शिवसूत्र

विकिपुस्तकानि तः
Jump to navigation Jump to search



(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१/७४) अकारस्य विवृतोपदेशः आकारग्रहणार्थः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२/७४) अकारस्य विवृतोपदेशः कर्तव्यः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३/७४) किम् प्रयोजनम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४/७४) आकारग्रहणार्थः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५/७४) अकारः सवर्णग्रगणेन आकारम् अपि यथा गृह्णीयात् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६/७४) किम् च कारणम् न गृह्णीयात् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-७/७४) विवारभेदात् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-८/७४) किम् उच्यते विवारभेदात् इति न पुनः कालभेदाद् अपि ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-९/७४) यथा एव हि विवारभिन्नः एवम् कालभिन्नः अपि ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१०/७४) सत्यम् एतत् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-११/७४) वक्ष्यति तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र आस्यग्रहणस्य प्रयोजनम् आस्ये येषाम् तुल्यः देशः प्रयत्नः च ते सवर्णसञ्ज्ञकाः भवन्ति इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१२/७४) बाह्यः च पुनः आस्यात् कालः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१३/७४) तेन स्यात् एव कालभिन्नस्य ग्रहणम् न पुनः विवारभिन्नस्य ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१४/७४) किम् पुनः इदम् विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते आहोस्वित् संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१५/७४) विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१६/७४) कथम् ज्ञायते ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१७/७४) यत् अयम् अ* अ इति अकारस्य विवृतस्य संवृतताप्रत्यापत्तिम् शास्ति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१८/७४) न एतत् अस्ति ज्ञापकम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-१९/७४) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२०/७४) किम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२१/७४) अतिखट्वः , अतिमालः इति अत्र आन्तर्यतः विवृतस्य विवृतः प्राप्नोति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२२/७४) संवृतः स्यात् इति एवमर्था प्रत्यापत्तिः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२३/७४) न एतत् अस्ति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२४/७४) न एव लोके न च वेदे अकारो विवृतः अस्ति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२५/७४) कः तर्हि ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२६/७४) संवृतः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२७/७४) यः अस्ति सः भविष्यति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२८/७४) तत् एतत् प्रत्यापत्तिवचनम् ज्ञापकम् एव भविष्यति विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-२९/७४) कः पुनः अत्र विशेषः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायेत संवृतस्य उपदिश्यमानस्य वा विवृतोपदेशः चोद्येत इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३०/७४) न खलु कः चिद् विशेषः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३१/७४) आहोपुरुषिकामात्रम् तु भवान् आह संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३२/७४) वयम् तु ब्रूमः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति. तस्य विवृतोपदेशात् अन्यत्र अपि विवृतोपदेशः सवर्णग्रहणार्थः । तस्य एतस्य आक्षरसमाम्नायिकस्य विवृतोपदेशात् अन्यत्र अपि विवृतोपदेशः कर्तव्यः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३३/७४) क्व अन्यत्र ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३४/७४) धातुप्रातिपदिकप्रत्ययनिपातस्थस्य ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३५/७४) किम् प्रयोजनम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३६/७४) सवर्णग्रहणार्थः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३७/७४) आक्षरसमाम्नायिकेन अस्य ग्रहणम् यथा स्यात् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३८/७४) किम् च कारणम् न स्यात् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-३९/७४) विवारभेदात् एव ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४०/७४) आचार्यप्रवृत्तिः ज्ञापयति भवति आक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणम् इति यत् अयम् अकः सवर्णे दीर्घः इति प्रत्याहारे अकः ग्रहणम् करोति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४१/७४) कथम् कृत्वा ज्ञापकम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४२/७४) न हि द्वयोः आक्षरसमाम्नायिकयोः युगपत् समवस्थानम् अस्ति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४३/७४) न एतत् अस्ति ज्ञापकम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४४/७४) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४५/७४) किम्. यस्य आक्षरसमाम्नायिकेन ग्रहणम् अस्ति तदर्थम् एतत् स्यात् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४६/७४) खट्वाढकम् मालाढकम् इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४७/७४) सति प्रयोजने न ज्ञापकम् भवति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४८/७४) तस्मात् विवृतोपदेशः कर्तव्यः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-४९/७४) कः एषः यत्नः चोद्यते विवृतोपदेशः नाम ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५०/७४) विवृतः वा उपदिश्येत संवृतः वा कः नु अत्र विशेषः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५१/७४) सः एषः सर्वः एवमर्थः यत्नः यानि एतानि प्रातिपदिकानि अग्रहणानि तेषाम् एतेन अभ्युपायेन उपदेशः चोद्यते ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५२/७४) तत् गुरु भवति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५३/७४) तस्मात् वक्तव्यम् धात्वादिस्थः च विवृतः इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५४/७४) दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः । दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः विवृतोपदेशः कर्तव्यः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५५/७४) दीर्घप्लुतौ संवृतौ मा भूताम् इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५६/७४) वृक्षाभ्याम् देवदत्ता इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५७/७४) न एव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५८/७४) कौ तर्हि ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-५९/७४) विवृतौ ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६०/७४) यौ स्तः तौ भविष्यतः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६१/७४) स्थानी प्रकल्पयेत् एतौ अनुस्वारः यथा यणम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६२/७४) संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत् अनुस्वारः यथा यणम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६३/७४) तत् यथा सय्म्̐यन्ता सव्म्̐वत्सरः यल्म्̐ लोकम् तल्म्̐ लोकम् इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६४/७४) अन्स्वारः स्थानी यणम् अनुनासिकम् प्रकल्पयति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६५/७४) विषमः उपन्यासः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६६/७४) युक्तम् यत् सतः तत्र प्रक्ल्̥प्तिः भवति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६७/७४) सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६८/७४) दीर्घप्लुतौ पुनः न एव लोके न च वेद संवृतौ स्तः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-६९/७४) कौ तर्हि ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-७०/७४) विवृतौ ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-७१/७४) यौ स्तः तौ भविष्यतः ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-७२/७४) एवम् अपि कुतः एतत् तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः न पुनः तुल्यप्रयत्नौ स्थानभिन्नौ स्याताम् ईकारः ऊकारः वा इति ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-७३/७४) वक्ष्यति स्थाने अन्तरतमः इति अत्र स्थाने इति वर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनम् ।

(शिसू-१.१; अकि-१,१५.२-१६.१८; रो-१,५४-६०; भा-७४/७४) यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१/१०९) तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२/१०९) तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३/१०९) अस्य च्वौ यस्य ईति च ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४/१०९) किम् कारणम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५/१०९) अनण्त्वात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६/१०९) न हि एते अणः ये अनुवृत्तौ ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७/१०९) के तर्हि ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८/१०९) ये अक्षरसमाम्नये उपदिश्यन्ते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९/१०९) एकत्वात् अकारस्य सिद्धम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०/१०९) एकः अयम् अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-११/१०९) अनुबन्धसङ्करः तु ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१२/१०९) अनुबन्धसङ्करः तु प्राप्नोति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१३/१०९) कर्मणि अण् , आतः अनुपसर्गे कः इति के अपि णित्कृतम् प्राप्नोति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१४/१०९) एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१५/१०९) एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१६/१०९) तत्र कः दोषः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१७/१०९) किरिणा गिरिणा इति अत्र एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१८/१०९) इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन् न प्राप्नोति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१९/१०९) द्रव्यवत् च उपचाराः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२०/१०९) द्रव्यवत् च उपचाराः प्राप्नुवन्ति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२१/१०९) तत् यथा ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२२/१०९) द्रव्येषु न एकेन घटेन अनेकः युगपत् कार्यम् करोति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२३/१०९) एवम् इमम् अकारम् न अनेकः युगपत् उच्चारयेत् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२४/१०९) विषयेण तु नानालिङ्गकारणात् सिद्धम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२५/१०९) यत् अयम् विषये विषये नानालिङ्गम् अकारम् करोति कर्मणि अण् आतः अनुपसर्गे कः इति तेन ज्ञायते नानुबन्धसङ्करः अस्ति इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२६/१०९) यदि हि स्यात् नानालिङ्गकरणम् अनर्थकम् स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२७/१०९) एकम् एव अयम् सर्वगुणम् उच्चारयेत् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२८/१०९) न एतत् अस्ति ज्ञपकम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-२९/१०९) इत्सञ्ज्ञाप्रक्ल्̥प्त्यर्थम् एतत् स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३०/१०९) न हि अयम् अनुबन्धैः शल्यकवत् शक्यः उपचेतुम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३१/१०९) इत्सञ्ज्ञयाम् हि दोषः स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३२/१०९) आयम्य हि द्वयोः इत्सञ्ज्ञा स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३३/१०९) कयोः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३४/१०९) आद्यन्तयोः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३५/१०९) एवम् तर्हि विषयेण तु पुनः लिङ्गकरणात् सिद्धम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३६/१०९) यत् अयम् विषये विषये पुनः लिङ्गम् अकारम् करोति प्राक् दीव्यतः अण् , शिवादिभ्यः अण् इति तेन ज्ञायते न अनुबन्धसङ्करः अस्ति इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३७/१०९) यदि हि स्यात् पुनः लिङ्गकरणम् अनर्थकम् स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३८/१०९) अथ वा पुनः अस्तु विषयेण तु नानालिङ्गकारणात् सिद्धम् इति एव ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-३९/१०९) ननु च उक्तम् इत्सञ्ज्ञाप्रक्ल्̥प्त्यर्थम् एतत् स्यात् इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४०/१०९) न एष दोषः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४१/१०९) लोकतः एतत् सिद्धम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४२/१०९) तत् यथा ॒ लोके कः चित् देवदत्तम् आह ॒ इह मुण्डो भव , इह जटी भव , इह शिखी भव इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४३/१०९) यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपतिष्ठते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४४/१०९) एवम् अकारः यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपस्थास्यते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४५/१०९) यत् अपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४६/१०९) एकाजनेकाज्ग्रहणेषु च आवृत्तिसङ्ख्यानात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४७/१०९) एकाजनेकाज्ग्रहणेषु च आवृत्तेः सङ्ख्यानात् अनेकाच्त्वम् भविष्यति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४८/१०९) तत् यथा सप्तदश सामिधेन्यः भवन्ति इति त्रिः प्रथमम् अन्वाह त्रिः उत्तमम् इति आवृत्तितः सप्तदशत्वम् भवति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-४९/१०९) एवम् इह अपि आवृत्तितः अनेकाच्त्वम् भविष्यति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५०/१०९) भवेद् आवृत्तितः कार्यम् परिहृतम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५१/१०९) इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति एव ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५२/१०९) एतत् अपि सिद्धम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५३/१०९) कथम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५४/१०९) लोकतः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५५/१०९) तत् यथा लोके ऋषिसहस्रम् एकाम् कपिलाम् एकैकशः सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवम् इह अपि अनेकाच्त्वम् भविष्यति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५६/१०९) यत् अपि उच्यते द्रव्यवत् च उपचाराः प्राप्नुवन्ति इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५७/१०९) भवेत् यत् असम्भवि कार्यम् तत् न अनेकः युगपत् कुर्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५८/१०९) यत् तु खलु सम्भवि कार्यम् अनेकः अपि तत् युगपत् करोति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-५९/१०९) तत् यथा घटस्य दर्शनम् स्पर्शनम् वा ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६०/१०९) सम्भवि च इदम् कार्यम् अकारस्य उच्चारणम् नाम अनेकः अपि तत् युगपत् करिष्यति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६१/१०९) आन्यभाव्यम् तु कालशब्दव्यवायात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६२/१०९) आन्यभाव्यम् तु अकारस्य ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६३/१०९) कुतः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६४/१०९) कालशब्दव्यवायात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६५/१०९) कालव्यवायात् शब्दव्यवायात् च ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६६/१०९) कालव्यावायात् ॒ दण्ड , अग्रम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६७/१०९) शब्दव्यवायात् ॒ दण्डः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६८/१०९) न च एकस्य आत्मनः व्यवायेन भवितव्यम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-६९/१०९) भवति चेत् भवति आन्यभाव्यम् अकारस्य ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७०/१०९) युगपत् च देशपृथक्त्वदर्शनात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७१/१०९) युगपत् च देशपृथक्त्वदर्शनात् मन्यामहे आन्यभाव्यम् अकारस्य इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७२/१०९) यत् अयम् युगपत् देशपृथक्त्वेषु उपलभ्यते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७३/१०९) अश्वः , अर्कः , अर्थः इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७४/१०९) न हि एकः देवदत्तः युगपत् स्रुघ्ने च भवति मथुरायाम् च ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७५/१०९) यदि पुनः इमे वर्णाः शकुनिवत् स्युः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७६/१०९) तत् यथा शकुनयः आशुगमित्वात् पुरस्तात् उत्पतिताः पश्चात् दृश्यन्ते एवम् अयम् अकारः द इति अत्र दृष्टः ण्ड इति अत्र दृश्यते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७७/१०९) न एवम् शक्यम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७८/१०९) अनित्यत्वम् एवम् स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-७९/१०९) नित्याः च शब्दाः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८०/१०९) नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८१/१०९) यदि च अयम् द इति अत्र दृष्टः ण्ड इति अत्र दृश्येत न अयम् कूटस्थः स्यात् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८२/१०९) यदि पुनः इमे वर्णाः आदित्यवत् स्युः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८३/१०९) तत् यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत् देशपृथक्त्वेषु उपलभ्यते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८४/१०९) विषमः उपन्यासः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८५/१०९) न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् देशपृथक्त्वेषु उपलभते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८६/१०९) अकारम् पुनः उपलभते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८७/१०९) अकारम् अपि न उपलभते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८८/१०९) किम् कारणम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-८९/१०९) श्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेण अभिज्वलितः आकाशदेशः शब्दः एकम् च आकाशम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९०/१०९) आकाशदेशाः अपि बहवः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९१/१०९) यावता बहवः तस्मात् आन्यभाव्यम् अकारस्य ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९२/१०९) आकृतिग्रहणात् सिद्धम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९३/१०९) अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९४/१०९) तथा इवर्णाकृतिः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९५/१०९) तथा उवर्णाकृतिः ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९६/१०९) तद्वत् च तपरकरणम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९७/१०९) एवम् च कृत्वा तपराः क्रियन्ते ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९८/१०९) आकृतिग्रहणेन अतिप्रसक्तम् इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-९९/१०९) ननु च सवर्णग्रहणेन अतिप्रसक्तम् इति कृत्वा तपराः क्रियेरन् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१००/१०९) प्रत्याख्यायते तत् ॒ सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् अनन्यत्वात् च इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०१/१०९) हल्ग्रहणेषु च ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०२/१०९) किम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०३/१०९) आकृतिग्रहणात् सिद्धम् इति एव ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०४/१०९) झलो झलि ॒ अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति ॒ अण् सवर्णान् गृह्णाति इति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०५/१०९) रूपसामन्यात् वा ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०६/१०९) रूपसामान्यात् वा सिद्धम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०७/१०९) तत् यथा ॒ तान् एव शाटकान् आच्छादयामः ये मथुरायाम् , तान् एव शालीन् भुञ्ज्महे ये मगधेषु , तत् एव इदम् भवतः कार्षापणम् यत् मथुरायाम् गृहीतम् ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०८/१०९) अन्यस्मिन् च अन्यस्मिन् च रूपसामान्यात् तत् एव इदम् इति भवति ।

(शिसू-१.२; अकि-१,१६.१९-१९.८; रो-१,६०-६९; भा-१०९/१०९) एवम् इह अपि रूपसामान्यात् सिद्धम्

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१/११५) ल्̥कारोपदेशः किमर्थः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२/११५) किम् विशेषेण ल्̥कारोपदेशः चोद्यते न पुनः अन्येषाम् अपि वर्णानाम् उपदेशः चोद्यते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३/११५) यदि किम् चित् अन्येषाम् अपि वर्णानाम् उपदेशे प्रयोजनम् अस्ति ल्̥कारोपदेशस्य अपि तत् भवितुम् अर्हति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४/११५) कः वा विशेषः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५/११५) अयम् अस्ति विशेषः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६/११५) अस्य हि ल्̥कारस्य अल्पीयान् च एव प्रयोगविषयः यः च अपि प्रयोगविषयः सः अपि क्ल्̥पिस्थस्य ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७/११५) क्ल्̥पेः च लत्वम् असिद्धम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८/११५) तस्य असिद्धत्वात् ऋकारस्य एव अच्कार्याणि भविष्यन्ति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९/११५) न अर्थः ल्̥कारोपदेशेन ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०/११५) अतः उत्तरम् पठति ॒ ल्̥कारोपदेशः यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः । ल्̥कारोपदेशः क्रियते यदृच्छाशब्दार्थः अशक्तिजानुकरणार्थः प्लुत्याद्यर्थः च ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-११/११५) यदृच्छाशब्दार्थः तावत् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१२/११५) यदृच्छया कः चित् ल्̥तकः नाम तस्मिन् अच्कार्याणि यथा स्युः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१३/११५) दधि ल्̥तक देहि ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१४/११५) मधु ल्̥तक देहि ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१५/११५) उदङ् ल्̥तकः अगमत् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१६/११५) प्रत्यङ् ल्̥तकः अगमत् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१७/११५) चतुष्टयी शब्दानाम् प्रवृत्तिः ॒ जातिशब्दाः गुणशब्दाः क्रियाशब्दाः यदृच्छाशब्दाः चतुर्थाः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१८/११५) अशक्तिजानुकरणार्थः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१९/११५) अशक्त्या कया चित् ब्राह्मण्या ऋतकः इति प्रयोक्तव्ये ल्̥तकः इति प्रयुक्तम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२०/११५) तस्य अनुकरणम् ॒ ब्राह्मणी ल्̥तकः इति आह ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२१/११५) कुमारी ल्̥तकः इति आह इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२२/११५) प्लुताद्यर्थः च ल्̥कारोपदेशः कर्तव्यः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२३/११५) के पुनः प्लुतादयः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२४/११५) प्लुतिद्विर्वचनस्वरिताः ॒ क्ल्̥प्तशिख क्ल्̥प्प्तः , प्रक्ल्̥प्तः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२५/११५) प्लुत्यादिषु कार्येषु क्ल्̥पेः लत्वम् सिद्धम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२६/११५) तस्य सिद्धत्वात् अच्कार्याणि न सिध्यन्ति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२७/११५) तस्मात् ल्̥कारोपदेशः कर्तव्यः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२८/११५) न एतानि सन्ति प्रयोजनानि ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-२९/११५) न्याय्यभावात् कल्पनम् सञ्ज्ञादिषु । न्याय्यस्य ऋतकशब्दस्य भावात् कल्पनम् सञ्ज्ञादिषु साधु मन्यन्ते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३०/११५) ऋतकः एव असौ न ल्̥तकः इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३१/११५) अपरः आह ॒ न्याय्यः ऋतकशब्दः शास्त्रान्वितः अस्ति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३२/११५) सः कल्पयितव्यः साधुः सञ्ज्ञादिषु ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३३/११५) ऋतकः एव असौ न ल्̥तकः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३४/११५) अयम् तर्हि यदृच्छाशब्दः अपरिहार्यः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३५/११५) ल्̥फिडः ल्̥फिड्डः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३६/११५) एषः अपि ऋफिडः ऋफिड्डः च ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३७/११५) कथम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३८/११५) अर्तिप्रवृत्तिः च एव लोके लक्ष्यते फिडिफिड्डौ औणादिकौ प्रत्ययौ ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-३९/११५) त्रयी च शब्दानाम् प्रवृत्तिः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४०/११५) जातिशब्दाः गुणशब्दाः क्रियाशब्दाः इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४१/११५) न सन्ति यदृच्छाशब्दाः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४२/११५) अन्यथा कृत्वा प्रयोजनम् उक्तम् अन्यथा कृत्वा परिहारः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४३/११५) सन्ति यदृच्छाशब्दाः इति कृत्वा प्रयोजनम् उक्तम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४४/११५) न सन्ति इति परिहारः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४५/११५) समाने च अर्थे शास्त्रान्वितः अशास्त्रान्वितस्य निवर्तकः भवति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४६/११५) तत् यथा ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४७/११५) देवदत्तशब्दः देवदिण्णशब्दं निवर्तयति न गाव्यादीन् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४८/११५) न एष दोषः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-४९/११५) पक्षान्तरैः अपि परिहाराः भवन्ति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५०/११५) अनुकरणम् शिष्टाशिष्टाप्रतिषिद्धेषु यथा लौकिकवैदिकेषु । अनुकरणम् हि शिष्टस्य साधु भवति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५१/११५) अशिष्टाप्रतिषिद्धस्य वा न एव तत् दोषाय भवति न अभ्युदयाय ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५२/११५) यथा लौकिकवैदिकेषु ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५३/११५) यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५४/११५) लोके तावत् ॒ यः एवम् असौ ददाति यः एवम् असौ यजते यः एवम् असौ अधीते इति तस्य अनुकुर्वन् दद्यात् च यजेत च अधीयीत च सः अभ्युदयेन युज्यते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५५/११५) वेदे अपि ॒ ये एवम् विश्वसृजः सत्त्राणि अध्यासते इति तेषाम् अनुकुर्वन् तद्वत् सत्त्राणि अध्यासीत सः अपि अभ्युदयेन युज्यते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५६/११५) अशिष्टाप्रतिषिद्धम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५७/११५) यः एवम् असौ हिक्कति यः एवम् असौ हसति यः एवम् असौ कण्डूयति इति तस्य अनुकुर्वन् हिक्केत् च हसेत् च कण्डूयेत् च न एव तत् दोषाय स्यात् न अभ्युदयाय ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५८/११५) यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-५९/११५) विषमः उपन्यासः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६०/११५) यः च एवम् हन्ति यः च अनुहन्ति उभौ तौ हतः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६१/११५) यः च पिबति यः च अनुपिबति उभौ तौ पिबतः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६२/११५) यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् स्नातानुलिप्तः माल्यगुणकण्ठः कदलीस्तम्भम् छिन्द्यात् पयः वा पिबेत् न स मन्ये पतितः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६३/११५) एवम् इह अपि यः एवम् असौ अपशब्दम् प्रयुङ्क्ते इति तस्य अनुकुर्वन् अपशब्दम् प्रयुञ्जीत सः अपि अपशब्दभाक् स्यात् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६४/११५) अयम् तु अन्यः अपशब्दपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६५/११५) न च अपशब्दपदार्थकः शब्दः अपशब्दः भवति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६६/११५) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६७/११५) यः हि मन्येत अपशब्दपदार्थकः शब्दः अपशब्दः भवति इति अपशब्दः इति एव तस्य अपशब्दः स्यात् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६८/११५) न च एषः अपशब्दः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-६९/११५) अयम् खलु अपि भूयः अनुकरणशब्दः अपरिहार्यः यदर्थः उपदेशः कर्तव्यः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७०/११५) साधु ल्̥कारम् अधीते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७१/११५) मधु ल्̥कारम् अधीते इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७२/११५) क्वस्थस्य पुनः एतत् अनुकरणम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७३/११५) क्ल्̥पिस्थस्य ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७४/११५) यदि क्ल्̥पिस्थस्य क्ल्̥पेः च लत्वम् असिद्धम् तस्य असिद्धत्वात् ऋकारे एव अच्कार्याणि भविष्यन्ति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७५/११५) भवेत् तदर्थेन न अर्थः स्यात् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७६/११५) अयम् तु अन्यः क्ल्̥पिस्थपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७७/११५) न कर्तव्यः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७८/११५) इदम् अवश्यम् वक्तव्यम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-७९/११५) प्रकृतिवत् अनुकरणम् भवति इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८०/११५) किम् प्रयोजनम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८१/११५) द्विः पचन्तु इति आह ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८२/११५) तिङ् अतिङः इति निघातः यथा स्यात् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८३/११५) अग्नी इति आह ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८४/११५) ईदूदेत् द्विवचनम् प्रगृह्यम् इति प्रगृह्यसञ्ज्ञा यथा स्यात् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८५/११५) यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते अपशब्दः एव असौ भवति कुमारील्̥तकः इति आह ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८६/११५) ब्रह्मणी ल्̥तकः इति आह ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८७/११५) अपशब्दः हि अस्य प्रकृतिः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८८/११५) न चापशब्दः प्रकृतिः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-८९/११५) न हि अपशब्दाः उपदिश्यन्ते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९०/११५) न च अनुपदिष्टा प्रकृतिः अस्ति. एकदेशविकृतस्य अनन्यत्वात् प्लुत्यादयः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९१/११५) एकदेशविकृतम् अनन्यवत् भवति इति प्लुत्यादयः भविष्यन्ति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९२/११५) यदि एकदेशविकृतम् अनन्यवत् भवति इति उच्यते राज्ञः क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९३/११५) एकदेशविकृतम् अनन्यवत् षष्ठीनिर्दिष्टस्य इति वक्ष्यामि ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९४/११५) यदि षष्ठीनिर्दिष्टस्य इति उच्यते क्ल्̥प्तशिख इति प्लुतः न प्राप्नोति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९५/११५) न हि अत्र ऋकारः षष्ठीनिर्दिष्टः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९६/११५) कः तर्हि ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९७/११५) रेफः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९८/११५) ऋकारः अपि अत्र षष्ठीनिर्दिष्टः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-९९/११५) कथम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१००/११५) अविभक्तिकः निर्देशः ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०१/११५) कृप उः रः लः कृपो रो लः इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०२/११५) अथ वा पुनः अस्तु अविशेषेण ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०३/११५) ननु च उक्तम् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०४/११५) राज्ञः क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०५/११५) वक्ष्यति एतत् ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०६/११५) श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०७/११५) तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०८/११५) अल्लोपः अनः नकारान्तस्य इति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१०९/११५) इह तर्हि क्ल्̥प्तशिख इति अनृतः इति प्रतिषेधः प्राप्नोति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-११०/११५) रवत्प्रतिषेधात् च । रवत्प्रतिषेधात् च एतत् सिध्यति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-१११/११५) गुरोः अरवतः इति वक्ष्यामि ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-११२/११५) यदि अरवतः इति उच्यते होतृ-ऋकार , होतृ̄ऋकार , अत्र न प्राप्नोति ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-११३/११५) गुरोः अरवतः ह्रस्वस्य इति वक्ष्यामि ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-११४/११५) सः एषः सूत्रभेदेन ल्̥कारः प्लुत्याद्यर्थः सन् प्रत्याख्यायते ।

(शिसू-२; अकि-१,१९.१०-२१.२८; रो-१,७०-७९; भा-११५/११५) सा एषा महतः वंशस्तम्बात् लट्वा अनुकृष्यते ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१/८०) इदम् विचार्यते ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२/८०) इमानि सन्ध्यक्षराणि तपराणि वा उपदिश्येरन् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३/८०) एत् , ओत् , ङ् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४/८०) ऐत् , औत् , च् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५/८०) अतपराणि वा यथान्यासम् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६/८०) कः च अत्र विशेषः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७/८०) सन्ध्यक्षरेषु तपरोपदेशः चेत् तपरोच्चारणम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-८/८०) सन्ध्यक्षरेषु तपरोपदेशः चेत् तपरोच्चारणम् कर्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-९/८०) प्लुत्यादिषु अज्विधिः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१०/८०) प्लुत्यादिषु अजाश्रयः विधिः न सिध्यति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-११/८०) गोत्रात नौत्रात इति अत्र अनचि च इति अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् न प्राप्नोति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१२/८०) इह च प्रत्यङ् ऐतिकयन उदङ् औपगव इति अचि इति ङमुट् न प्राप्नोति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१३/८०) प्लुतसञ्ज्ञा च ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१४/८०) प्लुतसञ्ज्ञा च न सिध्यति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१५/८०) ऐतिकयन औपगव ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१६/८०) ऊकलः अच् ह्रस्वदीर्घप्लुतः इति प्लुतसञ्ज्ञा न प्राप्नोति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१७/८०) सन्तु तर्हि अतपराणि ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१८/८०) अतपरे एचः इक् ह्रस्वादेशे ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-१९/८०) यदि अतपराणि एचः इक् ह्रस्वादेशे इति वक्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२०/८०) किम् प्रयोजनम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२१/८०) एचः ह्रस्वादेशशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२२/८०) ननु च यस्य अपि तपराणि तेन अपि एतत् वक्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२३/८०) इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२४/८०) तयोः ह्रस्वादेशशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२५/८०) मा कदा चित् अवर्णम् भूत् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२६/८०) प्रत्याख्यायते एतत् ॒ ऐचोः च उत्तरभूयस्त्वात् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२७/८०) यदि प्रत्याख्यानपक्षः इदम् अपि प्रत्याख्यायते ॒ सिद्धम् एङः सस्थानत्वात् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२८/८०) ननु च एङः सस्थानतरौ अर्धः एकारः अर्धः ओकारः च ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-२९/८०) न तौ स्तः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३०/८०) यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३१/८०) ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते ॒ सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३२/८०) पार्षदकृतिः एषा तत्रभवताम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३३/८०) न एव हि लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३४/८०) एकादेशे दीर्घग्रहणम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३५/८०) एकादेशे दीर्घग्रहणम् कर्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३६/८०) आत् गुणः दीर्घः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३७/८०) वृद्धिः एचि दीर्घः इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३८/८०) किम् प्रयोजनम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-३९/८०) आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति. खट्वा , इन्द्रः खट्वेन्द्रः , खट्वा , उदकम् खट्वोदकम् , खट्वा , ईषा खट्वेषा , खट्वा , ऊढा खट्वोढा , खट्वा , एलका खट्वैलका , खट्वा , ओदनः खट्वौदनः , खट्वा , ऐतिकायनः खट्वैतिकायनः , खट्वा , औपगवः खट्वौपगवः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४०/८०) तत् तर्हि दीर्घग्रहणम् कर्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४१/८०) न कर्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४२/८०) उपरिष्टात् योगविभागः करिष्यते ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४३/८०) अकः सवर्णे एकः भवति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४४/८०) ततः दीर्घः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४५/८०) दीर्घः च स भवति यः सः एकः पूर्वपरयोः इति एवम् निर्दिष्टः इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४६/८०) इह अपि तर्हि प्राप्नोति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४७/८०) पशुम् , विद्धम् , पचन्ति इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४८/८०) न एषः दोषः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-४९/८०) इह तावत् पशुम् इति अमि एकः इति इयता सिद्धम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५०/८०) सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकः पूर्वः तथाजातीयकः उभयोः यथा स्यात् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५१/८०) विद्धम् इति पूर्वः इति एव अनुवर्तते ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५२/८०) अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनेन सम्प्रसारणस्य दीर्घः भवति इति यत् अयम् हलः उत्तरस्य सम्प्रसारणस्य दीर्घत्वम् शास्ति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५३/८०) पचन्ति इति अतः गुणे परः इति इयता सिद्धम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५४/८०) सः अयम् एवम् सिद्धे सति यत् रूपग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकम् परस्य रूपम् तथाजातीयकम् उभयोः यथा स्यात् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५५/८०) इह तर्हि खट्वर्श्यः मालर्श्यः इति दीर्घवचनात् अकारः न आनन्तर्यात् एकाकौकारौ न ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५६/८०) तत्र कः दोषः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५७/८०) विगृहीतस्य श्रवणम् प्रसज्येत ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५८/८०) न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-५९/८०) किम् तर्हि ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६०/८०) यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६१/८०) क्व च क्रियमाणे न दोषः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६२/८०) सञ्ज्ञाविधौ ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६३/८०) वृद्धीः आत् ऐच् दीर्घः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६४/८०) अत् एङ् गुणः दीर्घः इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६५/८०) तत् तर्हि दीर्घग्रहणम् कर्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६६/८०) न कर्तव्यम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६७/८०) कस्मात् एव आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६८/८०) तपरे गुणवृद्धी ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-६९/८०) ननु च भोः तः परः यस्मात् सः अयम् तपरः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७०/८०) न इति आह ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७१/८०) तात् अपि परः तपरः इति ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७२/८०) यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् ॒ यवः स्तवः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७३/८०) लवः पवः इति अत्र न स्यात् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७४/८०) न एषः तकारः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७५/८०) कः तर्हि ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७६/८०) दकारः ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७७/८०) किम् दकारे प्रयोजनम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७८/८०) अथ किम् तकारे प्रयोजनम् ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-७९/८०) यदि असन्देहार्थः तकारः दकारः अपि ।

(शिसू-३-४.१; अकि-१,२२.२-२३.२३; रो-१,७९-८४; भा-८०/८०) अथ मुखसुखार्थः तकारः दकारः अपि ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१/१३८) इदम् विचार्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२/१३८) ये एते वर्णेषु वर्णैकदेशाः वर्णान्तरसमानाकृतयः एतेषाम् अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३/१३८) कुतः पुनः इयम् विचारणा ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४/१३८) इह समुदायाः अपि उपदिश्यन्ते अवयवाः अपि ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५/१३८) अभ्यन्तरः च समुदाये अवयवः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६/१३८) तत् यथा ॒ वृक्षः प्रचलन् सह अवयवैः प्रचलति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७/१३८) तत्र समुदायस्थस्य अवयवस्य अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति जायते विचारणा ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८/१३८) कः च अत्र विशेषः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९/१३८) वर्णैकदेशाः वर्णग्रहणेन चेत् सन्ध्यक्ष्रे समानाक्षरविधिप्रतिषेधः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०/१३८) वर्णैकदेशाः वर्णग्रहणेन इति चेत् सन्ध्यक्षरे समानाक्षराश्रयः विधिः प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११/१३८) स प्रतिषेध्यः ॒ अग्ने , इन्द्रम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२/१३८) वायो , उदकम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३/१३८) अकः सवर्णे दीर्घः इति दीर्घत्वम् प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१४/१३८) दीर्घे ह्रस्वविधिप्रतिषेधः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१५/१३८) दीर्घे ह्रस्वाक्षराश्रयः विधिः प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१६/१३८) स प्रतिषेध्यः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१७/१३८) ग्रामणीः , आलूय , प्रलूय ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१८/१३८) ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१९/१३८) न एषः दोषः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२०/१३८) आचार्यप्रवृत्तिः ज्ञापयति न दीर्घे ह्रस्वाश्रयः विधिः भवति इति यत् अयम् दीर्घात् छे तुकम् शास्ति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२१/१३८) न एतत् अस्ति ज्ञापकम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२२/१३८) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२३/१३८) किम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२४/१३८) पदान्तात् वा इति विभाषाम् वक्ष्यामि इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२५/१३८) यत् तर्हि योगविभागम् करोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२६/१३८) इतरथा हि दीर्घात् पदान्तात् वा इति एव ब्रूयात् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२७/१३८) इह तर्हि खट्वाभिः , मालाभिः , अतः बिह्सः ऐस् , इति ऐस्भावः प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२८/१३८) तपरकरणसामर्थ्यात् न भविष्यति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-२९/१३८) इह तर्हि याता वाता , अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३०/१३८) ननु च अत्र अपि तपरकरणसामर्थ्यात् एव न भविष्यति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३१/१३८) अस्ति हि अन्यत् तपरकरणे प्रयोजनम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३२/१३८) किम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३३/१३८) सर्वस्य लोपः मा भूत् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३४/१३८) अथ क्रियमाणे अपि तपरे परस्य लोपे कृते पूर्वस्य कस्मात् न भवति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३५/१३८) परलोपस्य स्थानिवद्भावात् असिद्धत्वात् च ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३६/१३८) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नाकारस्थस्य अकारस्य लोपः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३७/१३८) कथम् कृत्वा ज्ञापकम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३८/१३८) कित्करणे एतत् प्रयोजनम् किति इति आकार्लोपः यथा स्यात् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-३९/१३८) यदि च आकारस्थस्य अपि अकार्लोपः स्यात् कित्करणम् अनर्थकम् स्यात् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४०/१३८) परस्य अकारस्य लोपे कृते द्वयोः अकारयोः पररूपे हि सिद्धम् रूपम् स्यात्॒ गोदः , कम्बलदः इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४१/१३८) पश्यति तु आचार्यः नाकारस्थस्य अकारस्य लोपः भवति इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४२/१३८) अतः ककारम् अनुबन्धम् करोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४३/१३८) न एतत् अस्ति ज्ञापकम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४४/१३८) उत्तरार्थम् एतत् स्यात् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४५/१३८) तुन्दशोकयोः परिमृजापनुदोः इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४६/१३८) यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४७/१३८) एकवर्णवत् च ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४८/१३८) एकवर्णवत् च दीर्घः भवति इति वक्तव्यम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-४९/१३८) किम् प्रयोजनम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५०/१३८) वाचा तरति इति द्व्यज्लक्षणः ठन् मा भूत् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५१/१३८) इह च वाचः निमित्तम् , तस्य निमित्तम् संयोगोत्पात्तौ इति द्व्यज्लक्षणः यत् मा भूत् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५२/१३८) अत्र अपि गोनौग्रहणम् ज्ञापकम् दीर्घात् द्व्यज्लक्षणः विधिः न भवति इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५३/१३८) अयम् तु सर्वेषाम् परिहारः ॒ न अव्यपवृक्तस्य अवयवे तद्विधिः यथा द्रव्येषु ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५४/१३८) न अव्यपवृक्तस्य अवयव्स्य अवयवाश्रयः विधिः भवति यथा द्रव्येषु ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५५/१३८) तत् यथा द्रव्येषु ॒ सप्तदश सामिधेन्यः भवन्ति इति न सप्तदशारत्निमात्रम् काष्ठम् अग्नौ अभ्याधीयते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५६/१३८) विषमः उपन्यासः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५७/१३८) प्रत्यृचम् च एव हि तत् कर्म चोद्यते असम्भवः च अग्नौ वेद्याम् च ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५८/१३८) यथा तर्हि सप्तदश प्रादेशमात्रीः अश्वत्थीः समिधः अभ्यादधीत इति न सप्तदशप्रादेशमात्रम् काष्ठम् अभ्याधीयते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-५९/१३८) अत्र अपि प्रतिप्रवणम् च एतत् कर्म चोद्यते तुल्यः च असम्भवः अग्नौ वेद्याम् च ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६०/१३८) यथा तर्हि तैलम् न विक्रेतव्यम् , मांसम् न विक्रेतव्यम् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६१/१३८) व्यपवृत्कम् च न विक्रीयते , अव्यपवृक्तम् च गावः च सर्षपाः च विक्रियन्ते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६२/१३८) तथा लोमनखम् स्पृष्ट्वा शौचम् कर्तव्यम् इति , व्यपवृक्तम् स्पृष्ट्वा नियोगतः कर्तव्यम् अव्यपवृक्ते कामचारः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६३/१३८) यत्र तर्हि व्यपवर्गः अस्ति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६४/१३८) क्व च व्यपवर्गः अस्ति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६५/१३८) सन्ध्यक्षरेषु ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६६/१३८) सन्ध्यक्षरेषु विवृतत्वात् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६७/१३८) यत् अत्र अवर्णम् विवृततरम् तत् अन्यस्मात् अवर्णात् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६८/१३८) ये*अपि इवर्णोवर्णे विवृततरे ते*अन्याभ्याम् इवर्णोवर्णाभ्याम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-६९/१३८) अथवा पुनः न गृह्यन्ते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७०/१३८) अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७१/१३८) अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारस्य ग्रहणम् कर्तव्यम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७२/१३८) तस्मात् नुट् द्विहलः , ऋकारे च इति वक्तव्यम् इह अपि यथा स्यात् ॒ आनृधतुः , आनृधुः इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७३/१३८) यस्य पुनः गृह्यन्ते द्विहलः इति एव तस्य सिद्धम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७४/१३८) यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७५/१३८) द्विहल्ग्रहणम् न करिष्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७६/१३८) तस्मात् नुट् भवति इति एव ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७७/१३८) यदि न क्रियते आटतुः , आटुः इति अत्र अपि प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७८/१३८) अश्नोतिग्रहणम् नियमार्थम् भविष्यति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-७९/१३८) अश्नोतेः एव अवर्णोपधस्य न अन्यस्य अवर्णोपधस्य इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८०/१३८) लादेशे च ऋकारग्रहणम् कर्तव्यम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८१/१३८) कृपः रः लः , ऋकारस्य च इति वक्तव्यम् इह अपि यथा स्यात् ॒ क्ल्̥प्तः , क्ल्̥प्तवान् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८२/१३८) यस्य पुनः गृह्यन्ते रः इति एव तस्य सिद्धम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८३/१३८) यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८४/१३८) ऋकारः अपि अत्र निर्दिश्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८५/१३८) कथम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८६/१३८) अविभक्तिकः निर्देशः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८७/१३८) कृप , उः , रः , लः कृपो रो लः इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८८/१३८) अथ वा उभयतः स्फोटमात्रम् निर्दिश्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-८९/१३८) रश्रुतेः लश्रुतिः भवति इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९०/१३८) विनामे ऋकारग्रहणम् कर्तव्यम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९१/१३८) रषाभ्याम् नः णः समानपदे , ऋकारात् च इति वक्तय्वम् इह अपि यथा स्यात् ॒ मातृ̄णाम् , पितृ̄णाम् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९२/१३८) यस्य पुनः गृह्यन्ते रषाभ्याम् इति एव तस्य सिद्धम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९३/१३८) न सिध्यति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९४/१३८) यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९५/१३८) मा भूत् एवम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९६/१३८) अड्व्यवाये इति एव सिद्धम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९७/१३८) न सिध्यति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९८/१३८) वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-९९/१३८) ये व्यपवृक्ताः अपि वर्णाः भवन्ति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१००/१३८) यत् च अपि रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०१/१३८) एवम् तर्हि योगविभागः करिष्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०२/१३८) रषाभ्याम् नः णः समानपदे ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०३/१३८) ततः व्यवाये ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०४/१३८) व्यवाये च रषाभ्याम् नः णः भवति इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०५/१३८) ततः अट्कुप्वाङ्नुम्भिः इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०६/१३८) इदम् इदानीम् किमर्थम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०७/१३८) नियमार्थम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०८/१३८) एतैः एव आक्षरसमम्नायिकैः व्यवाये न अन्यैः इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१०९/१३८) यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११०/१३८) आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् नः णत्वम् इति यत् अयम् क्षुभादिषु नृनमनशब्दम् पठति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१११/१३८) न एतत् अस्ति ज्ञापकम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११२/१३८) वृद्ध्यर्थम् एतत् स्यात् ॒ नार्नमनिः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११३/१३८) यत् तर्हि तृप्नोतिशब्दम् पठति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११४/१३८) यत् च अपि नृनमनशब्दम् पठति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११५/१३८) ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११६/१३८) बहिरङ्गा वृद्धिः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११७/१३८) अन्तरङ्गम् णत्वम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११८/१३८) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-११९/१३८) अथ वा उपरिष्टात् योगविभागः करिष्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२०/१३८) ऋतो नः णः भवति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२१/१३८) ततः छन्दसि अवग्रहात् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२२/१३८) ऋतः इति एव ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२३/१३८) प्लुतौ ऐचः इदुतौ ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२४/१३८) एतत् च वक्तव्यम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२५/१३८) यस्य पुनः गृह्यन्ते गुरोः टेः इति एव प्लुत्या तस्य सिद्धम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२६/१३८) यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२७/१३८) क्रियते एतत् न्यासे एव ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२८/१३८) तुल्यरूपे संयोगे द्विव्यञ्जनविधिः ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१२९/१३८) तुल्यरूपे संयोगे द्विव्यञ्जनाश्रयः विधिः न सिध्यति ॒ कुक्कुटः , पिप्पलः , पित्तम् इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३०/१३८) यस्य पुनः गृह्यन्ते तस्य द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३१/१३८) यस्य अपि न गृह्यन्ते तस्य अपि द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३२/१३८) कथम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३३/१३८) मात्राकालः अत्र गम्यते ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३४/१३८) न च मात्रिकम् व्यञ्जनम् अस्ति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३५/१३८) अनुपदिष्टम् सत् कथम् शक्यम् विज्ञातुम् ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३६/१३८) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति इह तु कथम् सय्म्̐यन्ता सव्म्̐वत्सरः यल्म्̐ लोकम् तल्म्̐ लोकम् इति यत्र एतत् अस्ति अण् सवर्णान् गृह्णाति इति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३७/१३८) अत्र अपि मात्राकलः गृह्यते न च मात्रिकम् व्यञ्जनम् अस्ति ।

(शिसू-३-४.२; अकि-१,२३.२४-२६.२७; रो-१,८४-९३; भा-१३८/१३८) अनुपदिष्टम् सत् कथम् शक्यम् प्रतिपत्तुम् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१/३०) सर्वे वर्णाः सकृत् उपदिष्टाः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२/३०) अयम् हकारः द्विः उपदिश्यते पूर्वः च परः च ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-३/३०) यदि पुनः पूर्वः एव उपदिश्येत परः एव वा ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-४/३०) कः च अत्र विशेषः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-५/३०) हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-६/३०) हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् कर्तव्यम् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-७/३०) आतः अटि नित्यम् , शः छः अटि , दीर्घात् अटि समानपदे ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-८/३०) हकारे च इति वक्तव्यम् इह अपि यथा स्यात् ॒ महाम्̐ हि सः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-९/३०) उत्त्वे च । उत्त्वे च हकारग्रहणम् कर्तव्यम् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१०/३०) अतः रोः अप्लुतात् अप्लुते , हशि च ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-११/३०) हकारे च इति वक्तव्यम् इह अपि यथा स्यात् ॒ पुरुषः हसति , ब्राह्मणः हसति इति ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१२/३०) अस्तु तर्हि पूर्वोपदेशः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१३/३०) पूर्वोपदेशे कित्त्वक्सेड्विधयः झल्ग्रहणानि च ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१४/३०) यदि पूर्वोपदेशः कित्त्वम् विधेयम् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१५/३०) स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१६/३०) रलः व्युपधात् हलादेः इति कित्त्वम् न प्राप्नोति ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१७/३०) क्सविधिः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१८/३०) क्सः च विधेयः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-१९/३०) अधुक्षत् अलिक्षत् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२०/३०) शलः इगुपधात् अनिटः क्सः इति क्सः न प्राप्नोति ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२१/३०) इड्विधिः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२२/३०) इट् च विधेयः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२३/३०) रुदिहि स्वपिहि ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२४/३०) वलादिलक्षणः इट् न प्राप्नोति. झल्ग्रहणानि च ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२५/३०) किम् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२६/३०) अहकाराणि स्युः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२७/३०) तत्र कः दोषः ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२८/३०) झलः झलि इति इह न स्यात् ॒ अदाग्धाम् अदाग्धम् ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-२९/३०) तस्मात् पूर्वः च उपदेष्टव्यः परः च ।

(शिसू-५.१) पा-. ई.२७.२-२०; रो-१,९३-९४; भा-३०/३०) यदि च किम् चित् अन्यत्र अपि उपदेशे प्रयोजनम् अस्ति तत्र अपि उपदेशः कर्तव्यः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१/३६) इदम् विचार्यते ॒ अयम् रेफः यकारवकाराभ्याम् पूर्वः एव उपदिश्येत ह र य वट् इति परः एव वा यथान्यासम् इति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२/३६) कः च अत्र विशेषः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३/३६) रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-४/३६) रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णानाम् प्रतिषेधः वक्तव्यः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-५/३६) अनुनासिकस्य ॒ स्वः नयति , प्रातः नयति इति यरः अनुनासिके अनुनासिकः वा इति अनुनासिकः प्राप्नोति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-६/३६) द्विर्वचनस्य ॒ भद्रह्रदः , मद्रह्रदः इति यरः इति द्विर्वचनम् प्राप्नोति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-७/३६) परसवर्णस्य ॒ कुण्डम् रथेन , वनम् रथेन ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-८/३६) अनुस्वारस्य ययि इति परसवर्णः प्राप्नोति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-९/३६) अस्तु तर्हि पूर्वोपदेशः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१०/३६) पूर्वोपदेशे कित्त्वप्रतिषेधः व्यलोपवचनम् च ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-११/३६) यदि पूर्वोपदेशः कित्त्वम् प्रतिषेध्यम् ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१२/३६) देवित्वा दिदेविषति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१३/३६) रलः व्युपधात् इति कित्त्वम् प्राप्नोति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१४/३६) न एषः दोषः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१५/३६) न एवम् विज्ञायते रलः व्युपधात् इति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१६/३६) किम् तर्हि ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१७/३६) रलः अव्व्युपधात् इति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१८/३६) किम् इदम् अव्व्युपधात् इति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-१९/३६) अवकारान्तात् व्युव्पधात् अव्व्युपधात् इति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२०/३६) व्यलोपवचनम् च ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२१/३६) व्योः च लोपः वक्तव्यः ॒ गौधेरः , पचेरन् यजेरन् ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२२/३६) जीवेः रदानुक् ॒ जीरदानुः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२३/३६) वलि इति लोपः न प्राप्नोति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२४/३६) न एषः दोषः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२५/३६) रेफः अपि अत्र निर्दिश्यते ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२६/३६) लोपः व्योः वलि इति रेफे च वलि च इति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२७/३६) अथ वा पुनः अस्तु परोपदेशः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२८/३६) ननु च उक्तम् रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः इति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-२९/३६) अनुनासिकपरसवर्णयोः तावत् प्रतिषेधः न वक्तव्यः ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३०/३६) रेफोष्मणाम् सवर्णाः न सन्ति ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३१/३६) द्विर्वचने अपि न इमौ रहौ कार्यिणौ द्विर्वचनस्य ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३२/३६) किम् तर्हि ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३३/३६) निमित्तम् इमौ रहौ द्विर्वचनस्य ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३४/३६) तत् यथा ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३५/३६) ब्राह्मणाः भोज्यन्ताम् ।

(शिसू-५.२; अकि-१,२७.२१-२८.१५; रो-१,९५-९७; भा-३६/३६) माठरकौण्डिन्यौ परिवेविष्टाम् इति. न इदानीम् तौ भुञ्जाते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१/७४) इदम् विचार्यते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२/७४) इमे अयोगवाहाः न क्व चित् उपदिश्यन्ते श्रूयन्ते च ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३/७४) तेषाम् कार्यार्थः उपदेशः कर्तव्यः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४/७४) के पुनः अयोगवाहाः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५/७४) विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारानुनासिक्ययमाः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६/७४) कथम् पुनः अयोगवाहाः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-७/७४) यत् अयुक्ताः वहन्ति अनुपदिष्टाः च श्रूयन्ते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-८/७४) क्व पुनः एषाम् उपदेशः कर्तव्यः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-९/७४) अयोगवाहानाम् अट्सु णत्वम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१०/७४) अयोगवाहानाम् अट्सु उपदेशः कर्तव्यः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-११/७४) किम् प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१२/७४) णत्वम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१३/७४) उरःकेण , उरःपेण ॒ अड्व्यवाये इति णत्वम् सिद्धम् भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१४/७४) शर्षु जश्भावषत्वे ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१५/७४) शर्षु उपदेशः कर्तव्यः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१६/७४) किम् प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१७/७४) जश्भावषत्वे ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१८/७४) अयम् उब्जिः उपध्मानीयोपधः पठ्यते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-१९/७४) तस्य जश्त्वे कृते उब्जिता उब्जितुम् इति एतत् रूपम् यथा स्यात् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२०/७४) यदि उब्जिः उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयादेः एव द्विर्वचनम् प्राप्नोति. दकारोपधे पुनः नन्द्राः संयोगादयः इति प्रतिषेधस्ः सिद्धः भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२१/७४) यदि दकारोपधः पठ्यते का रूपसिद्धिः ॒ उब्जिता उब्जितुम् इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२२/७४) असिद्धे भः उद्जेः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२३/७४) इदम् अस्ति स्तोः श्चुना श्चुः इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२४/७४) ततः वक्ष्यामि भः उद्जेः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२५/७४) उद्जेः श्चुना सन्निपाते भः भवति इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२६/७४) तत् तर्हि वक्तव्यम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२७/७४) न वक्तव्यम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२८/७४) निपातनात् एव सिद्धम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-२९/७४) किम् निपातनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३०/७४) भुजन्युब्जौ पण्युपतपयोः इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३१/७४) इह अपि तर्हि प्राप्नोति अभ्युद्गः , समुद्गः इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३२/७४) अकुत्वविषये तत् निपातनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३३/७४) अथ वा न एतत् उब्जेः रूपम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३४/७४) गमेः द्व्युपर्सर्गात् डः विधीयते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३५/७४) अभ्युद्गतः अभ्युद्गः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३६/७४) समुद्गतः समुद्गः इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३७/७४) षत्वम् च प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३८/७४) सर्पिःषु धनुःषु ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-३९/७४) शर्व्यवाये इति षत्वम् सिद्धम् भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४०/७४) नुम्विसर्जनीयशर्व्यवाये अपि इति विसर्जनीयग्रहणम् न कर्तव्यम् भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४१/७४) नुमः च अपि तर्हि ग्रहणम् शक्यम् अकर्तुम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४२/७४) कथम् सर्पींषि धनूंषि ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४३/७४) अनुस्वारे कृते शर्व्यवाये इति एव सिद्धम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४४/७४) अवश्यम् नुमः ग्रहणम् कर्तव्यम् अनुस्वारविशेषणम् नुम्ग्रहणम् नुमः यः अनुस्वारः तत्र यथा स्यात् इह मा भूत् ॒ पुंसु इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४५/७४) अथ वा अविशेषेण उपदेशः कर्तव्यः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४६/७४) किम् प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४७/७४) अविशेषेण संयोगोपधासञ्ज्ञालोन्त्यद्विर्वचनस्थानिवद्भावप्रतिषेधाः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४८/७४) अविशेषेण संयोगसञ्ज्ञा प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-४९/७४) ऊब्जक ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५०/७४) हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५१/७४) उपधासञ्ज्ञा च प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५२/७४) दुष्कृतम् , निष्कृतम् , निष्पीतम् , दुष्पीतम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५३/७४) इदुदुपधस्य च अप्रत्ययस्य इति षत्वम् सिद्धम् भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५४/७४) न एतत् अस्ति प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५५/७४) न इदुदुपधग्रहणनेन विसर्जनीयः विशेष्यते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५६/७४) किम् तर्हि ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५७/७४) सकारः विशेष्यते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५८/७४) इदुदुपधस्य सकारस्य यः विसर्जनीयः इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-५९/७४) अथ वा उपधाग्रहणम् न करिष्यते ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६०/७४) इदुद्भ्याम् तु विसर्जनीयम् विशेषयिष्यामः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६१/७४) इदुद्भ्याम् उत्तरस्य विसर्जनीयस्य इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६२/७४) अलः अन्त्यविधिः प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६३/७४) वृक्षः तरति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६४/७४) प्लक्षः तरति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६५/७४) अलः अन्त्यस्य विधयः भवन्ति इति अलः अन्त्यस्य सत्वम् सिद्धम् भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६६/७४) एतत् अपि न अस्ति प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६७/७४) निर्दिश्यमानस्य आदेशाः भवन्ति इति विसर्जनीयस्य एव भविष्यति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६८/७४) द्विर्वचनम् प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-६९/७४) उरःकः , उरःपः ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-७०/७४) अनचि च ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-७१/७४) अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् सिद्धम् भवति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-७२/७४) स्थानिवद्भावप्रतिषेधः च प्रयोजनम् ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-७३/७४) यथा इह भवति उरःकेण , उरःपेण इति अड्व्यवाये अपि इति णत्वम् एवम् इह अपि स्थानिवद्भावात् प्राप्नोति व्यूढोरस्केन महोरस्केन इति ।

(शिसू-५.३; अकि-१,२८.१६-२९.२८; रो-१,९७-१०१; भा-७४/७४) तत्र अनल्विधौ इति प्रतिषेधः सिद्धः भवति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१/१०१) किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२/१०१) अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३/१०१) धातवः एकवर्णाः अर्थवन्तः दृश्यन्ते ॒ एति , अध्येति , अधीते इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४/१०१) प्रातिपदिकनि एकवर्णानि अर्थवन्ति ॒ आभ्याम् , एभिः , एषु ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५/१०१) प्रत्ययाः एकवर्णाः अर्थवन्तः ॒ औपगवः , कापटवः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६/१०१) निपाताः एकवर्णाः अर्थवन्तः ॒ अ*अपेहि ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७/१०१) इ*इन्द्रम् पश्य ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८/१०१) उ*उत्तिष्ठ ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९/१०१) धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् मन्यामहे अर्थवन्तः वर्णाः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१०/१०१) वर्णव्यत्यये च अर्थान्तरगमनात् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-११/१०१) वर्णव्यत्यये च अर्थान्तरगमनात् मन्यामहे अर्थवन्तः वर्णाः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१२/१०१) कूपः , सूपः , यूपः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१३/१०१) कूपः इति सककारेण कः चित् अर्थः गम्यते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१४/१०१) सूपः इति ककारापाये सकारोपजने च अर्थान्तरम् गम्यते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१५/१०१) यूपः इति ककारसकारापाये यकारोपजने च अर्थान्ततम् गम्यते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१६/१०१) ते मन्यामहे ॒ यः कूपे कूपार्थः सः ककारस्य ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१७/१०१) यः सूपे सूपार्थः सः सकारस्य ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१८/१०१) यः यूपे यूपार्थः सः यकारस्य इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१९/१०१) वर्णानुपलब्धौ च अनर्थगतेः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२०/१०१) वर्णानुपलब्धौ च अनर्थगतेः मन्यामहे अर्थवन्तः वर्णाः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२१/१०१) वृक्षः , ऋक्षः , काण्डीरः , आण्डीरः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२२/१०१) वृक्षः इति सककारेण कः चित् अर्थः गम्यते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२३/१०१) ऋक्षः इति वकारापाये सः अर्थः न गम्यते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२४/१०१) काण्डीरः इति सककारेण कः चित् अर्थः गम्यते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२५/१०१) आण्डीरः इति ककारापाये सः अर्थः न गम्यते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२६/१०१) किम् तर्हि उच्यते अनर्थगतेः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२७/१०१) न साधीयः हि अत्र अर्थस्य गतिः भवति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२८/१०१) एवम् तर्हि इदम् पठितव्यम् स्यात् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-२९/१०१) वर्णानुपलब्धौ च अतदर्थगतेः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३०/१०१) किम् इदम् अतदर्थगतेः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३१/१०१) तस्य अर्थः तदर्थः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३२/१०१) तदर्थस्य गतिः तदर्थगतिः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३३/१०१) न तदर्थगतिः अतदर्थगतिः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३४/१०१) अतदर्थगतेः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३५/१०१) अथ वा सः अर्थः तदर्थः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३६/१०१) तदर्थस्य गतिः तदर्थगतिः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३७/१०१) न तदर्थगतिः अतदर्थगतिः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३८/१०१) अतदर्थगतेः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-३९/१०१) सः तर्हि तथा निर्देशः कर्तव्यः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४०/१०१) न कर्तव्यः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४१/१०१) उत्तरपदलोपः अत्र द्रष्टव्यः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४२/१०१) तत् यथा॒ उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखम् इव मुखम् अस्य खरमुखः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४३/१०१) एवम् अतदर्थगतेः अनर्थगतेः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४४/१०१) सङ्घातार्थवत्त्वात् च ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४५/१०१) सङ्घातार्थवत्त्वात् च मन्यामहे अर्थवन्तः वर्णाः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४६/१०१) येषाम् सङ्घाताः अर्थवन्तः अवयवाः अपि तेषाम् अर्थवन्तः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४७/१०१) येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४८/१०१) तत् यथा॒ एकः चक्षुष्मान् दर्शने समर्थः तत्समुदायः च शतम् अपि समर्थम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-४९/१०१) एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५०/१०१) येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५१/१०१) तत् यथा॒ एकः अन्धः दर्शने असमर्थः तत्समुदायः च शतम् अपि असमर्थम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५२/१०१) एका च सिकता तैलदाने असमर्था तत्समुदायः च खारीशतम् अपि असमर्थम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५३/१०१) यदि तर्हि इमे वर्णाः अर्थवन्तः अर्थवत्कृतानि प्राप्नुवन्ति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५४/१०१) कानि ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५५/१०१) अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा प्रातिपदिकात् इति स्वाद्युत्पत्तिः सुबन्तम् पदम् इति पदसञ्ज्ञा ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५६/१०१) तत्र कः दोषः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५७/१०१) पदस्य इति नलोपादीनि प्राप्नुवन्ति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५८/१०१) धनम् , वनम् इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-५९/१०१) सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६०/१०१) सङ्घातस्य एकत्वम् अर्थः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६१/१०१) तेन वर्णात् सुबुत्पत्तिः न भविष्यति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६२/१०१) अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६३/१०१) अनर्थकाः तु वर्णाः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६४/१०१) कुतः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६५/१०१) प्रतिवर्णम् अर्थानुपलब्धेः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६६/१०१) न हि प्रतिवर्णम् अर्थाः उपलभ्यन्ते ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६७/१०१) किम् इदम् प्रतिवर्णम् इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६८/१०१) वर्णम् वर्णम् प्रति प्रतिवर्णम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-६९/१०१) वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७०/१०१) वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् मन्यामहे अनर्थकाः वर्णाः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७१/१०१) वर्णव्यत्यये॒ कृतेः तर्कुः , कसेः सिकताः , हिंसेः सिंहः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७२/१०१) वर्णव्यत्ययः न अर्थव्यत्ययः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७३/१०१) अपायः लोपः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७४/१०१) घ्नन्ति , घन्तु , अघ्नन् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७५/१०१) वर्णापायः नार्थापायः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७६/१०१) उपजनः आगमः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७७/१०१) लविता , लवितुम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७८/१०१) वर्णोपजनः न अर्थोपजनः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-७९/१०१) विकारः आदेशः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८०/१०१) घातयति , घातकः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८१/१०१) वर्णविकारः न अर्थविकारः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८२/१०१) यथा एव वर्णव्यत्ययापायोपजनविकाराः भवन्ति तद्वत् अर्थव्यत्ययापायोपजनविकारैः भवितव्यम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८३/१०१) न च इह तद्वत् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८४/१०१) अतः मन्यामहे अनर्थकाः वर्णाः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८५/१०१) उभयम् इदम् वर्णेषु उक्तम् अर्थवन्तः अनर्थकाः इति च ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८६/१०१) किम् अत्र न्याय्यम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८७/१०१) उभयम् इति आह ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८८/१०१) कुतः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-८९/१०१) स्वभावतः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९०/१०१) तत् यथा॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९१/१०१) न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् , कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९२/१०१) तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९३/१०१) यत् धातुप्रत्ययप्रातिपदिकनिपाताः एकवर्णाः अर्थवन्तः अतः अन्ये अनर्थकाः इति स्वाभाविकम् एतत् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९४/१०१) कथम् यः एषः भवता वर्णानाम् अर्थवत्तायाम् हेतुः उपदिष्टः अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् वर्णव्यत्यये च अर्थान्तरगमनात् वर्णानुपलब्धौ च अनर्थगतेः सङ्घातार्थवत्त्वात् च इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९५/१०१) सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्ते॒ कूपः , सूपः , यूपः इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९६/१०१) यदि हि वर्णव्यत्ययकृतम् अर्थान्तरगमनम् स्यात् भूयिष्ठः कूपार्थः सूपे स्यात् सूपार्थः च कूपे कूपार्थः च यूपे यूपार्थः च कूपे सूपार्थः च यूपे यूपार्थः च सूपे ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९७/१०१) यतः तु खलु न कः चित् कूपस्य वा सूपे सूपस्य वा कूपे कूपस्य वा यूपे यूपस्य वा कूपे सूपस्य वा यूपे यूपस्य वा सूपे अतः मन्यामहे सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्ते इति ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९८/१०१) इदम् खलु अपि भवता वर्णानाम् अर्थवत्ताम् ब्रुवता साधीयः अनर्थकत्वम् द्योतितम् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-९९/१०१) यः मन्यते यः कूपे कूपार्थः सः ककारस्य सूपे सूपार्थः सः सकारस्य यूपे यूपार्थः सः यकारस्य इति ऊपशब्दः तस्य अनर्थकः स्यात् ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१००/१०१) तत्र इदम् अपरिहृतम् सङ्घातार्थवत्त्वात् च ।

(शिसू-५.४; अकि-१,३०.१-३२.११; रो-१,१०१-१०६; भा-१०१/१०१) एतस्य अपि प्रातिपदिकस्ञ्ज्ञायाम् वक्ष्यति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१/२९) अ , इ , उण् ऋ , ल्̥क् ए , ओङ् ऐ , औच् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२/२९) प्रत्याहारे अनुबन्धानाम् कथम् अज्ग्रहणेषु न ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-३/२९) ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषाम् अज्ग्रहणेषु ग्रहणम् कस्मात् न भवति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-४/२९) किम् च स्यात् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-५/२९) दधि णकारीयति मधु णकारीयति इति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-६/२९) इकः यण् अचि इति यणादेशः प्रसज्येत ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-७/२९) आचारात् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-८/२९) किम् इदम् आचारात् इति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-९/२९) आचार्याणाम् उपचारात् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१०/२९) न एतेषु आचार्याः अच्कार्याणि कृतवन्तः ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-११/२९) अप्रधानत्वात् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१२/२९) अप्रधानत्वात् च ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१३/२९) न खलु अपि एतेषाम् अक्षु प्राधान्येन उपदेशः क्रियते ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१४/२९) क्व तर्हि ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१५/२९) हल्षु ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१६/२९) कुतः एतत् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१७/२९) एषा हि आचार्यस्य शैली लक्ष्यते यत् तुल्यजातीयान् तुल्यजातीयेषु उपदिशति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१८/२९) अचः अक्षु हलः हल्षु ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-१९/२९) लोपः च बलवत्तरः ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२०/२९) लोपः खलु अपि तावत् भवति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२१/२९) ऊकालः अच् इति वा योगः तत्कालानाम् यथा भवेत् अचाम् ग्रहणम् अच्कार्यम् तेन एतेषाम् न भविष्यति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२२/२९) अथ वा योगविभागः करिष्यते ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२३/२९) ऊकालः अच् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२४/२९) उ ऊ उ३ इति एवङ्कालः अच् भवति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२५/२९) ततः ह्रस्वदीर्घप्लुतः ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२६/२९) ह्रस्वदीर्घप्लुतसञ्ज्ञः च भवति ऊकालः अच् ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२७/२९) एवम् अपि कुक्कुटः इति अत्र अपि प्राप्नोति ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२८/२९) तस्मात् पूर्वोक्तः एव परिहारः ।

(शिसू-५.५; अकि-१,३२.१२-३३.४; रो-१,१०७-१०८; भा-२९/२९) एषः एव अर्थः. अपरः आह ॒ ह्रस्वादीनाम् वचनात् प्राक् यावत् तावत् एव योगः अस्तु अच्कार्याणि यथा स्युः तत्कालेषु अक्षु कार्याणि

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१/४३) अथ किमर्थम् अन्तःस्थानाम् अण्सु उपदेशः क्रियते ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२/४३) इह सय्म्̐य्म्̐यन्ता सव्म्̐व्म्̐वत्सरः यल्म्̐ ल्म्̐लोकम् तल्म्̐ ल्म्̐लोकम् इति परसवर्णस्य असिद्धत्वात् अनुस्वारस्य एव द्विर्वचनम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३/४३) तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात् पूर्वस्य अपि परसवर्णः यथा स्यात् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-४/४३) न एतत् अस्ति प्रयोजनम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-५/४३) वक्ष्यति एतत् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-६/४३) द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् इति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-७/४३) यावता सिद्धत्वम् उच्यते परसवर्णः एव तावद् भवति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-८/४३) परसवर्णे तर्हि कृते तस्य यर्ग्रहणेण ग्रहणात् द्विर्वचनम् यथा स्यात् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-९/४३) मा भूत् द्विर्वचनम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१०/४३) ननु च भेदः भवति. सति द्विर्वचने त्रियकारम् असति द्विर्वचने द्वियकारम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-११/४३) न अस्ति भेदः ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१२/४३) सति अपि द्विर्वचने द्वियकारम् एव ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१३/४३) कथम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१४/४३) हलः यमाम् यमि लोपः इति एवम् एकस्य लोपेन भवितव्यम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१५/४३) एवम् अपि भेदः ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१६/४३) सति द्विर्वचने कदा चित् द्वियकारम् कदा चित् त्रियकारम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१७/४३) सः एषः कथम् भेदः न स्यात् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१८/४३) यदि नित्यः लोपः स्यात् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-१९/४३) विभाषा च सः लोपः ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२०/४३) यथा अभेदः तथा अस्तु ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२१/४३) अनुवर्तते विभाषा शरः अचि यत् वारयति अयम् द्वित्वम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२२/४३) यत् अयम् शरः अचि इति द्विर्वचनप्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनुवर्तते विभाषा इति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२३/४३) कथम् कृत्वा ज्ञापकम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२४/४३) नित्ये हि तस्य लोपे प्रतिषेधार्थः न कः चित् स्यात् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२५/४३) यदि नित्यः लोपः स्यात् प्रतिषेधवचनम् अनर्थकम् स्यात् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२६/४३) अस्तु अत्र द्विर्वचनम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२७/४३) झरः झरि सवर्णे इति लोपः भविष्यति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२८/४३) पश्यति तु आचार्यः विभाषा सः लोपः इति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-२९/४३) ततः द्विर्वचनप्रतिषेधम् शास्ति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३०/४३) न एतत् अस्ति ज्ञापकम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३१/४३) नित्ये अपि तस्य लोपे सः प्रतिषेधः अवश्यम् वक्तव्यः ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३२/४३) यत् एतत् अचः रहाभ्याम् इति द्विर्वचनम् लोपापवादः सः विज्ञायते ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३३/४३) कथम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३४/४३) यरः इति उच्यते ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३५/४३) एतावन्तः च यरः यत् उत झरः वा यमः वा ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३६/४३) यदि च अत्र नित्यः लोपः स्यात् द्विर्वचनम् अनर्थकम् स्यात् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३७/४३) किम् तर्हि तयोः योगयोः उदाहरणम् ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३८/४३) यत् अकृते द्विर्वचने त्रिव्यञ्जनः संयोगः ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-३९/४३) प्रत्त्तम् , अवत्त्तम् , आदित्य्यः ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-४०/४३) इह इदानीम् कर्त्ता , हर्त्ता इति द्विर्वचनसामर्थ्यात् लोपः न भवति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-४१/४३) एवम् इह अपि लोपः न स्यात्॒॒ कर्षति वर्षति इति ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-४२/४३) तस्मात् नित्ये अपि लोपे अवश्यम् सः प्रतिषेधः वक्तव्यः ।

(शिसू-५.६; अकि-१,३३.५-३४.२; रो-१,१०८-११०; भा-४३/४३) तत् एतत् अत्यन्तम् सन्दिग्धम् वर्तते आचार्याणाम् विभाषा अनुवर्तते न वा इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१/८१) अयम् णकारः द्विः अनुबध्यते पूर्वः च परः च ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२/८१) तत्र अण्ग्रहणेषु इण्ग्रहणेषु च सन्देहः भवति पूर्वेण वा स्युः परेण वा इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३/८१) कतरस्मिन् तावत् अण्ग्रहणे सन्देहः ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४/८१) ढ्रलोपे पूर्वस्य दीर्घः अणः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५/८१) असन्दिग्धम् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६/८१) कुतः एतत् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७/८१) पराभावात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-८/८१) न हि ढ्रलोपे परे अणः सन्ति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-९/८१) ननु च अयम् अस्ति ॒ आतृढम् आवृढम् इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१०/८१) एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-११/८१) यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१२/८१) ढ्रलोपे पूर्वस्य दीर्घः अचः इति एव ब्रूयात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१३/८१) अथ वा एतत् अपि न ब्रूयात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१४/८१) अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१५/८१) अस्मिन् तर्हि अण्ग्रहणे सन्देहः के अणः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१६/८१) असन्दिग्धम् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१७/८१) कुतः एतत् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१८/८१) पराभावात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-१९/८१) न हि के परे अणः सन्ति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२०/८१) ननु च अयम् अस्ति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२१/८१) गोका नौका इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२२/८१) एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२३/८१) यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२४/८१) के अचः इति एव ब्रूयात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२५/८१) अथ वा एतत् अपि न ब्रूयात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२६/८१) अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२७/८१) अस्मिन् तर्हि अण्ग्रहणे सन्देहः अणः अप्रगृह्यस्य अनुनासिकः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२८/८१) असन्दिग्धम् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-२९/८१) कुतः एतत् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३०/८१) पराभावात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३१/८१) न हि पदान्ताः परे अणः सन्ति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३२/८१) ननु च अयम् अस्ति कर्तृ हर्तृ इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३३/८१) एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३४/८१) यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् ।अचः अप्रगृह्यस्य अनुनासिकः इति एव ब्रूयात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३५/८१) अथ वा एतत् अपि न ब्रूयात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३६/८१) अचः एव हि प्रगृह्याः भवन्ति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३७/८१) अस्मिन् तर्हि अण्ग्रहणे सन्देहः उः अण् रपरः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३८/८१) असन्दिग्धम् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-३९/८१) कुतः एतत् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४०/८१) पराभावात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४१/८१) न हि उः स्थाने परे अणः सन्ति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४२/८१) ननु च अयम् अस्ति कर्त्रर्थम् हर्त्रर्थम् इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४३/८१) किम् च स्यात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४४/८१) यदि अत्र रपरत्वम् स्यात् द्वयोः रेफयोः श्रवणम् प्रसज्येत ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४५/८१) हलः यमाम् यमि लोपः इति एवम् एकस्य अत्र लोपः भवति. विभाषा सः लोपः ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४६/८१) विभाषा श्रवणम् प्रसज्येत ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४७/८१) अयम् तर्हि नित्यः लोपः रः रि इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४८/८१) पदान्तस्य इति एवम् सः ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-४९/८१) न शक्यः पदान्तस्य विज्ञातुम् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५०/८१) इह हि लोपः न स्यात् जर्गृधेः लङ् अजर्घाः पास्पर्धेः अपास्पाः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५१/८१) इह तर्हि मातृ̄णाम् पितृ̄णाम् इति रपरत्वम् प्रसज्येत ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५२/८१) आचार्यप्रवृत्तिः ज्ञापयति न अत्र रपरत्वम् भवति इति यत् अयम् ऋ̄तः इत् धातोः इति धातुग्रहणम् करोति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५३/८१) कथम् कृत्वा ज्ञापकम् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५४/८१) धातुग्रहणस्य एतत् प्रयोजनम् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५५/८१) इह मा भूत् ॒ मातृ̄णाम् , पितृ̄णाम् इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५६/८१) यदि च अत्र रपरत्वम् स्यात् धातुग्रहणम् अनर्थकम् स्यात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५७/८१) रपरत्वे कृते अनन्त्यत्वात् इत्त्वम् न भविष्यति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५८/८१) पश्यति तु आचार्यः न अत्र रपरत्वम् भवति इति ततः धातुग्रहणम् करोति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-५९/८१) इह अपि तर्हि इत्त्वम् न प्राप्नोति चिकीर्षति जिहीर्षति इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६०/८१) मा भूत् एवम् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६१/८१) उपधायाः च इति एवम् भविष्यति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६२/८१) इह अपि तर्हि प्राप्नोति मातृ̄णाम् , पितृ̄णाम् इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६३/८१) तस्मात् तत्र धातुग्रहणम् कर्तव्यम् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६४/८१) एवम् तर्हि अण्ग्रहणसामर्थ्यात् पूर्वेण न परेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६५/८१) यदि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६६/८१) उः अच् रपरः इति एव ब्रूयात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६७/८१) अस्मिन् तर्हि अण्ग्रहणे सन्देहः ॒ अणुदित्सवर्णस्य च अप्रत्ययः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६८/८१) असन्दिग्धम् परेण न पूर्वेण इति. कुतः एतत् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-६९/८१) सवर्णे अण् तपरम् हि उः ऋत् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७०/८१) यत् अयम् उः ऋत् इति ऋकारम् तपरम् करोति तत् ज्ञापयति आचार्यः परेण न पूर्वेण ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७१/८१) इण्ग्रहणेषु तर्हि सन्देहः ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७२/८१) असन्दिग्धम् परेण न पूर्वेण इति. कुतः एतत् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७३/८१) य्वोः अन्यत्र परेण इण् स्यात् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७४/८१) यत्र इच्छति पूर्वेण सम्मृद्य ग्रहणम् तत्र करोति य्वोः इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७५/८१) तत् च गुरु भवति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७६/८१) कथम् कृत्वा ज्ञापकम् ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७७/८१) तत्र विभक्तिनिर्देशे सम्मृद्य ग्रहणे अर्धचतस्रः मात्राः ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७८/८१) प्रत्याहारग्रहणे पुनः तिस्रः मात्राः ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-७९/८१) सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः परेण न पूर्वेण इति ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-८०/८१) किम् पुनः वर्णोत्सत्तौ इव णकारः द्विः अनुबध्यते ।

(शिसू-६; अकि-१,३४.४-३५.१८; रो-१,१११-११५; भा-८१/८१) एतत् ज्ञापयति आचार्यः भवति एषा परिभाषा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति. अणुदित्सवर्णम् परिहाय पूर्वेण अण्ग्रहणम् परेण इण्ग्रहणम् इति व्याख्यास्यामः ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१/१७) किमर्थम् इमौ मुखनासिकावचनौ वर्णौ उभौ अपि अनुबध्येते न ञकार एव अनुबध्येत ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-२/१७) कथम् यानि मकारेण ग्रहणानि हलः यमाम् यमि लोपः इति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-३/१७) सन्तु ञकारेण हलः यञाम् यञि लोपः इति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-४/१७) न एवम् शक्यम्. झकारभकारपरयोः अपि हि झकारभकार्योः लोपः प्रसज्येत ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-५/१७) न झकारभकारौ झकारभकारयोः स्तः ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-६/१७) कथम् पुमः खय्यि अम्परे इति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-७/१७) एतत् अपि अस्तु ञकारेण पुमः खय्यि अञ्परे इति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-८/१७) न एवम् शक्यम् ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-९/१७) झकारभकारपरे हि खय्यि रुः प्रसज्येत ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१०/१७) न झकारभकारपरः खय् अस्ति ।कथम् ङमः ह्रस्वात् अचि ङमुट् नित्यम् इति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-११/१७) एतत् अपि अस्तु ञकारेण ङञः ह्रस्वात् अचि ङञुट् नित्यम् इति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१२/१७) न एवम् शक्यम् ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१३/१७) झकारभकारपरयोः अपि हि पदान्तयोः झकारभकारौ आगमौ स्याताम् ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१४/१७) न झकारभकारौ पदान्तौ स्तः ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१५/१७) एवम् अपि पञ्च आगमाः त्रयः आगमिनौ वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१६/१७) सन्तु तावत् येषाम् आगमानाम् आगमिनः सन्ति ।

(शिसू-७-८.१; अकि-१,३५.२०-३६.४; रो-१,११५-११६; भा-१७/१७) झकारभकारौ पदान्तौ न स्तः इति कृत्वा आगमौ अपि न भविष्यतः ।

(शिसू-७-८.२; अकि-१,३६.५-११; रो-१,११७; भा-१/६) अथ किम् इदम् अक्षरम् इति ।

(शिसू-७-८.२; अकि-१,३६.५-११; रो-१,११७; भा-२/६) अक्षरम् न क्षरम् विद्यात् । न क्षीयते न क्षरति इति वा अक्षरम् ।

(शिसू-७-८.२; अकि-१,३६.५-११; रो-१,११७; भा-३/६) अश्नोतेः वा सरः अक्षरम् ।

(शिसू-७-८.२; अकि-१,३६.५-११; रो-१,११७; भा-४/६) अश्नोतेः वा पुनः अयम् औणादिकः सरन्प्रत्ययः ।

(शिसू-७-८.२; अकि-१,३६.५-११; रो-१,११७; भा-५/६) वर्णम् वा आहुः पूर्वसूत्रे ।

(शिसू-७-८.२; अकि-१,३६.५-११; रो-१,११७; भा-६/६) अथ वा पूर्वसूत्रे वर्णस्य अक्षरम् इति सञ्ज्ञा क्रियते ।

(शिसू-७-८.३; अकि-१,३६.१२-१८; रो-१,११८-१२०; भा-१/७) किमर्थम् इदम् उपदिश्यते ।

(शिसू-७-८.३; अकि-१,३६.१२-१८; रो-१,११८-१२०; भा-२/७) अथ किमर्थम् इदम् उपदिश्यते ।

(शिसू-७-८.३; अकि-१,३६.१२-१८; रो-१,११८-१२०; भा-३/७) वर्णज्ञानम् वाग्विषयः यत्र ब्रह्म वर्तते ।

(शिसू-७-८.३; अकि-१,३६.१२-१८; रो-१,११८-१२०; भा-४/७) तदर्थम् इष्टद्बुद्ध्यर्थम् लघ्वर्थम् च उपदिश्यते ।

(शिसू-७-८.३; अकि-१,३६.१२-१८; रो-१,११८-१२०; भा-५/७) सः अयम् अक्षरसमाम्नायः वाक्समाम्नायः पुष्पितः फलितः चन्द्रतारकवत् प्रतिमण्डितः वेदितव्यः ब्रह्मराशिः ।

(शिसू-७-८.३; अकि-१,३६.१२-१८; रो-१,११८-१२०; भा-६/७) सर्ववेदपुण्यफलावाप्तिः च अस्य ज्ञाने भवति ।

(शिसू-७-८.३; अकि-१,३६.१२-१८; रो-१,११८-१२०; भा-७/७) मातापितरौ च अस्य स्वर्गे लोके महीयेते ।

"https://sa.wikibooks.org/w/index.php?title=शिवसूत्र&oldid=3535" इत्यस्माद् पुनः प्राप्तिः