श्रीरामकृष्णवचनामृतम्/३

विकिपुस्तकानि तः

तृतीयं दर्शनम् 1 सर्वभूतस्थनात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः।। नरेन्दः भावनाथः मास्तरः च मास्तरः तदा वराहनगरे अग्रजायाः गृहे आसीत्। तस्य अद्भुतस्य अर्चकस्य पावनदर्शनेन तस्मिन् आसक्ते मनसि सदा तस्य एव विचाराः रुञ्जन्ति। सदा तस्य एव आनन्दमयी मूर्तिः नेत्रयोः नृत्यति। सा एव अमृतमयी वाणी कर्णे गुञ्जति। पुनः पुनः सः अमन्यत, अहो आश्चर्यम्। यःकश्चित् दरिद्रः बाह्मणः एषः- परम् एतानि प्रगाढानि तत्त्वानि एषः कुतः प्राप्तवान्? कुतः प्राप्तम् एतेन इदं लोकोत्तरं ज्ञानम्? एतादृश्या प्रासादिकशैल्या सुबोधतया इदं दुर्ज्ञेयं तत्त्वं बोधयितारं मास्तरः अद्यापि न दृष्टवान्। कदा तस्य चरणौ गच्छामि, पुनः तं कदा पश्यामि च इति मास्तरः सगद्गदितः जातः.। अहोरात्रं तस्य एकः एव ध्यासः। अचिरादेव रविवासरः उदितः। मार्चमासस्य पञ्चदिनाङ्कः। वराहनगरस्य लबाबुना सह अपराह्णे त्रिचतुर्वादने सः दक्षिणेश्वरस्य उद्यानं प्राप्तवान्। श्रीरामकृष्णः तस्मिन् एव पूर्वपरिचिते प्रकोष्ठे उपविष्टः अस्ति इति तेन दृष्टम्। प्रकोष्ठः भक्तजनैः पूर्णः आसीत्। अद्यः रविवासरः- विरामदिवसः। बहवः दर्शनार्थम् आगता। अद्यापि मास्तरस्य केनापि सह परिचयः नास्ति। अतः सः एकस्मिन् पार्श्वे उपविष्टः। श्रीरामकृष्णः सम्मिलितैः भक्तैः सह स्मितमुखेन वार्तां कुर्वन् आसीत् इति तेन दृष्टम्। कमपि नवदशवर्षीयं युवकं पश्यन् सः बहु आनन्देन संभाषमाणः आसीत्। युवकस्य नाम नरेन्द्रः. ( अग्रे सः एव स्वामी विवेकानन्दः) नरेन्द्रः महाविद्यालये पठति । सामान्यतः ब्राह्मसमाजे तस्य गमनागमनम् अस्ति। भाषणं बहु ओजस्वि, नेत्रे तेजस्विनी, मुखं भक्तसमं प्रेममयम्। संभाषणस्य प्रवाहेण मास्तरः सामान्यतः ज्ञातवान् यत् विषयासक्तानां गृहस्थानां विषये संभाषणं प्रवर्तमानम् अस्ति। केवलम् ईश्वरस्य येषां सततं चिन्तनं, तेषां धर्मप्रियाणां सज्जनानाम् एते संसारकीटाः सततम् उपहासं कुर्वन्ति। तथैव जगति दुष्टानां सर्वत्र प्रादुर्भावः वर्तते। तैः सह कथं वर्तनीयमिति चर्चा प्रवर्तते। श्रीरामकृष्णः – ( नरेन्द्रं) नरेन्द्र, तव किं मतम्? विषयिजनानां भाषणे संयमः नास्ति। परं त्वया दृष्टं ननु, यत् मार्गेण गच्छन्तं हस्तिनं प्रति शताधिकाः पशवः नानाप्रकारेण आक्रन्दनं कुर्वन्ति, कोलाहलं कुर्वन्ति च। परं हस्ती तान् प्रति एकवारमपि परिवर्त्य न पश्यति। तव यदि कश्चन उपहासं करोति तर्हि त्वं किं करिष्यसि? नरेन्द्रः – श्वानः भशन्ति इति मंस्ये, अन्यत् किम्। श्रीरामकृष्णः (सहास्यं)– मास्तु, भोः, एतावत् मास्तु। (सर्वे हसन्ति।) परमेश्वरः सर्वेषु भूतेषु अस्ति। सज्जनैः सह सम्यक् सम्बन्धाः भवेयुः, परं दुर्जनात् हस्तमात्रं दूरमेव वरम्। व्याघ्रे अपि नारायणः एव अस्ति परं तेन तस्य कण्ठे न पतनीयम्। (हसनम्) यदि वदसि व्याघ्रः अपि नारायणः किमर्थं पलायनम्? तर्हि ये ‘धाव’ इति वदन्ति ते अपि नारायणाः एव ननु। तदनु तेषां सूचनां किमर्थं न अनुसरामः? ‘एकां कथां कथयामि। श्रुणोतु, कस्मञ्चित् अरण्ये कश्चन मुनिः निवसति स्म। नैके तस्य शिष्याः। कदाचित् सः तान् उपदिष्टवान् यत् सर्वभूतेषु नारायणः एव वसति इति मत्वा सर्वान् प्रणमन्तु। एकदा तस्य कश्चन शिष्यः होमार्थं समिधाः आनेतुं गतः। सहसा तत्र कोलाहलः जातः। परितः कः अपि वर्तते चेत् पलायन्ताम्। ‘कश्चन पिशाचिग्रस्तः हस्ती आगच्छन् अस्ति’ इति कश्चन उच्चैः सूचयन् आसीत्। त्वरितं सर्वे यथाशक्यं पलायनं कृतवन्तः। परम् एषः महाराजः न पलायितः, चिन्तितवान्, हस्ती तु नारायणः एव। पलायनं किमर्थम्? सः तत्रैव स्थित्वा हस्तिनं नमस्कारं कुर्वन् तं स्तुन्वन् आसीत्। चिन्ताक्रान्तः माहुतः आक्रोशत् धाव धाव । परन्तु एषः स्थिरः। अन्ते हस्ती तं शुण्डया धृत्वा दूरं प्रक्षिप्तवान्, अग्रे गतवान च। रक्तलाञ्छितः शिष्यः मूर्च्छितः जातः। इदं सर्वं श्रुत्वा गुरुः आश्रमवासिनः च तम् आश्रमम् आनीतवन्तः। उपचारान् कृतवन्तः। गच्छता कालेन प्राप्तायां जागृत्यां सः पृष्टः, हस्तिनः आगमनं श्रुत्वापि भवान् किमर्थं न निर्गतः? सः उदतरत्, गुरुदेवः एव कथितवान् नु यत् स्वयं नारायणः एव मनुष्यः, जीवजन्तवः, सर्वः अपि जातः अस्ति। अतः हस्तीनारायणः आगच्छति इति मत्वा अहं न निर्गतः। तदा गुरुदेवः उक्तवान्, भोः बालक, हस्तीनारायणः आगच्छति इति तु सत्यम्। पूर्णं सत्यम्। अङ्गीकरोमि। परं माहुतनारायणः त्वां स्थातुं निराकरोत् नु। सर्वे नारायणाः तर्हि तस्य किमर्थं न श्रुतवान्? माहुतनारायणस्य कथनमपि अनुसरणीयम्।( सर्वे हसन्ति) शास्त्रे कथितमस्ति यत् ‘आपो नारायणः। जलं नारायणम्’। परं किमपि जलं देवपूजनार्थं, किमपि हस्तपादप्रक्षालनार्थं, किमपि पात्रस्वच्छीकरणार्थं, अथ वा वस्त्रप्रक्षालनार्थम्। यत् वस्त्रप्रक्षालनार्थं तत् प्राशनार्थं वा देवपूजनार्थं न योग्यम्। तथैव सत्, असत्, भक्तः, अभक्तः इति सर्वेषां हृदये नारायणः वर्तते एव। परन्तु तथापि दुष्टजनेन सह समागमः न योग्यः। एतेषां सन्निकर्षः घातकः। तेषु कैश्चित् सह अल्पा वार्ता भवितुमर्हति। परन्तु कैश्चित सह तदपि वर्ज्यम्। एतस्मात् दूरेण स्थातव्यमिति योग्यम्। एकः भक्तः – महाराज, दुर्जनः अस्माकम् अहितं कर्तुम् उद्युक्तः वा साक्षात् कुर्वन् अस्ति तर्हि वयं तूष्णीं तिष्ठामः किम्? गृहस्थः तमोगुणः च श्रीरामकृष्णः – अस्मिन् जगति दुर्जनैः सह सम्बन्धः भवेदेव। एतैः सह सम्बन्धं निवारयितुं बाह्यतः स्वल्पः तमोगुणः दर्शनीयः एव। परन्तु दुर्जनः अस्माकम् अनिष्टं कुर्यात् इति मत्वा अस्माभिः तस्य पीडनम् अनुचितम्। “कस्मिंश्चित् तृणवने केचन गोपालाः स्वगावः खादयति स्म। तत्रैव एकः विषालुः सर्पः निवसति स्म। तस्य भयेन सर्वे ततः सावधानतया गमनागमनं कुर्वन्ति स्म। कस्मिंश्चित् दिवसे कमपि ब्रह्मचारिणं ततः आगच्छन्तं दृष्ट्वा ते गोपालाः तम् उक्तवन्तः, “महाराज, ततः न गच्छतु। एकः भीकरः विषसर्पः तत्र वर्तते”। ब्रह्मचारी तम् अवदत्, “भवतु नाम। मां सः पीडयितुं न शक्नोति। मा भैः। सर्पमन्त्रम् अहं जानामि”। ब्रह्मचारी ततः अगच्छत्। परं गोपालाः तेन सह गमनस्य धैर्यं न दर्शितवन्तः। सर्पेण शिरः उन्नीय फूत्कुर्वता ब्रह्मचारी आक्रान्तः। सर्पे ब्रह्मचारिणः समीपे आगच्छति सति तेन एतादृशः मन्त्रः जपितः यत् सः सर्पः जडवत् भूत्वा तस्य पादयोः पतितः। ब्रह्मचारी तम् उक्तवान्, “अरे, किमर्थ त्वं जनानां प्राणान् हरन् एतादृशम् अटति? आयाहि, तुभ्यं मन्त्रं ददामि येन त्वयि भक्तिः उद्भवेत्, त्वम् ईश्वरदर्शंनं लभेः च। तेन त्वत्तः एतादृशी हिंसावृत्तिः निर्गच्छेत्”। सः तस्मै मन्त्रदीक्षां दत्तवान्। गुरुं प्रणम्य सर्पः पृष्टवान्, “गुरुदेव, अहं साधनां कथं करोमि इति कथयतु”। तदा गुरुः अभाषत, “केवलं मन्त्रजपं कुरु, तत् पर्याप्तम्। तथा च पश्यतु, कस्यापि घातं न करोतु। पुनः आगमिष्यामि”। इति उक्त्वा ब्रह्मचारी ततः निर्गतवान्। दिनानि गतानि। गोपालाः ज्ञातवन्तः यत् सर्पः दशनार्थं नागच्छति। मृतपिण्डं क्षिप्तं चेत् क्षुब्धः न भवति। जडवत् जातः अस्ति। अन्ते कश्चन तस्य पुच्छं धृत्वा भूमौ ताडयित्वा तं चक्राकारं भ्रामयित्वा च सुदूरं क्षिप्तवान्। दीनः सर्पः रक्तं वमित्वा स्तब्धः पतितः। सः मृतः इति चिन्तियित्वा गोपालाः पलायिताः। उत्तररात्रौ सर्पः जागरितः। मन्दं मन्दं कथञ्चित् सः स्वबिलं प्राप्तवान्। तस्य पृष्ठास्थीनि शिथिलानि जातानि। चलनवलनशक्तिः अपि निर्गता। एवं बहु समयः गतः। त्वक् अस्थि च अवशिष्टे। भक्ष्यस्य अन्वेषणार्थं कदाचित् सः रात्रौ बहिः गच्छति स्म। गोपालानां भयेन दिने बहिर्गमनं तेन निराकृतम्। मन्त्रः गृहीतः अतः हिंसा वर्ज्या। पर्णानि, पतितानि फलानि च भुक्त्वा कथञ्चित् जीवननिर्वाहं कुर्वन् आसीत्। सामान्यतः वर्षानन्तरं ब्रह्मचारी तत्र आगतः। सर्पविषये तेन पृष्टम्। तदा गोपालाः उक्तवन्तः यत् सः मृतः इति। परं ब्रह्मचारी तेषु न विश्वसितवान्। सः निश्चयेन अमन्यत यत् मन्त्रगृहीतस्य सर्पस्य सिद्धीप्राप्तिपर्यन्तं प्राणाः न गच्छेयुः। अन्विषता तेन परिचितं स्थानं प्राप्तम्। सर्पं स्वेन योजितेन नाम्ना सः आह्वयत्। गुरुदेवस्य ध्वनिं श्रुत्वा सर्पः बिलात् बहिः आगतः। भक्तिभावेन तं नतवान्। ब्रह्मचारी तं पृष्टवान्, “कथमस्ति?” सः उदतरत्, “सम्यक् अस्मि”। ब्रह्मचारी अपृच्छत्, “तर्हि कृशः किमर्थम्?” तदा सः अवदत्, “महाराज, भवान् एव आदिष्टवान् यत् हिंसां मा कुरु। अतः पर्णानि फलानि च भुक्त्वा निवसामि, तेन कारणेन ईषत् कृशः जातः स्याम्। सः सात्विकः जातः आसीत्। अतः कस्मै अपि न कुप्यति स्म। गोपालाः तं मारयितुम् उद्युक्ताः इति अपि सः विस्मृतवान्। ब्रह्मचारी अभणत्, “केवलम् अल्पभोजनेन एतादृशं न भवति। निश्चयेन किमपि अन्यत् कारणं स्यात्। सम्यक् स्मर”। सर्पेण स्मृतं यत् गोपालैः सः भूमौ ताडितः। सः उक्तवान्, “स्मरामि महाराज, एकस्मिन् दिवसे गोपालाः मां बहु ताडितवन्तः। अज्ञाः ते, मम मनसः अवस्थां कथं ज्ञातुं शक्नुयुः? कमपि न दशामि, कस्यापि अहितं न करोमि इति तैः कथं ज्ञातव्यम्?” तत् श्रुत्वा ब्रह्मचारी अवदत् “अरे हत्, कथं त्वम् एतादृशः मूर्खः स्वरक्षणम् अपि न जानासि? अहं दशनं निराकृतवान्, न फूत्कारम्। अरे, फूत्कारं कृत्वा भायनीयाः ते”। अतः दुर्जनेषु फुत्कारः करणीयः। ते भायनीयाः अन्यथा ते अपायं करिष्यन्ति। विषदशनेन तेषाम् अनिष्टं न करणीयम् इति एव। स्वभावाः भिन्नाः। सर्वे समानाः सन्ति किम्? भगवतः सृष्ट्यां विविधप्रकाराणां जीवजन्तवः वृक्षगुल्माः सन्ति। पशुषु केचन शान्ताः केचन उग्राः सन्ति। तेषु केचन व्याघ्रसिंहसदृशाः हिंस्राः सन्ति। वृक्षेषु अपि केचन अमृतसमं मधुरफलदाताराः तु केचन विषवृक्षाः। तथैव मनुष्येषु अपि केचन सज्जनाः केचन दुर्जनाः। केचन शिष्टाः केचन दुष्टाः सन्ति। केचन सरलाः केचन कुटिलाः। केचन संसारासक्ताः केचन परमभक्ताः अपि सन्ति। जीवानां चत्वारः प्रकाराः। बद्धः, मुमुक्षुः, मुक्तः, नित्यसिद्धः। नित्यसिद्धाः यथा नारदः, ये जगति इतराणां कल्याणार्थं, जीवानां शिक्षणार्थमेव विहरन्ति। बद्धजीवाः विषयकीटाः इव। परमेश्वरं ते पूर्णतः विस्मरन्ति। कदापि दोषेण अपि देवस्य नामजपनार्थं ते न रिक्ताः। मुमुक्षुः इत्युक्ते ये मुक्तिकामाः। तेषु केचन मुक्ताः भवन्ति, केचन न। मुक्ताः ये संसारे कामिनिकाञ्चने निरासक्ताः सत्पुरुषाः महात्मानः इत्यादयः। तेषां मनसि संसारस्य लेशः अपि नास्ति। ते सर्वदा हरिपादपद्मचिन्तने रताः। ‘चिन्तयन्तु, कस्मिंश्चित् तडागे धीवरेण जालः प्रसारितः। पञ्चषः मीनाः चतुराः। ते कदापि जाले न पतन्ति। तेषाम् उपमा नित्यसिद्धानां कृते भवितुमर्हति। बहवः मीनाः जाले निगृहीताः भवन्ति परन्तु केचन ततः मुक्तिं प्राप्तुं प्रयतन्ते। ते मुमुक्षवः जीवाः इव। तेषु सर्वे मुक्ताः भवितुं न शक्नुवन्ति। द्वित्राः बलेन कूर्दयित्वा मुञ्चन्ति। तदा ते धीवराः आक्रन्दन्ति, ‘ओहो, एषः बृहत् मीनः मुक्तः जातः रे’। परन्तु जाले बद्धेषु बहवः बहिः गन्तुं न शक्नुवन्ति। न, न। मुञ्चनार्थं न प्रयतन्ते अपि। प्रत्युत जालं मुखे दृढं धृत्वा तले विद्यमाने पङ्के कूर्दयित्वा मुखं पङ्के प्रक्षिप्य शान्तं स्थिरं च तिष्ठन्ति, चिन्तयन्ति च यत् अधुना किमपि भयं न विद्यते। सुरक्षिताः ते। परं दीनाः न जानन्ति यत् धीवरः जालं बहिः निष्कास्य तान् कण्डोले त्वरया स्थापयेत्। एते बद्धजीवानां बान्धवाः। संसारिणः जनाः बद्धाः जीवा। बद्धजीवाः कामिनीकाञ्चनयोः पञ्जरे दृढाः निगृहीताः सन्ति। हस्तपादाः बद्धाः सन्ति तेषाम्। अपि तु संसारे कामिनीकाञ्चनयोः एव सुखं लभ्येत, अस्मिन् सुखे एव अन्तपर्यन्तं भवितुं शक्नुमः च इति तेषां धारणा विद्यते। तेन एव मरणं लभ्येत इति ते न जानन्ति एव। एतादृक् बद्धजीवः यदा म्रियते तदा तस्य पत्नी वदति, ‘भवान् अधुना निर्गच्छति, परं मम का व्यवस्था?’ तथा च मायायाः कथं विलक्षणः प्रभावः! पश्यन्तु, नन्दादीपस्य ज्योतिः किञ्चित् वर्धितम् इति दृष्ट्वा अस्वस्थः भूत्वा सः वदति, ‘अये, तैलं वृथा नश्यति, ज्योतिः न्यूनीकरोतु’। अत्र महाशयः तल्पे अन्तिमं श्वासं स्वीकुर्वन् अस्ति। बद्धजीवः प्राणनिर्गमनसमये अपि ईश्वरस्य नाम न उच्चरति। रिक्तसमये वृथा जल्पनं कुर्यात् अर्थहीनं कार्यं कुर्यात् वा। अथ किमर्थम् इति पृच्छति चेत् वदेत् ‘अहो किं करणीयम्? तूष्णीम् उपविश्य समयः न गच्छति, अतः वृतिं कुर्वन् अस्मि। किमपि कार्यं तु आवश्यकम्’। अथ वा समययापनार्थं पत्रक्रीडामारभेत। प्रकोष्ठे गभीरं स्तम्भितं च वातावरणं जातम्। 2 यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।। गीता 10.3 उपायः विश्वासः। एकः भक्तः – एतादृशाणां संसारिणां जीवानां कृते कः अपि तरणोपायः नास्ति ननु? श्रीरामकृष्णः – अस्ति तु। अवश्यम् अस्ति। मध्ये मध्ये सत्सङ्गः एकान्तवासे ईश्वरचिन्तनं च। विचारः अपि करणीयः। तस्य चरणयोः प्रार्थना करणीया यत् चित्ते भक्तिः विश्वासः च उत्पद्येत इति। विश्वासः उत्पद्यते चेत् कार्यं जातम्। विश्वासात् श्रेयस्करं किमपि न वर्तते। ( केदारं) विश्वासे कियती शक्ति वर्तते जानासि किम्? पुराणे कथितं यत् रामचन्द्रः पूर्णब्रह्म नारायणः लङ्कां गन्तुं सेतोः निर्माणस्य खटाटोपं कृतवान्। परन्तु हनुमान् केवलं रामनाम्नि विश्वस्य एकस्मिन् श्वासे समुद्रम् उत्तीर्णवान्। तस्य सेतोः आवश्यकता एव नासीत्। (हसनम्) बिभीषणः एकस्मिन् पर्णे रामनाम लिखित्वा कस्यचित् जनस्य वेष्ट्याः अञ्चले बन्धितवान्। सः समुद्रम् उत्तर्तुम् ऐच्छत्। बिभीषणः तम् उक्तवान्, “अधुना भवतः कस्मादपि भयं नास्ति। विश्वस्य जले पद्भ्यां सावधानं गच्छतु। परं स्मरतु, मनसि अविश्वासः उदेति चेत् जले निमज्जेत्”। तथा सः आनन्देन जले चलन् आसीत्। मध्ये एव तस्य मनसि आगतं यत् ‘अञ्चले किं बद्धं तत् पश्यामि’। दृष्टवान् तदा केवलम् एकं रामनाम लिखितं पर्णम्। सः अचिन्तयत्, ‘अरे केवलं रामनाम, तेन किं भवेत?’ बस् अविश्वासः आगतः। सः समुद्रतले निमज्जितः च। यः परमेश्वरे विश्वसिति तेन पातकं, महापातकं वा यदि कृतं – गोहत्या, ब्रह्महत्या, स्त्रीहत्या वा यदि कृता - तर्हि देवे विद्यमानेन तस्य विश्वासबलेन घोरात् पापात् अपि सः उद्धर्तुं शक्नोति। यः यदि देवं वदति, “हे देव, पुनः अहम् एतादृशं पापं न करिष्यामि” तर्हि तस्य कस्मात् अपि भयं नास्ति। इति उक्त्वा श्रीरामकृष्णः अग्रिमस्य आशयस्य गीतं गातुम् आरब्धवान्। ‘अम्ब, हे जगन्मातः, दुर्गा दुर्गा इति वदन् यदि अहं प्राणान् त्यजामि तर्हि भवति मां अन्ते कथं न तारयिष्यति तत् द्रक्ष्यामि। हे दयामयि, कियत् अपि घोरम पापं मत्तः भवेत् - सुरापानं ब्रह्महत्या भ्रूणहत्या वा नारीहत्या - यत्किमपि भवेत्, किञ्चित् अपि तस्य चिन्ता मम नास्ति। अम्ब, भवत्याः नामस्मरणबलेन मम सदृशः अधमः अपि ब्रह्मपदं प्राप्तुं शक्नुयात्’। नरेन्द्रः - होमापक्षी एषः अत्र उपविष्टः बालकः विशिष्टः वर्तते। चटुलः बालकः पितुः समीपे उपविशति तदा शंबूकः इव, परं चतुष्पथे क्रीडासमये कोलाहलं करोति तदा तस्य भिन्नमेव रूपम्। एते बालकाः नित्यसिद्धाः। संसारे कदापि बद्धाः न भविष्यन्ति। युवकाः भवन्ति, स्वल्पं वा समञ्जनं वर्धते चेत् ते जागृताः भवन्ति, ईश्वरमार्गम् अनुसरन्ति च। एते केवलं लोकशिक्षणार्थमेव जायन्ते। सांसारिकाः विषयाः एतेभ्यः न रोचन्ते। कामिनिकाञ्चनयोः एते निरासक्ताः सन्ति। वेदे होमापक्षिणः कथा वर्तते। आकाशे अति उन्नते स्थाने एषः निवसति। तस्य पत्नी तत्रैव अण्डम् उत्पादयति। जाते सति अण्डः अधः पतति। परं तत् स्थानम् एतावत् उन्नतम् अस्ति यत् सः अण्डः बहूनि दिनानि पतन् भवति। पतन् अण्डः परिपक्वः भूत्वा स्फुटति। ततः शिशुः जनिं लभते। अधः पतन् शिशुः नेत्रे पक्षौ च लभते। नेत्रे उद्घाट्य सः पश्यति यत् सः अधः पतन् अस्ति। (भूमिं दृष्ट्वा) शतखण्डः भवेयमिति भयेन सः मातुः दिशि उपरि वेगेन उड्डयनं करोति। नरेन्द्रः उत्थाय गतः। उपवेशने केदारः, प्राणकृष्णः, मास्तरः, चेति नैकाः उपविष्टाः। श्रीरामकृष्णः – पश्यन्तु, नरेन्द्रः गानवादने, लेखनपठने च इति सर्वेषु विषयेषु पटु। तस्मिन् दिने केदारेण सह तेन वादः कृतः। केदारस्य बिन्दून् कथं तीक्ष्णतया निराकृतवान्। (श्रीरामकृष्णः तथा च अन्ये हसन्ति।) (मास्तरम् उद्दीश्य) – किं भोः, आङ्गभाषायां तर्कविषये किमपि पुस्तकं वर्तते किम्? मास्तरः – आम् महाराज, वर्तते। आङ्गभाषायां Logic (न्यायशास्त्रम्) इति वदन्ति तर्कम्। श्रीरामकृष्णः – एवं वा? अस्तु। कथमस्ति तत् वदतु किञ्चित्। मास्तरः बहु चिन्तितः जातः।(चिन्तायां पतितः।) अन्ते कथनम् आरब्धवान्, “एका पद्धतिः वर्तते। सामान्यसिद्धान्तस्य आधारेण विशिष्टः सिद्धान्तः मण्डनीयः। यथा – सर्वे जनाः मर्त्याः। पण्डिताः जनाः एव। अतः पण्डिताः अपि मर्त्याः। अपरः प्रकारः एतादृशः ... विशेषं दृष्टान्तम् घटनां वा दृष्ट्वा सामान्यसिद्धान्तं प्रतिपादनीयः। यथा – एषः काकः कृष्णः, सः काकः कृष्णः यावन्तः काकाः दृष्टाः तावन्तः सर्वे कृष्णाः। अतः एव सर्वे काकाः कृष्णाः सन्ति। किन्तु एतेन अपरप्रकारेण सिद्धान्तमण्डने बहुधा दोषः अपि भवितुमर्हति। यतो हि कः जानीयात् अन्विषता केनापि कस्मिंश्चित् देशे श्वेतकाकः अपि दृश्येत। इतोपि एकः दृष्टान्तः – एतस्य जनस्य द्वात्रिंशत् दन्ताः सन्ति। तस्य जनस्य अपि द्वात्रिंशत् दन्ताः सन्ति। न.., न... यं कमपि जनं पश्यामः तस्य द्वात्रिंशत् एव दन्ताः। अतः सर्वेषां जनानां द्वात्रिंशत्दन्ताः सन्ति। “एतादृशानां सिद्धान्तानाम् आङ्गन्यायशास्त्रे ( Logicमध्ये) विवरणं कृतं वर्तते”। श्रीरामकृष्णः मास्तरस्य सर्वं कथनं हुंकारमात्रेण श्रुण्वन् आसीत्। श्रावं श्रावं तस्य मनः अन्यत्र गतम्। स्वाभाविकं यत् तदनु तद्विषये भाषणं तत्रैव स्थगितम्। 3 श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।। गीता 2-53 ‘समाधिमन्दिरे’ सभा समाप्ता। भक्ताः किञ्चित् पादशैथिल्यार्थम् इतस्ततः अटनम् आरब्धवन्तः। मास्तरः अपि पञ्चवटीमध्ये इतस्ततः अटन् आसीत्। पञ्चवादनम्। किञ्चित् कालानन्तरं श्रीरामकृष्णस्य प्रकोष्ठमागत्य पश्यति चेत् अहो आश्चर्यम्! प्रकोष्ठस्य उत्तरदिशि लघुदीर्घिकायाम् एकम् अद्भुतं दृश्यं सः दृष्टवान्। अद्भुतम्। श्रीरामकृष्णः निश्चलः स्थितः अस्ति। नरेन्द्रः गायति। त्रिचतुराः भक्ताः श्रीरामकृष्णं परितः स्थिताः। मुग्धः मास्तरः गीतं श्रुणोति। श्रवणेन तस्य देहभानं नष्टम्। एकं रामकृष्णं विहाय एतादृशं मधुरगानं कस्यापि तेन कदापि न श्रुतमासीत्। श्रीरामकृष्णस्य अवस्थां दृष्ट्वा सः विस्मितः। श्रीरामकृष्णः स्थितः, निस्पन्दः, नेत्रपक्ष्मौ अपि स्थिरौ, श्वासोच्छ्वासः अतीव मन्दः – स्तब्धः इव जातः। कमपि समीपस्थं जनं मास्तरः पृष्टवान् तदा सः उक्तवान्, “एषः एव समाधिः”। एतादृशं रूपं मास्तरेण पूर्वं कदापि न दृष्टम् श्रुतं वा। दिङ्मूढः जातः सः मनसि अचिन्तयत्, परमेश्वरचिन्तनेन मनुष्यः एतावान् बाह्यसंज्ञाशून्यः भवति ननु? न जाने कियान् विश्वासः कियती भक्तिः च आवश्यकी तादृशीम् अवस्थां लब्धुम्। नरेन्द्रनाथेन गीयमानस्य गीतस्य भावार्थः एतादृशः आसीत् – ‘हे मनः, तस्य चिन्मयस्य चिद्घनस्य हरेः पादपद्मयोः स्थिरं भव। अनुपमज्योतिषः, मोहनमूर्तेः, भक्तहृदयरञ्जनस्य च हरेः चरणयोः लीनं भव। कोटिचन्द्रप्रभा अपि यस्मात् लज्जिता तस्य अनुरागोत्फुल्लं सौन्दर्यं दृष्ट्वा प्रेमानन्देन प्राणाः कथं पुलकिताः भवन्ति’! गीतस्य अन्तिमचरणे श्रीरामकृष्णस्य शरीरं रोमाञ्चितं जातम्। आपादमस्तकं सर्वः देहः पुलकितः। नेत्रयोः अश्रुधाराः निस्सरिताः। मध्ये मध्ये किमपि पश्यन् इव मन्दस्मितं करोति। कोटिचन्द्रप्रभां लज्जितं किम् अनुपमं रूपं सः पश्यति न जाने! एतदेव भगवतः चिन्मयरूपदर्शनम् इति आख्यातं किम्? कियत्या साधनया, कियता तपसा कियता भक्तिविश्वासेन च एतादृशम् ईश्वरदर्शनं भवेत्? गानं पुनः आरब्धम्। (भावार्थः) हृदयकमलासने तस्य चरणयुगलं ध्येयम्।

शान्तमनसा प्रेममयनयनाभ्यां च तस्य अनुपमप्रियकरस्य दर्शनं कुरु। 

अहाहा! पुनः श्रीरामकृष्णस्य तदेव भुवनमोहनं हास्यम्। शरीरं तथैव निस्पन्दम्। अर्धोन्मिलिते नेत्रे। किमपि लोकोत्तरं रूपलावण्यं पश्यन् स्यात्। ताम् एव रूपातीतां सौन्दर्यश्रीं दृष्ट्वा सः आनन्दसागरे तरन् इव वर्तते। गीतम् समाप्यमानम्। नरेन्द्रनाथः अन्तिमं चरणं गायति। (भावार्थः) भक्तिभावस्य आवेगेन तस्मिन् चिदानन्दरसे निमग्नः भव। तस्मिन् प्रेमानन्दरसे चिरनिमग्नः भव। समाधेःसमाध प्रेमानन्दस्य तद् अद्भुतरम्यं चित्रं हृदयपटे सम्यक् अङ्कितं कृत्वा मास्तरः गृहं प्रति प्रस्थितः। मार्गे मध्ये मध्ये हृदयवीणायां तस्य प्राणमुग्घस्य दिव्यसङ्गीतस्य प्रतिध्वनेः मञ्जुलकोमलझङ्काराः उद्भवन्ति स्म।