शब्दाजन्यवृत्तिविषयत्वं दृश्यत्वम्।

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- स्पष्टीकुरुत- शब्दाजन्यवृत्तिविषयत्वं दृश्यत्वम्
उ.-
सन्दर्भ:-
विमतं मिथ्या, दृश्यत्वात् इति अनुमानं सिद्धान्तपक्षेण कृतम्।तत्र दृश्यत्वहेतो: षड् अर्था: सम्भवन्ति। तेषु अर्थेषु अयमन्यतम: अर्थ: शब्दाजन्यवृत्तिविषयत्वं दृश्यत्वमिति।अयमर्थ: सिद्धान्तमते अङ्गीकृत:।
दृश्यत्वं नाम वृत्तिविषयत्वम्।यथा घटस्य दृश्यत्वम्।
एतेन तुच्छे (असति) तथा ब्रह्मणि व्यभिचार: भवति।‘शशशृङ्गं तुच्छम्’ इत्यस्या: वृत्ते: विषय: तुच्छम्।तत्र वृत्तिविषयत्वं तिष्ठति।अत: तदपि मिथ्या भविष्यति।तच्चाभिप्रेतं नास्ति।तस्य तुच्छत्वमिति एव कोटि:।
शुद्धं ब्रह्म वेदान्तवाक्यजन्यवृत्तिव्याप्यं भवति।अतस्तत्रापि दृश्यत्वहेतु: प्रसक्त:। तेन तत्र साध्याभाववद्वृत्तित्वम्।(साध्यं मिथ्यात्वं, हेतु: दृश्यत्वम्।) तत्परिहर्तुं शब्दाजन्यत्वमिति।

                      अथवा

सप्रकारकवृत्तिविषयत्वं दृश्यत्वम् इति मन्तव्यम्।तुच्छे शुद्धे च सप्रकारकवृत्तिविषयत्वं नास्ति।
अत्र प्रकार: नाम सोपाख्य: कश्चिद् धर्म:।
उपाख्या नाम सत्त्वेन प्रतीयमानत्वं नाम अस्तित्वेन प्रतीयमानत्वम्।अत: सत्त्वेन प्रतीयमानत्वरूपप्रकारकवृत्तिविषयत्वं दृश्यत्वात् ब्रह्मणि सत्त्वं प्रकारत्वेन न प्रतीयते।तुच्छे शशशृङ्गे शशशृङ्गत्वम् इति प्रकार: सोपाख्य: (सत्त्वेन प्रतीयमान:) नास्ति।अत: व्यभिचारदोष: न सम्भवति।

लघूत्तरप्रश्ना: