शिष्टपरिग्रहाधिकरणम्

विकिपुस्तकानि तः

एतेन शिष्टापरिग्रहा अपि व्याख्याता:।२.१.१२
वे.- एतेन इति प्रकृतेन प्रधानकारणवादनिराकरणेन।शिष्टा: मनुव्यासादय:।तै: केनचिदंशेन अपरिगृहीता: ये अण्वादिकारणवादा: ते शिष्टापरिग्रहा:।तेऽपि प्रतिषिद्धतया व्याख्याता:। जगत्कारणस्य तर्काग्राह्यत्वं, तर्कस्याप्रतिष्ठितत्वमित्यादयोंऽशा: तुल्या:।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=शिष्टपरिग्रहाधिकरणम्&oldid=5598" इत्यस्माद् प्रतिप्राप्तम्