व...

विकिपुस्तकानि तः
Jump to navigation Jump to search

वर्णः =
रूपम् ।
यथा ‘अभास्वरशुक्लम्’ इति जलस्य वर्णः, रूपं वा।
यथा कफस्य वर्णः श्वेतः, रूपं वा श्वेतम्।

वस्तुप्रतिपादकशब्दः =
नाम।
यथा ‘वायुः’ इति महाभूतविशेषप्रतिपादकशब्दः, महाभूतविशेषस्य नाम वा।
यथा ‘वातः’ इति दोषविशेषप्रतिपादकशब्दः, दोषविशेषस्य नाम वा

वाक्यार्थज्ञानम् =
शाब्दबोधः।शाब्दज्ञानम्शाब्दबुद्धिः।अन्वयबोधः।वाक्यार्थबोधः।
यथा ‘चैत्रः पचति’ इति वाक्यात् ‘पाकानुकूलकृत्याश्रयः चैत्रः’ इति वाक्यार्थज्ञानं शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः,वाक्यार्थबोधः, वा भवति।
यथा ‘न नक्तं दधि भुञ्जीत’ इति वचनात् ‘ निशाकालावच्छिन्न-दधिविषयक-भक्षणव्यापारनिष्ठ-निषिद्धताबोधनानुकूलव्यापारवान् ग्रन्थकारः’ इति वाक्यार्थबोधः, शाब्दबोधः, शाब्दज्ञानं,शाब्दबुद्धिः, अन्वयबोधः, वाक्यार्थज्ञानं वा भवति।

वाक्यार्थबोधः =
शाब्दबोधः।शाब्दज्ञानम्।शाब्दबुद्धिः।अन्वयबोधः।वाक्यार्थज्ञानम्
यथा ‘चैत्रः पचति’ इति वाक्यात् ‘पाकानुकूलकृत्याश्रयः चैत्रः’ इति वाक्यार्थबोधः,शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः,वाक्यार्थज्ञानं वा भवति।
यथा ‘न नक्तं दधि भुञ्जीत’ इति वचनात् ‘ निशाकालावच्छिन्न-दधिविषयक-भक्षणव्यापारनिष्ठ-निषिद्धताबोधनानुकूलव्यापारवान् ग्रन्थकारः’ इति वाक्यार्थबोधः, शाब्दबोधः, शाब्दज्ञानं,शाब्दबुद्धिः, अन्वयबोधः, वाक्यार्थज्ञानं वा भवति।

वाच्यत्वम् =
अभिधेयत्वम्।
यथा घटो वाच्यः, अभिधेयः वा।
यथा वातः वाच्यः, अभिधेयः वा।

वारणम् =
निवारणम्
यथा ‘स्पर्शवान् वायुः’ इति लक्षणे तेजोजलपृथिविषु अतिव्याप्तिः सम्भवति। तस्याः वारणं, निवारणं वा रूपरहितः इति विशेषणेन क्रियते।
यथा स्नेहपाने आरब्धे सम्भाव्यामदोषस्य वारणं निवारणं वा उष्णोदकानुपानेन क्रियते।

विजातीयतेजःसंयोगः =
पाकः ।
यथा रूपादिचतुष्टयं पृथिव्यां विजातीयतेजःसंयोगजं, पाकजं वा।
यथा अन्ने विजातीयतेजःसंयोगात् पाकात् वा रसान्तरम् उदेति।

विनाशः =
ध्वंसः। नाशः। निवृत्तिः। प्रध्वंसाभावः।
यथा दण्डाघाताद् घटस्य विनाशः, ध्वंसः, नाशः, निवृत्तिः, प्रध्वंसाभावः वा भवति।
यथा उष्णेन कफस्य विनाशः,ध्वंसः, नाशः, निवृत्तिः,प्रध्वंसाभावः, वा भवति।

विपक्षः =
व्यतिरेकदृष्टान्तः। व्यतिरेकि उदाहरणम्।
यथा पर्वतो वह्निमान् धूमात् इत्यनुमाने यत्र वह्न्यभावः तत्र धूमाभावः इति व्यतिरेकव्याप्तिः।तस्यां व्याप्तौ ह्रदः इति विपक्षः, व्यतिरेकदृष्टान्तः, व्यतिरेकि उदाहरणं वा ।
यथा भीमसेनः बलवान, व्यायामशक्तेः इत्यनुमाने यत्र बलाभावः तत्र व्यायामशक्त्यभावः इति व्यतिरेकव्याप्तिः।तस्यां व्याप्तौ सुदामा इति विपक्षः, व्यतिरेकदृष्टान्तः, व्यतिरेकि उदाहरणं वा ।

विरुद्धत्वम् =
असामानाधिकरण्यम्। वैयधिकरण्यम्। विरोधः। एकाधिकरणवृत्तित्वाभावः। एकाधिकरणावृत्तित्वम्। व्यधिकरणत्वम्। भिन्नाधिकरणत्वम् ।
शीतस्पर्शोष्णस्पर्शयोः विरुद्धत्वम्, असामानाधिकरण्यं, वैयधिकरण्यं, विरोधः, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।
समविषमाग्न्योः विरुद्धत्वम्, असामानाधिकरण्यं, वैयधिकरण्यं, विरोधः, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।

विरोधः =
असामानाधिकरण्यम्। वैयधिकरण्यम्। विरुद्धत्वम्। एकाधिकरणवृत्तित्वाभावः। एकाधिकरणावृत्तित्वम्। व्यधिकरणत्वम्। भिन्नाधिकरणत्वम्
शीतस्पर्शोष्णस्पर्शयोः विरोधः, असामानाधिकरण्यं, वैयधिकरण्यं, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।
समविषमाग्न्योः विरोधः, असामानाधिकरण्यं, वैयधिकरण्यं, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।

वृत्तिः =
आधेयता। आधेयत्वम् ।सत्त्वम्
यथा ’भूतले घटः ’ इत्यत्र घटे वृत्तिः, आधेयता, आधेयत्वं, सत्त्वं वा ।
यथा रक्ते पित्तमित्यत्र पित्ते वृत्तिः, आधेयता, आधेयत्वं, सत्त्वं वा।

वैयधिकरण्यम् =
असामानाधिकरण्यम्। विरोधः। विरुद्धत्वम्। एकाधिकरणवृत्तित्वाभावः। एकाधिकरणावृत्तित्वम्। व्यधिकरणत्वम्। भिन्नाधिकरणत्वम्
शीतस्पर्शोष्णस्पर्शयोः वैयधिकरण्यम्, असामानाधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।
समविषमाग्न्योः वैयधिकरण्यम्, असामानाधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, व्यधिकरणत्वं, भिन्नाधिकरणत्वं वा विद्यते।

व्यतिरेकः =
अभावः।
यथा भूतले घटस्य व्यतिरेकः अभावः वा।
यथा पित्ते शीतगुणस्य व्यतिरेकः अभावः वा ।

व्यतिरेकदृष्टान्तः =
विपक्षः।व्यतिरेकि उदाहरणम्
यथा पर्वतो वह्निमान् धूमात् इत्यनुमाने यत्र वह्न्यभावः तत्र धूमाभावः इति व्यतिरेकव्याप्तिः।तस्यां व्याप्तौ ह्रदः इति विपक्षः, व्यतिरेकदृष्टान्तः, व्यतिरेकि उदाहरणं वा ।
यथा भीमसेनः बलवान, व्यायामशक्तेः इत्यनुमाने यत्र बलाभावः तत्र व्यायामशक्त्यभावः इति व्यतिरेकव्याप्तिः।तस्यां व्याप्तौ सुदामा इति विपक्षः, व्यतिरेकदृष्टान्तः, व्यतिरेकि उदाहरणं वा ।

व्यतिरेकि उदाहरणम् =
विपक्षः। व्यतिरेकदृष्टान्तः।
यथा पर्वतो वह्निमान् धूमात् इत्यनुमाने यत्र वह्न्यभावः तत्र धूमाभावः इति व्यतिरेकव्याप्तिः।तस्यां व्याप्तौ ह्रदः इति विपक्षः, व्यतिरेकदृष्टान्तः, व्यतिरेकि उदाहरणं वा ।
यथा भीमसेनः बलवान, व्यायामशक्तेः इत्यनुमाने यत्र बलाभावः तत्र व्यायामशक्त्यभावः इति व्यतिरेकव्याप्तिः।तस्यां व्याप्तौ सुदामा इति विपक्षः, व्यतिरेकदृष्टान्तः, व्यतिरेकि उदाहरणं वा ।

व्यधिकरणत्वम् =
असामानाधिकरण्यम्। वैयधिकरण्यम्।विरोधः। विरुद्धत्वम्। एकाधिकरणवृत्तित्वाभावः। एकाधिकरणावृत्तित्वम्। भिन्नाधिकरणत्वम्
यथा शीतस्पर्शोष्णस्पर्शयोः व्यधिकरणत्वम्, असामानाधिकरण्यं, वैयधिकरण्यं, विरोधः, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं, भिन्नाधिकरणत्वं वा विद्यते।
यथा समविषमाग्न्योः व्यधिकरणत्वम्, असामानाधिकरण्यं, वैयधिकरण्यं,विरोधः, विरुद्धत्वम्, एकाधिकरणवृत्तित्वाभावः, एकाधिकरणावृत्तित्वं,भिन्नाधिकरणत्वं वा विद्यते।

व्यभिचारी =
सव्यभिचारः।अनैकान्तिकः ।
यथा ‘पर्वतो वह्निमान, पार्थिवत्वात्’ इत्यनुमाने पार्थिवत्वम् इति हेतुः व्यभिचारी सव्यभिचारः, अनैकान्तिकः, वा।
यथा ‘अयं कामली, पीतमूत्रवत्त्वात्’ इत्यनुमाने पीतमूत्रवत्त्वम इति हेतुः व्यभिचारी सव्यभिचारः, अनैकान्तिकः, वा।

व्यवहारः =
शब्दप्रयोगः ।
अन्योन्याभावे भेदः इति व्यवहारः, शब्दप्रयोगः बा भवति।
आमसंयुक्ते दोषे सामत्वव्यवहारः, सामत्वशब्दप्रोगः वा।

व्यापकजातिः =
परजातिः।
द्रव्यत्व-पार्थिवत्वयोः द्रव्यत्वम् इति व्यापकजातिः, परजातिःवा।
पुरुषत्व-समधातुत्वयोः पुरुषत्वम् इति व्यापकजातिः, परजातिः वा।

व्यापकत्वम् =
नियतत्वम्।
यथा धूमव्यापकत्वं, धूमनियतत्वं वा वह्नौ।
यथा स्वास्थ्यव्यापकत्वं, स्वास्थ्यनियतत्वं वा दोषसाम्ये।

व्यापारः =
द्वारम् ।
यथा देवदत्तः परशुसमवेतेन उद्यमननिपतनरूपेण व्यापारेण, द्वारेण वा काष्ठं छिनत्ति।
यथा हेतुः सम्प्राप्तिरूपेण व्यापारेण द्वारेण वा रोगं करोति।

व्याप्तिज्ञानम् =
अनुमानम् ।
यथा पर्वतस्यः वन्हिः व्याप्तिज्ञानेन अनुमानेन, वा गृह्यते।
यथा देहबलं व्याप्तिज्ञानेन अनुमानेन वा गृह्यते।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=व...&oldid=6466" इत्यस्माद् प्रतिप्राप्तम्