सामग्री पर जाएँ

श्रीरामकृष्णवचनामृतम्/४

विकिपुस्तकानि तः

4 चतुर्थम् दर्शनम् 1 यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते।। गीता 6-22 नरेन्द्रनाथः भवनाथः च इति एताभ्यां सह दिव्यानन्दः मार्चमासस्य 6 दिनाङ्कः। सोमवासरः। ह्यः यथा विरामः तथैव अद्य अपि विरामः। अपराह्ने चतुर्वादने मास्तरः दक्षिणेश्वरे उपस्थितः। श्रीरामकृष्णः तस्मिन् एव पूर्वपरिचिते प्रकोष्ठे उपविष्टः। भूमौ कटः प्रसारितः आसीत्। तस्मिन् नरेन्द्रः, भवनाथः, तथा च अन्ये अपि द्वित्राः जनाः उपविष्टाः आसन्। सामान्यतः सर्वे किशोराः। सामान्यतः नवदशविंशतिवर्षीयाः। श्रीरामकृष्णः हसन्मुखः लघ्व्याम् उत्पीटिकायाम् उपविश्य तैः किशोरैः सह महता आनन्देन संभाषमाणः अस्ति। मास्तरं प्रकोष्ठं प्रविशन्तं दृष्ट्वा उच्चैः हसन् श्रीरामकृष्णः किशोरान् उक्तवान्, “अरे, एषः आगतः हं पुनः”। श्रुत्वा सर्वे हसितवन्तः। मास्तरः भूमौ शिरः संस्थाप्य प्रणामं कृतवान्, समीपे उपविष्टवान् च। आदौ सः केवलं स्थित्वा हस्तयोः आङ्ग्लपठितृभिः जनै सदृशं नमस्कारं करोति स्म। अद्य सः हिन्दुपद्धत्या शिरसा नमनं पठितवान्। मास्तरे स्वस्थाने उपविष्टे सति श्रीरामकृष्णः स्वहसनस्य कारणं नरेन्द्रादीन् भक्तान् कथयितुम् आरब्धवान्, “कदाचित् किं जातं, कश्चन कमपि मयूरं चतुर्वादनसमये स्वल्पम् अहिफेनं भोजितवान्। तदनन्तरं परेद्यवि सम्यक् चतुर्वादने मयूरः तत्र समागतः। पूर्वदिनस्य मादकद्रव्यस्य प्रभावेण सः आसक्तः जातः। सम्यक् समयेन वराकः अहिफेनं भोक्तुम् आगतः”। (सर्वे हसितवन्तः।) मास्तरः स्वमनसि चिन्तितवान्, ‘एषः वदति तत् न असत्यम्। गृहं गच्छामि, परं मनः कथं सदासर्वदा अस्मिन्नेव लग्नं भवति। कदा एनं पश्यामि इति विचारेण पञ्चप्राणाः आकुलिताः भवन्ति। कश्चन अत्र आकर्षति इव। अन्यत्र गन्तुम् इच्छा भवति चेत् अपि शक्यमेव न भवति। अत्रैव अनन्यगत्या आगमनं भवति’। मास्तरः स्वमनसि एतादृशं चिन्तयति तथा च श्रीरामकृष्णः किशोरैः सह हास्यविनोदे मग्नः। सर्वे समवयस्काः इव। हास्यराशिः प्रवर्धमाना। आनन्दग्रामस्य प्रस्थापनमेव प्रवर्तितम्। विस्मितः मास्तरः अद्भुतरम्यं दृश्यं पश्यन् आसीत्। सः अचिन्तयत्, ‘ह्यः एनम् एव समाधौ अदृष्टपूर्वे प्रेमानन्दे वा अपश्यं किम्? सः एव अद्य किं सामान्यजनेन सदृशं व्यवहरति? एषः एव किं प्रथमोपदेशदिने मां तिरस्कृतवान्? एषः एव मां त्वमेव किं ज्ञानी इति उक्तवान्। एषः एव किं साकारं निराकारं द्वयमपि सत्यम् इति उक्तवान्? एषः एव किं मां पाठितवान् यत् ईश्वरः एव सत्यं संसारे अन्यत् सर्वम् अनित्यम्? एषः एव किं मह्यं संसारे दासीसमं स्थातुं कथितवान्?’ श्रीरामकृष्णः आनन्दे रतः। मध्ये मध्ये मास्तरं प्रति दृष्टिक्षेपान् कुर्वन् आसीत्। सः दृष्टवान् यत् मास्तरः विस्मितः स्तब्धः उपविष्टः च। तद् दृष्ट्वा रामलालं सः उक्तवान्, “दृष्टवान् किम्? एतस्य वयः किञ्चित् अधिकम्। अतः कश्चित् गभीरः। एते बालकाः हसन्तः सन्ति, परम् एतस्य मुखे किञ्चिदपि विकारः न दृश्यते”। मास्तरस्य वयः तदा सामान्यतः सप्तविशतिः आसीत्। संभाषणप्रवाहे परमभक्तस्य हनुमतः विषय़ः आगतः। हनुमतः एकं चित्रं श्रीरामकृष्णस्य प्रकोष्ठे भित्तौ आलम्बितमासीत्। श्रीरामकृष्णः अवदत्, “हनुमतः भावः चिन्तनीयः। धनं, मानं, वित्तं च किमपि न इच्छति सः। केवलं सः एकं भगवन्तम् एव इच्छति। स्फटिकस्तम्भात् ब्रह्मास्त्रं स्वीकृत्य सः पलायितः। तदा मन्दोदरी तं फलानि दर्शयित्वा मोहितवती। सा दीना अमन्यत यत् एषः वानरः फललोभेन अधः आगत्य ब्रह्मास्त्रं त्यजेत्। परं सः कथं लुब्धः भवति? सः उदतरत्, ‘किं मम फलाभावः वर्तते? मम पूर्णं जन्म सफलीभवेत् एतादृशं फलं मया लब्धम् अस्ति। मोक्षफलानां राजा साक्षात् रामः मम हृदये अस्ति। श्रीरामकल्पवृक्षतले अहं विश्रामं कुर्वन् अस्मि। यदा यत् फलम् इच्छामि तदा तत् फलं मया लभ्यते। मां फललोभं दर्शयन्ति हे मन्दोदरि, परं फलानां भिक्षां कः इच्छति अत्र? पश्यतु, मां लोभदर्शनस्य तव कृतेः सम्यक् फलं भवत्यै ददामि। पश्यतु, एषः अहं प्रस्थितः’। श्रीरामकृष्णः सुस्वरे उपरितनस्य आशयस्य गीतस्य गानम् आरब्धवान्। पुनः सः एव समाधिः। निष्कम्पः देहः, स्तिमिते लोचने, स्थिराणि गात्राणि। पादौ अधः संस्थाप्य तयोः उपरि सः उपविष्ठः। यथा प्रतिमायां दृश्यते तथा..। भक्ताः किञ्चित् कालात् पूर्वम् एतावन्तः हसन्तः आसन् परम् अधुना एकतानतया श्रीरामकृष्णस्य ताम् अद्भुताम् अवस्थां निर्निमेषनेत्राभ्यां पश्यन्तः सन्ति। समाधिस्थितिदर्शनस्य मास्तरस्य एषः द्वितीयः प्रसङ्गः। दीर्घकालानन्तरं तस्य अवस्थायां परिवर्तनम् आरब्धम्। शरीरं शिथिलं जातम्। दृढता न्यूना जाता। मुखे मन्दस्मितम् उद्भूतम्। इन्द्रियाणि स्वकार्याणि पुनः आरब्धवन्ति। नेत्राभ्याम् अश्रूणि स्त्रवन्ति। मुखे रामनामोच्चारणम्। मास्तरः तु पुनः सम्भ्रान्तः। ‘एषः एव महापुरुषः तैः किशोरैः सह हसन् विनोदयन् च आसीत् किम्? कश्चित् पञ्चवर्षीयः बालकः इव’। श्रीरामकृष्णः इदानीं देहभानं प्राप्य सामान्यजनसदृशं व्यवहरन् आसीत्। मास्तरं नरेन्द्रं च सबोध्य सः अवदत् “युवां द्वौ आङ्ग्लभाषायां वार्तालापं वादं च कुरुतम्। अहं श्रुणोमि”। इदं श्रुत्वा तौ द्वौ अपि हसितवन्तौ। द्वौ अपि परस्परं किमपि संभाषणं कृतवन्तौ, किन्तु बङ्गालीभाषायाम्। श्रीरामकृष्णस्य पुरतः वादविवादकरणं न केवलं मास्तरस्य कृते अपरम् अन्येषां सर्वेषां कृते अपि सुदुष्करम्। तेषां तर्कवितर्कस्य सामर्थ्यं श्रीरामकृष्णस्य कृपया नष्टं जातमासीत् तथा च अधुना वादः कस्मिन् विषये करणीयः। श्रीरामकृष्णः पुनः आग्रहं कृतवान्। पर आङ्ग्लभाषया वादः न जातः। 2) त्वमक्षरं परमं वेदितव्यं ,त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता, सनातनस्त्वं पुरुषो मतो मे।। गीता 11.-18 अन्तरङ्गभक्तैः सह वासे। ‘कः अहम्?’ पञ्च वादनम्। समाविष्टाः भक्ताः स्वगृहं गतवन्तः। केवलं मास्तरः नरेन्द्रः च अवशिष्टौ। नरेन्द्रः जलकुम्भं स्वीकृत्य हंसतडागं मुखहस्तपादादीनां प्रक्षालनार्थं गतः। मास्तरः देवालयस्य प्राङ्गणे इतस्ततः अटन् आसीत्। किञ्चित् कालान्तरं स्वामिनः भवनात् हंसपुकुरदिशि अगच्छत्। तदा सः दृष्टवान् यत् पुष्करिण्याः दक्षिणदिशि सोपानानाम् उपरि, सौधे श्रीरामकृष्णः स्थितः आसीत्। नरेन्द्रः अपि हस्तपादौ प्रक्षाल्य कुम्भं हस्तेन धृत्वा तत्रैव स्थितः आसीत्। श्रीरामकृष्णः वदति, “पश्यतु, अत्र अधिकवारम् आगच्छतु । भवतः नूतनम् आगमनम् अस्ति। अतः वदामि। प्रथमपरिचयानन्तरं सर्वे आरम्भे पौनःपुन्येन आगच्छन्ति, यथा नूतनः पतिः। (नरेन्द्रः मास्तरः च हसतः) अस्तु, आगमिष्यति ननु?” नरेन्द्रनाथः ब्राह्मसमाजानुयायी । हसन् हसन् सः अवदत् “अहं, प्रयतिष्ये। (यतो हि आगच्छामि उक्त्वा केनापि कारणेन न आगच्छामि चेत् ब्राह्मसमाजस्य सत्यवचनव्रतं बाधेत।)

अथ सर्वे भवनपार्श्वस्थमार्गेण श्रीरामकृष्णप्रकोष्ठं प्रत्यागतवन्तः।  ततः आगमनसमये श्रीरामकृष्णः मास्तरम् अवदत्, “पश्यतु, कृषकः वृषभं क्रेतुं विपणीं गच्छति। योग्यायोग्यं वृषभं सः सम्यक् जानाति। पुच्छं निष्पीड्य सः पश्यति। केचन वृषभाः पुच्छस्पर्शमात्रेण भूमौ लुठन्ति। एतादृशान् वृषभान् सः न स्वीकरोति। पुच्छस्पर्शेण यः झटिति कूर्दयित्वा उत्तिष्ठति, तमेव सः स्वीकरोति। नरेन्द्रः एतादृशः अस्ति। बहु तेजस्वी” इति उक्त्वा सः अहसत् अवदत् च, अन्ये केचन जनाः... “केवलं भिण्डीनकं शाकम् इव। मृदुलाः। तेषु न दृढता न बलम्। ते अतिमृदवः”।

सायङ्कालः जातः। श्रीरामकृष्णः परमेश्वरचिन्तनम् आरब्धवान्। मास्तरम् अवदत्, भवान् किञ्चित् नरेन्द्रेण सह संभाषणं करोतु। पश्यतु कथमस्ति बालकः। मह्यं कथयतु अनन्तरम्। नीराजनं जातम्। कालान्तरेण गङ्गाघट्टे मास्तरः नरेन्द्रेण मिलितः। परस्परं संभाषणम् आरब्धम्। नरेन्द्रः स्वविषये वार्तां कथितवान् यत्, ‘अहं सामान्यः ब्राह्मसमाजसदस्यः। महाविद्यालये पठामि’ इति। अन्धकारः जातः। आपृच्छनं करणीयम्। परन्तु ततः गन्तुं तस्य मनः एव नासीत्। अतः नरेन्द्रं त्यक्त्वा सः श्रीरामकृष्णस्य अन्वेषणम् आरब्धवान्। तस्य गानेन सः मोहितः। तस्य अतीव इच्छा आसीत् यत् पुनः श्रीमुखात् तत् गीतं श्रुत्वा धन्यतां प्राप्स्ये। अन्विषन् अन्विषन् अन्ते सः ज्ञातवान् यत् श्रीरामकृष्णः कालीमातुः मन्दिरस्य पुरतः विद्यमाने सभागृहे एकाकी इतस्ततः अटन् आसीत्। मन्दिरे देव्याः पार्श्वद्वये दीपौ प्रदीप्तौ आस्ताम्। विस्तीर्णे सभामण्डपे एकः मन्द दीपः ज्वलन् आसीत्। प्रकाशान्धकारयोः किञ्चित् गूढं संमिश्रणं तत्र जातमासीत्।

श्रीरामकृष्णस्य गानं श्रुत्वा मास्तरः आत्मानं विस्मृतवान्। मन्त्रमुग्धः नादलुब्धः सर्पः इव। किञ्चित् संकोचेन सः श्रीरामकृष्णं पृष्ठवान्, “अद्य इतोपि केषाञ्चन गीतानां गानं न भवितुमर्हति किम्?” इति उक्ते सति किमपि स्मृतं इव सः अभाषत, “तथापि एकं कार्यं करोतु। अहं कलकत्तानगरे बलरामस्य गृहं गच्छामि, तदा भवान् तत्र आगच्छतु। तत्र अहं गीतानि गायामि”। मास्तरः - अस्तु, महाराज। श्रीरामकृष्णः – बसुबलरामं अभिजानाति भवान्? मास्तरः – न महाराज। श्रीरामकृष्णः – न। यः बसुबलरामः बोसपाडामध्ये निवसति सः। मास्तरः – भवतु महाराज। अहं कमपि पृच्छामि तस्य सङ्केतम्। श्रीरामकृष्णः (मास्तरेण सह सभामण्डपे अटन्) – अस्तु, अहम् एकं पृच्छामि किं भवन्तम्? मम विषये भवान् किं चिन्तयति? मास्तरः तूष्णीं स्थितः। श्रीरामकृष्णः पुनः वदति, “किं मन्यते भवान् मम विषये? कियत् प्रतिशतं ज्ञानं मया प्राप्तम्?” मास्तरः – प्रतिशतं तु अहं न जानामि। परं सत्यं यत् एतादृशं ज्ञानं, प्रेमभक्तिं वा एतादृशं विश्वासं, वैराग्यं वा एतादृशं उदारं भावं कदापि कुत्रापि अहं न अपश्यम्। श्रीरामकृष्णः हसितवान्। एतस्य संभाषणस्य अनन्तरं श्रीरामकृष्णं प्रणम्य मास्तरः आपृच्छते। मुख्यप्रवेशद्वारे औवध आगते सति कस्यचित् विचारस्य मनसि उद्भवनेन सः प्रत्यागतः। पुनः सभामण्डपे श्रीरामकृष्णस्य पार्श्वे स्थितः। श्रीरामकृष्णः एकाकी मन्दप्रकाशे अटन् आसीत्। एकाकी... निस्सङ्गः। अरण्ये एकाकिनं मनःपूतं विचरन्तं मृगराजम् इव! आत्मारामः.... एकाकिना वसनम् अटनं च तस्मै प्रियम्। अनपेक्षा....। स्तिमितः मास्तरः तस्य महापुरुषस्य दर्शनेन नेत्रशमनं कुर्वन् अस्ति। श्रीरामकृष्णः - प्रत्यागतः? मास्तरः – हम्। बहुधा महतः जनस्य गृहम्। अन्तः गन्तुम् अनुमन्यन्ते वा न, इति न जाने। अतः तत्र गमनं मास्तु इति मन्ये। अत्रैव आगत्य भवतः दर्शनं करोमि इति पर्याप्तम्। श्रीरामकृष्णः – न न। तथा किमर्थम्? मम नाम कथयतु। मां प्रति गन्तव्यम् इति कथयतु, तदा कश्चन त्वां मां प्रति आनयेत्। “यथा भवतः आज्ञा” इति उक्त्वा मास्तरः सप्रणामं ततः अगच्छत्।