणाया: अपेक्षया इयं सन्निकृष्टा। अध्यासपक्षे सर्वथा भिन्ने पदार्थे भिन्नपदार्थस्य लक्षणा क्रियते ।अत्र अवयविन: उद्गीथस्य अवयवे ओङ्कारे लक्षणा क्रियते।
निर्णय:- प्रकृते उद्गीथस्य विशेष्यमोङ्कार:।

 ३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=व्याप्त्यधिकरणं...&oldid=5692" इत्यस्माद् प्रतिप्राप्तम्