सामग्री पर जाएँ

शब्दाजन्यवृत्तिविषयत्वं दृश्यत्वम्

विकिपुस्तकानि तः

प्र.- स्पष्टीकुरुत – शब्दाजन्यवृत्तिविषयत्वं दृश्यत्वम्।
उ. सन्दर्भ:-
दृश्यत्वस्य अर्थ: वृत्तिविषयत्वम्।यथा घटादि:।एतेन तुच्छे (असत्पदार्थे) तथा ब्रह्मणि व्यभिचार: भवति।शशशृङ्गं तुच्छम् इत्यस्या: वृत्ते: विषय: शशशृङ्गम्।अत: तत्र दृश्यत्वलक्षणं वृत्तिव्याप्यत्वं तिष्ठति।दृश्यत्वात् हेतो: तुच्छमपि मिथ्या इति सिद्ध्यति।न च तुच्छं मिथ्या भवितुमर्हति।तुच्छस्य भिन्ना एव कोटि:।शुद्धं ब्रह्म वेदान्तवाक्यजन्यवृत्तिव्याप्यं भवति।अतस्तत्रापि दृश्यत्वहेतु-प्रसङ्ग:।दृश्यत्वात् तत्र मिथ्यात्वं प्राप्तम्।अयमपि व्यभिचार:।साध्यं मिथ्यात्वम्। हेतु: दृश्यत्वम्। साध्यारूपमिथ्यात्वाभाववति तुच्छे ब्रह्मणि च हेतो: सत्त्वात् व्यभिचारदोष:।तं परिहर्तुं शब्दाजन्यमिति लक्षणे समावेशितम्।
अथवा
सप्रकारकवृत्तिविषयत्वं दृश्यत्वम्।तुच्छे शुद्धे च तद् नास्ति।अत्र प्रकार: नाम सोपाख्य: कश्चिद् धर्म:।उपाख्या सत्त्वेन (अस्तित्वेन) प्रतीयमानत्वम्।सत्त्वेन प्रतीयमानत्वरूपप्रकारकवृत्तिविषयत्वं दृश्यत्वम्।ब्रह्मणि सत्त्वं प्रकारत्वेन न प्रतीयते।तुच्छे शशशृङ्गे शशशृङ्गत्वमिति प्रकार: सोपाख्य: (सत्त्वेन प्रतीयमान:) नास्ति।अत: व्यभिचारदोष: न सम्भवति।
आक्षेप:-
अभाव: अभावत्वप्रकारक: नास्ति।तस्य दृश्यत्वं न स्यात्।तत: तत्र मिथ्यात्वमपि न स्यात् यतो हि मिथ्यात्वं दृश्यत्वेन हेतुना साध्यते।यदि अभावे मिथ्यात्वं न सिद्ध्यति तर्हि भागासिद्धि: दोष:।
समा.-
अभावे अभावत्वप्रकार: विद्यते।स च प्रकार: सोपाख्य: अस्ति। अभाव: अस्ति, अभावे अभावत्वमस्ति इति प्रतीते:।
आक्षेप: -
अहं ब्रह्म इत्याकारकवृत्ते: व्याप्यत्वमात्मनि विद्यते।अत: तत्र दृश्यत्वहेतु: अस्ति।साधारणानैकान्तिक: हेत्वाभासोऽयम्।(साध्याभाववद्वृत्ति: साधारणानैकान्त:)साध्यं मिथ्यात्वम्।तदभाव: आत्मनि।तत्र वृत्तिव्याप्यत्वं विद्यते इति साधारणानैकान्तत्वम्।
समा.-
नात्मा वृत्तिव्याप्ते: विषय: ‘यत्तदद्रेश्यम्’ इति श्रुते:।शुद्धं ब्रह्म न दृश्यम्। उपहितं ब्रह्म दृश्यं परं तन्मिथ्या इति अस्माभिरपि अभ्युपगम्यते।तद् वृत्तिव्याप्यम् अस्ति।
आक्षेप:-
भवताम् आचार्या: ‘सर्वप्रत्ययवेद्यं ब्रह्म’ इति प्रयोगं कुर्वन्ति।अत्र तु ब्रह्मण: वृत्तिविषयत्वं निषिद्ध्यते।स्ववचनविरोधोऽयम्।
समा.- नैवम्। आचार्यस्य तद् वचनमपि उपहितब्रह्मपरं न शुद्धब्रह्मपरम्।अत: न स्ववचनविरोध:।
आक्षेप:-
यदि शुद्धं ब्रह्म सर्वथा वृत्तिव्याप्यं नास्ति, तर्हि तस्य सिद्धिरेव न भवति।
समा.-
नैवम्।परप्रकाशस्य पदार्थस्य सिद्धये प्रमाणापेक्षा, न स्वप्रकाशस्य। स्वप्रकाशत्वात् शुद्धं ब्रह्म स्वत:सिद्धम्।
आक्षेप:-
अज्ञाते धर्मिणि कस्यापि धर्मस्य विधानं न सम्भवति, निषेधोऽपि न सम्भवति।यदि शुद्धं ब्रह्म अज्ञातं तर्हि तत्र ‘अद्रेश्यम्’ इत्यादि: दृश्यत्वादिनिषेध: न सम्भवति।
समा.-
शुद्धे ब्रह्मणि अदृश्यत्वादीनां निषेधाय ब्रह्म सिद्धं भवितुमर्हतीति सत्यम्।तद् वृत्तिव्याप्यं भवितुमर्हतीति नावश्यकम्।स्वयंसिद्धस्य ब्रह्मण: अनुवादेन श्रुति: तत्र दृश्यतादिधर्मान् निषेधति।
आक्षेप:-
‘शुद्धं स्वप्रकाशकम्’ इत्यत्र शुद्धे ब्रह्मणि स्वप्रकाशकत्वधर्म: विधीयते। ‘शुद्धं ब्रह्म’ इत्याकारकवृत्तिविषयत्वाभावे ब्रह्मण: स्वप्रकाशकत्वमेव न सिद्ध्यति। शुद्धस्य यदि वृत्तिव्याप्यत्वं नास्त्येव तर्हि शुद्धं स्वप्रकाशकम् इत्यस्मिन् ज्ञाने स्वप्रकाशकत्वमपि न सिद्ध्येत्।
समा.-
शुद्धं स्वप्रकाशकमं इति वृत्तिकाले वृत्तिरूपेण धर्मेण ब्रह्म उपहितमेव भवति, न तु शुद्धम्।शुद्धस्य वृत्तिविषयत्वं न सम्भवति। आक्षेप:-
तर्हि शुद्धं स्वप्रकाशकम् इत्यस्माद्वाक्याद् जायमान: बोध: कीदृश:?
समा.-
शुद्धस्य अशुद्धे विपरीतलक्षणा।स्वप्रकाशस्य अस्वप्रकाशे विपरीतलक्षणा। तत: ‘यद् अस्वप्रकाशं तद् अशुद्धम् इति बोध: जायते, स तुलक्ष्यार्थ:।अशुद्धम् अस्वप्रकाशव्याप्यम् इति अर्थ: फलित:। ब्रह्मणि अस्वप्रकाशत्वाभाव: (व्यापकाभाव:)।अत: ब्रह्मणि अशुद्धत्वाभाव: (व्याप्याभाव:) सिद्ध्यति। यथा भेदनिषेधेन अभेद: पर्यवस्यति, तथा अशुद्धत्वनिषेधेन शुद्धत्वं पर्यवस्यति।
आक्षेप:-
‘शुद्धं स्वप्रकाशकम्’ इत्यत्र शुद्धपदस्यार्थ: यदि नाभिप्रेत:, तर्हि शुद्धपदवैय्यर्थ्यम्।
समा.-
पर्यवसितार्थाय शुद्धपदम् आवश्यकम्।अत: अस्मन्मते शुद्धं न दृश्यम् इत्यस्यार्थ: अशुद्धम् अदृश्यत्वाभावव्यापकम्।शुद्धं न मिथ्या इत्यस्यार्थ: अशुद्धम् अमिथ्यात्वव्यापकम्।
माध्यमिककृताक्षेप:-
ब्रह्म मिथ्या, स्फुरणात्। यत् स्फुरति, तन्मिथ्या, शुक्तिरजतवत्।
समा.-
ब्रह्म पक्ष:। स्फुरणं हेतु:।मिथ्यात्वं साध्यम्।शुक्तिरजतं दृष्टान्त:।स्फुरणं द्विविधं, स्वत: स्फुरणं अन्यत: स्फुरणं च। प्रकृतानुमाने किमनयो: विवक्षितम्? यदि स्वत: स्फुरणं विवक्षितं तर्हि दृष्टान्तवैकल्यं दोष:।शुक्तिरजते स्वत:स्फुरणं नास्ति।यदि अन्यत:स्फुरणं (स्फुरणविषयत्वं) विवक्षितं तर्हि पक्षे हेत्वसिद्धि:। (स्वरूपासिद्धि:?आश्रयासिद्धि:?)पक्षभूते ब्रह्मणि अन्यत:स्फुरणरूप: हेतु: न विद्यते। अत: अनुमानमिदमप्रमाणम्।
आक्षेप: -
विशिष्टभाने विशेष्यविशेषणयो: उभयो: भानं भवति।अत: विशिष्टस्य विषयत्वे विशेष्यविशेषणयो: उभयोरपि विषयत्वम्।य: सर्वज्ञ: इति श्रुत्या सर्वज्ञं ब्रह्म दृश्यत्वेन प्रतिपादितम्।सर्वज्ञत्वं दृश्यम्।ब्रह्म दृश्यम्।तेन ब्रह्मणि मिथ्यात्वं प्राप्तम्। तच्च नास्तीति व्यभिचारदोष:।
समा.-
विशिष्टस्य विषयत्वे विशेष्यविशेषणयो: उभयोरपि विषयत्वमिति नास्ति नियम:। चन्द्राभ्युदितेष्टे: विधौ ‘ये क्षोदिष्ठा: तान् विष्णवे शिपिविष्टाय सूते चरुम्’ इति वचनमस्ति।तत्र शिपिविष्टविशिष्टविष्णु: एव देवता।न शिपिविष्टमात्रं न वा इन्द्रमात्रम्।पूर्णमासेष्टौ अग्निषोमौ देवता।नाग्निमात्रं न वा सोममात्रम्।तथैवात्र ‘सर्वज्ञं ब्रह्म’ वृत्तिविषय:। न ब्रह्ममात्रम्।
आक्षेप:-
तर्हि सर्वज्ञमात्रेऽपि न वृत्तिविषयत्वम्।तथा सति तत्र दृश्यत्वाभाव:।अत: मिथ्यात्वस्य असिद्धि:।सर्वज्ञत्वे मिथ्यात्वं न सिद्ध्यति चेद् भागासिद्धिदोष:।
समा.-
सर्वज्ञत्वमिति प्रकृते विशेषणम्।अतस्तस्य पृथग्वृत्तिविषयत्वं नास्तीति सत्यम्। तथापि तस्य वृत्तिविषयत्वं सर्वथैव नास्तीति न।अन्यत्र सर्वज्ञत्वम् इति वृत्तिव्याप्यमस्ति एव।अत: तत्र अमिथ्यात्वप्रसङ्ग: नोद्भवति। एवं शुद्धं ब्रह्म कुत्रापि वृत्तिविषय: न भवति अत: तत्र मिथ्यात्वं न सम्भवति।
आक्षेप:-
अहं ब्रह्म इत्यखण्डाकारा वृत्ति:। अस्या: वृत्ते: विषय: किं शुद्धं ब्रह्म अथवा उपहितं ब्रह्म?
समा.-
उपहितं ब्रह्म।
आक्षेप:-
अहं ब्रह्म इति ज्ञाने विशेष्यविशेषणसंसर्गा न भासन्ते।अत: अत्र उपाधि: कोऽपि नास्ति।अत्र अहं ब्रह्म इति एषा वृत्तिरेव उपाधि: इति मन्तव्यम् इति वचनम् अपि न युज्यते। शाब्दबोधे शब्दानुपस्थिताभाननियम:।अहं ब्रह्म इति ज्ञाने ‘अहं ब्रह्म इति वृत्ति: शब्देन उपस्थिता नास्ति।
समा.-
शाब्दबोधे स्वभिन्नशब्दानुपस्थित-अभाननियम:’ परिष्कार: कार्य:।स्वम् इति वृत्ति:।तेन वृत्ति: शब्देनानुपस्थितापि भासते।तथा उपहितं ब्रह्म तस्या: वृत्ते: विषय:।
आक्षेप:-
एवं कथञ्चित्समाधानं कृतं चेदपि एषा वृत्ति: अज्ञानस्य तत्कार्यस्य नाशाय समर्था न भविष्यति।अज्ञान-तत्कार्यविषयकज्ञानस्यैव तदुभयनिवर्तकत्वम्। यथा- अज्ञानं – शुक्तिविषयकम्।तत्कार्यं – रजतम् एतदुभयमपि शुक्तिज्ञानेन एव निवर्तते।यदि अयं नियम: नाङ्गीक्रियते, तर्हि
१ ‘अहमज्ञ:’ इति ज्ञानम्।तस्य विषय: अज्ञानविशिष्ट: आत्मा।अहमज्ञ: इति वृत्ति: अज्ञानस्य नाशाय समर्था नास्ति।
२ अयं घट: इति ज्ञानम्।तत्र वृत्ते: विषय: घटोपहितचैतन्यम्।घट: अज्ञानकार्यम्।‘अयं घट:’ इत्याकारा वृत्ति: घटनाशाय समर्था नास्ति। समा.-
१ अहं ब्रह्म इति शाब्दबोधे अहं ब्रह्म इति वृत्ति: न भासते तथापि तस्या: उपधायकत्वम् अस्माभि: अभ्युपगम्यते।
२ शुद्धं ब्रह्मेति विषयीकुर्वाणा वृत्ति: स्वेतरोपाधिनिवृत्तिहेतु: स्वनिवृत्तिहेतुश्च।
३ शुद्धं ब्रह्म उपहितं सद् विषयीभवेदिति एतन्मात्रं वृत्त्युपरागोऽत्रास्ति।नैषा वृत्ति: विषयकोटिं प्रविष्टा।(न भास्यतया अङ्गीकृता)। वह्निज्ञानाय धूम: अस्तित्वमात्रेण (सत्तया) कारणं न भवति।विषयतया कारणं भवति। अत: वह्निज्ञानाय धूमज्ञानम् आवश्यकम्।घटज्ञाने चक्षु: अस्तित्वमात्रेण कारणं भवति।घटज्ञानाय चक्षुर्ज्ञानं नावश्यकम्।
एवमेवात्र वृत्ति: सत्तया ब्रह्मण: दृश्यत्वस्य कारणं भवति, न तु ज्ञाततया। यथा वा अज्ञानोपहितं चैतन्यं साक्षिसंज्ञकं भवति।तथापि अज्ञानस्य साक्षिकोटौ प्रवेश: नास्ति। तत्तु साक्ष्ये एवान्तर्भूतम्।
एवमिह वृत्त्युपहितं चैतन्यं विषय:।तथापि वृत्ति: विषयकोटिं न प्रविशति यतो हि स्वयं स्वस्य विषयता न भवति।
४ एवं ज्ञानस्य विषय: ब्रह्म, न तु वृत्ति:।अज्ञानस्य विषय: ब्रह्म।
५ ज्ञानाज्ञानयो: समानविषयकत्वमस्ति चेदेव तयो: निवर्त्यनिवर्तकभाव: सम्भवति।अत्र तथास्ति।अत: अहं ब्रह्म इति वृत्ति: ब्रह्मविषयकमज्ञानं निवर्तयितुं समर्था।
.............................................................

दीर्घोत्तरप्रश्ना: