शास्त्रयोनित्वात् ...व्याख्यात

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- जन्माद्यस्य यत: इति अस्मिन् सूत्रे विद्यमानानि पदानि न्यायरक्षामणिकारमतेन व्याख्यात।
उ.-
१ जन्मादि।
जन्मस्थितिभङ्गम्।जन्मस्थितिभङ्गानां समुदायोऽत्र विवक्षित:। जन्म अस्य यत:, स्थिति: अस्य यत:, भङ्ग: अस्य यत:, इति एकैकमपि लक्षणं सम्भवति।यथा अत्ता चराचरग्रहणात् इत्यधिकरणे सर्वसंहर्तृत्वं ब्रह्मण: लिङ्गत्वेन उपन्यस्तम्। तथापि जन्मादिषु त्रिषु ‘अन्यतरस्य कारणं ब्रह्म’ इति लक्षणे कृते अपरयो: कारणं वस्त्वन्तरं वेति शङ्का उद्भविष्यति। सा न स्यादत: समुदायस्य वचनम्।
२ अस्य-
अस्य इति कार्यस्य जगत:।मूलश्रुतौ ‘इमानि भूतानि’ इति वचनम् अस्ति। तदनुरुद्ध्य अत्र अस्य इति पदम्।श्रुतौ इमानि इति बहुवचनं दृश्यते।अत्र तु अस्य इति एकवचनमस्ति।तेन कृत्स्नस्य कार्यजातस्य एकस्मिन् वर्गे निर्देश: जात:। ईश्वरेण अनायासम् (सङ्कल्पमात्रेण) इदम् एककार्यवत् सृष्टम् इति ज्ञापनाय एकवचनमत्र प्रयुक्तम्।
३ यत: -
यस्मादिति अर्थ:।श्रुतिप्रतिपादितम् ईश्वररूपं मायाशबलितं ब्रह्म अनेन उक्तम्। ‘य: सर्वज्ञ: सर्वविद्’ इति श्रुतिवचनम्।तत्र विद्यमानस्य यत्सर्वनाम्न: परामर्श: ‘यतो ह वेमानि’ इत्यत्र यत: इति पदेन कृत:।तेन यत: इति पदे श्रुते सर्वज्ञस्य प्रत्यभिज्ञा जायते।तत: जगत्कारणत्वस्य संसारिणो जीवाद् व्यावर्तनं सिद्ध्यति। अत: सूत्रे अपि यत: इति पदमुपात्तम्।
यत: इति एषा हेतुपञ्चमी अथवा उपादानपञ्चमी इति विचार्यते।एषा हेतुपञ्चमी मन्तव्या।तेन निमित्तोपादानयो: उभयो: प्रतिपादनं भवति। उपादानपञ्चमी इति स्वीकृते -
अ) निमित्तमन्यद्वा ? इति आशङ्काया: अवसर:।
आ) मूलश्रुतौ येन यत् इति तृतीयाद्वितीयाविभक्त्योरपि प्रयोग: अस्ति।(येन जातानि जीवन्ति।यत् प्रयन्ति...।)तयो: विभक्त्यो: अपि सङ्ग्रह: यथा भवेत् तथा पञ्चम्या: विभक्ते: अर्थ: करणीय:।स च हेतु: एव सम्भवति, नोपादानम्।
जन्माद्यस्य यत: इति सूत्रस्य अपर: अपि पदच्छेद: सम्भवति-जन्म आद्यस्य यत:।अत्र आद्यपदेन हिरण्यगर्भ: उच्यते।सूत्रावृत्त्या अयमपि अर्थ: शक्य:।यतो ह वेमानि इति वाक्यं हिरण्यगर्भपरं वेति संशयस्य निरासाय अयं पदच्छेद: वक्तव्य:।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: